Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. sirāvibhāgaḥ

Adhikarana atha sirAvibhAgo nAma ShaShTho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः सिराविभागमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

पूर्वाध्याये शरीरावयवभेदे स्वल्पव्यक्तत्वात् सिरादिर्निर्णीतशेषस्तत्रापि सिराणां प्राधान्यान्निर्णयार्थमध्यायारम्भः|| १||

Adhikarana dashamUlasirAH (2) · Śloka 2

दशमूलसिरा हृदयप्रतिबद्धाः सर्वाङ्गप्रत्यङ्गेष्वोजो नयन्ति| तत्प्रतिबद्धा हि शरीरचेष्टा||२||

🔊 Audio coming soon

दशमुलसिरा इत्यादि| मूलसिराः प्रधानसिराः| ततो हि सर्वाः सिराः भवन्ति| ता अङ्गेषु प्रत्यङ्गेषु चौजो नयन्ति|| २||

Adhikarana sirANAM sa~gkhyA (3) · Śloka 3

तास्तु द्व्यङ्गुलमङ्गुलमर्धाङ्गुलं यवं यवार्धञ्च गत्वा द्रुम- पत्रसेवनीप्रतावनद्भिद्यमानाः सप्तशतानि भवन्ति||३||

🔊 Audio coming soon

ताः प्रभिद्यमानाः द्रुमपत्ररेखाप्रतानवत् सप्तशतानि सिराणां भवन्ति| तेनैदुक्तं भवति-ता हृदयप्रतिबद्धा दश सिरा हृदयाद्व्यङ्गुलं गत्वा प्रथमं प्रतानं मुञ्चन्ति| तत अङ्गुलं गत्वा द्वितीयम्| तत अर्धमङ्गुलं गत्वा तॄतीयम्| ततो यवं गत्वा चतुर्थम्| ततोऽपि यवार्धं गत्वा पञ्चममिति| ततो न भिद्यन्ते| सर्वेषु चैवं भिद्यमाना इति योज्यं यावद्भेदोऽस्ति| सप्तशतानि प्रतानानां दीर्घाणां भवन्ति|| ३||

Adhikarana shAkhAgatAH sirAstatra vedhya- sirANAM sa~gkhyA ca (4) · Śloka 4

तासां चतुःशती शाकासु| तत्र षोडशाब्यधनीयाः||४||

🔊 Audio coming soon

ताभ्यश्चत्वारि शतानि चतसृषु शाखासु| तत्रेति चतुश्शत्यां षोडशा व्यधनीयाः|| ४||

Adhikarana antarAdhigatAH sirAstatrAvyadhanIyAshca (5) · Śloka 5

षट्त्रिंशं शतमन्तराधौ| तत्र द्वात्रिंशत्||५||

🔊 Audio coming soon

अन्तराधौ तु षट्त्रिंशत् शतम्| तत्र द्वात्रिंशदव्यधनीया इति सम्बन्धः|| ५||

Adhikarana mUrddhagatAH sirAstatrAvyadhanIyAshca (2) · Śloka 2

अतुष्षष्ट्यधिकं शतमुर्ध्वम्| तत्रापि पञ्चाशत्||२||

🔊 Audio coming soon

Adhikarana shAkhAsirAvivaraNam (6) · Śloka 6

तासामेकैकस्मिन् सक्थ्नि शतम्| तत्र न विध्येज्जा लन्धराम्| तिस्रश्चाभ्यन्तरगताः||६||

🔊 Audio coming soon

तत्र षोडश शाखासु चतसृष्ववधनीया उक्तास्तत्रैका पूर्वोक्तजालन्धरा तिस्रश्चाभ्यन्तरसमाश्रया अवेध्याः|| ६||

Adhikarana tatrAntarAdhigatasirAvivaraNam (2) · Śloka 2

द्वात्रिंशच्छ्रोण्या गुदमेढ्राश्रयाः| तासां द्वे द्वे वङ्क्षणयोः कटीकतरुणयोश्चेत्यष्टौ शस्त्रतो रक्षेत्||२||

🔊 Audio coming soon

Adhikarana pARshvagatAH sirAH (1) · Śloka 1

षोडश पार्श्वयोस्तयोरूर्ध्वगामेकैकां पार्श्वसन्धिसंज्ञाम्||१||

🔊 Audio coming soon

Adhikarana pRuShThagatAH sirAH (2) · Śloka 2

चतुर्विंशतिः पृष्ठे| तासां पृष्ठवंशमुभयतो द्वे द्वे ऊर्ध्व- गामिन्यौ ताश्चतस्रः|२|

🔊 Audio coming soon

Adhikarana udaragatAH sirAH (2) · Śloka 2

चतुर्विंशतिरुदरे| तांसां मेढ्रस्योपरि रोमराजीमुभयतो द्वे द्वे ता अपि चतस्रः||२||

🔊 Audio coming soon

Adhikarana vakShogatAH sirAH (7) · Śloka 7

चत्वारिंशद्वक्षसि| तासां द्वे हृदये| द्वे च स्तनमुलस्तन रोहितेषु| एकैकापस्तम्भापालेष्विति| ताश्चतुर्दश||७||

🔊 Audio coming soon

आग्रीवामुलादाऽऽचोरुसन्धेरन्तराधिः| तत्र षट्त्रिंशच्छतं सिराणाम्| तद्यथा-द्वात्रिंशत् श्रोण्याम्| पार्श्वयोर्द्वयोः षोडश| पृष्ठे चतुर्विंशतिः| उरसि चत्वारिंशत्| इति षट्त्रिंशच्छतमन्तराधौ सिराणाम्| 'तत्र द्वात्रिंशदव्यधनीयाः' इति यदुक्तं तत्प्रदर्श्यते-अष्टौ श्रोण्याम्| वङ्क्षण उभयत्र चतस्रः| कटीकतरुणाख्ययोर्मर्मणोश्चतस्र इत्यष्टौ| पार्श्वयोर्द्वौ| द्वयोः पार्श्वयोरेकैकामूर्ध्वगाम्| पृष्ठे चतस्रः| पृष्ठवंशस्यैकस्मिन् पार्श्वे ऊर्ध्वगामिन्यौ द्वे| अपरस्मिंश्च द्वे इति| जठरे चतस्रः रोमराज्याः पार्श्वयोर्द्वयोर्द्वे-द्वे इति| उरसि चतुर्दश| तत्र द्वे हृदये| द्वे-द्वे द्वयोः स्तनमुलयोः| इति चतस्रः| स्तनरोहितयोश्चतस्रः| अपस्तम्भयोरेकैका| तथाऽऽपालापयोरपि| एवं द्वात्रिंशदन्तराधावव्यधनीयाः|| ७||

Adhikarana mUrdhajatrUrdhvasirAvivaraNam (4) · Śloka 4

चतुर्विंशतिर्ग्रीवायाम्| तासां चतस्रोऽष्टौ च मर्मसंज्ञाः| द्वे कृकाटिकयोः| द्वे विधुरयोरिति षोडश शस्त्रेण न स्पृशेत्||४||

🔊 Audio coming soon

Adhikarana hanugatAH sirAH (1) · Śloka 1

हन्वोः षोडश तासां सन्धिसम्बन्धिन्यौ द्वे||१||

🔊 Audio coming soon

Adhikarana jihvAgatAH sirAH (4) · Śloka 4

षोडश जिह्वायाम्| तासामधो द्वे रसवेदिन्यौ| द्वे वा- क्प्रवर्त्तिन्यौ| ताश्चतस्रः||४||

