Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. viruddhānnavijñānīyaḥ

Adhikarana atha viruddhAnnavij~jAnIyo nAma navamo~adhyAyaH pratij~jA (1) · Śloka 1

अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

आहारस्य प्रसक्तत्वाद्विरुद्धस्य च तस्य गरसदृशत्वात्तत्प्रसङ्ग एवेदमुच्यते- अथात इति|| १||

Adhikarana grAmyamAMsAnAM madhuguDAdibhiH saha bhakShaNe niShedhaH (2) · Śloka 2

ग्राम्यानूपौदकपिशितानि, मधुगुडतिलपयोमाषमूलकबिसैर्विरूढधान्यैश्च नैकध्यमद्यात्||२||

🔊 Audio coming soon

आनूपानां प्राणिनामौदकानां च जलजानां पिशितानि मांसानि माक्षिकादिभिरैकध्यं सह नाद्यात्| औदकानामानूपत्वेऽपि विरोधप्राधान्यात्पृथग्ग्रहणम्| विरूढधान्यमङ्कुरितानि सस्यानि|| २||

Adhikarana payasA saha matsyabhakShaNe niShedhaH (3) · Śloka 3

विशेषतः पयसा मत्स्यान्| उभयं ह्येतन्मधुरसविपाकित्वादभिष्यन्दि, शीतोष्णवीर्यत्वात्परस्परं विरुद्धम्||३||

🔊 Audio coming soon

पयसा क्षीरेण सह विशेषान्मत्स्यान्नाद्यात्| एतदुभयमभिष्यन्दि वीर्यविरुद्धं च|| ३||

Adhikarana payasA saha visheSheNa cilicimasya bhakShaNe niShedhaH cilicimalakShaNa~jca (4) · Śloka 4

तेष्वपि विशेषेण चिलिचिमः| स पुनः शकली लोहितनयनः सर्वतो लोहितराजिर्लोहितप्रभाकरः प्रायो भूमौ चरति, सोऽत्यभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयत्यामविषं च||४||

🔊 Audio coming soon

तेष्वपि मत्स्येषु मध्ये विशेषेण चिलिचिमः पयसा सह विशेषेण नाद्यात्| स पुनश्चिलिचिमः शकल्याख्यो लोहितनेत्रः सर्वतः शरीरे लोहितराजिः शरीरे च लोहितशकलसदृशः प्रायश्च जलनिकटभूमौ चरति| सोऽत्यभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयति| अभिष्यन्दि मालिन्येन स्रोतसां स्रावकम्| आमविषं मात्राशितीये वक्ष्यते|| ४||

Adhikarana sarvamamladravyaM ka~ggvAdayashca payasA saha viruddhyante (5) · Śloka 5

सर्वञ्चाम्लं द्रवमद्रवं पयसैकध्यं विरुद्धम्| तत उत्तरं वा विरुद्धं फलञ्च कङ्गुवरकमकुष्ठकुलत्थमाषनिष्पावाश्च||५||

🔊 Audio coming soon

सर्वं चाम्लं मद्यधान्याम्लादि पयसा सह ततः पयसो वा उत्तरं विरुद्धम्| फलं चान्यरसमपि पयसा सह ततो वा उत्तरं विरुद्धम्| कङ्ग्वादयश्च पयसा सह ततो वा उत्तरं विरुद्धाः|| ५||

Adhikarana mUlakAdiharitakabhakShaNottaraM payaH na sevyam (6) · Śloka 6

न मूलकादिरहितं भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात्||६||

🔊 Audio coming soon

मूलककुठेरादि हरितकं भक्षयित्वा न पयः सेव्यं, कुष्ठाबाधभयात्|| ६||

Adhikarana kShIramadhubhyAM viruddhAni dravyANi (7) · Śloka 7

पौष्करं रौहिणीकं जातुकं वा शाकं सह मधुपयोभ्यां नाभ्यवहरेत्| ताभ्याञ्च सह कपोतान् सर्षपतैलभृष्टान्||७||

🔊 Audio coming soon

पौष्करादिशाकं क्षीरमाक्षिकाभ्यां मिश्राभ्यां सह नाभ्यवहरेत्| तथा सार्षपतैलेन भृष्टान् कपोतांस्ताभ्यां मधुक्षीराभ्यां सह नाभ्यवहरेत्|| ७||

Adhikarana sarShapatailabhRuShTAni matsyavarAhamAMsAni viruddhAni (8) · Śloka 8

तथा सर्षपतैलभृष्टानां मत्स्यबदराणां बदराणि श्वाविद्वराहमांसं चैकध्यं पित्तेनाममांसानि||८||

🔊 Audio coming soon

तथा सार्षपतैलभृष्टानां मत्स्यबदराणां सम्बन्धीनि मांसानि विरुद्धानि| बदराणि श्वाविन्मांसं वराहमांसेन सह विरुद्धम्|| ८||

Adhikarana saMyogaviruddhAni (9) · Śloka 9

दध्ना कुक्कुटं पृषतं च| कुसुम्भशाकेनौरभ्रम्| सौवीरकेण तिलशष्कुलीः| क्षीरेण लवणम्| मूलकेन माषसूपम्| नवनीतेन मूलशाकम्| उपोदकां मैरेयमार्द्वीकाभ्याम्| पीलूनि करीरैः| बिसैर्विरूढकानि| दध्ना माषसूपेन गुडेन मधुना घृतेन वा लकुच फलम्| दध्ना तक्रेण तालफलेन वा कदलीफलम्| पिप्पलीमरिचाभ्यां, मधुना गुडेन वा काकमाचीं||९||

🔊 Audio coming soon

अपक्वान्यपरिपूर्णपाकानि मांसानि पित्तेन सह भुक्तानि विरुद्धानि| दध्ना सह कुक्कुटो विरुद्धः पृषतश्च| कुसुम्भशाकेन औरभ्रं मांसं विरुद्धम्, उरभ्रो मेषः| तथा सौवीरेण काञ्जिकेन सह तिलशष्कुली विरुद्धा| क्षीरेण सह लवणं विरुद्धम्| दध्यादीनामन्यतमेन लकुच फलम्| पुनश्च दध्यादीनामन्यतमेन कदलीफलम्| पिप्पलीमरिचाभ्यां मिश्राभ्यां केवलेनैव वा मधुनाथवा गुडेन सह काकमाचीं विरोधात्त्यजेत्|| ९||

Adhikarana kAkamAcyA saMskArAdibhirvirodhaH (10) · Śloka 10

तामेव मत्स्यपचने शृङ्गिवेरपचने वा भाजने सिद्धामन्यत्र वा सिद्धां रात्रिमुषिताम्||१०||

🔊 Audio coming soon

तथा तामेव काकमाचीं शृङ्गिवेरपचने भाजने मत्स्यपचने वा सिद्धां पक्वां केवलामपि नाभ्यवहरेत्| अन्यस्मिन् वा यथारुचि भाजने सिद्धां निशामुषितां नाभ्यवहरेत्|| १०||

Adhikarana kAMsyabhAjane dasharAtrasthitaM sarpirna sevyam (11) · Śloka 11

कांस्यभाजने दशरात्रोषितं सर्पिः||११||

🔊 Audio coming soon

कांस्यभाजने दशरात्रस्थितं घृतं नाभ्यवहरेत्| यावद्दशरात्रं तावन्न विरोधः ततो विरोध इत्यर्थः|| ११||

Adhikarana saMyogasaMskArAdi viruddhAni (12) · Śloka 12

मद्यदधिमधुभल्लातकेषु चोष्णम्| तक्रसिद्धकासम्पिल्लको विरुद्धः| अङ्गारशूल्यो भासः| सुराकृसरापायसाश्चैकध्यं विरुद्धाः| मधुसर्पिर्वसातैलोदकानि समधृतानि द्विशस्त्रिशः समस्तानि वा| मधुघृते भिन्नांशे दिव्योदकानुपाने| मधुपुष्करबीजम्| पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं सर्वे विरुद्धम्; वातं चातिकोपयति| हारिद्रकः सर्षपतैलभृष्टो विरुद्धः| पित्तं चातिकोपयति| पायसो मन्थानुपानो विरुद्धः| श्लेष्माणं चातिकोपयति| उपोदका तिलकल्कसिद्धा हेतुरतीसारस्य| बलाका वारुण्या कुल्माषैश्च विरुद्धा| सैव वराहवसया परिभृष्टो सद्यो व्यापादयति| गोधालावतित्तिरिमयूरकपिञ्जलाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसम्मूर्च्छिताः| हारीतमांसं हरिद्रशूलकावसकं हारिद्राग्निप्लुष्टं च| तदेव भस्मपांसुपरिध्वस्तं सक्षौद्रं च| तथा मत्स्यनिस्तालितस्नेहसाधिताः पिप्पल्यः||१२||

🔊 Audio coming soon

मद्यादिषूपयुक्तेषु उष्णं सर्वं विरुद्धम्| तक्रेण पक्वः कम्पिल्लको विरुद्धः| अङ्गारेषु शूलेन संस्कृतो भासः पक्षी विरुद्धः| सुरादींश्च परस्परं सह नाभ्यवहरेत्| मध्वादीनां द्वौ द्वौ वा त्रीस्त्रीन्वा समघृतत्वेन समेन परस्परं प्रमाणेन नाभ्यवहरेत्| समस्तानि वा मध्वादीनि समप्रमाणानि नाभ्यवहरेत्| तथा विषधृते अपि मधुघृते दिव्योदकानुपाने विरुद्धे| माक्षिकं पद्मबीजं च सह विरुद्धम्| पद्मोत्तरिकाशादीनि च परस्परं विरुद्धानि, वातकोपनानि च| पद्मोत्तरिका कुसुम्भः, शार्करमैरेयौ मद्यविशेषौ| एकः शर्करया क्रियते| द्वितीयः खर्ज्जूरासवः| हारिद्रः सर्षपतैलभृष्टो विरुद्धः| हारिद्रो नाम भूप्रसवः कन्दरूपः| स चैवं पित्तकोपनः पयसा संस्कृत ओदनो मन्थानुपानो विरुद्धोऽनिलश्लेष्मकोपनश्च| उपोदकां तिलकल्केन सिद्धामतीसारहेतुत्वान्नाभ्यवहरेत्| बलाका वारुण्या सुरया सह विरुद्धा, कुल्माषो नातिस्विन्नानि सस्यानि| सैव च बलाका सूकरवसया समन्तात् बहुभृष्टा सद्य एव मारयति| गोधादयश्चैरण्डदार्वग्निसिद्धास्तथा तेनैवैरण्डतैलेन सह मूर्च्छिता बहुना भृष्टा इत्यर्थः| हारीतस्य पक्षिविशेषस्य मांसं हरिद्रादारुसीसकायां शूले आसक्तं हरिद्राग्निपक्वं च विरुद्धम्| तथा तदेव हारीतमांसं भस्मना पांसुभिश्च ध्वस्तं सत् समाक्षिकं विरुद्धम्| मत्स्यनिस्तालनेन स्नेहेन येन मत्स्या निस्तालितास्तेन सिद्धाः पिप्पल्यो विरुद्धाः|| १२||

Adhikarana shItoShNanavapurANAdIni sammilitAni na sevyAni (13) · Śloka 13

शीतोष्णं नवपुराणमामपक्वञ्च नैकमैकध्यमद्यात्||१३||

🔊 Audio coming soon

सामान्येन स्पर्शेन वा वीर्येण वा शीतमुष्णं च सह नाद्यात्| तथा नवं पुराणं च शालिद्रव्यादि सह नाद्यात्| आमं पक्वं चाहारद्रव्यं सह नाद्यात्| शीतमुष्णेनैव| नवं पुराणेनैवामं पक्वेर्नैव| इत्येकशब्दार्थः| हरितकफलादीनां तथाविधोपयोगादेव न विरोधः|| १३||

