Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. mātrāśitīyaḥ

Adhikarana atha mAtrAshitIyo nAmaikAdasho~adhyAyaH upodGAtaH · Śloka

🔊 Audio coming soon

सुरक्षितं सुविहितमप्यन्नपानममात्रया सेवितं महारोगाय मरणाय वा भवत्यतो मात्राप्रदर्शनायाध्यायारम्भः|

Adhikarana pratij~jA (1) · Śloka 1

अथातो मात्राशितीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana mAtrAshanopadeshaH mAtrA cAgnibalApekShiNI (2) · Śloka 2

मात्राशी स्यात्| मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी||२||

🔊 Audio coming soon

मात्राशी स्यादित्यादिना प्रस्तुतप्रदर्शनम्| सा च मात्रा अग्नेर्बलमाहारद्रव्याणाञ्च तदनुरूपं गुरुत्वं लघुत्वं चापेक्ष्य भवतीत्यग्नेराहारस्य च परस्परयोग्यत्वमित्यर्थः|| २||

Adhikarana mAtrAlakShaNam (3) · Śloka 3

कुक्षेरप्रतिपीडनमाहारेण, हृदयस्यासंरोधः, पार्श्वयोरविपाटनमनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरतिः, स्थानासनशयनगमनोच्छ्वासप्रश्वासभाष्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनम्, बलवर्णोपचयकरत्वञ्चेति मात्राया लक्षणम्||३||

🔊 Audio coming soon

ननु मात्रैव न ज्ञाता अतो मात्रालक्षणमुच्यते| आहारेण कुक्षेरपीडनम् हृदयस्य चासंरोधः| पार्श्वयोश्चान्नभरेण पाटनमिव पाटनम्| तस्याभावः अविपाटनम्| उदरस्य चानतिगुरुत्वम्| इन्द्रियाणां चक्षुरादीनां प्रीणनं सन्तर्पणम्| क्षुत्तृषोश्च नाशनम्| स्थानासनादिषु सुखानुवृत्तिः| उच्छ्वासप्रश्वासौ श्वासस्यान्तर्बहिर्नयनम्| सायन्तनस्य च भोजनस्य प्रातः सुखेन परिणामः प्रातस्तनस्य च सायम्| बलाद्युपचकर्तृत्वं चाहारस्येति मात्रालक्षणम्|| ३||

Adhikarana gurulaghudravyApekShayA mAtrA (4) · Śloka 4

त्रिभागसौहित्यं वा गुरूणामुपदिश्यते| लघूनामपि नातिसौहित्यम्| अनिलानलगुणबहुलानि हि लघूनि तुल्यगुणत्वादग्निसन्धुक्षणान्यविधिना चाल्पदोषाणि| इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाग्निबलात्||४||

🔊 Audio coming soon

यस्मिन्नाहारे यस्मानेन भुज्यमाने शरीरस्यैवंरूपता भवति, सा मात्रेति पिण्डपरिमाणेन| प्रतिद्रव्यापेक्षया तूच्यते, गुरूणामाहारद्रव्याणां स्वभावसंस्काराद्यपेक्षया पुरुषबलापेक्षया वा त्रिभागतृप्तिरर्द्धतृप्तिर्वा| लघूनाञ्च नातितृप्तिः| यतो लघूनि वाय्वग्निभागाधिक्येनोत्पद्यन्ते| अतस्तत्स्वभावेनाग्निसादृश्यादग्निवृद्धिकराण्येवं चाविधिना यथोक्तक्रमादीनामभावादेवापि स्वल्पदोषकर्तृत्वं लघूनाम्| इतराणि गुरूणि पार्थिवाप्यगुणभूयस्त्वादग्नेर्वैपरीत्यान्नाशहेतवः| व्यायामाग्निबलादन्यत्र व्यायामकारणं हि यदग्निबलं तत्र गुरूण्यप्यदोषकराणि| एषा मात्रा|| ४||

Adhikarana amAtrAshanasya doShAH (5) · Śloka 5

अमात्रा पुनरशनस्य हीनताऽऽधिक्यं च| तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धीन्द्रियोपघातकरं विबन्धकृदवृष्यमनायुष्यमनौजस्यं सारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनम्| अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः||५||