🔊 Audio coming soon

Adhikarana nAsAgatAH sirAH (7) · Śloka 7

षट्पञ्चाशन्नेत्रयोः| तयोरुन्मेषनिमेषक्रिये द्वे-द्वे| द्वे चापा- ङ्गयोरिति षट्| नासानेत्रगतास्तु ललाटे षष्टिः| तासां केशान्तानुगताश्चतस्रः| द्वे चाऽऽवर्तयोः| एका च स्थपन्यामिति सप्त||७||

🔊 Audio coming soon

Adhikarana karNagatAH sirAH (3) · Śloka 3

कर्णयोः षोडश| तासां शब्दवाहिन्यौ द्वे| त एव च शङ्खयोस्तासां शङ्खसन्धिगते द्वे||३||

🔊 Audio coming soon

Adhikarana shirogatAH sirAH (8) · Śloka 8

द्वादश मूर्धनि| तासामुत्क्षेपयोर्द्वे| सीमन्तेष्वेकैकामे कामधिपतावित्यष्टौ शस्त्रेण परिहरेत्| तथाक्षुद्रिकाः कुटिलाः सङ्कीर्णाः ग्रन्थिताः सन्धिषु चाशस्त्रकृत्याः||८||

🔊 Audio coming soon

चतुष्ष्ट्यधिकं शतमुर्ध्वं शिरसि सिराणामिति यदुक्तं तद्विभजते-ग्रीवायां चतुर्विंशतिः हन्वोर्द्वयोः षोडश| षोडश जिह्वायाम्| नासायां चतुर्विंशतिः नेत्रयोः षट्पञ्चाशत्| ललाटे षष्टिर्नासानेत्राश्रितास्ताभ्योऽनन्या अतो न गण्यन्ते| कर्णयोर्द्वयोः षोडश सिरास्ता एव शङ्खाशिर्ता अतस्तत्रस्था न गण्यन्ते| मुर्ध्नि द्वादशेति चतुष्षष्ट्यधिकं शतम्| अत्र 'पञ्चाशदव्यधनीयाः' इति यदुक्तं तदुच्यते-ग्रीवायां षोडश| चतुस्रो मर्मसंज्ञाः| द्वे नीले द्वे मन्ये इति चतस्रः| अष्टौ मर्मसंज्ञाः मातृका इति वक्ष्यमाणाः| द्वे द्वयोः कृकाटिकयोः| द्वे च विधुरयोरिति षोडश| हन्वोर्द्वयोः| द्वे हनुसन्धिबन्धनकर्मणी| जिह्वायां चतस्रः| द्वे रसबोधने जिह्वाया अधस्तया द्वे वाक्प्रवर्त्तिन्यौ इति चतस्रः नासायां तिस्रो यत्र द्वे गन्धवेदिन्यावेका च तालुनीति तिस्रः| नेत्रयोः षट्| निमेषे द्वे| उन्मेषे द्वे| अपाङ्गयोर्द्वे इति षट्| ललाते सप्त| केशान्तगाश्चतस्रः| आवर्त्तकाख्ययोर्मर्मणोर्द्वे| एका च भ्रूमध्यभवे स्थपन्याख्यमर्मणि इति सप्त| कर्णयोश्चतस्रः| द्वे शब्दवाहिन्यौ| शङ्खयोस्तत्सन्धिगते द्वे इति चतस्रः| केशान्तेऽष्टौ| द्वयो रुत्क्षेपयोर्द्वे| सीमन्तेषु पञ्च| अधिपतौ रोमावत्तमर्मण्येका इत्यष्टौ| एवं शिरसि पञ्चाशदवेध्याः| केवलमेता एवावेध्याः| यावत् क्षुद्रिकाः अतिसूक्ष्माः| कुटिला अनृजुगामिन्यः| सङ्कीर्णाः बहुभिरनभिव्यक्ताः ग्रथिताः सङ्कोचेन ग्रन्थिरूपाः| तथा सन्धिषु कूर्परादिष्वाशिर्ताः|| ८||

Adhikarana vAtAdibhIshca shuddharaktavaha- sirAsa~gkhyAvivaraNam (9) · Śloka 9

तासां यथास्वं तुर्यांशविभागेन पञ्चसप्तत्यधिकं शत- मनिलरक्तं वहति| एष विभागः पित्तश्लेष्मशुद्धरक्ते- ष्वपि| स्थिता ह्येवं देहमनुगृह्णन्ति दोषाः| व्यत्ययेन तु पीडयन्ति||९||

🔊 Audio coming soon

तासां च सप्तानां शतानां यथास्वं शङ्खादिगतसिराणां चतुर्थेन विभागेन प्रत्येकं पञ्चसप्तत्यधिकं वातादिमिश्रं रक्तं शुद्धं च वहति| तेन पञ्चसप्तत्यधिकं शतं सिराणां वातरक्तं वहति| तद्वत् पित्तरक्तम्, श्लेष्मरक्तम्, शुद्धरक्तञ्च| एवमनेन सिरावहननियमेन व्यवस्थिता दोषाः शरीरमनुगृह्णन्ति| एतद्विपर्य्यये पीडयन्ति|| ९||

Adhikarana vAtaraktavahasirAlakShaNam (1) · Śloka 1

तत्र श्यावारुणाः प्रस्पन्दिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं बहन्ति|१|

🔊 Audio coming soon

Adhikarana pittaraktavahasirAlakShaNam (1) · Śloka 1

नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तम्|१|

🔊 Audio coming soon

Adhikarana kapharaktavahasirAlakShaNam (1) · Śloka 1

गौर्य्यः स्निग्धाः स्थिराः शीतः कण्डूमत्यः कफरक्तम्|१|

🔊 Audio coming soon

Adhikarana saMsargasannipAtavahasirAlakShaNam (1) · Śloka 1

लक्षणसङ्करे संसर्गसन्निपातरक्तम्||१||

🔊 Audio coming soon

Adhikarana shuddharaktavahasirAlakShaNam (10) · Śloka 10

समागूढाः स्निग्धाः रोहिण्यः शुद्धरक्तमिति||१०||

🔊 Audio coming soon

ननु कथमेतद् ज्ञायत इमाः सिरा इदं वहन्तीत्याह-तत्रेत्यादि| सुबोधम्| क्षणेन पूर्णाः आध्माताः क्षणेन च रिक्ताः क्षिप्रं शीघ्रमेव वहन्ति स्रवन्ति| संसर्गे किं लक्षण-मित्याह-अत्र तु यदि दोषान्तरेण संसृष्टो भवति तदा यथास्वं लक्षणानां सङ्करो विज्ञेयः| रोहिण्यो लोहिताः| इति सिरा उक्ताः|| १०||

Adhikarana dhamanIsa~gkhyA (11) · Śloka 11

धमन्यस्तु चतुर्विंशतिः||११||

🔊 Audio coming soon

क्रमप्राप्ता धमन्यः उच्यन्ते-धमन्यो विशिष्टाः सिरा एव| ताश्च सङ्ख्यया चतुर्विंशतिः||११||