Adhikarana uShNAbhitaptasya sahasA salilAvagAhAdiniShedhaH (14) · Śloka 14

सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्योरुपपाताय| तृष्णाभिप्रवृद्धये च| तथैव च पयःपानं रक्तपित्ताय||१४||

🔊 Audio coming soon

उष्णेनाऽऽतपाग्न्यादिना तप्तस्य सहसा तत्कालमेव सलिलावगाहो जलमज्जनं त्वचो दृष्टेश्च नाशनं, तृष्णायाश्चातिवृद्धिं करोति तथैवोष्णाभितप्तस्य सहसा पयःपानं रक्तपित्ताय|| १४||

Adhikarana shrAntasya sahasA bhojane doShaH (15) · Śloka 15

शरीरेणायस्तस्य सहसाऽभ्यवहारः छर्दिषे गुल्माय वा| वाचा त्वायस्तस्य स्वरसादाय||१५||

🔊 Audio coming soon

शरीरेणायस्तस्य उत्पन्नश्रमस्य भोजनं छर्दिषे गुल्माय वा| वाचा तूत्पन्नश्रमस्य भोजनं स्वरसादाय भवति|| १५||

Adhikarana prakaraNopasaMhAraH (16) · Śloka 16

इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः| भेषजद्रव्याणान्तु यथोपदेशमेव प्रयोगे न्याय्यतरः| तद्विरोधः पुनरतिप्रसङ्गभयान्नोक्तः| न च तद्विज्ञानमेकान्तभद्रकम्||१६||

🔊 Audio coming soon

इत्यनेन प्रकारेणान्नपानद्रव्याणां विरोधैकदेशः कथितः| यो बाहुल्येनोपयुज्यते| अन्यत्स्वयमूह्यम्| भेषजद्रव्याणां गुडूच्यादीनां विद्यमानोऽपि विरोधोऽतिप्रसङ्गभयोन्नोक्तः| ननु चाज्ञातविरोधाविरोधानां कथं तेषां प्रयोग इत्याह- यथोपदेशमेव तेषां प्रयोगो न्याय्यतरः| तेनैतदुक्तं भवति| भेषजद्रव्याणां यत्र स्वबुद्ध्या संयोगकल्पना क्रियते तत्र शास्त्रानुगमनेन प्रयोगो न्याय्यतर इति| न च तद्विज्ञानं भेषजद्रव्यविरोधविज्ञानमेकान्तभद्रकं न भद्रकमेवेत्यर्थः| यतस्तेषां विरोधे ज्ञाते संयोगकल्पनायां स्वल्पमतिर्भिषक् कदाचिन्मुह्यति यतोऽवश्यं केनचिदंशेन कश्चित् केनचिद्विरुध्यते अतः| एतच्च बुध्यमानो भिषक् शास्त्रान्वयिनमप्यूहं कर्तुं न शक्नोति| यत्र तु शास्त्रं बहु प्रविशति तथाविध ऊहः कार्य एव| तस्माद्यथोपदेशमेव प्रयोगो न्याय्यतरः| ऊहो यथाशक्ति शास्त्रानुगमनेन कार्यः|| १६||

Adhikarana viruddhadravyalakShaNam (17) · Śloka 17

अपि च- उत्क्लेश्य दोषान्न हरेत् द्रव्यं यत्तत्समासतः| विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितम्||१७||

🔊 Audio coming soon

अपि चेति समुच्चये| समासतः सङ्क्षेपतः विरुद्धं किमित्याह| दोषानुत्क्लेश्य स्वस्थानात्सञ्चलय्य यत् द्रव्यं नहरेत् तत्रैव नाशने बहिर्वा निर्हर्तुमशक्तं तद्विरुद्धम्| तद्धि द्रव्यं रसादीनां धातूनां प्रत्यनीकतया प्रतिपक्षत्वेन स्थितम्|| १७||

Adhikarana virodhaprakArAH (18) · Śloka 18

बलिनां मिथोगुणानां विषमतया समतयाऽप्युभयथापि| संस्कारादिवशेन च भवति निसर्गादपि विरोधः||१८||

🔊 Audio coming soon

तथा सर्वश्च विरोध एवमेवं भवति| कथमित्याह- संयोगिद्रव्यगुणानां बलिनामुभयत्रापि बलवतां मिथः परस्परं विषमत्वेनासादृशत्वेन विरोधः| तथान्यत्र बलिनां सदृशानामपि विरोधः| केनचिद् गुणेन बलिना सादृश्यात् केनचिदसादृश्याच्च संस्कारादिवशेन चान्योऽपि विरोधो भवति| आदिग्रहणेन संयोगदेशकालादीनां ग्रहणम्| अन्यश्च निसर्गात्स्वभावेनैव विरोधः|

Adhikarana virodhaprakArANAmudAharaNAni (19) · Śloka 19

क्षीरं कुलत्थैः पनसेन मत्स्यैः तप्तं दधिक्षौद्रघृते समांशे| वार्यूषरे रात्रिषु सक्तावश्च तोयान्तरास्ते यवकास्तथा च||१९||

🔊 Audio coming soon

एतेषामेव क्रमेणोदाहरणमाह| क्षीरं बलिना मधुरविपाकित्वेन युक्तं शीतवीर्यत्वेन च कुलत्थैरम्लविपाकैरुष्णवीर्यैश्च सह विरुद्धमित्यसदृशगुणेनोदाहरणम्| तथा क्षीरं मधुररसविपाकं शीतवीर्यञ्च तद्विधेनैव पनसेन विरुद्धमिति सदृशगुणेनोदाहरणम्| तथा क्षीरं मधुररसविपाकं च मत्स्यैर्मधुररसविपाकैरुष्णवीर्यैश्च विरुद्धमित्येकदेशसादृश्येनैकदेशासादृश्येन चोदाहरणम्| तप्तं दधि विरुद्धमिति संस्कारोदाहरणम्| क्षौद्रघृते समभागे विरुद्धे इति मात्रोदाहरणम्| ऊषरे स्थितं वारि विरुद्धमिति देशोदाहरणम्| रात्रौ सक्तवो विरुद्धा इति कालोदाहरणम्| ते च सक्तोवस्तोयान्तरिता इति संयोगविशेषोदाहरणम्| यवकास्तु केवला विरुद्धा इति स्वभावोदाहरणम्|| १९||

Adhikarana kushAgrabuddhInAmetadudAharaNamAtram (20) · Śloka 20

कुशाग्रीयधियामेतदुदाहरणमात्रकम्| उपनीतमलं विद्वान् सर्वत्र क्रमते यतः||२०||

🔊 Audio coming soon

कुशाग्रीयधियां तीक्ष्णबुद्धीनामेतदनन्तरोक्तमुदाहरणमात्रमुपनीतम्| यतो विद्वान् शास्त्रज्ञः तीक्ष्णबुद्धिः सर्वत्र क्रमते, स्वबुद्ध्यैव सर्वमवगच्छतीत्यर्थः|| २०||

Adhikarana viruddhAshane vyApada (21) · Śloka 21

विस्फोटशोफमदविद्रधिगुल्मयक्ष्मतेजोबलस्मृतिमतीन्द्रियचित्तनाशान्| कुर्याद् विरुद्धमशनं ज्वरमस्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्||२१||

🔊 Audio coming soon

विरुद्धमशनं विस्फोटादीन् कुर्यात्| मतिर्बुद्धिर्विकल्पयोग्या| चित्तं चेतना| महतश्चाष्टौ गदान् कुर्यात्| यथायोगं किञ्चिद्विरुद्धं शूलविषूचिकादींस्तात्कालिकान् करोति| अन्यदभ्यासाद्यपेक्षया यक्ष्मादीन् करोति| अन्यच्च सद्य एव विषवन्मृत्युं करोतीति भिषजा परिकल्पनीयम्| वातव्याध्यश्मरीकुष्टमेहोदरभगन्दराः| अर्शांसि ग्रहणीत्यष्टौ महारोगः सुदुस्तराः|

Adhikarana viruddhAshanajeShu rogeShu pratIkAraH (22) · Śloka 22

तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः| द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिम्||२२||

🔊 Audio coming soon

तेषु च विरुद्धाशनजेषु विस्फोटादिषु रोगेषु संशुद्धिं, वमनविरेचनादिकं कुर्यात्| अथवा तस्य यथास्वं रोगकारणस्य विरुद्धाशनस्य सर्वेर्गुणैः विपरीतानि यानि द्रव्याणि तैर्विस्फोटादीनां शममेव कुर्यात्| अथवा देशविशेषाद्यपेक्षया भविषद्विरुद्धाशनशङ्कायां तैरेव भविष्यद्विरुद्धाशनगुणविपरीतैर्द्रव्यैः शरीरस्याभिसंस्कृतिं संस्कारमेव प्रथमं कुर्यात्| यथाविरुद्धमप्यन्नं गुणैर्विपरीतगुणैः संस्काराद्देहे दुर्बलं सन्न रोगाय भवतीति| एतच्चस्मद्गुरवो यथाप्रक्रान्तशब्दार्थपरतन्त्रास्तैवेरेति च तद्विरुद्धानि परामृशन्तो वमनादिवत् पूर्वं देहस्याभिसंस्कृतेरपिवैद्यविधेयतामभिमन्यमानाश्चरकस्य बोद्धारो व्याख्यानमभिमन्यन्ते| भट्टारकेण तु `तथाविधैर्वा द्रव्यैः पूर्वमभिसंस्कारः शरीरस्य' इत्यस्य वाक्यस्य व्याध्युत्पत्त्यनैकान्तिकप्रदर्शनपरत्वमङ्गीकृत्य तथाविधैरिति च विरुद्धसमानि परामृश्य विरुद्धैरेव पूर्वसंस्कारो व्याध्यनुत्पत्तिहेतुरिति सात्म्याहारप्रायतया द्वितीयोऽपि पक्षो य उद्भासितः सोऽस्माभिरुपेक्षित एव|| २२||

Adhikarana vyAyAmasnigdhAdInAM virodhyapi na bAdhakam (23) · Śloka 23

व्यायामस्निग्धदीप्ताग्निवयस्थबलशालिनाम्| विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम्||२३||

🔊 Audio coming soon

व्यायामेत्यादिना सात्म्यत्वेनैव गतत्वात्| तथा व्यायामदिप्तग्न्यादिनां विरुद्धमपि भोजनं पीदायै न भवति| स्वल्पकालोपयुक्तं व्यायामेन स्निग्धेन च दीप्ताग्नयो ये तेषाम्| अन्येषां व्यायामीति पाठः| तेषां व्यायामवतः स्निग्धस्य, दीप्तग्नेश्च वयस्थस्य, प्रत्यग्रवयसः बलशालिनो बलेन यः श्लाघते अतिबलस्येत्यर्थः| तथा विरुद्धमपन्नं देशाभ्यासाद्यपेक्षया सात्मीबूतं शरीरे सुखरंपीडायै न भवति| अल्पं च भोजनं विरुद्धं पीडायैन भवति|| २३||

Adhikarana viruddhopayoge~api roganivRuttau bIjam (24) · Śloka 24

दोषादिवैपरीत्येन हरते रोगिणां रुजम्| एकध्यं दधिदुग्धादियोजना न विरुध्यते| योगादिभेदाद्यद्यद्वा पथ्यानामप्यपथ्यता| तद्भेदान्तरतस्तद्वद्विरोधोऽपि निवर्त्तते||२४||