🔊 Audio coming soon

अमात्रा पुनर्यथोक्ताया हीनत्वमाधिक्यं वा| तत्र हीनमात्रमाहारं बलवर्णनाशादीन् करोति| सारस्य बलस्य विध्मापनं नाशनम्| यथोक्तादतिमात्रं पुनर्दोषान् प्रपीडयन् कुक्षिमापूर्य तिष्ठति|| ५||

Adhikarana alasakaviShUcikAsambhavaH (6) · Śloka 6

तेन हि प्रपीड्यमाना वातादयो युगपत्प्रकुपिताः कुक्ष्यैकदेशस्थास्तदेवापरिपक्वमाविश्य विष्टम्भयन्तोऽलसकमभिनिर्वर्तयन्ति| सहसा वाधरोत्तराभ्यां मार्गाभ्यां प्रच्यावयन्तो विषूचिकाम्||६||

🔊 Audio coming soon

ततस्ते दोषाः तेन रुद्धमार्गास्तमेवाहारमपक्वमाविश्य द्विधा कुर्वन्ति| कदाचित्तदन्नं विष्टभ्यासते| अथवान्नं पक्वापक्वं बहिः प्रेरयन्ति| यदा तु विष्टभ्यासते तदाऽलसकनामानं रोगमभिनिर्वर्तयन्ति| यदा प्रेरयन्ति तदा विषूचिकाम्|| ६||

Adhikarana alasakalakShaNam (7) · Śloka 7

अपि च- प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते| आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः||७||

🔊 Audio coming soon

एतदेव प्रयाति नोर्ध्वमित्यादिना सविस्तरमुच्यते|| ७||

Adhikarana viShUcikAlakShaNam (8) · Śloka 8

विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः| सूचीभिरिव गात्राणि विध्यतीति विषूचिका||८||

🔊 Audio coming soon

वाय्वादीनामत्यर्थकोपान्नानाविधैर्वेदनानामुद्भेदैः सूचीभिरिव गात्राणि यदसौ विध्यति अतो विषूचिकोच्यते|| ८||

Adhikarana vAtAdhikaviShUcikAlakShaNam (9) · Śloka 9

तत्र वातः शूलानाहाङ्गमर्दमुखशोषप्रलापकम्पमूर्च्छाभ्रमजृम्भोद्वे-ष्टनाक्षिप्रवेशशिरोहृदयातिरुक्सिराकुञ्चनस्तम्भनानि करोति||९||

🔊 Audio coming soon

तत्र विषूचिकाकारणत्वे यदा वातोऽधिको भवति तदा शूलाद्युत्पत्तिं करोति| अङ्गानां रज्ज्वाद्युद्वेष्टनमिवोद्वेष्टनम्|| ९||

Adhikarana pittAdhikaviShUcikAlakShaNam (10) · Śloka 10

पित्तं पुनः ज्वरातिसारान्तर्दाहवैवर्ण्यतृष्णामदभ्रमप्रलयानि||१०||

🔊 Audio coming soon

पित्तं वृद्धं ज्वरादीन्| प्रलयो मूर्च्छाप्रायः|| १०||

Adhikarana shleShmAdhikaviShUcikAlakShaNam (11) · Śloka 11

श्लेष्मा तु छर्द्यरोचकप्रसेकाङ्गसादाविपाकशीतज्वरगात्रगौरवाणि||११||

🔊 Audio coming soon

श्लेष्मा वृद्धः छर्द्यादीन्| एषामन्यतमस्य वृद्धिराहारविशेषाद्भुक्तात्| पूर्वं दोषस्थित्यनपेक्षया वा|| ११||

Adhikarana alasalakShaNam (12) · Śloka 12

विशेषतस्तु दुर्बलस्याल्पवह्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणोऽन्नपानमनिलप्रपीडितं श्लेष्मणा विबद्धमार्गमलसत्त्वादबहिर्मुखीभवत् छर्द्यतीसारवर्ज्यानि यथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि सोऽलसः||१२||