Adhikarana dhamanInAmupayogaH (1) · Śloka 1

ताभिः कायोऽयमाराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यति||१||

🔊 Audio coming soon

Adhikarana dhamanInAmadhiShThAnam (12) · Śloka 12

ताभिश्च नाभिश्चक्रनाभिरारकैरिवावृता||१२||

🔊 Audio coming soon

यथा आरामो जलहारिणीभिः केदारः कुल्याभिराप्याय्यते तद्वत्ताभिर्नाभिप्रतिबद्धाभिः काय आप्याय्यते| चक्रस्य नाभिरक्षः| आरास्तन्निबद्धानि काष्ठानि सुबोधम्|| १२||

Adhikarana nAbhyAM visheShataH prANAnAmavasthAnam (13) · Śloka 13

तस्यां नाभ्यां विशेषेण प्राणा व्यवस्थिताः| यतश्च साऽन्तरग्न्यधिष्ठानम्||१३||

🔊 Audio coming soon

यतश्च सा नाभिरन्तरग्नेरधिष्ठानमतोऽपि तस्या विशेषेण प्राणा व्यवस्थिताः|| १३||

Adhikarana nAbhigatAnAM dhamanInAM prasaraNam (14) · Śloka 14

तासां खलु धमनीनां दशोर्ध्वं प्रसृता दशाधश्चतस्रस्ति- र्य्यक्| ततस्ताभिर्यथास्वमङ्गावयवा धार्य्यन्ते आपयाय्यन्ते च||१४||

🔊 Audio coming soon

तासां च नाभिप्रतिबद्धानां मध्याद्दश धमन्यः ऊर्ध्वमुपरि कायं गताः| दशाधः प्रसूताः| तिर्य्यक् चतस्रः|

Adhikarana UrdhvadhamanInAM punarvibhAgastatkAryya~jca (15) · Śloka 15

तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते| ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान् वहतः| अष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते| द्वाभ्यां द्वाभ्यां भाषते घोषं करोति स्वपिति प्रतिबुध्यते च| द्वे चाश्रु वहतः| द्वे च स्तनाश्रिते| नार्याः स्तन्यं नरस्य शुक्रम्||१५||

🔊 Audio coming soon

ताश्च दश हृदयं प्राप्य प्रत्येकं त्रिधा भिन्नाः त्रिंशत् सम्पन्नाः| तस्याश्च त्रिंशतो द्वे-द्वे वातादीन् पञ्च वहतः| एवं ता दश| शब्दादीम्श्चतुरः| अष्टाभिः पुरुषो गृह्णिते| ताभिर्ह चित्तस्थानं शब्दादीनि यान्ति| भाषणादिक्रियाचतुष्टयं द्वाभ्यां द्वाभ्यां करोति| एवं ता अष्टौ| घोषः शब्दो व्यक्तः| द्वे अश्रुवहतः| द्वे च स्तनाश्रिते नार्य्याः स्तन्यं वहतः| नरस्य तु त एव शुक्रम्| एवं त्रिंशत्|| १५||

Adhikarana adhogAdhamanInAM punarvibhAgastatkAryya~jca (16) · Śloka 16

अधोगमाः पक्वाशयस्था एवं त्रिधा जायन्ते| तत्र दशाद्याः पूर्ववत्| द्वे वहतोऽन्नं मात्राश्रयेण| द्वे तोयम्| द्वे मूत्रम्| द्वे शुक्रम् वहतो द्वे च मुञ्चतः| त एव नारीनामार्त्तवम्| द्वे वर्चोनिरसिन्यौ स्थूलान्त्रप्रतिबद्धे| एवं द्वादश| शेषा- स्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभितर्पयन्ति||१६||

🔊 Audio coming soon

यास्तु नाभेरधोगमा दश धमन्यस्ताः पक्वाशय एवं त्रिंशद्भवन्ति| तस्याश्च त्रिंशतो दश पुर्ववत्| द्वे-द्वे पञ्च वातादीन् वहत इत्यर्थः| द्वे मात्राश्रयेणान्नं वहतः| मात्राग्रहणमाधिक्यप्रतिषेधप्रदर्शनार्थम्| द्वे तोयं द्वे मूत्रं वहतः| द्वे पुरुषस्य शुक्रं देहे वहतः| द्वे च शुक्रं बहिर्मुञ्चतः| य एव पुरुषस्य शुक्रं त एव स्त्रिया रक्तम्| इति चतस्रः| द्वे च स्थूलान्त्रप्रतिबद्धे वर्चोनिरसनकर्मणी| अष्टौ शेषा या अधोगमा अपि मनाक् तिर्य्यग्गतास्ताः स्वेदमभितर्पयन्ति| एवं नाभेरधस्त्रिंशत्|| १६||

Adhikarana tiryyaggA dhamanInAM vivaraNam (17) · Śloka 17

तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवन्तीत्युक्तं प्राक्||१७||

🔊 Audio coming soon

तिर्य्यग्गामिन्यश्चतस्रो या नाभेः पार्श्वाभ्यां द्वे-द्वे वर्त्तन्ते| ता भिद्यमानाः सत्यो बहुधा भवन्ति| एतच्चोक्तं प्रागङ्गविभागे| ताबिरिदं प्रकरणम्| इति धमन्य उक्ताः|| १७||

Adhikarana nava bAhyAni srotAMsi (18) · Śloka 18

स्रोतांसि पुंसा नव कर्णौ नेत्रे नासापुटौ मुखं पायुर्मूत्र- पथः||१८||

🔊 Audio coming soon

क्रमप्राप्तानि स्रोतांस्युच्यन्ते| स्रोतांसि छिद्राणि पुंसां नव-द्वे द्वे द्वे, एकमेकमेकमिति च| इति स्त्री-पुंसयोः साधारणानि|| १८||

Adhikarana strINAmadhikAni srotAMsi (19) · Śloka 19

अन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च||१९||

🔊 Audio coming soon

स्त्रीणां तु त्रीण्यधिकानि द्वे स्तनस्रोतसी एकं च रजःपथ इति बाह्यानि स्रोतांसि|| १९||

Adhikarana jIvitAyatanAni srotAMsi (20) · Śloka 20

तथाऽपराण्यन्तस्स्रोतांसि जीवितायतनानि त्रयोदश प्राणो- दकान्नधातुमलानामयनानि||२०||

🔊 Audio coming soon

आन्तराणि त्रयोदश जीविगस्यायतनानि स्थानानि| प्राणादीनां पञ्चानामायतनानि मार्गाः|| २०||

Adhikarana prANavAhisrotasAM mUlam (21) · Śloka 21

तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च||२१||

🔊 Audio coming soon

तत्रेति निर्धारणे| प्राणवाहिनां हृदयं मूलं महास्रोतश्च|| २१||

Adhikarana prANavAhisrotasAM dUShaNAni (22) · Śloka 22

तानि धातुक्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगधारणादिभिर्दु- ष्यन्ति||२२||

🔊 Audio coming soon

तानि च धातुक्षयादिभिर्दुष्यन्ति|| २२||

Adhikarana dUShitAnAM prANavAhisrotasAM lakShaNAni (23) · Śloka 23

ततोऽतिसृष्टं प्रतिबद्धमल्पाल्पमभीक्ष्णं वा सशब्दशूल मुच्छ्वसनम्| तत्र श्वासवत्साधनम्|२३|