🔊 Audio coming soon

ननु च प्रायेण हि रोगे क्वचिद्विरुद्धानामपि यथेच्छोपयोगाद्रोगनिवृत्तिर्दृश्यते तत्कथमित्याह| दोषादीनां दोषदूष्यबलकालादीनां अंशस्वरूपविपरीतत्वेन रोगिणो रुजं हरति| एकध्यं सहभावेन दधिदुग्धादीनां योजना न विरुध्यते| तेनैतदुक्तं भवति-कदाचिद्विरुद्धस्य प्रयुज्यमानस्य समुदायगुणैर्विपरीता रोगदोषगतिरंशांशिकया भवति| तत्र रुजाहरत्वं दृष्टम्| विरुद्धमप्यविरुद्धम्| अथवा यद्वत् पथ्यानामपि भावानां संयोगादिभेदेनापथ्यता दृश्यते तद्वत्तस्य संयोगादिना विरुद्धस्य भेदान्तरेणाधिकसंयोगादिकृतेन विरोधनाशः| तेनैतदुक्तं भवति-संयोगविशेषाद्यथा पथ्यानामप्यपथ्यता दृष्टा तद्वद्विरुद्धानामप्यन्यसंयोगाद्विरोधोऽपि निर्वतते न भवतीति| तथा हितमप्यपथ्यं सात्मीभूतं च देहेऽभ्यासादिवशात्तत्काल एव उचितं तदहितफलत्वात्त्यजेत्|| २४||

Adhikarana pathyApathyayostyAgashIlanayorvidhiH (25) · Śloka 25

पादांशेन त्यजेत्सात्म्यमहितं हितमाचरेत्| एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||२५||

🔊 Audio coming soon

हितं चासात्मीभूतमप्याचरेत्| तच्चाहितं सहसा त्यक्तं हितं च सेवितं रोगाय सम्पद्यते| अत उच्यते-पादांशेनेति| पादेन चतुर्थभागेनापथ्यं त्यजेत्| अंशेनैव भजेत्| अंशो भागः| स च प्रकरणात् पादस्यैव विज्ञेयः| तेन पादेन वा पादपादेन वा त्यजेदपथ्यं तेनैव च पथ्यं भजेत्| केन क्रमेणेत्याह-एकान्तरमित्यादि| तेनैतदुक्तं भवति-अपथ्यादुचितादेकं पादं चतुर्भागं रोगी, बलाद्यपेक्षया पादपादं वा प्रथमदिवसे त्यजेत्| स चतुर्भागः पथ्यादनुचितात् सेव्यः, ततो द्वितीयेऽह्नि सर्वमेवापथ्यं ततस्तृतीयेऽह्नि अपथ्यस्य त्रय एव भागाः पथ्यस्यैको भाग इत्येकदिवसान्तरितं चतुर्थादिषु दिवसेष्वेवमेव वा| उपयुज्यमानचतुर्थभागसात्मीभावात्| ततश्चोर्ध्वं द्व्यन्तरम्| किमुक्तं भवति? चतुर्थे भागे पथ्यस्य सात्मीभूते अपथ्यादुचितात् द्वितीयो भागस्त्याज्यः| तेनार्द्धमपथ्यस्यार्द्धं पथ्यस्य तस्मिन् दिने भवति| द्वितीये दिवसे सात्मीभूतचतुर्भाग एव योज्यः| एवं तृतीये दिवसे चतुर्थे पुनरर्द्धमात्रमेवं द्विदिनान्तरितम्| एवं पञ्चमादिदिवसेष्वपि| आ अर्द्धसात्मीभावात्| ततस्त्र्यन्तरितम्| सात्मीभूतेऽर्द्धे तृतीयो भागेऽपथ्यात्त्याज्यः, पथ्याच्च सेव्यः| तस्मिन्दिने पथ्यस्य भागास्त्रयः, अपथ्यस्यैको भागः| द्वितीये दिवसे सात्मीभूतं पथ्यापथ्ययोरर्द्धमर्द्धम्| एवं तृतीये चतुर्थे च| पञ्चमे पुनश्चतुर्थो भागोऽपथ्यस्य भागास्त्रयः पथ्यस्येति त्र्यन्तरितम्| एवं षष्ठादिषु दिवसेष्वा भागत्रयसात्मीभावात्| ततः सर्वमेव पथ्यम्| एवमेकद्वित्रिदिनानि क्रमेणासात्म्यं सांत्म्येनान्तरयितव्यम्| (१) अन्ये मन्यन्ते-प्रथमे दिवसे भागः पथ्यात्सेव्यः| शेषमपथ्यम्| द्वितीये सर्वमपथ्यम्| तृतीये पुनरेको भागः| एवं भाग एकान्तरितः| चतुर्थे द्वौ| पञ्चमे एकः| षष्ठे च सप्तमे पुनर्द्वौ द्वाविति द्व्यन्तरेण| अष्टमे त्रयः, नवमे द्वौ| दशमे तद्वदेकादशे च, द्वादशे पुनस्त्रय इति त्र्यन्तरितः| ततस्त्रयोदशात् प्रभृति सर्वं पथ्यमेवेति| (२) अन्ये पुनरन्यथा वर्णयन्ति| यथा-अनेनैवैकादिना सात्म्यमसात्म्येनान्तरयितव्यम्| तत्र विचारणादपथ्यं सात्म्यं भुञ्जानः पथ्यभोजनेच्छुरेकदिवसमपथ्यस्य भागत्रयं पथ्यस्य चैको भागः| द्वितीये सर्वमेवापथ्यमित्येकान्तरितम्| तृतीये द्वौ पथ्यस्य द्वावप्यपथ्यस्य, एवं चतुर्थेऽपि| पञ्चमे पुनरपथ्यस्य भागत्रयं चतुर्थो भागः पथ्यस्य, एवं द्व्यन्तरम्| ततः षष्ठे दिवसे त्रीन्भागान् पथ्यस्य एकमपथ्यस्य| एवं सप्तमेऽष्टमे च| नवमे पुनर्द्वौ द्वौ भागौ दशमे चतुर्थोऽपि पथ्यस्य| तद्वदेकादशे द्वादशे, त्रयोदशे| चतुर्दशे पुनस्त्रयो भागाः पथ्यस्य भागोऽपथ्यस्य| अतः पञ्चदशात् प्रभृति सर्वं पथ्यमेव योज्यम्| अनयोरेव च पक्षयोर्युज्यमानत्वमेव मन्यामहे| तथा च शास्त्रकृद्भिरेव ऋतुसन्धौ चतुर्द्दशदिनमाना क्रमसमाप्तिरिष्टा| अन्ये पुनरन्यथा वर्णयन्ति-प्रथमे दिवसेऽपथ्यस्य त्रीन्भागान् पथ्यस्यैकम्| द्वितीये सर्वमेवापथ्यम्| तृतीये पथ्यस्य द्वावपथ्यस्य च द्वौ| चतुर्थे पथ्यस्यैको भागः, अपथ्यस्य भागास्त्रयः| पञ्चमेऽप्येवमेव| षष्ठे पथ्यस्य त्रीन् भागानपथ्यस्यैकम्| सप्तमे द्वौ द्वौ पथ्यापथ्ययोरेवमष्टमे नवमे च| दशमादारभ्य सर्वमेव पथ्यम्|| २५||

Adhikarana kramashaH pathyApathyashIlanaparihAraguNAH (26) · Śloka 26

क्रमेणानेन सान्त्यक्ता दोषाः संवर्धिता गुणाः| प्रभवन्ति न पीडायै प्राप्नुवन्ति स्थिरात्मताम्||२६||

🔊 Audio coming soon

इत्यनेन क्रमेणापथ्यदोषास्त्यक्ताः पीडायै न भवन्ति| पथ्यगुणाश्च संवर्द्धिताः स्थिरात्मतां प्राप्नुवन्ति|| २६||

Adhikarana trayaH upastambhAH (27) · Śloka 27

त्रितयं चैतदुपस्तम्भनमाहारः स्वप्नोऽब्रह्मचर्यं च| एभिर्युक्तियुक्तैरुपातब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोचितमनुवर्तते यावदायुः संस्कारः| तत्राऽऽहार उक्तो वक्ष्यते च||२७||

🔊 Audio coming soon

एतत्प्रसङ्ग एवेदमुच्यते| एतत्त्रयमुपस्तम्भो धारकं शरीरस्य| किमित्याह-आहारः, स्वप्नः अब्रह्मचर्यं च| एभिरुपस्तब्धं देहं शरीरं युक्त्या अन्यूनाधिकताऽभिधानया युक्तैः| प्रकर्षयुक्तैर्बलादिभिः समृद्धमापूर्वकर्मसंस्कारपरिक्षयादायुरनुवर्त्तते| तत्राहारः पूर्वेष्वध्यायेषूक्तः| उत्तरे चाध्याये ज्वरादिषु च वक्ष्यते|| २७||

Adhikarana nidrAyAH svarUpam (28) · Śloka 28

लोकादिसर्गप्रभवा तमोमूला तमोमयी| बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते||२८||

🔊 Audio coming soon

क्रमप्राप्तः स्वप्न उच्यते| लोकानामादिसर्गे जगदुत्पात्तिकाले प्रभवो यस्याः सा तथाविधा| तमः कारणान्मूलं यस्याः सा तमोमूला| तमोमयी तमस एव विकारः| तेनैतदुक्तं भवति-सर्वथा तमस्तस्याः कारणमिति| अत एव सा रात्रौ प्रायेणोत्पद्यते| तमसो नाम महागुणस्य बाहुल्यात्| सा च निद्रा रात्रौ भवति दिवा वा| केवलमनया युक्त्या जन्तूनाविशति|| २८||

Adhikarana nidrAveshAvasthA (29) · Śloka 29

श्लेष्मावृतेषु स्रोतस्सु श्रमादुपरतेषु च| इन्द्रियेषु स्वकर्मभ्यो निद्रा विशति देहिनम्||२९||

🔊 Audio coming soon

कयेत्याह-श्लेष्मावृतेष्वित्यादि| आहाररसवशात् श्लेष्मणा स्रोतस्वावृतेषु निरुद्धेष्विन्द्रियेषु च स्वस्वविषयग्रहणकारणाच्छ्रमादुपरतेषु निवृत्तेषु देहिनं निद्रा आविशति|| २९||

Adhikarana svapnAvasthA (30) · Śloka 30

सर्वेन्द्रियव्युपरतौ मनोऽनुपरतं यदा| विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति||३०||

🔊 Audio coming soon

आविष्टायां च निद्रायां इन्द्रियेषु च विषयेभ्यो निवृत्तेषु मनो यदा स्वकर्मणो न निवृत्तं, तदा नानारूपं स्वप्ने प्रपश्यति देही| यदा तु कारणवशेन मनोऽपि स्वकर्मणो निवृत्तं भवति, सा सुषुप्तावस्था| तस्यां न किञ्चिदपि पश्यति|| ३०||

Adhikarana nidrAyAM mAhAtmyam (31) · Śloka 31

निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्| वृषतां क्लीबता ज्ञानमज्ञानं जीवितं न च||३१||

🔊 Audio coming soon

तस्याश्च निद्रायाः सुखादिकमायत्तम्| तेनैतदुक्तं भवति-सम्यक् सेविता सुखपुष्टिबलवृषत्वज्ञानजीवितैर्योजयति नरम्| असम्यक् प्रयुक्ता तु दुःखकार्श्याबलत्वक्लीबताज्ञानैः योजयतीत्यर्थः| वृषतं स्त्रीगमनशक्तिः| ज्ञानं वृद्धिः|| ३१||

Adhikarana akAlanidrAdidoShAH (32) · Śloka 32

अकालेऽतिप्रसङ्गाच्च न च निद्रा निवेषिता| सुखायुषी परात्कुर्यात्कालरात्रिरिवापरा||३२||

🔊 Audio coming soon

एतदेवोच्यते-सा निद्रा अकाले वक्ष्यमाणे तदुपयोगप्रतिषिद्धे काले अपि स्वल्पोपसेविता, तथा कालेऽप्यत्यन्तसेविता, सर्वदा वा, नैव वा सेविता आयुर्जीवितं पराकरोति नाशयति| जीवितेऽपि व्याध्यादिभिः सुखं पराकरोति| यथा परा द्वितीयेव कालरात्रिः मरणनिशा सुखस्यायुषश्च नाशनात्सादृश्यम्|| ३२||

Adhikarana yuktanidrAyAH guNAH (33) · Śloka 33

सैव युक्ता पुनर्युङ्क्ते निद्रादेहं सुखायुषा| योगाभियोगिनो बुद्धिर्निर्मलाऽतमसा यथा||३३||

