Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. annapānavidhiḥ

Adhikarana athA~annapAnavidhirnAma dashamo~adhyAyaH -------------------- upodghAtaH · Śloka

🔊 Audio coming soon

सुरक्षितमप्यन्नपानमविधिनोपयुक्तं रोगाय मरणाय वा सम्पद्यते| ततस्तस्योपयोगे विधिना विशेषप्रदर्शनार्थमध्यायारम्भः|

Adhikarana pratij~jA (1) · Śloka 1

अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

अथात इत्यादि पूर्ववत् व्याख्येयम्||१||

Adhikarana annapAnasya vidhyupayogaprayojanam (2) · Śloka 2

विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते| यदायत्तानि ह्योजस्तेजोधात्विन्द्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि| तदिन्धना चान्तराग्नेः स्थितिः| अग्निमूलं च देहधारणमिति||२||

🔊 Audio coming soon

विधिना विहितमन्नपानमिष्टेन्द्रियार्थमभिमतरसगन्धादि सदायुष आयतनमाश्रयमाचार्या ब्रुवते| तथाविधस्याहारस्यायत्तान्योजःप्रभृतीनि| कार्यकारणभावात्| तदिन्धना आहार इन्धनं यस्या अन्तराग्निस्थितेः सा तथाविधा देहस्य धारणेऽग्निः प्रथमं कारणम्||२||

Adhikarana sapta AhAravidhivisheShAyatanAni (3) · Śloka 3

अथात्मवान् स्वभाव-संयोग-संस्कार- मात्रा-देश- कालोपयोग-व्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यफलानां हेतुभूताः समीक्ष्य हितमेवानुरुध्येत||३||

🔊 Audio coming soon

अथानन्तरमन्नपानस्य विध्युपयोगप्रयोजनमुक्त्वा विधिरुच्यते| आत्मवान् बुद्धिमान् अन्नस्य स्वभावसंयोगादीन् सप्त सम्यक् सूक्ष्मया बुद्ध्या समीक्ष्य हितमेवोपयुक्तं यतेताहितं परित्यजेत्| किम्भूतान् सप्त? आह-स्वास्थ्यास्वास्थ्यफलानामाहारकल्पनाविशेषाणा- मोदनपेयाभक्ष्यव्यञ्जनादीनां कारणभूतान्| मूलपाठे तु द्वन्द्वे स्त्रीलिङ्गस्य परत्वात्तत्समानाधिकरण्येन हेतुभूतेति प्रयोगः||३||

Adhikarana svabhAvalakShaNam (4) · Śloka 4

तत्र स्वभावतो दिव्योदकरक्तशालिषष्टिकमुद्गैणलावादयो लघवः, क्षीरेक्षुव्रीहिमाषानूपामिषादयो गुरव इति| ते खल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते||४||

🔊 Audio coming soon

अन्ने च द्रव्याणि संयोगविशेषेण हि विलक्षणकार्यकराणि भवन्ति| एषां च स्वभावसंयोगादीनां लक्षणमुच्यते| तत्र स्वभावो द्रव्यस्वरूपम्| यथा दिव्योदकादीनां लघुत्वम् क्षीरादीनां गुरुत्वमिति| तानि द्रव्याणि संयोगादिविशेषात्स्वभावादन्यथात्वं वैपरीत्यं भजन्ते| एतच्च मात्रादिप्रकरणे सविस्तरमुक्तम्| केवलमत्र लक्षणमुच्यते||४||

Adhikarana saMyogalakShaNam (5) · Śloka 5

तत्र संयोगो नाम द्वयोर्बहूनां वा द्रव्याणां संहतीभावः| स विशेषमारभते यन्नैकैकशो द्रव्याणि||५||

🔊 Audio coming soon

संयोगोऽनेकस्य साहित्यम्| स च संयोगः संयोगिद्रव्यकार्यविशिष्टं कार्यमारभते| यत् कार्यमेकैकं द्रव्यं कर्तुमशक्तं सत्यपि स्वकार्यकर्तृत्वे||५||

Adhikarana saMskAralakShaNam (6) · Śloka 6

संस्कारस्तु तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते||६||

🔊 Audio coming soon

संस्कारोऽस्यैव द्रव्यस्य जलाग्निसन्निकर्षादिभिर्विशेषप्राप्तिः

Adhikarana mAtrAlakShaNam (7) · Śloka 7

मात्रा पुनः पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः||७||

🔊 Audio coming soon

मात्रा द्विधा| एका पिण्डपरिमाणेन| यथान्नेनाविचारितगुरुलाघवेन कुक्षेर्द्वौ भागौ पूरयितव्याविति| नानाविधद्रव्यसमुदायेन द्वितीया प्रतिद्रव्यापेक्षया| यथा गुरूणां द्रव्याणामर्द्धतृप्त्या, लघूनां च नातितृप्ततया भवति इति| द्विविधोऽप्याहारराशिर्मात्राशब्दवाच्यः||७||

Adhikarana deshalakShaNam (8) · Śloka 8

देशो द्रव्यस्योपयोक्तुश्चोत्पत्त्यवस्थाने| तत्र पुनरुपयोक्ता स्वस्थातुरत्वतः प्रकृतिभेदतश्च परीक्ष्यः||८||