🔊 Audio coming soon

ततः कारणादतिसृष्टं वाति बद्धं वोच्छ्वसनं भवति| श्वासस्यैकत्वाद्विसर्गे दीर्घश्च भवति| अल्पाल्पं स्तोकमुच्छ्वसनम्| अभीक्ष्णं वाऽत्यर्थम्| तत्र दुष्टेषु प्राणवाहिषु स्रोतस्सु श्वासोक्तं चिकित्सितम्|| २३||

Adhikarana udakavAhinAM srotasAM mUlam (23) · Śloka 23

उदकवाहिनां तालु मूलं क्लोम च१|२३|

🔊 Audio coming soon

Adhikarana udakavAhisrotasAM dUShaNAni (23) · Śloka 23

तान्यामभयातिपानोष्णशुष्कान्नकषायतृणनिग्रहादिअभि- र्दुष्यन्ति१|२३|

🔊 Audio coming soon

Adhikarana dUShitAnAmudakavAhisrotasAM lakShaNAni (23) · Śloka 23

ततोऽतितृष्णा मुखशोषः कर्णक्ष्वेडनं तमोदर्शनञ्च१||२३||

🔊 Audio coming soon

Adhikarana duShTodakavahasrotassu cikitsA (24) · Śloka 24

तत्र तृष्णोक्तमौषधम्||२४||

🔊 Audio coming soon

उदकवाहिनां स्रोतसां तालुक्लोमनी मूलम्| तेषामामेन भयादिभिर्दूषणम्| दुष्स्टत्वाच्चातितृष्णादि उत्पत्तिः| तत्र तृष्णोक्ता चिकित्सा| अतिपानं मद्यस्य| उष्णशुष्काभ्यामन्नस्य सम्बन्धः| तृण्निग्रहस्तृष्णावेगनिरोधः| आदिग्रहणेनैवं प्रकारणामन्येषामप्याचारकोपशोषकराणामाहारविहारादीनां ग्रहणम्| क्ष्वेलनं नादः| तमस इव दर्शनं तमोदर्शनमप्रतिपत्तिः|| २४||

Adhikarana annavahasrotasAM mUlam (1) · Śloka 1

अन्नवाहिनामामाशयो मूलं वामपऱ्श्वञ्च||१||

🔊 Audio coming soon

Adhikarana annavahasrotoduShTyAdi (25) · Śloka 25

तेषां दुष्टौ सर्वं मात्राशितीयोक्तमवगच्छेत्||२५||

🔊 Audio coming soon

अन्नवाहिनां सोर्तसां दुष्टत्वे हेतुं कार्य्यं प्रतीकारं च सर्वं ज्ञातुं मात्राशितीयमध्यायमवगच्छेत्| तेनैतदुक्तं भवति-अन्नवाहिनामतिमात्रसमशनादीनि दूषणानि| दुष्टत्वे विषूचिकाद्युत्पत्ति| वमनादिका चिकित्स| शेषं सुबोधम्| मूलमाश्रयः| उपकारापकारद्वारमित्यर्थः| एवं प्राणोदकान्नसप्तधातुमूत्रशकृत् स्वेदभेदेन त्रयोदशविधानि स्रोतांसि| तत्र प्राणोदकान्नवाहिनां दुष्टौ हेतुलक्षणौषधान्युक्तानि|| २५||

Adhikarana rasavAhinAM srotasAM mUlAni (1) · Śloka 1

रसवाहिनां हृदयं मूलं दश धमन्यश्च|१|

🔊 Audio coming soon

Adhikarana raktavAhinAM srotasAM mUlam (1) · Śloka 1

रक्तवाहिनां यकृत् प्लीहा च|१|

🔊 Audio coming soon

Adhikarana mAMsavAhinAM srotasAM mUlam (1) · Śloka 1

मांसवाहिनां स्नायूनि त्वक् च|१|

🔊 Audio coming soon

Adhikarana medovAhinAM srotasAM mUlam (1) · Śloka 1

मेदोवाहिनां वृक्कौ मांसं च|१|

🔊 Audio coming soon

Adhikarana asthivAhinAM srotasAM mUlam (1) · Śloka 1

अस्थिवाहिनां जघनं मेदश्च|१|

🔊 Audio coming soon

Adhikarana majjavAhinAM srotasAM mUlam (1) · Śloka 1

मज्जवाहिनां पर्वाण्यस्थीनि च|१|

🔊 Audio coming soon

Adhikarana shukravAhinAM srotasAM mUlam (1) · Śloka 1

शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च|१|

🔊 Audio coming soon

Adhikarana mUtravAhinAM srotasAM mUlam (1) · Śloka 1

मूत्रवाहिनां बस्तिर्वङ्क्षौणा च|१|

🔊 Audio coming soon

Adhikarana shakRudvAhinAM srotasAM mUlam (1) · Śloka 1

शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च|१|

🔊 Audio coming soon

Adhikarana svedavAhinAM srotasAM mUlam (1) · Śloka 1

स्वेदवाहिनां मेदो रोमकूपाश्च||१||

🔊 Audio coming soon

Adhikarana rasavahAdisrotasAM dUShaNAdIni (26) · Śloka 26

तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् पृथक्- पृथक् साधनं दोषादिविज्ञानीयाद्यथास्वं वृद्धिक्षयलक्षणेन लक्षयेत्||२६||

🔊 Audio coming soon

तेषां रसवाह्यादीनां स्रोतसां नानाप्रकारमहिताहारविहारं दूषणम्| तच्च तीक्ष्णमतिना परिकल्पनीयम्| दुष्टानामुपद्रवा व्याधयः तच्चिकित्सा च दोषादिविज्ञानीयोक्तेन 'रसोऽपि श्लेष्मवत्' इत्यादिना वृद्धिक्षयलक्षणेन लक्षयेत्| तेनैगदुक्तं भवति-आहारादि विशेषवशाद्रसवाहिषु दुष्टेषु कदाचिद्रसवृद्धिजा रोगास्तत्र यथास्वं चिकित्सेति| एवं सर्वत्रापि वाच्यम्|| २६||

Adhikarana srotasAM viddhalakShaNam (27) · Śloka 27

व्यधे तु स्रोतसां भ्रममोहकम्पप्रलापाध्मानशूलाऽरुचि- तृट्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीषरोधा मरणञ्च||२७||

🔊 Audio coming soon

अनन्तरोक्तानां च स्रोतसां व्यधे शस्त्रादिताडने जन्तोर्भ्रमाद्युद्भवः|| २७||

Adhikarana srotoviddhaM pratyAkhyAya cikitset (28) · Śloka 28

तस्मात्स्रोतोविद्धं प्रत्याख्यायोपचरेत्||२८||

🔊 Audio coming soon

तस्माद्वैद्यः स्रोतोविद्धं चिकित्सायां प्रत्याख्यानं कृत्वा असाध्यतामुक्त्वा दैवात्किञ्चिद्भवेदिति शास्त्रानुगमनेनोपाचरेत्|| २८||

Adhikarana uddRutashalyasya cikitsanirdeshaH (29) · Śloka 29

उद्दृतशल्यं च सद्योव्रणविधानेन||२९||

🔊 Audio coming soon

अन्तःशल्यं च स्रोतोविद्धं शल्यमुद्धृत्योपाचरेदिति सम्बन्धः| केनेत्याह-वक्ष्यमाणेन सद्योव्रनविधानेन|| २९||