🔊 Audio coming soon

सैव निद्रा युक्ता सम्यक् प्रयोगेण देहं सुखेनायुषा च योजयति| यथा योगे तत्त्वज्ञानेऽभियोगिनः पुरुषस्य निर्मला बुद्धिरतमसा शुद्धस्वभावेन सत्त्वरूपेण योजयति| अथवा तमसा कारणेन निर्मला सुखायुषा योजयतीत्यर्थः|| ३३||

Adhikarana rAtrijAgaraNAdInAM guNAH (34) · Śloka 34

रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा| अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्||३४||

🔊 Audio coming soon

तस्याश्च निद्रायाः काले प्रयोग उक्तः, तं च कालं दर्शयति-रात्रौ जागरणं निद्राया असेवा रूक्षं देहे रूक्षाणां भावानां वृद्धिकरमित्यर्थः, एवं दिवा प्रस्वपनं स्निग्धम्| आसीनप्रचलायितं न रूक्षं न चाभिष्यन्दि| आसीनप्रचलायितं दिवाऽप्युपविष्टस्य स्वल्पा निद्रा, अभिष्यन्दि मालिन्येन स्रोतसां स्रावकः|| ३४||

Adhikarana grIShme divAsvapnaM hitam (35) · Śloka 35

ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः| दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः||३५||

🔊 Audio coming soon

ग्रीष्मे तु दिवास्वप्नं विहितम्| यतस्तस्मिन् काले वायोश्चयो भवति| आदानं च परिपुष्टं भवत्यतो रौक्ष्यं रात्र्यश्च निद्रासमाप्त्ययोग्याः स्वल्पा भवन्ति| दिवास्वप्नश्च सन्तर्पकः| ग्रीष्मादन्यस्मिन् काले दिवास्वप्नः पित्तश्लेष्मकरः|| ३५||

Adhikarana grIShmavarjyeShu RutuShu divAsvApaniShedhaH apavAdashca (36) · Śloka 36

मुक्ताऽतिभाष्ययानाध्वमद्यस्त्रीभारकर्मभिः| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः| वृद्धबालाबलक्षीणक्षततृट्च्छूलपीडितान्| अजीर्ण्यभिहतोन्मत्तान्दिवास्वप्नोचितानपि| धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||३६||

🔊 Audio coming soon

एषां ह्यतिभाष्यक्लान्तादीनां दिवास्वप्नेन धातूनां वातादीनां देहधारकाणां साम्यमन्यूनाधिकता भवति| श्लेष्मा चाङ्गानि पुष्यति उपचिनोतीत्यर्थः|| ३६||

Adhikarana grIShme~api divAsvApe~ayogyAH (37) · Śloka 37

बहुमेदः कफाः स्वप्युः स्नेहनित्याश्च नाहनि||३७||

🔊 Audio coming soon

बहुमेदः श्लेष्मशरीरा अप्यतिस्निग्धाहारादिशीलिनश्च ग्रीष्मेऽप्यहनि न स्वप्युः|| ३७||

Adhikarana rAtriShvapi svapne~anarhAH (38) · Śloka 38

विषार्त्तः कण्ठरोगी च नैव जातु निशास्वपि||३८||

🔊 Audio coming soon

विषार्त्तः कण्ठरोगी च निशास्वपि न जातुचित् स्वप्यात्|

Adhikarana ahitanidrayA jAyamAnA rogAH (39) · Śloka 39

हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः| ज्वरभ्रममतिभ्रंशस्रोतोरोधाग्निमन्दताः| शोफारोचनहृल्लासपीनसार्द्धावभेदकाः| कण्डूरुक्कोठपिटकाकासतन्द्रागलामयाः| विषवेगप्रवृत्तिश्च भवेदहितनिद्रया||३९||

🔊 Audio coming soon

अहितनिद्राया विरुद्धनिद्रायाः सेवनेन हलीमकादीनामुद्भवः| इमे वक्ष्यमाणलक्षणाः| शिरसो जाड्यं गुरुत्वमिन्द्रियापाटवं च| स्तैमित्यं गात्राणां निरुत्साहत्वम्| विषार्तस्य निद्रया विषवेगप्रवृत्तिः|| ३९||

Adhikarana atinidrAyAH kAraNam (40) · Śloka 40

अपच्यमानो बाहुल्यात्स्रोतांस्यावृणुते कफः| ततः स्रोतस्सु रुद्धेषु जायते गात्रगौरवम्| गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता||४०||

🔊 Audio coming soon

अतिनिद्रायाः कारणमुच्यते| बाहुल्यात् कफस्याग्निः कफं पक्तुं न शक्नोति| अतः सोऽच्यमानः स्रोतांस्यावृणुते स्थगयति| ततः स्रोतोरोधात् गत्रगौरवं, गात्रगौरवादालस्यमालस्यादतिनिद्राता|| ४०||

Adhikarana atinidrAnAshakAni (41) · Śloka 41

विरेकः कायशिरसोर्वमनं रक्तमोक्षणम्| धूमः क्षुत्तृड्व्यथाहर्षशोकमैथुनभीक्रुधः| चिन्तोत्कण्ठाऽसुखा शय्या सत्त्वौदार्यं तमोजयः| रूक्षान्नं चाहितां निद्रां वारयन्ति प्रसङ्गिनीम्||४१||

🔊 Audio coming soon

एतामतिनिद्रां प्रसङ्गिनीमनुषक्तां कायविरेकादीनि नाशयन्ति| असुखा कष्टा| उत्कृष्टसत्त्वत्वं सत्वौदार्यम्|| ४१||

Adhikarana nidrAnAshe hetavaH (42) · Śloka 42

एत एव च विज्ञेया निद्रानाशस्य हेतवः| कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः||४२||

🔊 Audio coming soon

एतान्येव च विरेकादीनि सम्यङ् निद्राया अपि नाशहेतवः| कालश्च निद्रानाशहेतुः येन प्रभातादौ सा न भवति| शीलमभ्यासः तेन यस्य यस्य यस्मिन् काले निद्रानिवृत्तिरभ्यस्ता तस्य तस्य तस्मिन् काले सा भवतीति| तथा क्षयो धातूनां निद्रानाशकारणम्| व्याधिश्चान्यो ज्वरादिः| वातपित्तयोश्च वृद्धिः|

Adhikarana nidrAnAshAjjAyamAnA rogAH (43) · Śloka 43

निद्रानाशादङ्गमर्द्दशिरोगौरवजृम्भिकाः| जाड्यग्लानिभ्रमापक्तितन्द्रारोगाश्च वातजाः||४३||

🔊 Audio coming soon

तस्याश्च सम्यङ् निद्राया नाशादङ्गमर्दाद्युद्भवः|| ४३||

Adhikarana tandrAnidAnAni (44) · Śloka 44

कफोऽल्पो वायुनोद्धूतो धमनीः सन्निरुध्य तु| कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकारिणीम्| उन्मीलितविनिर्भुग्ने परिवर्तिततारके| भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी| अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम्||४४||

🔊 Audio coming soon

कफोऽल्पः इत्यादि सुबोधम्|| ४४||

Adhikarana rAtrau sAtmyataH nidrAM seveta (45) · Śloka 45

यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः||४५||

🔊 Audio coming soon

अतः कारणात् कालानतिक्रमेण रात्रौ निद्रां सेवेत यादृशी सात्म्या|| ४५||

Adhikarana rAtrau jAgaritasya prAtaH svApavidhiH (46) · Śloka 46

असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||४६||

🔊 Audio coming soon

असात्म्ये जागरणे प्रवृत्ते प्रातर्दिवाऽप्यर्द्धं जागरणस्य स्वप्यात्| तेनैतदुक्तं भवति यस्य रात्रौ यामद्वयं जागरणं प्रवृत्तं तेन दिवा प्रभाते याम एकः स्वप्तव्यः अभुक्तवता|| ४६||

Adhikarana mandanidrasya upacArAH (47) · Śloka 47

शीलयेन्मन्दनिद्रस्तु क्षीरमिक्षुरसं रसान्| आनूपौदकमांसानां भक्ष्यान् गौडिकपौष्टिकान्| शालीन्मद्यानि माषांश्च कीलाटान् माहिषं दधि| अभ्यङ्गोद्वर्त्तनस्नानमूर्ध्वश्रवणपूरणम्| चक्षुषस्तर्पणं लेपः शिरसो वदनस्य च| प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते| संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः| सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत्| कान्ताबाहुलताश्लेषो निर्वृत्तिः कृतकृत्यता| मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||४७||

🔊 Audio coming soon

यस्तु विरेकादिकारणेन वातकोपेन मन्दनिद्रः क्षीरादीन् शीलयेत्| तथाऽऽनूपानामौदकादीनाञ्च मांसानां सम्बन्धिनो रसान् भक्ष्यांश्च गुडसंस्कृतान् पिष्टशालिकृतांश्च, तथा शालियोनीनि मद्यानि| किम्भूतानि? मदकारणशक्तियुक्तानि| अन्येषां शालिमद्यानि माषांश्च इति पाठः| मूर्ध्नः शिरसस्तर्पणं स्नेहपूरणम्| तच्च वक्ष्यते| शिरसो वदनस्य च सुस्निग्धैर्लेपः| प्रवाते वातसंयोगे देशे| संवाहनं मर्दनम्| किम्भूतम्? स्पर्शसुखकरं न पीडाकरमित्यर्थः| केन कार्यम्? चित्तज्ञैरनुजीविभिः तथा जीवनीयैः औषधैः शृतं पक्वं सर्पिः पिबेत्| तदनु च क्षीरं केवलमेव| कान्ताबाहुलतेत्यादि सुबोधम्|| ४७||

Adhikarana brahmacaryAdiyutasya nidrA kAle bhavatyeva,mandanidropacArANAM varjanIyatvenAtideshaH (48) · Śloka 48

ब्रह्मचर्यरतेर्ग्राम्यसुखनिः स्पृहचेतसः| निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्त्तते| एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत्||४८||

🔊 Audio coming soon

एतान्येव च क्षीरादीनि निद्रालुः प्रसक्तनिद्रो भूयिष्ठं बाहुल्येन परिवर्जयेत्|| ४८||

Adhikarana saptavidhAH nidrAH tAsAM vivaraNa~jca (49) · Śloka 49

कालस्वभावामयचित्तदेह- खेदैः कफागन्तुतमोभवा च| निद्रा बिभर्ति प्रथमा शरीरं पाप्माऽन्तगा व्याधिनिमित्तमन्याः||४९||

🔊 Audio coming soon

कालस्वभावादिभिः सप्तविधा निद्रा| तत्र प्रथमा या निद्रा सा कालस्वभावप्रभवा शरीरं धारयति| अन्तगा तमोभवा पाप्मा दुष्टा| अन्या शेषा या आमयखेदेन, चित्तखेदेन, देहखेदेन, चामादिना, श्लेष्मप्रभवा, आगन्तुना शस्त्रप्रहारादिना जाता| एताः व्याधीनां निमित्तम्|| ४९||

Adhikarana sambhoge niShiddhA strI deshakAlAdi ca (50) · Śloka 50

ग्राम्यधर्मप्रवृत्तौ तु रजस्वलामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणीं सूतिकामनुत्तानां विकृताङ्गां गणिकामप्रजसं दुष्टयोनिमन्ययोनिमन्यस्त्रियं विशेषाच्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रबन्धुभृत्यपत्नीं वर्णिनीं तथा चैत्यचत्वरचतुष्पथोपवनश्मशानाघातसलिलौषधद्विजगुरुसुरनृपालयेष्वहनि गोसर्गे मध्यन्दिनेऽर्द्धरात्रौ पर्वेष्वनङ्गे पिपासुरप्रणीतसङ्कल्पो वा न गच्छेत्||५०||