🔊 Audio coming soon

देशो द्रव्यस्योपयुज्यमानस्योत्पत्तिस्थानमुत्पन्नस्य च स्थितिस्थानमेवमुपयोक्तुश्च पुरुषस्य| तेन कस्मिन् किङ्गुणयुक्ते देशे पुरुषो द्रव्यं वा जातं, कस्मिन् वा स्थितमिति विकल्पयेदित्यर्थः| तत्र च देशे तस्य द्रव्यस्योपयोक्ता स्वस्थो वा स्यादातुरो वा किम्प्रकृतिश्चेति परीक्ष्यः| एतावता हि नानाविधविशेषावगतिर्भवति||८||

Adhikarana kAlalakShaNam (9) · Śloka 9

कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च||९||

🔊 Audio coming soon

कालस्तु द्वैविध्येनान्नपानोपयोगयोग्यतां याति| ऋतुव्याध्यपेक्षत्वेन जीर्णाजीर्णलक्षणत्वेन च| तत्र स्वस्थस्य ऋत्वपेक्षयास्मिन्नृतावेवमाहारपानमाम्नातमित्यातुरस्य तु व्याध्यपेक्षयास्मिन् व्याधावस्यामवस्थायामिदं योज्यमिति| यथा ज्वरे- `क्षीरोचितस्य' इत्यादि| अथवाऽऽतुरस्यापि ऋत्वपेक्षा विद्यत एव| तथाहि- शरदि श्लेष्मजेऽपि व्याधौ तद्विपरीतान्यपि अत्यर्थतीक्ष्णोष्णानि दातुं न पार्यन्ते| उभयस्य स्वस्थस्यातुरस्य च जीर्णाजीर्णलक्षणः||९||

Adhikarana ajIrNe bhojanasya sarvadoShaprakopakatvam (10) · Śloka 10

अजीर्णेऽपि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसंसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु||१०||

🔊 Audio coming soon

एतदुच्यते-अजीर्णस्य तु द्वैविध्यमन्नत्वेनाहारसारत्वेन च| अन्ने त्वजीर्णे भोजनेच्छाऽपि न भवति| आहारसारे त्वजीर्ण उत्तरेणाद्यतनेन रसेन मिश्रीभूते वातादीनामुपलेपेन मार्गरोधादिना प्रकोपः शीघ्रमेव||१०||

Adhikarana jIrNe bhojanasya guNAH bhojanasya kAlashca (11) · Śloka 11

जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्यादुत्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरेऽग्नावुदीर्णे जातायां बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति| केवलमयमेव कालो भोजनस्य||११||

🔊 Audio coming soon

जीर्णे तु स्वस्थानस्थदोषादिलक्षणे भुक्तमन्नं दोषादिकमकोपयदायुर्बलादीन् वर्धयति| सुबोधम्||११||

Adhikarana atItakAlabhojanasya doShAH (12) · Śloka 12

अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्राद्विपच्यते कर्शयत्यन्नरुचिं च पुनरुपहन्ति||१२||

🔊 Audio coming soon

अतीतकालमस्मिन् जीर्णाजीर्णलक्षणकालेऽतिक्रान्ते|

Adhikarana AhAropayoge niyamAH (13) · Śloka 13

उपयोगव्यवस्था तु नास्नातो, न दिग्वासा, नैकवस्त्रधृक्, न मलिनवसनो, नाहुत्वा, नाजपित्वा, नानिरूप्य देवताभ्यो न पितृभ्यो, नादत्वाऽग्रमन्नमग्नये, न गुरुभ्यो नातिथये, नाभ्यागतेभ्यो, न श्वयवःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितोपाश्रितानपि तिरश्चोऽपि, स्वपरिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः, स्रग्वी विभूषितः, सुगन्धिरार्द्रपाणिपादः सुविशुद्धवदनोऽभिमतसहायः केशमक्षिकाद्यनुपजुष्टमनिन्द्यमनिन्दन्ननिन्दितमपुनरूष्णीकृतं, नाऽत्युष्णमनुपदग्धं, सुसिद्धमलोलो, नासात्म्यं नाविदितं, नाविदितागमं, नातिसायं, नातिप्रगे, नाकाशे, नातपे, नान्धकारे, नाधो वृक्षस्य, न शय्यास्थो, नोन्नम्य प्रदेशिनीं, न पात्रे भिन्ने, नासंवृते, न मलिने भावदूषिते वा, न चासनस्थिते, न हस्तस्थे, न हस्ते, प्राङ्मुखः, सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्नीयात्||१३||