Adhikarana sirAdhamanI srotasAmabhedaH (30) · Śloka 30

तत्र स्रोतसामेव विशेषाः सिराधमन्यः||३०||

🔊 Audio coming soon

Adhikarana anyamatena sirAdInAM bhinnatvam (31) · Śloka 31

अन्ये त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम्| केवलं परस्परसन्निकर्षात् सदृशकर्मत्वात् सौक्ष्म्याच्च विभक्त- कर्मणामप्यविभाग इव लक्ष्यते||३१||

🔊 Audio coming soon

अन्ये त्वाचार्य्याः सिरादीनां पृथक्त्वमिच्छन्त्येवं च ब्रुवते यत् सिरादीनां परस्परविलक्षणानामविभाग इव लक्ष्यते| तत् केवलं परस्परसन्निकर्शादिना हेतुत्रितयेन| सदृशं कर्म वाहकत्वं येषां ते तथोक्ताः| सौक्ष्म्यं सूक्ष्मता|| ३१||

Adhikarana aparamatena dhAtvavakAshAH srotashshabdAdinAmAH (32) · Śloka 32

अपरे पुनराहुः-स्रोतांसि सिराधमन्यो रसवाहिन्यो नाड्यः पन्थानोऽयनानि मार्गाः शरीरच्छिद्राणि संवृ तासंवृतानि स्थानान्याशयाः क्षया निकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति||३२||

🔊 Audio coming soon

Adhikarana srotoduShTyA dhaatuduShTyAdi (3) · Śloka 3

ते चावकाशाः प्रकुपिताः स्थानस्थान् मार्गस्यांश्च धातून् प्रकोपयन्ति| तेऽपि कुपितास्तानि स्रोतांसि स्रोतांसि च स्रोतांसि| धातवश्च धातून्||३||

🔊 Audio coming soon

Adhikarana sarveShAmeva dUShayitAro doShAH (1) · Śloka 1

तेषां सर्वेषामेव दूषयितारो दुष्टा दोषाः|१|

🔊 Audio coming soon

Adhikarana agnidoShAddoShaduShTiH (1) · Śloka 1

ते च प्रायशो दुष्यन्त्यग्निदोषात्|१|

🔊 Audio coming soon

Adhikarana agninimittAnyAyurArogyAdIni (1) · Śloka 1

तस्मात्तनिमित्तान्यायुरारोग्यबलोपचयवर्णौजांसि|१|

🔊 Audio coming soon

Adhikarana dhAtvagnibhUtAgniprabhRutI- nyagnipratibaddhAnyeva (1) · Śloka 1

तत्प्रतिबद्धान्येव च रञ्जकादीनि भूताग्नयो धात्वग्नयश्च||१||

🔊 Audio coming soon

Adhikarana pakvamannamamRutaM viShaM cApakvam (33) · Śloka 33

तथाऽन्नमपि पित्तेनैव पक्वममृततां यात्यपक्वं च विष- ताम्||३३||

🔊 Audio coming soon

स्रोतोदुष्ट्या धातुदूषणं धातुदुष्ट्या स्रोतोदूषणं चाह-त इत्यादिना| प्रकुपिता दुष्टाः स्थानमाशयस्तत्र तिष्ठन्तीति स्थानस्थाः| स्रोतांसि च स्रोतांसीति यानि स्रोतांसि दुष्टानि भवन्ति तान्यन्यान्यपि दूषयन्ति| एवं धातूनामपि वाच्यम्| तेषां सर्वेषां धातूनां धात्वाशयानां च दुष्टान् वातादीनन्तरेण नान्यद् दुष्टौ कारणम्| दोषाणां दुष्टिरपि प्रायोऽग्निदोषात्| अन्यत् सुबोधम्|| ३३||

Adhikarana pAcakAgniH (34) · Śloka 34

तत्र पित्तविशेषः पाचकसंज्ञोऽग्निरिति प्रागभिहितः||३४||

🔊 Audio coming soon

तत्रेत्यादिना पाचकसंज्ञमग्निं प्रस्तौति| प्राग्दोषभेदीये पाचकसंज्ञः पित्तभेदोऽन्नस्य पक्ताग्निरित्युक्तवानसावाचार्य्यः|| ३४||

Adhikarana matAntareNAgnisvarUpam (35) · Śloka 35

अन्ये पुनराचक्षते-दोषधातुमलसन्निपातजनितो- ऽन्तरुष्मा यथानिर्दिष्टाधिष्ठानकर्माग्निरिति||३५||

🔊 Audio coming soon

अन्ये पुनराचार्य्याः पित्तमग्निरिति नेच्छन्ति| दोषादिसंयोगविशेषजनितोऽन्तरशरीर उष्माग्रहाण्यधिष्ठानः पाकरागादिकर्माग्निरित्याहुः| अथानन्तरमस्य ग्रन्थस्य तात्पर्य्यार्थ उच्यते- इहायुर्वेदे उभयेषामाचार्य्याणां भिन्नदर्शनम्| एकेषामन्तराग्नि पक्वान्नसारात् क्रमेण धातुपरिपोषोऽन्येषां यौगपद्येनेति|| ३५||

Adhikarana annasya sthUlapAkakramaH (36) · Śloka 36

स खलु विधिवदभ्यवहृतमन्नजातं प्राणेन वायुना कोष्ठ- माकृष्टं द्रवैर्विभिन्नसङ्घातं स्नेहेन मृदूकृतमभिसन्धु- क्षितः समानेनामाशयस्थं स्थालीस्थमिवाम्बुतण्डुल- मग्निरन्तरग्निः पचति||३६||

🔊 Audio coming soon

अत्र क्रमवादिनः आहुः-पुरुषेण भुज्यमानमन्नं कठिनतरदशनाभिघातजर्जरितं प्रयत्नेनोदीरितेन प्राणाख्येनानिलेन कण्ठनाड्या महास्रोतसि निक्षिप्तं नाभिदेशचारिणा समानेन नाभिपार्श्वग्रहेत्याख्यपित्तधराकलामर्य्यादे आमाशये विधृतं द्रवेण जलादिना विभिन्नसङ्घातं स्नेहेन च मार्दवमापादितं पाचकेनेव समानेन सन्धुक्षितः प्रदीपितः सन्नन्गरग्निः पचति| यथाऽग्निः बाह्यस्तोयतण्डुलं स्थालीस्थं पचति|| ३६||

Adhikarana annasyANupAkakramaH (37) · Śloka 37

तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनी- भूतमुदीरयति| ततो विदग्धमम्लीभूतमामाशयात् च्यव- मानमच्छं पित्तम्| प्राप्य च पक्वाशयं कटुकीभूत- मनिलम्||३७||

🔊 Audio coming soon

तत्र चामाशये तदन्नं सर्वरसमपि पच्यमानं सत् प्रथम विक्लेदमात्रावस्थायां माधुर्यमिव प्राप्तं सत् कफमुदीरयेत्| तच्च फेनभूतं यथा दध्यादितः क्षुभितात् प्रथमं फेनसम्भवः| ततश्चामाशयात् पाकेन च्यवमानमम्लीभूतं सत्स्वच्छं पित्तमुदीरयेत्| ततोऽप्यामाशयात् च्युतं पक्वाशयेऽग्निना शोषितकटुकीभूतं सत्तदन्नं मारुतमुदीरयेत्|| ३७||

Adhikarana bhaurikAgnipAkaH (38) · Śloka 38

ततश्चैवं विक्लिन्नं आहारे पञ्च पञ्चात्मका महाभूता- ग्नयो वायुना व्यस्तान् यथास्वं पञ्चैव भूतगुणाना- हारस्थान् पचन्ति| ते पक्वाः पुनर्यथास्वमेव देहाश्रितांश्च स्वविकारभूतान् भूतगुणानाप्याययन्ति||३८||