🔊 Audio coming soon

स्वप्नमुक्त्वा क्रमप्राप्तमब्रह्मचर्यमुच्यते| अब्रह्मचार्यं स्त्रीगमनम् ग्राम्यधर्मप्रवृत्तिरिति पर्यायः| तस्यां तु ग्राम्यधर्मप्रवृत्तौ प्रकृतायां रजस्वलात्वादियुक्तां नारीं न गच्छेत्| चैत्यादिषु प्रदेशेषु दिवसगोसर्गादिषु च कालेषु अनङ्गञ्च पिपासाद्यवस्थासु च| रजस्वला उदक्या अनिष्ठां रूपादिना अप्रियां अनिष्टाचारा या प्रियाऽपि तद्द्विष्टमाचरति| अशस्ताम् हीनाकृतिजन्मलक्षणाम्| विकृताङ्गां कौब्जवामनत्वादिजन्मयुक्ताम्| गणिकां वेश्याम्| अप्रजसं वन्ध्याम्| यस्या वा प्रजा जाताऽपि न जीवति| दुष्टं व्याधिभिर्योनिर्यस्याः| अन्ययोनिर्वडवागर्दभ्यादिः अन्यस्त्री परस्त्री विशेषाच्च वयोवर्णवृद्धां न गच्छेत्| वर्णवृद्धा जात्यधिका| वयोवृद्धा प्रसिद्धा| सगोत्रामेकगोत्रां तथा गुर्वादिपत्नीं च विशेषाद्वर्जयेत्| चैत्यः प्रसिद्धः| ग्रामाद्बहिर्महावृक्षश्च चैत्यः| चत्वरः त्रिपथम्| आघातनं सूनादिनिग्रहस्थानम्| सलिलादीनामालयेनाश्रयवाचिना सम्बन्धः| सलिलालयो नदीतटाकादिः| औषधालयः तत्स्थानं पर्वतवेष्मादिः यत्र बहून्यौषधानि भवन्ति| गोसर्गो रात्रिक्षयः| पर्वदिनं चतुर्थी, षष्ठी, अष्टमी अमावस्या च| अनङ्गं योन्याभिधानादङ्गादन्यत् पाण्यूर्वादि| अप्रणीतसङ्कल्पो अनुत्पन्नतदिच्छः|| ५०||

Adhikarana viparItavyavAyAdInAM niShedhaH (51) · Śloka 51

न च विपरीतव्यवाये योजयेत्||५१||

🔊 Audio coming soon

न विपरीतव्यवाये च स्त्रिय काञ्चन योजयेत्| विपरीतव्यवायः स्त्रियाः पुरुषकर्म|| ५१||

Adhikarana sambhoge mahAbhogasharIrAdInAM visheShaniShedhaH (52) · Śloka 52

विशेषेण चातिव्यायतां गर्भिणीं नवप्रसूतामृतुमतीं संवृतयोनिञ्च||५२||

🔊 Audio coming soon

अतिव्यायतत्वादियुक्तां तु विशेषेण न योजयेत्| अत्रानृतुमत्यसञ्जातार्त्तवा बाला| ऋतुमतीमिति केचित् पठन्ति| अतिव्यायता महाभोगशरीरा|| ५२||

Adhikarana mUrddhAbhighAtaniShedhaH (53) · Śloka 53

मूर्द्धाभिघातं च परिहरेत्| न च निषेकाभिमुखं शुक्रं धारयेदिति||५३||

🔊 Audio coming soon

मैथुने मूर्ध्नः शिरसोऽभिघातं ताडनं वर्जयेत्| तथा वृक्षःप्रभृतीनां देशाद्यपेक्षया च परिग्रहः|| ५३||

Adhikarana vyavAyamAtrA (54) · Śloka 54

मनःशरीरस्थितिमात्रमेव व्यवायं सेवेत| न तत्परः स्यादिति||५४||

🔊 Audio coming soon

यावता व्यवायेन मनस औत्सुक्यं शरीरे च शुक्रस्रुत्यादिकं न पश्यति| तावन्तमेव व्यवायं सेवेत| नैव मैथुनपरः स्यादिति|| ५४||

Adhikarana sambhoganiyamAH (55) · Śloka 55

भवति चात्र श्लेकः- विस्रब्धहृष्टो रहसि तत्कामस्तरुणः पुमान्| समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः| नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम्| नारीं नारीर्गुणैर्युक्तां सहपूर्णगुणां व्रजेत्||५५||

🔊 Audio coming soon

भवति चात्रेति शैली| विस्रम्भादियुक्तो नारीं व्रजेत्| विस्रब्धः स्वस्थामनाः रहस्येकान्ते| तत्कामो गम्यमानयोषित्कामः गमनदिवसात् पूर्वं दिवसत्रयं वृष्णैराहारैः कृततृप्तिः| किम्भूतां नारीं नारीगुणैर्वाजीकरणाध्यायोत्कैर्युक्ताम्| तत्र हि `तस्माद्या यस्य हृदयम्' इत्यादिना वक्ष्यति| पूर्वोक्तैश्च गुणैर्विस्रम्भादिभिः पुरुषोक्तः| केवलं लिङ्गवैपरीत्यम्|| ५५||

Adhikarana RutuvisheSheNa saMyoge kAlaniyamaH (56) · Śloka 56

द्व्यहाद्वसन्ते तस्यान्ते पक्षात्तद्वद् घनोदये| सेवेत कामतः कामं हेमन्ते शिशिरे बली||५६||

🔊 Audio coming soon

वसन्ते द्व्यहान्नारीं व्रजेत् तस्य वसन्तस्यान्ते ग्रीष्मे पक्षात्तद्वत् घनोदये वर्षासु हेमन्ते शिशिरे च बली बलवान् कामतो यथेच्छं सेवेत| शरदि त्वनुक्तावपि वसन्तसदृशबलादिमत्वाद् द्व्यहादेव नारीं व्रजेत्| तथा च श्रीवाग्भटग्रन्थ एव- `द्व्यहावसन्तशरदोः' इति|| ५६||

Adhikarana maithunAnantaraM sevanIyAni (57) · Śloka 57

स्नानाङ्गरागव्यजनेन्दुपाद- मांसासवक्षीररसान् रसालाम्| भक्ष्यान् सिताढ्यान् सलिलं सुशीतं सेवेत निद्राञ्च रतान्ततान्तः||५७||

🔊 Audio coming soon

रतान्ते च तान्तः क्लान्तः स्नानादीन् सेवेत|| ५७||

Adhikarana grAmyadharmottaraM snAnAdisevanasya phalam (58) · Śloka 58

स्त्रीसंसर्गाद्धि सद्यः स्यात्क्लीबता बलिनामपि| एवं चाप्यायते शीघ्रं तेषां शुक्रं च धाम च||५८||

🔊 Audio coming soon

किमर्थमेतत् कुर्यादत आह- स्त्रीसंसर्गादिति| बलिनामपि स्त्रीसंसर्गे तत्कालं क्लैब्यमवश्यमेव भवति| अनेन तु स्नानादिना कृतेन शीघ्रमेव शुक्रमाप्यायते|| ५८||

Adhikarana avidhigrAmyadharmasevAyA doShAH (59) · Śloka 59

दुष्ट्यायुरोजःशुक्राणां क्षयं मेढ्राश्रयान् गदान्| वायोः कोपमधर्मं च मूढः प्राप्नोत्यतोऽन्यथा| उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः| तिमिरादिगदोत्पत्तिर्मूर्द्धाद्यहननाद् ध्रुवम्||५९||

🔊 Audio coming soon

अतो यथोक्ताद्विधानादन्येन नारीं गच्छन्मूढो दृष्ट्यादिक्षयं मेढ्ररोगान् वातकोपधर्मं च प्राप्नोति यथासम्भवम्| तथा स्त्रियाः पुरुषायिते पुरुष उत्तानो गच्छन् वायोर्वैपरीत्येनाशु शुक्रनिर्गमनाद् वृद्ध्यादीन् प्राप्नोति| यश्चान्यथापि शुक्रवेगरोधी सोऽपि| वृद्धिरान्त्रवृद्धिः वक्षोमूर्द्धाद्याहननात्तिमिरादीन् ऊर्ध्वजत्रुरोगानुरसः शूलादींश्च प्राप्नोति| ध्रुवमावश्यके|| ५९||

Adhikarana atimaithune vyApadaH (60) · Śloka 60

भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयः| अपर्वमरणं च स्याद्विशेषेणातिमैथुनात्||६०||

🔊 Audio coming soon

अतिमैथुनात् भ्रमाद्युत्पत्तिः| अपर्वमरणमकालमरणम्| विशेषेणोर्वोर्बलहानिः, ऊरुदौर्बल्यम्|| ६०||

Adhikarana sambhoge niyamaH (61) · Śloka 61

न चोनः षोडशाद्वर्षात् सप्ततेः परतो न च| आयुष्कामो नरः स्त्रीभिः संयोगं गन्तुमर्हति||६१||

🔊 Audio coming soon

आयुर्योः नरः कामयते स षोडशाद् वर्षादधः सप्ततेरूर्ध्वं च वर्षेषु स्त्रीभिः संसर्गे गन्तुं नार्हति|| ६१||

Adhikarana bAlyAvasthAyAM sambhoge hAniH (62) · Śloka 62

अतिबालो ह्यासम्पूर्णसर्वधातुः स्त्रियं व्रजन्| उपतप्येत सहसा तटाकमिव काजलम्||६२||

🔊 Audio coming soon

यतः षोडशादूनवर्ष अतिबालः असम्पूर्णधातुः सहसा स्त्रियो गच्छन्नुपतप्येत यथा तटाकं काजलं स्तोकजलं झटित्येव सूर्यसन्तापादि भिरुपतप्यते शुष्यति तथा|| ६२||

Adhikarana vRuddhasya strIgamane hAniH (63) · Śloka 63

शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्| स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्||६३||

🔊 Audio coming soon

सप्ततेरूर्ध्वं वृद्धः स्त्रियो व्रजन् आशु विशीर्येत ज़टिति नश्येत| यथा जन्तुभिः कृमिभिर्भक्षितं काष्ठं शुष्कं रूक्षं विजर्ज्जरमतिपुराणत्वान्नष्टस्थैर्यं स्पृष्टं नश्यतीति|| ६३||

Adhikarana shukraparirakShaNopadeshaH (64) · Śloka 64

कायस्य तेजः परमं हि शुक्रमाहारसारादपि सारभूतम्| जितात्मना तत्परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा||६४||

🔊 Audio coming soon

एवं स्थिते जितात्मना जितेन्द्रियेण सता शुक्रं परिरक्षणीयम्| यतः कायस्य शरीरस्य शुक्रं श्रेष्ठं तेजः| किम्भूतम् तत्? आहारस्य साराद्रसाख्यादपि सारभूतं तस्माद्रक्षणीयम्| अतश्च रक्षणीयम्| यतस्ततः शुक्राद्रक्षिताद्वपुः शरीरं सतेजस्त्वादुदारमुत्कृष्टं भवति|| ६४||

Adhikarana tAtkAlikasukhakarANyapramattena sevyAni shAshvatasukha-dAyikAni tu tatpareNa sevyAni (65) · Śloka 65

अप्रमतो भजेद्भावांस्तदात्वसुखसंज्ञकान्| सुखोदर्केषु सज्जेत देहस्यैतदलं हितम्||६५||

🔊 Audio coming soon

इदं कर्तव्यताप्रसङ्गेनोच्यते| तदात्वसुखसज्ञकान् भावानप्रमत्तं भजेत्| तदात्वसुखसंज्ञकान् ये तदात्वे दृष्टं एव तत्कालं सुखफला योषिदाहारदयस्ते भावाः अप्रमत्तादिना सता सेव्याः| यतो दृष्टादृष्ट्योर्दुःखकर्त्तृत्वेन न विरुध्यन्ते ये तदात्वसुखास्तेषां वस्तुतो दुःखानामेव सुखबुद्धिर्लोकस्येति ज्ञापयति संज्ञाग्रहणेन| तथा सुखोदर्केषु सद्यो दुःखादेष्वपि अदृष्टसुखफलेषु सज्जेत तात्पर्यमाश्रयेत तपोदानादिषु| एतदुभयं देहस्य हितत्वे पर्याप्तम्|| ६५||