🔊 Audio coming soon

नास्नात इत्यादिना आहारस्योपयोगे नियम उच्यते| दिग्वासा अगृहीतवसनः| न चैकपटः| नाहुत्वा तिलघृतादिभिर्मन्त्रपूर्वमग्निम्| न जपमकृत्वा| न देवताभ्योऽनिरूप्यासङ्कल्प्य तदाहारं न चाग्रं प्रथममनुच्छिष्टसकलभोजनेभ्यः स्तोकं स्तोकमग्नये अदत्वा| अतिथिरागन्तुर्भोजनार्थी| अभ्यागतास्तद्वेश्म केनचित्प्रसङ्गेनागता बान्धवाद्याः| वयांसि पक्षिणः प्रत्यवेक्ष्य भोजनादिना| आश्रितान् तदुपासकान् भृत्यबान्धवादीनुपाश्रितानाश्रिताश्रितान्| तिरश्चो गवाश्वादयः| परिगृहीताः स्वत्वमापादिताः| तथा प्रशस्तैरदुष्टैर्देशादिभिर्युक्तः अनिन्द्यः| भोजनमगर्हितं स्वभावेन| तथा चानिन्द्यमपि स्वयमनिन्दन्नाहारे गर्हामकुर्वन्नन्यैश्चानिन्दितम्| उपदग्धमित्यग्निसंयोगात् असात्म्यं वक्ष्यमाणलक्षणमविदितं गुणागुणैरविज्ञातस्वरूपमविदितागममज्ञातागमं नातिसायं नातिप्रग इति चेत्याचार्यस्य दिनारम्भे दिनक्षये च भोजनप्रतिषेधोऽभीष्टः| पूर्वाह्णाभिधायी तु प्रगेशब्दः कथं प्रयुक्त इति न जाने| अथवातिक्रान्तप्रग इति मध्याह्ने भोजनप्रतिषेधः| आकाशं निरावरणो देशः| उन्नमय्य उत्क्षिप्य प्रदेशिनीं अङ्गुष्ठतो द्वितीयाङ्गुलिः प्रदेशिनी| भावदूषितमदुष्टमपि दुष्टतया भावितम्| भोक्तुर्न हस्तस्थे पात्रे गृहीतमाहारमश्नीयात्| केवलं हस्ते गृहीत्वा च नाश्नीयात्| शुच्यादिगुणयुक्तेन परिजनोपहितं ढौकितम्| हितं वक्ष्यमाणलक्षणमश्नीयात्||१३||

Adhikarana paryuShitAnnaniShedhaH apavAdashca (14) · Śloka 14

न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः||१४||

🔊 Audio coming soon

मांसादींश्च वर्जयित्वाऽन्यमाहारं पर्युषितं गताहोरात्रं नाश्नीयात्| उपदंशं यदनग्निसिद्धिमपि फलादि दन्तोनोपदश्यान्नेन सह भुज्यते||१४||

Adhikarana nishsheShabhojananiShedhaH apavAdashca (15) · Śloka 15

नाशेषमन्यत्र दधि-मधु-सलिल-सक्तु-शुक्त-पायसेभ्यः||१५||

🔊 Audio coming soon

दध्यादीनि च निःशोषाण्यभ्यवहरेत् अन्यत् सशेषमिति|

Adhikarana snigdhatvAdiguNayuktAhArasyaiva BojananirdeshaH Bojanakramashca (16) · Śloka 16

अपि च स्निग्धं लघूष्णमविलम्बितमनतिद्रुतमजल्पन्नहसंस्तन्मनाः समीक्ष्य सम्यगात्मानम्||१६||

🔊 Audio coming soon

तथा स्निग्धत्वादिगुणयुक्तं चाहारमभ्यवहरेत् तन्मनाः अभ्यवह्नियमाणे दत्तचित्तः| आत्मानं च सम्यक् समीक्ष्य विकल्प्य|

Adhikarana snigdhalaghUShNAhAraguNAH (17) · Śloka 17

स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्ठं परिशोधयन्ति धातून्न विकुर्वते क्षिप्रज्जरयन्त्यनिलमनुलोमयन्ति||१७||

🔊 Audio coming soon

स्निग्धादीनि त्रीणि धातून् रसादीन् निर्मलीकरणेनोपबृंहकत्वेन च न विकुर्वते||१७||

Adhikarana snigdhAhAraguNAH (18) · Śloka 18

तथा स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं, बलमभिवर्द्धयति, वर्णप्रसादमभिनिर्वर्त्तयति||१८||

🔊 Audio coming soon

अन्यत् सुबोधम्||१८||

Adhikarana laghvAhAraguNAH (19) · Śloka 19

लघु च पुनः स्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानं परिणाममेति| विपन्नमपि चाल्पदोषं भवति||१९||

🔊 Audio coming soon

आदिग्रहणेन असंयोगसंस्कारादिलघुत्वग्रहणम्| विपन्नमपि अपथ्यतां प्राप्तमपि स्वल्पदोषं भवति||१९||

Adhikarana uShNAhAraguNAH (1) · Śloka 1

उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम्|१|

🔊 Audio coming soon

Adhikarana vilambitAhAragrahaNe doShAH (1) · Śloka 1

विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति||१||

🔊 Audio coming soon

Adhikarana atidrutAhAragrahaNe doShAH (20) · Śloka 20

अतिद्रुतन्तु भुञ्जानस्य जल्पतो हसतोऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषविभावनञ्च||२०||

🔊 Audio coming soon

उत्स्नेहनमन्नस्यान्यनाडीगमनम्| भोजनस्य कोष्ठप्राप्तिपाकयोरवसादः| अन्यमनस्कत्वाच्च भोजनगुणदोषान् विचारयितुं न श्क्यते||२०||

Adhikarana bhojanasamaye AtmasamIkShA (21) · Śloka 21

समीक्ष्य सम्यगात्मानमिति, ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः प्रत्यवेक्षेत्||२१||