🔊 Audio coming soon

जथाराग्निना किञ्चित्पक्वविक्लिन्नाहारे पञ्च महाभूताग्नयः पार्थिवादयः पञ्चाहारस्थान् यथास्वं महाभूतगुणान् पार्थिवादीन आहारभागान् पचन्ति| पार्थिवोऽग्निससादृश्यात् पार्थिवमोवाहारभागं पचति| आप्य आप्यमेव| सर्वत्र गुणशब्दोऽवयववाची ते च पार्थिवादयः पञ्च गुणा पार्थिवादिभिः पञ्चभिरग्निभि पक्वाः पार्थिवादीनेकदेहस्थान् भूतगुणानाप्याय्यन्ति| यथास्वमात्मीयजात्यनतिक्रमेण स्वविकारभूतानित्यन्नविकारा एवदेहे महाभूतगुणाः|| ३८||

Adhikarana sArakiTTavibhajanam (39) · Śloka 39

एवञ्च पक्वादाहाराद्विविधौषधगर्भादिव स्नेहादच्छः सार- भूतो रसाख्यः किट्टाख्यश्च मलोऽभिनिर्वर्तते||३९||

🔊 Audio coming soon

एवमनन्तरोक्तेन प्रकारेण पक्वादन्नात् द्वौ राशी भवतः- किट्टं सारश्च| यथा नानाप्रकारौषधगर्भाद् घृतात् स्नेहः कल्कश्च||३९||

Adhikarana sArakiTTAByAM srotaHpUraNam (40) · Śloka 40

ताभ्याञ्च सारमलाभ्यां तदात्मकानामेव शरीरगुणानां धात्वाख़्यानां यथास्वं स्रोतांसि पारम्पर्य्येणाविच्छिन्न- सन्तानमापूर्य्यन्ते||४०||

🔊 Audio coming soon

ताभ्यां सारमलाभ्यां तदात्मकानां सारमलस्वभावानां धात्वाख़्यानां शरीरगुणानां रक्तादीनां मूत्रदीनां च पारम्पर्य्येण क्रमप्राप्त्याविच्छिन्नप्रवाहं कृत्वा स्रोतांस्याऽऽपुर्य्यन्ते|| ४०||

Adhikarana dhAtupoShaNakramaH (41) · Śloka 41

स्रोतोभ्यश्च यथाविभागं यथायथमेव धातवः पुष्यन्ति||४१||

🔊 Audio coming soon

तेभ्यो यथास्वं धातवः पुष्यन्ति|| ४१||

Adhikarana dhAtUnAM mithaH poShyapoShaka- tve~api na pUrvauShAmapacayaH (42) · Śloka 42

उत्तरोत्तरानुप्रवेशोऽपि च पुर्वेषां स्रोतसं यथाकालं सम्यगाहारोपयोगेन परिणामवताप्याय्यमानानां नापचयो भवति| ततश्च धात्वाख्याः प्रसादमलाः स्वं स्वमेव मानमनुवर्तन्ते यथावयःशरीरम्||४२||

🔊 Audio coming soon

पूर्वस्य रक्तोदेर्धातोरुत्तरानुप्रवेशेऽपि मांसादिभावगमनेऽपि न पूर्वेषां रक्तादिस्रोतसामपचयो भवति| किम्भूतानां पूर्वधातुस्रोतसाम् ? यथाकालं कालविच्छेदेन सम्यगाहारोपयोगेनाप्याय्यमानानाम्| किम्भूतेनाहारोपयोगेनाह-परिणामवता| तेनैतदुक्तं भवति-सदैवाविच्छेदेन स्रोतांसि परिणतोऽन्नसारो याति| पुर्वेभ्यश्च पूर्वाण्यापूर्य्यन्ते| अतस्तेषामनपचयः| तथा परिणामेन च धात्वाख्या देहधारणाः प्रसदाश्च मलाश्च वयरशरीरानतिक्रमेण स्वं-स्वं प्रमाणमञ्जल्यादिविशेषेणोक्तं नातिवर्त्तन्ते| प्रसादाः सारा रक्तमांसकण्डरादीनि| मलाः किट्टं कफलसीकापित्तादि| वयोऽनतिक्रमेणेति बालस्य प्रवृद्धस्य चोक्तात् प्रैमाणाद्धीनत्वं नेति ज्ञापनार्थम्| यथाशरीरमिति महाशरीरेषु प्रसादमलाः प्रभूता भवन्ति| लघुदेष्वल्पता इति ज्ञापयति||४२||

Adhikarana kramadhAtupariNAmAdinirdeshaH (43) · Śloka 43

तत्राऽऽहाररसो व्यानविक्षिप्तो यथास्वं सप्तसु धात्व- ग्निषु क्रमात् पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्खलितबलप्रमाणो देहमुर्जयित्वा धातून् धातुमलांश्च पुष्णाति||४३||

🔊 Audio coming soon

तत्रेत्यादिनाऽस्मिन् क्रमधातुपाकवादे क्रमं दर्शयति| आहारस्य प्रधानाग्निना पक्वस्य सतः यो रसो भवति स व्यानेन हृदयमूलभवेन वायुना विक्षिप्तः प्रेरितः स्रोतस्सु विनियुक्ताः सन् धात्वग्निषु पच्यमानः विशिष्टतत्कालव्यपदेशयोग्यस्वरूपप्रच्युत्येककालं प्राप्तरक्तादिधातुसंज्ञः कालवदविच्छिन्नवाही धातून् रक्तादीन् धातुमलांश्च कफादीन् पुष्णाति| रक्तं रक्ताग्नेरेव पाकेन भवति| मांसं मांसाग्निरेवेत्येवमादि यथास्वशब्दर्थः देहमूर्जयन् शरीरं प्राणयन्|| ४३||

Adhikarana mUtrapurIShotpattiH (44) · Śloka 44

अथान्नकिट्टमच्छं मूत्रं घनं शकृत्|४४|

🔊 Audio coming soon

अथेत्यादिना प्रसादमलयोर्विभागं दर्शयति| यो यस्य पाकात् प्रसादः स तस्य सारो, यो मलः स किट्टः| सुबोधम्|| ४४||

Adhikarana rasasya sArakiTTe (44) · Śloka 44

रसस्य सारो रक्तं मलः कफो लसीका च१|४४|

🔊 Audio coming soon

Adhikarana raktasya sArakiTTe (44) · Śloka 44

रक्तस्य सारो मांसं कण्डराः सिराश्च| मलः पित्तम् २|४४|

🔊 Audio coming soon

Adhikarana mAMsasya sArakiTTe (44) · Śloka 44

मांसस्य सारो मेदस्त्वचो वसा च| किट्टं कर्णाक्षि- नासिकास्यरोमकूपप्रजननमलाः २|४४|

🔊 Audio coming soon

Adhikarana medasaH sArakiTTe (44) · Śloka 44

मेदसः सारोऽस्थिस्नायुसन्धयः| किट्टं स्वेदः २|४४|

🔊 Audio coming soon

Adhikarana asthnaH sArakiTTe (44) · Śloka 44

अस्थ्नः सारो मज्जा| किट्टं केशरोमनखाः २||४४||

🔊 Audio coming soon

Adhikarana majj~jaH sArakiTTe (45) · Śloka 45

मज्ज्ञस्तु सारः शुक्रं मलोऽक्षिविट्त्वचां स्नेहः||४५||

🔊 Audio coming soon

अन्नमलस्य घनाच्छभेदेन द्वैविध्यम्| लसीका जलसदृशी| वसा स्वच्छस्नेहः| कर्णादिषट्कस्य मलशब्देन सम्बन्धः| कर्णादिषु मलो दृश्यत एव| प्रजननं मेहनम्| सन्धयोऽस्थिभागाः पूर्वमुक्ताः| अक्ष्यादेः स्नेहो मलः|| ४५||