Adhikarana hitAhArasevane~api rogodbhave kAraNam (66) · Śloka 66

प्रज्ञापराधोऽसात्म्यार्थसंयोगः कालवैकृतम्| हितेऽपि रतमाहारे योजयन्त्यामयैर्नरम्||६६||

🔊 Audio coming soon

तस्मात् प्रज्ञापराधादि नरमामयैर्व्याधिभिर्योजयति| प्रज्ञापराधो दिनचर्योक्ताचारव्यतिक्रमः| तथाऽसात्म्यैरनुचितैः शब्दादिभिरिद्रियार्थैः संयोगः| कालस्य च विकृतत्वं विषमत्वं वा| यथाप्राप्तत्वाद्विपरीतस्वरूपत्वम्| किम्भूतं नरमित्याह- हितेऽप्याहारे रतमहितस्य त्वाहारस्य रोगकृत्त्वं स्थिमेवेत्यपि शब्दस्यार्थः|| ६६||

Adhikarana ahitAhArAsevane~api rogAsambhave kAraNam (67) · Śloka 67

नापथ्यसेवनं सद्यः प्रबाधन्ते तदा मलाः| प्रकोपं प्रतिविघ्नन्ति भिन्नैर्दूष्यादिभिर्यदा| न च सर्वोपचारोऽपि सर्वदा सर्वदोषकृत्| न हि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च| सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च| व्याधिक्शमत्वे शक्तानि...................||६७||

🔊 Audio coming soon

ननु चैवं हि दृष्टं यथा अपथ्यं सेवितं न च रोग उत्पन्नः| तत् कथमित्युच्यते| अपथ्यसेविनं पुरुषं मला वातादयः सद्य एव तदा न बाधन्ते यदा भिन्नैर्विसदृशैर्दूष्यदेशादिभिः प्रकोपे विघ्नन्ति| यथा पित्तकोपकारणे आनूपदेशे सेविते झटिति व्याधिर्नोत्पद्यते| यदा तु दूष्यादीनां सादृश्यात् मलानां कोपे विघ्नो न भवति तदावश्यं सद्य एव बाधन्ते| अतश्च सद्यो न बाधन्ते मलाः| यतो न सर्वापचारोऽपथ्यसेवनं सर्वदैव सर्वदोषकरः| तेनैतदुक्तं भवति- किश्च्दपचारः कदाचिद्दोषविशेषहेतुः| दूष्यासादृश्यात्| यतो न हि सर्वाण्यपथ्यानि तुल्यदोषाणि एकदोषहेतूनि| तथा हि - येनापथ्यं श्लेष्मकारणं सेवितं तस्य तस्मिन्नाहारादाववश्यं तद्विपरीतदोषकारणमपि सम्भवति| येन स न तथा कुप्यति| यतश्च सर्वे दोषा न सदृशबलाः| कश्चिद्धीनबलो बलाधिकेन रुद्धकोपो न कुप्यति न च सर्वाणि वपूंषि व्याधिक्षमत्वे शक्तानि| तेनैतदुक्तं भवति- बहुरपि दोषः कुपितो व्याधिक्षमे देहे न लक्ष्यते| पीडाकरणाशक्तत्वात्|| ६७||

Adhikarana apathyasyApathyatamatve bhAve kAraNam (68) · Śloka 68

....................यतोऽपथ्यं तदेव तु| गच्छत्यपथ्यतमतां तुल्यदोषादिवर्द्धितम्||६८||

🔊 Audio coming soon

तथा तुल्यैर्दूष्यादिभिरुपबृंहितमपथ्यं यतोऽपथ्यतमतां गच्छन्ति बलात्| एतदुक्तं भवति- विसदृशैर्दूष्यादिभिर्युक्तमपथ्यं कदाचिद्दोषकरं न भवति| तुल्याः सदृशदूष्यादयः| यथा श्लेष्मप्रकृतेर्मन्दाग्नेरल्पबलस्य स्वल्पसत्त्वस्य स्निग्धादिसात्म्यस्य स्निग्धगुर्वादिप्रकुपितेन कफेन वसन्ते मेदसो दूषणम्| अत्रैकद्वित्राणां दूष्यादीनां सादृश्यासादृश्ययोः कार्यकर्त्तृत्वे गुरुलाघवं कल्पनीयम्|| ६८||

Adhikarana bahubhiH kAraNaiH prakupitAnAM doShANAmAshukAritvam (69) · Śloka 69

त एव च पुनर्दोषा हेतुभिर्बहुभिश्चिताः| मिथे विरुद्धा बलिनो दीर्घकालानुबन्धिनः| सर्वे समप्रकुपिताः प्राप्याल्पमपि कारणम्| प्राणायतनमाश्रित्य गम्भीराः सर्वमार्गगाः| देहेऽहितोचिते ते स्युश्चिरादप्याशुकारिणः||६९||

🔊 Audio coming soon

त एव च वातादयो दोषा ये अपथ्यहेतवस्ते चिरादपि स्वल्पमपि कारणमासाद्यापथ्योचिते देहे आशुकारिणो व्याधीनां मारणात्मकेन कर्मणा भवन्ति| किम्भूताः? हेतुभिः कारणैः शीतगुर्वादिभिर्बहुभिश्चिताः सञ्चिता मिथः परस्परेण विरुद्धास्तथा बलवन्तो दीर्घकालानुबन्धिनो बहुकालस्थिताः सर्वे च सममेककालं प्रकुपिताः प्राणायतनं प्राणस्थानं हृदयादिकमाश्रित्य प्रकुपिता गम्भीरा अन्तस्सराः सर्वमार्गगा अशेषस्रोतोव्यापिनः|| ६९||

Adhikarana keShA~jcidahitAhArAdibhirapi sAtmyatvAdi (70) · Śloka 70

अहितान्यपि चान्येषामभ्यासादुपशेरते| दोषाश्चैषां क्षयं यान्ति कर्मवातातपादिभिः||७०||

🔊 Audio coming soon

अन्येषां चाहितान्यपि अभ्यासादुपशयवन्ति भवन्ति| उपशयः सात्म्यं देहसुखकर्त्तृत्वम्| ननु च तदहितं वातादिकोपेन कथं रोगं न करोति? उच्यते- तेषामहितोचितानां दोषाः कर्मभिर्द्धावनलङ्घनादिभिर्वातातपादिभिश्च क्षयमायान्ति| प्रतिदिनं वृद्धाः प्रतिदिनमेव क्षीयन्ते|| ७०||

Adhikarana bhinnAhArAdimatAmapi bahUnAmekarogotpattau hetuH (71) · Śloka 71

भिनाहारावयःसात्म्यप्रकृतीनां समं भवेत्| एको विकृवाय्वादियुगपत्सेवनाद्गदः||७१||

🔊 Audio coming soon

ननु चैवमनन्तरोक्तेन प्रकारेण भिन्नेषु भिन्नबलेषु भिन्नकालेषु च दोषदूष्यादिषु बहूनामेकरोगोत्पत्तिः समकालं दृष्टा तत् कथमित्युच्यते- भिन्नाहारेत्यादि| भिन्ना विसदृशा आहारदयो येषां ते तथाविधाः तेषां सममेककालं य एको गदः स विकृतानां वाय्वादीनां सेवनात्|| ७१||

Adhikarana vAtAdInAM vikRutau kAraNAni (72) · Śloka 72

वातादीनां तु विकृतिर्विकृताद्ग्रहचारतः| भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते||७२||

🔊 Audio coming soon

कथं तेषां वातादीनां तथाविधा विकृतिरुच्यते| विकृतात् ग्रहाणां राशिगमनात्| भौमादिभ्यश्चोत्पातेभ्यः| भूमौ जातो भौमः| एवं दिवि स्वर्गे अन्तरिक्षे च|| ७२||

Adhikarana vikRutagrahacArAdisambhavahetuH (73) · Śloka 73

सम्भवः पुनरेतेषां कर्मणः सामुदायिकात्||७३||

🔊 Audio coming soon

एतेषां च विकृतग्रहचारभौमोत्पातादीनां सामुदायिकात् पूर्वकृतात्सम्प्रति कृताच्च मिश्रीभूतात् कर्मणः सम्भवः| पूर्वे कृतेन तस्मिन् काले पुरुषस्य प्राप्तफलेन साम्प्रतिकेन च पूज्यपूजाव्यतिक्रमेण च|| ७३||

Adhikarana duShTavAyorlakShaNam (74) · Śloka 74

दुष्टो वायुरभिष्यन्दी स्तिमितोऽत्यूष्णशीतलः| कुण्डली भैरवरवः परुषोऽनार्त्तवो बली| अन्योन्यव्याहतगतिः पांसुबाष्पविषान्वितः||७४||

🔊 Audio coming soon

ननु दुष्टानां वातादीनां दोषकारणत्वमुक्तम्| के च ते इति न ज्ञायन्ते| अतो लक्षणार्थमुच्यते| दुष्टो वायुरभिष्यन्दी मालिन्येन स्रोतसां स्रावकः| स्तिमितः अवेगवानत्युष्णो भवत्यतिशीतो वा कुण्डल्यावर्त्तवान् भैरवरवो भीषणशब्दः| परुषस्तथानार्त्तवः आर्तवाद्विपरीतः बली बलवान् अन्योन्यं परस्परं दिग्विशेषेण व्याहतगती रुद्धमार्गः पांस्वाद्यन्वितश्चेति दुष्तवातलक्षणम्|| ७४||

Adhikarana duShTajalalakShaNam (75) · Śloka 75

रसवर्णादिविकृतमपक्रान्तविहङ्गमम्| निन्दितप्रभवं तोयमुपक्षीणजलाशयम्||७५||

🔊 Audio coming soon

तोयं दुष्टं रसविकृत्यादियुक्तं निन्दितात् कुस्तिताद्येशादेः प्रभवो यस्य तन्निन्दितप्रभवं अथवा निन्दितानां क्रिम्यादीनां प्रभवो यतः स निन्दितप्रभवः|| ७५||

Adhikarana duShTadeshalakShaNam (76) · Śloka 76

मक्षिकामूषिकाव्यालबहूत्पातप्रदूषितः| देशोऽपथ्यान्नबहुलो नष्टधर्ममहौषधिः||७६||

🔊 Audio coming soon

देशो दुष्टो मक्षिकादप्रदूषितो भवति| अत्र च भूयिष्ठमपथ्यान्यन्नानि भवन्ति|| ७६||

Adhikarana duShTakAlalakShaNam (77) · Śloka 77

कालश्च विपरीतोऽतिहीनलिङ्गो यथायथम्||७७||

🔊 Audio coming soon

कालश्च दुष्टो यथाप्राप्तर्तुस्वरूपविवक्षया विपरीतलिङ्गोऽतिलिङ्गो हीनलिङ्गश्च|| ७७||

Adhikarana duShTavAtAdInAmuttaramahitatvam (78) · Śloka 78

एते दुष्परिहारत्वादहितायोत्तरोत्तरम्||७८||

🔊 Audio coming soon

एते दुष्टा वातादयः उत्तरोत्तरमहिताः| यो यस्मादुत्तरः स तस्मादहितः| कथमाह- उत्तरोत्तरमेव दुष्परिहारत्वाद्वातोऽपि दुष्परिहारः| सोऽपि कदाचित् परिहर्तुं शक्यते वेश्मप्रवेशादिना| ततोऽपि जलं दुष्परिहारम्| अन्नपानाद्युपयोगात्| ततोऽपि देशो विना देशान्तरमुपायाभावात्| ततोऽपि कालः अन्यदेशगमनाद्युपायासम्भवात् सर्वगत्वात् कालस्य|| ७८||