🔊 Audio coming soon

समीक्ष्य सम्यगात्मानमिति पूर्वोक्तं व्याकरोति| आत्मानं परीक्ष्य इदं वा तदात्वे प्रस्तुतं सात्म्यमिदमसात्म्यमिति||२१||

Adhikarana sAtmyAsAtmyalakShaNam (22) · Śloka 22

तत्र सात्म्यं नाम सहात्मना भवत्यभ्यस्तं तदौचित्यादुपशेत इत्येके| सात्म्यविपरीतमपशयादसात्म्यम्||२२||

🔊 Audio coming soon

सात्म्यं यज्जन्मनः प्रभृति सहात्मनाऽभ्यस्तं तच्च शरीरे औचित्यादभ्यस्तत्वादुपशेते सुखावहं भवति एतदेव च लोके सात्म्यशब्देनोच्यते| यज्जन्मनः प्रभृत्यभ्यस्तं सुखावहं च| स्वल्पकालाभ्यस्तं सात्म्यमेव| एतद्विपरीतमसात्म्यम्||२२||

Adhikarana matAntareNa sAtmyAsAtmyalakShaNam (23) · Śloka 23

अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति| ते ह्यपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते| तुल्यगुणं चानुपशयादसात्म्यम्||२३||

🔊 Audio coming soon

अन्ये त्वाचार्याः प्रकृत्यादिभेदेन सुखकर्तृत्वमात्रहेतुं बहुविधं सात्म्यमिच्छन्ति| ते च जन्मनः प्रभृत्यभ्यस्तमनपेक्ष्य प्रकृतिदेशादिविशेषमाश्रित्य शरीरसंवर्द्धकद्रव्यगुणेभ्यो विपरीतगुणमपि सम्प्रति सुखहेतुत्वात् सात्म्यमाचक्षते| तेषाञ्च सदृशगुणमपि शरीरेणाहारजातं सम्प्रत्यसुखावहत्वादसात्म्यम्||२३||

Adhikarana sAtmyasya traividhyam (24) · Śloka 24

सात्म्यन्तु प्रवरावरमध्यविभागेन त्रिविधम्| तत्र सर्वरसं प्रवरमेकरसमवरं, मध्यन्तु मध्यमेव||२४||

🔊 Audio coming soon

सर्वं च सात्म्यं त्रिप्रकारं त इच्छन्ति| सुबोधम्|| २४||

Adhikarana sAtmyAnAmupayogavyavasthA (25) · Śloka 25

तेषु प्रवरं समदोषस्योपदिशन्तीति| इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन (पादांशेन) वा विवर्जयेदित्युक्तं प्राक्||२५||

🔊 Audio coming soon

तेषु च मध्ये प्रवरं सर्वरसं समदोषप्रकृतेः सुखावहत्वेनोपदिशन्ति| इतरेषां च विषमदोषप्रकृतीनामपि क्रमादभ्यासेन सर्वरसस्य शरीरगुणैः सादृश्यात्| तेन बलादुक्तं भवति मध्यमवरं च विषमदोष- प्रकृतीनामवरमेवेति| तच्च यथायथमुपशयात्||२५||

Adhikarana hitahitAhAralakShaNantayoH shIlanaparihAropadeshashca (26) · Śloka 26

तत्र यदाहारजातं समधातूननुवर्तयति विषमांश्च समीकरोति तत्समासतो हितम्| विपरीतमहितम्| तत् पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च||२६||

🔊 Audio coming soon

पूर्व (अ०सं०सू०-९) च सात्म्यमहितं क्रमेण त्यजेदित्युक्तमतस्तत्रेत्यादिना हिताहितलक्षणमुच्यते| तच्च हिताहितं मात्रासंयोगादीनां वैचित्र्यादनियतस्वरूपमपि यथोपदेशं शास्त्रोपदेशतन्त्रतया यथाभूयिष्ठं बहुत्वानतिक्रमेण यद्बाहुल्येन सम्भवति तद्यथासङ्ख्येन शीलयेत् परिहरेच्च| हितं शीलयेदभ्यसेदहितं च परिहरेदित्यर्थः||२६||

Adhikarana samashanAdiparihAravidhisteShAM lakShaNa~jca (27) · Śloka 27

तथा विशेषतः समशनमध्यशनममात्राशनं विषमाशनं च वर्जयेत्| तत्र पथ्यापथ्यमेकत्र भुक्तं समशनम्| भुक्तस्योपरिभुक्तमध्यशनम्| अमात्राशनं पुनः पृथगेवोपदेक्ष्यते| अप्राप्तातीतकालन्तु भुक्तं विषमाशनमिति||२७||

🔊 Audio coming soon

समशनादींस्तु विशेषतः परिहरेदिति सम्बन्धः| पथ्यमपथ्यं च मिश्रीभूतं समशनम्| यथोचितं भुक्त्वा किञ्चित्कालमतिक्रम्य यत् पुनर्भुज्यते तदध्यशनम्| अमात्राशनमग्रतो वक्ष्यते| यथोचितभोजनकालेऽप्राप्तेऽतिक्रान्ते वा भुज्यते तद्विषमाशनम्||२७||