Adhikarana shukrasya sAraH (46) · Śloka 46

शुक्रस्य सारमोजः| अत्यन्तशुद्धतयाऽस्य मलाभावः| अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्| अपरे पुनः शुक्रसारं गर्भमेवामनन्ति|४६|

🔊 Audio coming soon

शुक्रस्य तु क्रमेण सारसारत्वाच्छुद्धतया मलाभावः| अपरे आचार्य्याः| अतः सारादपि सारतरत्वाद्धेतोः शुक्रस्य पाकं नेच्छन्ति| अन्ये त्वाचार्य्याः शुक्रस्य सारो गर्भ इत्यामनन्तीति|

Adhikarana shukrasya sAraH (46) · Śloka 46

शुक्रस्य सारमोजः| अत्यन्तशुद्धतयाऽस्य मलाभावः| अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्| अपरे पुनः शुक्रसारं गर्भमेवामनन्ति||४६||

🔊 Audio coming soon

शुक्रस्य तु क्रमेण सारसारत्वाच्छुद्धतया मलाभावः| अपरे आचार्य्याः| अतः सारादपि सारतरत्वाद्धेतोः शुक्रस्य पाकं नेच्छन्ति| अन्ये त्वाचार्य्याः शुक्रस्य सारो गर्भ इत्यामनन्तीति|

Adhikarana pa~jcAtmakasya vAyorutpattiH (47) · Śloka 47

वायुः पुनरग्नेराहारस्य च बह्वल्पतया तस्मात्तस्मान्मू- र्च्छनाविशेषादमुर्त्तः शब्दवानीषच्छब्दः प्रचुरोऽल्पो वा पञ्चात्मा कोष्ठे प्रादुर्भवति||४७||

🔊 Audio coming soon

आध्यात्मिकानां भावानां सम्भवोक्तिप्रसङ्गे वायोर्द्वितयेन प्रकारेण सम्भव उच्यते| वायुः कोष्ठे प्राणादिभेदेन पञ्चात्मा प्रादुर्भवति| कुतो हेतोः ? आभ्यां मूर्च्छनाविशेषात्| कथमाह-अग्नेर्बहुतया कदाचिदग्नेः समत्वेऽप्याहारस्याल्पतया च| वायुः कुतश्चिन्मूर्च्छनाविशेषादमूर्त्तोऽपि सञ्छब्दवान् भवति| कुतोऽपीषच्छब्दः कुतोऽपि प्रचुरः| कुतोऽप्यल्प इति| अमुर्त्तोऽकठिनः|| ४७||

Adhikarana sarve~annamayA bhAvAH' kramadhAtuvAda- siddhAntopasaMhAraH (48) · Śloka 48

एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः| तेनैव चेदमेवं चिरेण व्याप्तमन्तर्बहिः शरीरयन्त्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं यावत् कर्मोपादानं याप्यते| अन्यथा त्वन्नरसोक्षेपणाद्विबद्धस्रोतसा वा यथावदन- भिसन्धीयमानधातुप्रवाहमन्तरा व्यवच्छिद्यते| व्याधि भाजनं वा भवति||४८||

🔊 Audio coming soon

तस्मात् सर्वे शारीरा भावा अन्नमयाः| तेनैव चान्नेनाविच्छिन्नप्रवाहेण इदमनन्तरोक्तेन क्रमेण शरीरं विपरिणमति| अध्यात्मेत्यात्मनि बहिर्वहिर्भागे| शरीरयन्त्रकं याप्यत इति सम्बन्धः| किम्भूतमित्याह-स्वास्थ्येन बलोपचयेन च युक्तम्| एतच्च यावत्कर्मोपादानमाह| तद्धेतुककर्मपरिक्षयात्| अन्यथेत्यादि सुबोधम्| इति क्रमधातुवादः|| ४८||

Adhikarana anyamatena rasAdidhAtusambhavakramaH (49) · Śloka 49

अन्ये तु वर्णयन्ति-अभ्यवहृतमात्रस्याहाऽऽरस्य कण्ठ- नाडीप्रलुठितस्य महानिम्नमवतीर्णस्य यो य एवांशः कायाग्निनाऽवलीढः पाकमुपनीयते तस्य तस्यैव प्रसा- दाख्यो रसलेशोऽभिनिर्वृत्तिसमनन्तरं समं समस्तधातुषु संवृतासंवृतैः प्रविसृतो विवृतमुखेष्वासन्नेषु स्रोतस्सु भूयान् प्रथमतरं चान्वेति| पर्य्यायेणेतरेष्वपि| एवमन्नर एव साक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति न पुनर्धातवो धात्वन्तरतां स्वरूपोपमर्देन प्रतिपद्यः इति|४९|

🔊 Audio coming soon

अन्ये पुनराचार्य्याः अन्नरसादेव सकलधातुसम्भवं वर्णयन्ति| न च धातोर्धात्वन्तरादुत्पत्तिमिच्छन्ति| कथमित्याह-अभ्यवहृतमात्रस्येत्यादि| य एवाहारभगः कोष्ठप्राप्तिसमनन्तरमग्निना सम्बध्यते तस्यैव तेन पक्वस्ययोऽन्नसारः स तदैव सर्वधातुस्रोतस्स्वनुगच्छति| केवलं त्वयं विशेषः| विवृतमुखेषु असंवृतेशु स्रोतस्सु सारसम्भवदेशासन्नेषु च प्रथममन्वेति भूयांश्चान्वेति| इतरेषु संवृत्तमुखेषु दूरेषु च विपर्य्ययेण| स्वल्पश्चिरेण चेत्यर्थः| एवमस्मिन् पक्षे केवल- मधिकृतस्यान्नसारस्य सकलधातुपरिपाकत्वमुक्तम्| यथोत्तरं तु धातुस्रोतसां संवृतमुखत्वाद् दूरदूरतरत्वाच्च कालभेद अङ्गीकृत एव| तेन द्वयोरपि पक्षयोरन्यतया न युगपद्धातुसम्भवः| एकत्र धातोर्धात्वन्तरोत्पादादन्यत्र संवृतत्वदूरत्वाभ्यामिति| सुबोधम्|| ४९||