Adhikarana vikRutavAtAdisambhave pratIkAraH (79) · Śloka 79

येषामनियतं कर्म तस्मिन् काले सुदारुणे| कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम्| शस्यते देहवृद्धिश्च भेषजैः पूर्वमुद्धृतैः| ब्रह्मचर्यं दया दानं सदाचाररतिः शमः| सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनाम्| देशानामविपन्नानां साधूनां च निषेवणम्| दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणम्||७९||

🔊 Audio coming soon

अस्मिंश्चोपहतवातादिसम्भवे काले सुदारुणे पञ्चविधं कर्म प्रयोज्यं प्रतिघातार्थमुच्यते| एषां पुरुषाणां तस्मिन् दुष्टे काले सुदारुणे पूर्वकृतं कर्मानियतफलदायि तेषां पञ्चविधं वमनादिकर्म योज्यम्| नियतफलदायिना तु कर्मणा केषाञ्चिदौषधादय उपायाः कुण्ठीभवन्त्येव| पूर्वकृतस्य कर्मणो नियतानियतत्वेन द्वैविध्यमस्मिन्नेवाध्याये वक्ष्यते| तेषां तस्मिन्नेव काले रसायनं योज्यम्| भेषजानि पूर्वोद्धृतानि यान्यनुपहतकालगृहीतानि| तस्मिन् काले एजीवितरक्षणाय दैवव्यपाश्रयं कर्म बल्युपहारमणिमन्त्रादिकं ब्रह्मचर्यादिकं च शस्यते| अविपन्नानामदुष्टानां देशानाम्|| ७९||

Adhikarana AkAlikaRutucaryAnusaraNam (80) · Śloka 80

हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि| विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम्| ऋतुचर्यादिशीतोष्णवृष्टिदोषप्रतिक्रिया| अतएव च चर्यायांहेमन्तशिशिरे समे||८०||

🔊 Audio coming soon

तथाकालिकेषु विपरीतर्तुप्रसङ्गोद्भूतेषु हेमन्तादिषु स्वं स्वमात्मीयं विधिं कुर्यात्| यतस्तस्य विधेः शीलने शीतादीनां शीतोष्णवर्षाणां द्वन्द्व उपतापः पुरुषं कारयति| तेनैतदुक्तं भवति- ज्येष्ठाषाढयोरन्ययोर्वा मासयोः ग्रीष्मादिस्वलक्षणप्रसङ्गे हेमन्तादिस्वलक्षणं दृश्यते| तत्र तस्यागन्तोर्हेमन्तादिकस्य चर्यां सेवेत| यतो यैषा ऋतु चर्याध्यायकथिता हेमन्तादिषु चर्या सा न यथेच्छमेव क्रियते| किं तर्हि? शीतादिदोषप्रती कारार्थम्| तेन यस्मिन्नेव मासे शीतादयस्तस्मिन्नेव सा चर्या सेव्या| एतदेवोच्यते-ऋतुचर्येत्यादिना| शीतादिदोषप्रतीकारा ऋतुचर्योक्ता न मासमात्रमाश्रित्य| एतस्मिन्नर्थ उपपत्तिरुच्यते-अत एव चेत्यादि| हेमन्तशिशिरयोरत एव शीतदोषसदृश्याच्चर्यापि सदृश्येवोक्ता||८०||

Adhikarana AyuSho yuktyapekShatvamsarvaprANabhRutAM nityamAyuryuktimapekShate| (81) · Śloka 81

दैवे पुरुषकारे च स्थितं तस्य बलाबलम्||८१||

🔊 Audio coming soon

आयुषो रक्षणवस्तुनः प्रकृतत्वादिदमुच्यते- सर्वेषां प्राणभृतां शरीरिणामायुर्नित्यमुभयकर्मबलवत्वाद्बलवत्वरूपामपेक्षते युक्तिम्| एष च पूर्वो ग्रन्थो यथोत्तरग्रन्थेन सविस्तरमुच्यते| दैवे पुरुषकृते वा कर्मणि बलवति तदाऽऽयुषोऽपि बलवत्वम्| तस्याबलत्वेऽप्यायुषोऽप्यबलवत्वम्|| ८१||

Adhikarana daivapuruShakArayorlakShaNam (82) · Śloka 82

अन्यजन्मकृतं कर्म दैवं पौरुषमैहिकम्||८२||

🔊 Audio coming soon

सुबोधम्|| ८२||

Adhikarana daivapuruShakarmaNastraividhyam (83) · Śloka 83

विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः||८३||

🔊 Audio coming soon

ते च दैवपुरुषकर्मणी आयुषो हेतुभूते प्रत्येकं श्रेष्ठमध्यावरत्वेन त्रिप्रकारे|| ८३||

Adhikarana daivapuruShakArayoryuktyA dIrghAyustvAdisambhavaH (84) · Śloka 84

तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च| नियतस्यायुषो हेतुर्विपरीतस्य चापरा| मध्या मध्यस्य मिश्रस्य संकीर्णा...........................||८४||

🔊 Audio coming soon

तयोर्दैवपुरुषकर्मणोरुदारयोः श्रेष्ठयोर्या युक्तिः सा नियतकालस्य दीर्घस्य चायुषो हेतुः| तयोश्च हीनयोरपरा युक्तिरेतद्विपरीतस्यायुषो हेतुः| तयोश्च मध्या युक्तिर्मध्यस्यायुषो हेतुः संकीर्णा युक्तिर्यत्र एकस्य कर्मणो बलवत्वमन्यस्य मध्यत्वमबलत्वं वा| एवं मध्यत्वाबलवत्वे अपि| सा संकीर्णा संकीर्णस्य लक्षणसंकरयुक्तस्यायुषो हेतुः|| ८४||

Adhikarana balIyena pauruSheNa durbalaM daivamupahanyate (85) · Śloka 85

..................................शृणु चापरम्| दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते| तथा दैवेन बलिना पौरुषं कर्म दुर्बलम्||८५||

🔊 Audio coming soon

ननु द्वे बलवत्वाबलवत्वयुक्ते एकत्र विरोधात् कथं फलदायिनो अत उच्यते- पुरुषकारेण दानादिना बलवता अबलं दैवं कर्मोपहन्यते| दैवेन बलिना पौरुषबलमुपहन्यते|| ८५||

Adhikarana keShA~jcinmatenAyuShorniyatapramANam (86) · Śloka 86

दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः||८६||

🔊 Audio coming soon

यद्दैवं कर्म बलवद् दृष्ट्वा एके आयुर्नियतप्रमाणं मन्यन्ते तेऽप्येवं ब्रुवन्ति| यथा प्राप्तोपाया अपि म्रियमाणा दृष्टास्तस्मान्नियतमायुः| एतच्च पौरुषस्य बलवता दैवेनोपघातात्|

Adhikarana daivasya karmaNaH dvaividhyam (87) · Śloka 87

कर्म किञ्चित्क्वचित्काले विपाकनियतं महत्| किञ्चिच्च कालनियतं प्रत्ययैः प्रतिबोध्यते||८७||

🔊 Audio coming soon

तच्च दैवं कर्म द्विविधं महत्वान्नियतफलमल्पत्वाच्चनियतफलम्| तच्च पौरुषैः कर्मभिः प्रतिबोधकैः फलदानेन नियम्यते|| ८७||

Adhikarana mRutyordvaividhyam (88) · Śloka 88

एवं च द्विविधो मृत्युः कालाकालविभेदतः| अकालमृत्युपरिहारायैव हिताहितोपदेशः उपदिष्टस्ततश्चैष हिताहितविधिक्रमः||८८||

🔊 Audio coming soon

एवं च कर्मणो द्वैविध्यान्नियतानियतफलरूपात्कालाकालभेदेन मृत्युरपि द्विविधः| तेनैतदुक्तं भवति- अनियतफलेन कर्मणा मृत्युरकालज उपदिष्टो नियतफलेन कालज इति| अतश्च कारणान्मृत्युद्वैविध्यादस्मिन्नायुर्वेदे हिताहितविधिरुपदिष्टः| तेनैतदुक्तं भवति- नियतफलकर्मजस्य मृत्योरायुर्वेदमकारणम्| अनियतफलस्य तूत्पत्तिरक्षणार्थं हिताहितज्ञानहेतुत्त्वेनायुर्वेद उपयुज्यत एव|| ८८||

Adhikarana vedavAdInAM matena kAlagantumRutyuvicAraH (89) · Śloka 89

एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः| तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः||८९||

🔊 Audio coming soon

तथा च् अवेदवादिन एकोत्तरं मृत्युशतं ब्रुवते| तत्रैकः कालजः| शतमागन्तवः| तैश्च वेदवादिभिः आयुषो वृद्धिनाशहेतू चोक्तौ|

Adhikarana AyuShaH upAyApekShatve pramANam (90) · Śloka 90

श्येनादिना च यागेन भ्रातृव्यस्य तथा च तैः| दीर्घश्रवससोमाद्यैर्विहितश्चात्मनो वधः| आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविन्दया| सर्वस्मादेव चात्मानं गोपायेदीदृशी स्मृतिः||९०||

🔊 Audio coming soon

तथा च तैः श्येनादिना च यागेन भ्रातृव्यस्य शत्रोर्वधो विहितः| दीर्घश्रवससोमादिना चात्मनो वधस्तैर्विहितः| आयुष्कामस्य पुरुषस्य तत्प्राप्तिरायुष्प्राप्तिस्तैर्वेदवादिभिः मित्रविन्दाभिधयेष्ट्या विहिता| सर्वस्मादेव चात्मानं गोपायेद्रक्षेदिति तेषां स्मृतिः| यदि चोपायापेक्षिण्यायुषः स्थितिर्न स्यात्तदैतत्सर्वं न सम्भवेत्|| ९०||

Adhikarana saugatamatena maraNasya cAturvidhyam (91) · Śloka 91

तथा मरणौद्दिष्टं सौगतानां चतुर्विधम्||९१||

🔊 Audio coming soon

तथा सौगतानां बौद्धदर्शनस्थितानां तत्सिद्धान्तज्ञैश्चतुर्विधं मरणमुद्दिष्टम्| तच्च तत एव ज्ञातव्यम्|| ९१||

Adhikarana niyatAyuShAmapathyasevayA rogitvaM aniyatAyuShAM tu mRutyureva (92) · Śloka 92

विषमापरिहारेण जायते नियतायुषाम्||९२||

🔊 Audio coming soon

एवं स्थिते एतन्निश्चितं नियतायुषां पुंसां विषमस्याहारविहारादेरपरिहारेण ध्रुवमवश्यं रोगित्वं जायते|| ९२||

Adhikarana apathyasevayA mRutyureva (93) · Śloka 93

ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि| अकाण्डे शस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा||९३||

🔊 Audio coming soon

अन्येषां चानियतायुषां विषमापरिहारेणापर्वण्यकाले मृत्युर्जायते| अथवा किमनया अकालमृत्युसाधनपरिकल्पनया| अकाण्डे अकाले शस्त्रघाताद्यैः प्रत्यक्ष एव मृत्युः दृष्टः|| ९३||

Adhikarana akAlamRutyusadbhAve pramANam (94) · Śloka 94

उद्भ्रान्तचण्डमातङ्गतुरङ्गादिसमागमम्| आरातिदुष्टवाय्वादिसाहसाहितभोजनम्| वर्जयेदिति न ब्रूयुर्मुनयो दिव्यचक्षुषः| दैवव्यपाश्रयादींश्च रसायनविधींस्तथा| न वा तेऽपि यथाकाममायुषः स्थितिमाप्नुयुः| अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्| मिथ्याप्राकारदुर्गाणि मिथ्यामारणरक्षणम्| आयुष्कामस्य मिथ्यैव परदारादिवर्जनम्| मन्त्रदेवतयाहूता नाचक्षीरन् महाहयः| विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः| संन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्| उपेक्षया न मरणं जीवितं वा चिकित्सया| प्रत्यहं नृसहस्रस्य युद्धेऽन्योन्यमभिघ्नतः| साधुवृत्तस्य चातुल्या न भवेदायुषः स्थितिः| नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ| उपक्रमेरन् न भवेदकालमरणं यदि| घटानामामपक्वानां पालनापरिपालनैः| चिराल्पकालवर्तित्वं चित्रस्थानां च दृश्यते| इत्यत्यन्तप्रसिद्धेऽपि सिद्धे सर्वागमैरपि| दृष्टेऽप्यकालमरणे विचिकित्सेत्कथं बुधः||९४||