Adhikarana bhojanasyopakalpanAprakAraH (28) · Śloka 28

भुञ्जानस्तु पेयायूषरसान् व्यञ्जनानि राजतेषु पात्रेषु निदध्यात्| परिशुष्कप्रदिग्धानत्युष्णञ्च पयः सौवर्णेषु| खलखट्वरकाम्बलिकान् कांस्येषु| रागषाडवसट्टकान् वज्रवैडूर्यविचित्रेषु| घृतमायसे| पयः सुशीतं ताम्रमये| पानीयं पानिकानि च मृद्धेमस्फटिककाचमयेषु| ओदनं च विस्तीर्णे मनोरमे स्थाने| अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात्||२८||

🔊 Audio coming soon

अन्यत्सुबोधम्| कट्वरो नाम कट्वम्लोपदेहव्यञ्जनविशेषः| सट्टकनामा रागषाडवसदृशो देशान्तरे प्रसिद्धः|| २८||

Adhikarana bhojanapAtre bhakShyAdInAM sthAnam (1) · Śloka 1

अपि च - दक्षिणपार्श्वे भक्ष्यं स्थापयेत्| सव्ये पेयं लेह्यं मुखोद्घर्षणपिण्डीं च| मध्ये भोज्यमिति||१||

🔊 Audio coming soon

Adhikarana avasthAvashAdbhojane pUrvaM dravAdInAmupayogaH (29) · Śloka 29

यथाग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाश्नीयात्| प्रागेव तु गुरुस्वादुस्निग्धं च||२९||

🔊 Audio coming soon

अग्निबलापेक्षया सात्म्यापेक्षया च द्रवं शुष्कं वा प्रथममद्यात्| गुर्वादिगुणयुक्तमाहारं पूर्वमेवाद्यात्|| २९||

Adhikarana bhojanasya madhyAntayorupayojyarasAdi (30) · Śloka 30

मध्येऽम्ललवणमन्ते रूक्षं द्रवमितररसयुक्तञ्च|३०|

🔊 Audio coming soon

Adhikarana mandAgnestvAdau dravoShNAhAraH (30) · Śloka 30

तत्र मन्दाग्नेर्द्रवोष्णेन समुत्तेजितोष्मणोऽन्यदुपयुक्तं सम्यक् पाकमेति||३०||

🔊 Audio coming soon

मन्दाग्निस्तु द्रवोष्णमेवादौ भुञ्जीत|| ३०||

Adhikarana anupAne salilasya shreShThatA (31) · Śloka 31

अनुपाने तु सलिलमेव श्रेष्ठं सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च||३१||

🔊 Audio coming soon

अनुपाने भुक्तस्योपरि पाने जलमेव श्रेष्ठं सर्वरसजनकशक्तेः सर्वगुणत्वाद्भोजनरसाविरोधाच्छरीरवृद्धिकरम्|| ३१||

Adhikarana dravyAdivisheSheNAnupAnavisheShavarNanam (32) · Śloka 32

तच्छीतं दधिमधुयवगोधूममद्यविशेषेषु सर्वेषु च विदाहिषु शरद्ग्रीष्मयोश्च| उष्णं पिष्टमयेष्वन्येषु च दुर्जरेषु हेमन्ते च| द्रवद्रव्यविज्ञानीयं चेक्षेत| क्षीरं शालिषष्टिकयोःतथैवोपसाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु| मांसरसः शोषादिषु| वाते त्वम्लानि च| पित्ते शर्करोदकम्| त्रिफलोदकन्तु सक्षौद्रं श्लेष्मणि प्रायश्चाक्षिगलरोगेषु| मस्त्वेव वा दध्नि कूचिकाकीलाटयोश्च| धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु| मद्यं मांसेषु| फलाम्लमम्बु वाऽऽसवांश्च विविधान् विभज्य प्रयोजयेत्| विशेषतस्तु मध्वासवान् ग्राम्येषु, तीक्ष्णान् त्रिफलासवान् वन्येषु| न्यग्रोधादिफलासवान् विष्किरेषु| अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु, दिग्धहतेषु च| अम्लफलासवान् प्रसहेषु| काशेक्षुपद्मबीजशृङ्गाटककशेरुकमृद्वीकाखदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्विद्वा महामृगेष्वौदकेषु च| सुरां प्रतुदेषु तथा श्रमार्तेषु कृशेषु च| मधूदकं स्थूलेषु| मद्यं मद्यमांससात्म्येष्वल्पाग्निषु||३२||

🔊 Audio coming soon

द्रवद्रव्यविज्ञानीयं चेक्षेत इत्येतावतैतदुक्तं भवति| शीतस्योष्णस्य च पानीयस्य तत्रोक्तेः स्वविषयेऽनुपानप्रयोगः| क्षीरं शालिषष्टिकयोरुपवासक्लान्तादिषु च| मांसरसः शोषादिषु अतिलङ्घनोक्तेषु रोगेषु| वाते तु वृद्धे अनुपानमम्लानि काञ्जिकादीनि चकारान्मांसरसोऽपि| पित्ते शर्करोदकम्| श्लेष्मणि माक्षिकसंयुक्तं त्रिफलाक्वथितं जलम्| अक्षिरोगेषु सर्वेषु गलरोगेषु च प्रायशः सर्वेषु समाक्षिकं त्रिफलोदकम्| दध्नि शीतोदकमनुपानं पूर्वमुक्तम्| सम्प्रत्युच्यते- मस्त्वेव वेति| दध्न उभयानुपानसमुच्चयप्रतिषेधार्थमेवकारकरणम्| तेन शीतोदकं वा मस्तु वा दध्यनुपानमित्यर्थः कूचिकाकीलाटयोश्च मस्त्वेव| अवरान्नं विदलसस्यान्नम्| अर्काद्यासवान् बिलेशयेषु| सामान्येनान्येषु च विषदिग्धशस्त्रहतेषु च मधूदकं स्थूलेष्वेव|| ३२||