Adhikarana balabhedenAgneshcAturvidhyam (49) · Śloka 49

अग्निस्तु बलभेदेन चतुर्विधो भवति| समो विषम- स्तीक्ष्णो मन्दश्च २|४९|

🔊 Audio coming soon

Adhikarana samAgnilakShaNam (49) · Śloka 49

तत्र समो यः सम्यगेवोपयुक्तमन्नं सम्यक् पचति१|४९|

🔊 Audio coming soon

Adhikarana viShamAgnilakShaNam (49) · Śloka 49

विषमोऽसम्यगप्यपयुक्तं पचति सम्यगपि च न पचति १||४९||

🔊 Audio coming soon

Adhikarana tIkShNAgnilakShaNam (2) · Śloka 2

तीक्ष्णोऽसम्यगप्युपयुक्तमाशु पचति| स एव वर्धमानो ऽत्यग्निर्भवति||२||

🔊 Audio coming soon

Adhikarana mandAgnilakShaNam (1) · Śloka 1

मन्दस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविबन्धाटो- पात्रकूजनमुखशोषवायुस्तम्भादीन्यामलिङ्गानि दर्श- यित्वा चिरात् पचति||१||

🔊 Audio coming soon

Adhikarana jATharAgneH rakShaNIyatvaM tatra kramashca (50) · Śloka 50

बाह्येनापि च ज्वालाङ्गारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति| किमुतान्तराश्रयेणोष्णात्मना समेनापि| तस्मात् तं प्रयत्नतो रक्षेत्||५०||

🔊 Audio coming soon

अग्निस्त्विति| बलभेदेनेति अग्निचात्रुविध्यकारणम्| तत्रेत्यादिनाऽस्याग्निचतुष्टयस्य लक्षणमुच्यते| समो नित्यधर्मा इति च सर्वत्रान्नरक्षामात्राशीत्याद्युक्तप्रकारेण| उदरगौरवादीन्यामलिङ्गान्यादिग्रहणेनान्यानि च| बाह्योनापीत्यादिना जाठरस्याग्नेः प्रयत्नपरिरक्षणीयत्वं दर्शयति|| ५०||

Adhikarana agnInAM rakShaNaM vaiShamye cikitsA ca (51) · Śloka 51

तत्र प्रवरेण सात्म्येन समं यथास्वमपरेणेतरान् क्रमशः सात्म्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणियोक्तेन च वातादिसाधनेन ग्रहणीरोगविहितैश्चैषधव्यायामम- योगैरिति||५१||

🔊 Audio coming soon

तत्रेति निर्धारणे| सममुत्कृष्टमग्निमुत्कृष्टेन सात्म्येन सर्वरसाख्येन रक्षेदितरान् विषमादीनग्नीनितरेण प्रवरेण सात्म्येनासर्वरसाख्येन| यथादोषं सात्म्यमापाद्य प्रवरेणैव परिपालयेत्| दोषोपक्रमणीयोक्तया वातचिकित्सया विषमम्| पित्तचिकित्सया तीक्ष्णम्| कफचिकित्सया च मन्दं चिकित्सेत्| वातादिग्रहणीदोषोक्तेन विधानेन क्रमेण विषमादीनौषधयोगैर्व्यायामयोगैश्च|| ५१||

Adhikarana srotasAM lakShaNam (2) · Śloka 2

भवति चात्र- स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च|२|

🔊 Audio coming soon

Adhikarana srotodUShakaH AhAraH vihArashca (2) · Śloka 2

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||२||

🔊 Audio coming soon

Adhikarana srotoduShTilakShaNam (52) · Śloka 52

अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा| विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्||५२||

🔊 Audio coming soon

भवति चात्रेति पद्यारम्भे रीतिः| स्रोतांसि स्वस्य धातोर्वर्णेन समानि| रक्तस्रोतांसि रक्तवर्णानि| मांसस्रोतांसि मांसवर्णान्येवं सर्वत्र वाच्यम्| कानिचित् स्थूलानि| कानिचिदणूनि सूक्ष्माणि| प्रतानसदृशानि वल्लीवदनेकभङ्गीप्रवाहयुक्तानि| तेषाञ्च स्रौतसामाहारो विहारश्च प्रदूषकः| किम्भूत आह-दोषस्य वातादीनामन्यतमस्य गुणैः समः तथापि यो वातादीनामन्यतमस्य समबुणोऽपि धातुर्भिर्विगुणः| यस्य धातोर्य एवाहारो विहारश्च गुणैर्विपरीतः स एव तस्य स्रोतसां दूषकः|| ५२||

Adhikarana srotodvArANAM svarUpam (53) · Śloka 53

बिसानामिव सूक्ष्माणि दूरं विप्रसृतानि च| द्वाराणि स्रोतसां देहे रसो यैरुपचीयते||५३||

🔊 Audio coming soon

सुबोधम्|| ५३||

Adhikarana annasya shukratvaprAptikAle matabhedAH (54) · Śloka 54

केचिदाहुरहोरात्रात् षडहादपरे परे| मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिभिः| वृव्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते| प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम्||५४||

🔊 Audio coming soon

अथान्नस्य सारः कियता कालेन सप्तधाटुन् अभिव्याप्नोतीत्याऽऽह-किचिदित्यादिना| मतत्रयमेतत्| पाकक्रमादिभिर्धातुपरिणतेः| स्वल्पैर्दिनैरसम्भवं प्रदर्शयति| ननु चैकस्मन्नेवाह्नि वृष्यादीनां शुक्रादिकर्त्तृत्वं दृष्टं तत् कथमित्याह-वृष्यादीनीत्यादि| प्रभावः सर्वातिशायिनी शक्तिः| एकेनादिशब्देन ग्रहणम्| एकाहः षड्रात्रमासभेदेन मतत्रये स्थिते प्रभावादेव वाग्भटः सर्वशास्त्रसिद्धान्तं दर्शयति-प्राय इत्यादिना| न केवलं वृष्यादि, यावदन्यदपि भेषजं प्रायः अहोरात्रादेव कर्म करोति| अहोरात्रमतिक्रम्य घृतलेहादीनां यद्यपि मात्राभ्यासेन रोगोपशमाख्यकार्य्यनिर्वृत्तिस्तथापि तेषां दिनानुदिनं कार्य्यकर्त्तृत्वं विद्यत एवेति प्रदर्शनार्थं प्रायोग्रहणम्|| ५४||

Adhikarana dhAtumalasaMgrahashlokaH (55) · Śloka 55

कफः पित्तं मलः खेषु प्रस्वेदो नखरोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||५५||

🔊 Audio coming soon

पुर्वोक्तमेव संग्रहश्लोकेनाह-कफ इत्यादि| कफादीनि रसादीनां क्रमेण मलाः| रसस्य कफोरक्तस्य पित्तम्| मांसस्य कर्णनासिकादिस्रोतोमलाः| मेदसः प्रस्वेदः अस्थ्नो नखरोम| मज्जो नेत्रादिस्नेहः| पूर्वस्यैव संग्रहादपुनरुक्तम्|| ५५||

Adhikarana samAdyagnInAM kAraNam (56) · Śloka 56

समः समाने स्थानस्थ विषमोऽग्निर्विमार्गगे| पित्ताभिमूर्च्छिते तीक्ष्णो मन्दोऽस्मिन्कफपीडिते||५६||

🔊 Audio coming soon

अविकृतः समानः समस्याग्नेः कारणम्| विकृतस्तु विषमादीनाम्|| ५६||

Adhikarana agnimUle maraNajIvane (57-6) · Śloka 6

शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः| रोगी स्याद्विकृते तस्मात्तं प्रयत्नेन पालयेत्||५७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रह- संहितायां शारीरस्थाने सिराविभागोनाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

सुबोधमन्यत्|| ५७|| इति श्रीमन्महामहोपाध्यायेन्दुर्विरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां शारीरस्थाने षष्ठोऽध्यायः