🔊 Audio coming soon

रसायनविधिना ते च मुनयो मत्तमातङ्गसमागमादिवर्जनेन दैवव्यपाश्रयादिसेवनेन च यथाकामं यथेच्छमायुषः स्थितिं नाप्नुयुः| यद्यकालमरणं न स्यात् सर्पादितश्च विदुषां भयं न भवेत्| शत्रुभ्य आत्मनो रक्षणार्थं प्राकारदुर्गादीनि निरर्थकानि भवेयुः| तथा महाऽहयो वासुकिप्रभृतयो विषेण सुप्ते ततो मन्त्रेण प्रबुद्धे पुरुषे स्थिताः मन्त्रदेवतयाहूताः सन्तस्तथा तथाविधाः पुरुषायुषो भावाभावौ नाचक्षीरन्| तथा संन्यासरोहिणिकादिमहारोगग्रस्तस्य पुरुषस्य वैद्योपेक्षया सहसा झटित्येव मरणं न भवेच्चिकित्सया जीवितं वा न भवेत्| कालमरणस्य नियतत्वात् तथा प्रतिदिवसं पुरुषसहस्रस्य युगे अन्योन्यं परस्परेणाभिघ्नतः शस्त्रैः प्रहरतः साधुवृत्तस्य च नृसहस्रस्याकालमरणाभावे अतुल्या विसदृशी स्थितिर्न भवेत्, तुल्या भवेत्| न च तुल्या यस्मात् दृष्टं युध्यन्नृसहस्रं नश्यत् साधुवृत्तं च जीवत्| तथा यदि चाकालमरणं न भवेत्, तत इन्द्राद्या देवताः शत्रुमायुधैर्मारयितुं नोपक्रमेरन्नारभेरन्| आर्त्तं पीडितञ्च यथार्थदृशावश्विनौ स्वास्थ्यायौषधैर्नोपक्रमेयातां यद्यकालमरणं न स्यात्| तथाऽऽमानामपि घटानां पालनेन चिरकालवृत्तित्वं दृष्टं, अपालनेन च पक्वानामप्यल्पकालवर्त्तित्वं दृष्टं, तद्वत् चित्तत्रस्थानामपि भावानां चिराल्पकालवर्त्तित्वं दृष्टं पालनापरिपालनैः| अनेन प्रकारेणात्यन्तं प्रसिद्धेऽकालमरणे सर्वागमैश्च सिद्धे बुधः कथं विचिकित्सेत्? तेन ये आचार्या नियतमानमायुष आहुः ते दैवस्याबलवत्वात्पुरुषकारबाधायां न तु सर्वथा नियतत्वम्|| ९४||

Adhikarana kAlAkAlamRutyulakShaNamatra dRuShTAntashca (95) · Śloka 95

गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः| मृत्युं तं कालजं प्राहुरितरं तद्विपर्यये| यथा रथे वाह्यमानो न्यायेन क्रमशः क्षयम्| यायादात्मवतामायुस्तथाऽन्येषां विपर्ययः| शुचितैलदशो दीपः कीटवाताद्यपीडितः| दीप्तिमान् वर्तते सम्यग्यथैवास्नेहसंक्षयात्| स एवातो यथा च स्याद्विपरीतो विपर्यये| हिताहितोपचारेण तथैव पुरुषो ध्रुवम्||९५||

🔊 Audio coming soon

ननु कथं कालजो मृत्युर्ज्ञायते? अतस्तल्लक्षणमुच्यते| गुणवतां भिषगादीनां सम्भवे यो मृत्युः सम्भवेत् उत्पद्येत स कालजः| गुणा दक्षादयः| भिषगादीनामित्यत्रादिग्रहणं शेषपादत्रयोपलक्षणार्थम्| तस्य कालजस्य मृत्युर्लक्षणवैपरीत्यादकालजः| दृष्टान्तपूर्वमकालमृत्युकारणलक्षणार्थमाह- यथा रथ इत्यादि| रथो यथा समभूभागयोजनादिना न्यायेन वाह्यमानः क्रमेण स्वे कालेऽवश्यमेव क्षयं यायात् एवमात्मवतां हितसेवाहितपरिहारशीलिनामायुः| तथा अन्येषामनात्मवतां विपर्ययः| तेनैतदुक्तं भवति- यथा न्यायेन वाह्यमानो रथः क्रमेण क्षयं याति एवमात्मवतामपि क्रमेणायुः क्षयं याति| यथा तथा रथः अन्यायेन विषममार्गयोजनादिना युगपत्क्षयं यात्येवमनात्मवतां प्रमादिनामायुर्युगपदेव क्षयं याति इत्यर्थः| तथा शुचि निर्मलं तैलं दशा च यस्मिन् दीपे स कीटाद्यपीडितो यथैव स्नेहपरिक्षयो यावत् सम्यग्दीप्तिमान् वर्तते तद्वद्धितोपचारेण पुरुषः| एतद्विपर्यये अशुचितैलदशत्वे कीटादिपीडितत्वे च स एव च दीपो विपरीतो न दीप्तिमान् स्नेहे तिष्ठत्यपि स्यात्तथैव पुरुषः अहितोपचारेण ध्रुवमवश्यमेव विज्ञेयः| तेनैतदुक्तं भवति- शुचितैलदशः कीटाद्यपीडितश्च दीपः यथा दीप्तिमान् वर्तते, स्नेहक्षयेन तु क्षयं यात्येवं पुरुषः अप्रमत्तोऽप्यायुषः क्षयात् क्षयं याति नियतायुरपि| तथाऽक्षीणे स्नेहेऽपि यथा दीपो वातादिपीडितत्वात् क्षयं याति एवमहितोपचारेणापि पुरुष आयुष्यक्षीणेऽपि नियतायुरहितोपचारेण ध्रुवं अवश्यम्|| ९५||

Adhikarana sharIralakShaNasyAvashyakatA (96) · Śloka 96

सर्वमन्यत् परित्यज्य शरीरं पालयेदतः| तदभावे हि भावानां सर्वाभावः शरीरिणाम्| नगरी नगरस्येव रथस्येव रथी तथा| स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||९६||

🔊 Audio coming soon

इति ज्ञात्वाऽन्यत्सर्वं परित्यज्य बुधः शरीरमेव पालयेत्| यतः शरीरिणां तस्य शरीरस्याभावे सर्वपदार्थानां दृष्टादृष्टप्रयोजनानामभावः| अन्यत् सुबोधम्|| ९६||

Adhikarana hitAshanopadeshaH (97) · Śloka 97

आहारकल्पनाहेतून् स्व भावादीन्| समीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||९७||

🔊 Audio coming soon

तथाऽहारस्य कल्पनायां ये हेतवः स्वभावसंस्कारमात्रादयस्तान् विशेषेण समीक्ष्य हितमश्नीयादायुष्कामः| यतो देह आहारसम्भवः|| ९७||

Adhikarana vegA na dhAryAH (98) · Śloka 98

भीलज्जायन्त्रणालोभहर्षशोकवशं गतः| न जातु धारयेद्वे गांस्तद्धि सर्वापदास्पदम्||९८||

🔊 Audio coming soon

तथा भीलज्जादीनां वशं गतो वेगान् मूत्रादीन् न कदाचिद्धारयेत्| एतदुक्तं भवति- भीलज्जादीनां वेगधारणहेतूनां वशं गत्वावेगान्न घारयेत्| तद्धि वेगाधारणं सर्वासामापदामास्पदं स्थानम्| हिशब्दोयस्मादर्थे|| ९८||

Adhikarana hitAbhyAsinAmakAle na balAdihAniH (99) · Śloka 99

हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया| सञ्चायते परामर्शो बलोत्साहेन्द्रियायुषाम्||९९||

🔊 Audio coming soon

इत्यनन्तरोक्तेन प्रकारेण हितमभ्यस्यतः पुरुषस्याकाले बलादीनां कालदंष्ट्रया परामर्शो न जायते साकालदंष्ट्रा न बाध्गत बित्यर्थः|| ९९||

Adhikarana ahitaparityAginaH rogasambhave~api sAdhUnAmAnRuNyaM bhavati (100) · Śloka 100

अहितान्यपि सन्त्यज्य दोषमप्याप्नुयाद्यदि| तथाप्यानृण्यमायाति साधूनामात्मवानिति||१००||

🔊 Audio coming soon

ननु हितोपचारपरस्यापि रोगाद्यभिभवो दृष्टः स कथमित्युच्यते अहितानि परिज्ञायमानानि त्यक्तवा दैवाद्यदि पुरुषो दोषमाप्नुयात् तथाप्यात्मवानिति साधूनामनृणो भवति|| १००||

Adhikarana daivAdaparihAryarogasambhave na shocitavyam (101) · Śloka 101

यच्च रोगसमुत्थानं न शक्यमिह केनचित्| परहिर्तुं न तत् प्राप्य शोचितव्यं मनीषिणा||१०१||

🔊 Audio coming soon

यच्च दैवकरणां समुत्थानं तत्प्राप्य मनीषिणा पण्डितेन न शोचयितव्यमपरिहार्थत्वात्|| १०१||

Adhikarana sadAcArasevinAM jIvitamamRutopamam (102) · Śloka 102

हिताहारविहाराणां सदाचारनिषेविणाम्| लोकद्वयव्यपेक्षाणां जीवितं ह्यमृतायते||१०२||

🔊 Audio coming soon

किञ्चिदिदमुच्यते- य हितमाहारं विहारं च सेवन्ते सतां साधूनामाचारं शीलं च सेवन्ते अयं लोकः परलोकश्चैवं भवतीति ये बुद्ध्या कल्पयन्ति तेषां जीवितमेवामृत्वमाचरति हितत्वात्|| १०२||

Adhikarana grAmyasukhAdilolupasya jIvitamanarthakam (103) · Śloka 103

गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः| मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन्||१०३||

🔊 Audio coming soon

यस्तु मूढो ग्राम्यसुखे ऐन्द्रियके सुखैकगृध्नुरतृप्तः क्लेशानां च रागलोभादीनां वश्यः स दुर्गतिमेव वर्धयन् अनर्थायैव जीवति| तथा हतस्त्यक्तस्सत्पथः साधूनां पन्था येन|| १०३||

Adhikarana cira~jjIvitukAmena kartavyam (104) · Śloka 104

विदुषाऽन्तःशरीरस्थान्नित्यं सन्निहितानरीन्| जित्वा वर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता||१०४||

🔊 Audio coming soon

तस्माद्विदुषा पण्डितेनान्तश्शरीस्थान्नित्यसन्निहितान् रागादीनरीन् जित्वा दिनचर्यिक्तान्यत्रोक्तानि च वर्ज्यानि न सेव्यानि|| १०४||

Adhikarana dhImatA ashubhaphaladaM karma na kAryam (9) · Śloka 9

तदात्वे चानुबन्धे वा तस्मात् कर्मशुभोदयम्| स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति||१०५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने विरुद्धान्नविज्ञानीयो नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

यस्य चिरं जीवितुमिच्छा तेनेत्यनन्तरोक्तस्य आत्रेयस्य वचसः स्मरन् अशुभोदयं कर्म धीमान् पण्डितः कर्तुं नार्हति| कीदृशमशुभोदयं तदात्वे अशुभोदयं तत्कालोपभोग्याशुभफलकारणमनुबन्धे वाऽन्यस्मिन् काले वाऽशुभफलकारणमिति|| १०५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने नवमोऽध्यायः||९||