Adhikarana anupAnalakShaNam (33) · Śloka 33

अपि च - समासेनान्नविपरीतमविरोधि च||३३||

🔊 Audio coming soon

समासतः सङ्क्षेपत उच्यते| भुक्तस्यान्नस्य गुणैर्विपरीतं यद् द्रवं तदनुपानाय योज्यम्| तच्च यदि विरुद्धान्नविज्ञानीयोक्तेन प्रकारेण न विरुद्ध्यते| तत्र परस्परं सदृशानामसदृशानां वा गुणानामुभयत्रापि बलवतां सतां विरोध उक्तः|| ३३||

Adhikarana anupAnaguNAH (34) · Śloka 34

अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिनिर्वर्तयति भुक्तमवसादयत्यन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयति||३४||

🔊 Audio coming soon

तर्पणत्वादयोऽनुपानगुणाः|| ३४||

Adhikarana anupAnavarjyAH (35) · Śloka 35

वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च| तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्||३५||

🔊 Audio coming soon

जत्रुण ऊर्ध्वमक्षकसन्धेरुपरि यस्य रोगस्तेन श्वासादिमद्भिश्च सर्वमनुपानं न सेव्यम्| अन्ये मन्यन्ते यदेतदनुपानं प्रतिषिद्धं तज्जलमेव| कासादीनां क्षीराद्यनुपानविधानात्| वयं तु मन्यामहे सामान्येनात्र सर्वप्रतिषेधः| कासादीनां विशिष्टानां क्षीरादीनामपवादत्वं भवति| तेषां ह्यूर्ध्वजत्रुगदादीनां तदनुपानं यथोक्तेन प्रकारेणाभिष्यन्दादीन् विदध्यात्| आदिग्रहणेन एवं हेतुकानामन्येषां ग्रहणम्|

Adhikarana pAnAnantaraM niShiddhAni varjanIyAni ca (36) · Śloka 36

पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत्| पानं च प्रक्लिन्न देहमेहकण्ठाक्षिरोगव्रणिन इति||३६||

🔊 Audio coming soon

बहु च पानं पीत्वा भाष्यादीन्न शीलयेत्| प्रक्लिन्नदेहादिना सता पानं नैव सेव्यम्|| ३६||

Adhikarana bhojanAnantaravidhiH dravottarabhojanasya visheShashca (37) · Śloka 37

ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थञ्च शनैः शनैः शोधनेन विशोध्य लेपगन्धस्नेहापनोदमाचान्तोऽङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूला-दिकृतवदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्| द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत||३७||

🔊 Audio coming soon

पाणिगतं हस्तलग्नमन्नं परिशुष्केणान्येनापनीय दन्तान्तरस्थं च शस्त्रविधौ (अ०सं०सू०-३४) वक्ष्यमाणदन्तशोधनेनापनीयाचामेत्| ऊर्ध्वकफवेगोऽन्नपीडया श्लेष्मणः शिरःप्राप्तिः| बहुद्रव आहारो येन भुक्तस्तेन तत्कालं शय्या नाश्रयणीया| अथवा द्रवमुत्तरभोजनमन्तभोजनं यस्येति विग्रहः|| ३७||

Adhikarana bhuktavataH niShiddhAni (38) · Śloka 38

यानप्लवनवाहनाग्न्यातपांश्च भुक्तवान् वर्जयेत्| आहारपरिणामकरा भावाः तेषां कार्याणि च आहारपरिणामकराः पुनरिमे भावाः| तद्यथा ऊष्मा, वायुः, स्नेहः, क्लेदः, कालः समयोगश्च तत्रोष्मा पचति, वायुरपकर्षति, स्नेहो मार्दवं जनयति, क्लेदशैथिल्यमापादयति, कालः सर्ववपुर्व्याप्तिमभिनिर्वर्तयति| समयोगस्त्वेषामन्नपरिणामधातुसाम्यकरः सम्पद्यते||३८||

🔊 Audio coming soon

ऊष्मादय आहारपरिणामकराः- ऊष्माग्निः पचति| वायुः स्थानात् स्थानमन्नस्य पाकायापकर्षति| क्लेदोऽन्नसङ्घातं श्लथयति| स्नेहोऽन्नस्य काठिन्यं नाशयति| कालः परिणाममन्नस्य वपुर्व्याप्तिमभिनिर्वर्तयति| तेषाञ्च क्लेदादीनां समयोगः अहीनातिमात्रत्वमन्नपरिणामोद्भवानां दोषधातुमलानां समत्वकरः सम्पद्यते|| ३८||

Adhikarana samayogasya kAraNAni (39) · Śloka 39

समयोगस्य तु पुनः काराणान्युचितो हितश्च देहसंस्कारोऽभ्यवहारचेष्टा शयनं सौमनस्यञ्च||३९||

🔊 Audio coming soon

कथमेतेषां क्लेदादीनां समयोगो भवतीत्युच्यते- उचितोऽभ्यस्तः हितश्च पथ्यश्चाहारादिकृतो देहसंस्कारः एवमभ्यवहारादयोऽपि सुमनस्त्वञ्च|| ३९||

Adhikarana pariNamata AhAraguNAH (40) · Śloka 40

परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः||४०||

🔊 Audio coming soon

एषां क्लेदादीनां समयोगेनान्नस्य परिणामात् किं भवतीत्याह- परिणमतः परिणतिं क्रमेण गच्छतो गुणा गुरुत्वद्रवत्वादयः शरीरस्थैः गुरुत्वद्रवत्वादिभिरेकत्वमापद्यन्ते| अथवा गुणशब्दो भागपर्याय एव गृह्यते त्रिगुणा रज्जुरित्यत्र यथा| जगतः पञ्चभूतात्मकत्वाच्छरीरस्यापि पञ्चभूतात्मकत्वात् वृद्धिः समानैः सर्वेषां इत्यनेन (अ०सं०सू०-१) न्यायेन परिणताहारगुणैः सदृशेषु शरीरगुणेषु वृद्धिरिति यथास्वशब्दस्यार्थः|| ४०||

Adhikarana viruddhAhAradoShaH (41) · Śloka 41

विरुद्धास्तु विहताश्च विरोधिभिर्विहन्युः शरीरमिति||४१||

🔊 Audio coming soon

शरीरगुणैरविरुद्धास्त्वाहारगुणाः स्वभावप्रकृत्याद्यपेक्षया विरुद्धाहारगुणैश्च विहिताहारगुणाः शरीरं विहन्युरिति||४१||

Adhikarana bhuktavatA abhyojyAnyatyarthAkAMkShAyAM mAtrayA bhojyAni ca (42) · Śloka 42

भवन्ति चात्र- औकुलाभ्योषपृथुकान् सुपिष्टकृततण्डुलान्| न जातु भुक्तवानद्यान्मात्रयाद्यात्सुकांक्षितः||४२||

🔊 Audio coming soon

औकुलं काण्डस्थान्यपक्वानि भृष्टानि सस्यानि, अभ्योषस्तद्विधा एव यवाः| पृथुकाः कृतान्नवर्गोक्ताः (अ०सं०सू०-७), एतान् शालिपिष्टकृतांश्च तण्डुलांश्च भुक्तवान्नाद्यात्| अत्यर्थाकांक्षायां तु मात्रयाद्यात् अतिस्तोक- मद्यादित्यर्थः||४२||

Adhikarana tyAjyaM bhojanam (43) · Śloka 43

शाकावरान्नकट्वम्लकषायलवणोत्कटम्| त्यजेदेकरसासात्म्यं गुरु शुष्कं च भोजनम्||४३||

🔊 Audio coming soon

शाकभूयिष्ठमेकरसादिकं च भोजनं त्यजेत्||४३||

Adhikarana sAtatyenAshIlanIyAni (44) · Śloka 44

वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम्| अत्यभिष्यन्दि विष्टम्भि विदाहि गुरु रूक्षणम्| किलाटदधिकूचीकामत्स्यशुष्काममूलकम्| क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत्||४४||

🔊 Audio coming soon

तथा निदानस्थानादौ रोगहेतुवक्तव्यप्रसङ्गे सर्वेषां रोगाणां यत्कारणत्वेनोक्तं तत्र शीलयेत्| यत्क्वचित्कारणत्वेनोक्तं तत्सातत्येन नाभ्यसेदित्यर्थः| अत्यभिष्यन्दित्वादिगुणयुक्तञ्च न शीलयेत्||४४||

Adhikarana nityaM shIlanIyAni (45) · Śloka 45

शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्| सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्| पथ्यामलकमृद्वीकापतोलीमुद्गशर्कराः| घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्| त्रिफलां मधुसर्पिभ्यां निशि नेत्रबलाय च| स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरञ्च यत्||४५||

🔊 Audio coming soon

शालिगोधूमादींस्तु शीलयेदभ्यसेत्| नेत्रबलेच्छुश्च माक्षिकघृताभ्यां मिश्रां त्रिफलां शीलयेत्|तथेदमपि शीलयेत् यदाहारविहारं स्वस्थस्य स्वास्थ्यमनुवर्त्तयत्यातुरस्य च व्याध्युपशमं करोतीति||४५||

Adhikarana svabhAvAdiviparItAni varjyAni (46) · Śloka 46

स्वभावमात्रायोगादिपरस्परविपर्ययैः| भोजनानि विरुद्ध्यन्ते तानि विद्वान् विवर्जयेत्||४६||

🔊 Audio coming soon

प्रसङ्गेनोच्यते-स्वभावमात्रेत्यादि| सुबोधम्||४६||

Adhikarana dhAtusAmyAnuvRuttau dhAtuvaiShamyAnuvRuttau ca hetuH (47) · Śloka 47

त्यगाद्विषमहेतूनां समानां चोपसेवनात्| विषमा नानुबध्नन्ति जायन्ते धातवः समाः||४७||

🔊 Audio coming soon

विषमाणां दोषधातुवैषम्यहेतूनां असमयोगस्थितानामाहारदेशादीनां त्यागाद्विषमा धातवः शरीरं नानुबध्नन्ति| समानाञ्च यथोचितहितानां संसेवनाद्धातवः समा जायन्ते| तेनैतदुक्तं भवति- स्वकारणसामग्री- विरहात् स्वयं नाशः, तथा कारणसामग्रीसन्निधानेऽवश्यं जन्मेति||४७||

Adhikarana kukShAvannapAnapUraNakramaH apavAdashca (48) · Śloka 48

अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्| आश्रयं पवनादीनां चतुर्थमवशेषयेत्| मन्दानलबलारोग्यनृपेश्वरसुखात्मसु| योज्यः क्रमोऽयं सततं नावश्यमितरेषु च||४८||

🔊 Audio coming soon

अन्नेन कुक्षेर्द्वौ भागौ पूरयेत्| तृतीयं भागं पानेन पूरयेत्| दोषाणामाश्रयं सञ्चरणस्थानं चतुर्थं भागमवशेषयेत्| अन्यथा अन्नपानपूरिते सर्वकुक्षौ दोषा निराश्रयास्तमेवान्नपानमुत्पीड्य विषूचिकादीन् रोगान् कुर्युः| एषाञ्च कल्पना अर्धभागत्रयतृप्त्यादिनानुमीयते (अ०सं०सू०-११) न च कुक्षेर्भागो विज्ञायते| अयञ्चानन्तरोक्तान्नपानक्रमो मन्दानलादीनां पुरुषाणां योज्यः| इतरेषामुक्तेभ्योऽन्येषामवश्यं न योज्यः| दरिद्रात्यग्न्यातुरदुःखात्मनां हि यथायथमग्निबलोपकरणादिसम्भवापेक्षया बुद्ध्या ऊह्यम्||४८||

Adhikarana rUkShasnigdhAhAraguNAH (49) · Śloka 49

करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम्| स्निग्धन्त्वतिश्लेष्मचयप्रसेकहृद्गौरवालस्यरुचिप्रणाशान्||४९||

🔊 Audio coming soon

रूक्ष आहारो बलनाशादिकं करोति| अतिस्निग्धः श्लेष्मसञ्चयादीन् करोति| प्रसेको मुखाच्छ्लेष्मस्रुतिः||४९||

Adhikarana atyuShNAtishItAhAraguNAH (50) · Śloka 50

अत्युष्णमन्नम्मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम्| शीतन्तु सादारुचिवह्निसादहृल्लासविष्टम्भनरोमहर्षान्||५०||

🔊 Audio coming soon

अत्युष्णो मदादीन् करोति| अतिशीतमग्निसादादीन् करोति| हृदयस्योत्क्लेशेन युक्तः प्रसेक एव हृल्लासशब्दवाच्यः||५०||

Adhikarana atikaThinAtidravAhAraguNAH (51) · Śloka 51

अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिमशीघ्रपक्तिम्| अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलञ्च हन्ति||५१||

🔊 Audio coming soon

अतिस्थिरोऽतिकठिनो मूत्रशकृद्विबन्धादीन् करोति| अव्याप्तिरेकस्मिन्भागे जठरस्य स्थितिः| अतिद्रवः पीनसादीन् करोति| स्यन्दो नामाक्षिरोगः(अ०सं०सू०-१८)||५१||

Adhikarana atimadhurAsAtmyAtilavaNatIkShNAtyamlAhAraguNAH (52) · Śloka 52

अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः| अतिलवणमचक्षुष्यं तीक्ष्णात्यम्लं जरा साक्षात्||५२||

🔊 Audio coming soon

अतिमधुरश्चाहारोऽग्निनाशनः| असात्म्यं च भुक्तं देहपुष्टिं न करोति| अतिलवणं चक्षुषोऽपथ्यम्| अतितीक्ष्णमत्यम्लं च जरा साक्षादतिशयेन जराकारणत्वात्|| ५२||

Adhikarana annapAnavidhyadhyAyopasaMhAraH (10) · Śloka 10

इति विविधमवलम्ब्य योऽन्नपानं बलमिव विग्रहवत्सदोपयुङ्क्ते| तनुमपि तनुजां रुजां त्वनाप्य व्रजति नरः स समाशतस्य पारम्||५३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थानेऽन्नपानविधिर्नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

इत्यनेन प्रकारेण विधिं क्रमं मात्राभ्यासादिकमवलम्ब्य गृहीत्वा यो नरोऽन्नपानं भुङ्क्ते| किम्भूतम्? विग्रहवत्सशरीरमिव बलं, तद्धेतुकत्वात्| स नरस्तनुमपि स्वल्पामपि तनुजां देहजां रुजां पीडामनाप्यालब्ध्वा समाशतस्य संवत्सरशतस्य पारमन्तं व्रजति| अनाप्येत्यत्राङ्प्रयुक्तस्तेन साध्विति|| ५३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने दशमोऽध्यायः||१०||