🔊 Audio coming soon

सर्वस्यैवाप्यतिमात्राशिनो वातः शूलादीन् करोति| दुर्बलत्वादियुक्तस्य त्वतिमात्राशिनो विशेषेण वातः प्रकुपितोऽन्नं प्रदूषयति| तच्चैवं प्रपीडितमूर्ध्वमधश्च श्लेष्मणा आकुलितं रुद्धमार्गमलसत्वात् छर्द्यतीसारवर्ज्यान्युत्कटानि शूलादीन्युपजनयति| सोऽलसोनामालसकविशेषः||१२||

Adhikarana asAdhyAlasakalakShaNam (13) · Śloka 13

अतिमात्रदुष्टास्तु दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदस्य शरीरं दण्डवत् स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते||१३||

🔊 Audio coming soon

अस्य अतिमात्रशिनोऽत्यर्थदुष्टा वातादयः पूर्वं प्रदुष्टेनामेन स्पष्टमार्गरोधात् तिर्यक् स्रोतोभिर्गच्छन्तः कदाचिद्दोषबलविशेषाच्छरीरं दण्डवत् स्तब्धं कुर्वन्ति| सोऽलसकविशेष आचार्या असध्य इति ब्रुवते||१३||

Adhikarana AmaviShaM tasyAsAdhyatva~jca (14) · Śloka 14

विरुद्धाध्यशनाजीर्णशीलिनः पुनरामदोषमामविषमामनन्ति विषसदृशलिङ्गत्वात्| तत्परमसाध्यानाम्| आशुकारितया विरुद्धोपक्रमत्वाच्च||१४||

🔊 Audio coming soon

यच्च विरुद्धादिकं प्रायेणाचरति तस्यामो वक्ष्यमाणलक्षणो दुष्यति| तस्मिन्दुष्टे विषभुक्तस्येव या पीडोत्पद्यते तत्राचार्या आमविषमिति नामामनन्ति कथयन्ति, विषसदृशलक्षणत्वात्| तच्चामविषमसाध्यानां रोगाणां परं कष्टतममसाध्यत्वेन| कुतः आशुकारितया विरुद्धोपक्रमत्वेन च| आशु शीघ्रं स्वं कर्म मारणं करोतीत्याशुकारि| तत्र हि दोषास्तथाविधं कोपमापद्यन्ते| यत्रैकस्मिन् दोष औषधमन्यस्मिन् दोषेऽत्यर्थं विरुध्यत इति विरुद्धोपक्रमत्वम्| अन्ये त्वन्यथा ब्रुवन्ति-यदि विषसदृशस्वरूपः| पीडाकर्तृत्वेन तत्रामो भवति विषे शीता क्रिया आमे अजीर्णे चोष्णा इत्युपक्रमविरोधः||१४||

Adhikarana mAtrayaiva na kRutsnAmAhAraphalamavApyate (15) · Śloka 15

न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुं शक्यं, स्वभावादीनां भिन्नफलत्वात्| तथा हि-गुरुरूक्षशुष्कशीतद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धात्यम्बुपानद्रवमकाले काले वा कामक्रोधलोभेर्ष्याह्रीशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति||१५||

🔊 Audio coming soon

ननु मात्राशिनोऽपि दुष्टामपीडा दृष्टा तत्कथमुच्यते| मात्राभोजनेनैव तु केवलेनाहारफलं बलवर्णोपचयादिकमवाप्तुं न शक्यते| कुतः? स्वभावसंयोगकालादीनामसदृशफलत्वात्| एतदेवोच्यते- न मात्रैव केवलं स्वास्थ्यकारणं यावत् द्रव्यस्वभावादयोऽपि| तथाहीत्यादिना स्वभावादीन्दर्शयति| गुरुत्वादिगुणयोगान्मात्रयापि भुक्तमाममेव दूषयतीति| तत्रासाध्यत्ववर्जितमामं दुष्टमलसत्वं प्राप्तम्||१५||

Adhikarana alasake mRudu vamanam (16) · Śloka 16

तत्र साध्यमामं दुष्टमलसीभूतमुल्लिखेत्, पाययित्वा सलवणमुष्णं वारि||१६||

🔊 Audio coming soon

तत्रेत्यादि| सलवणं लवणसंयुक्तमुष्णं वारि पीत्वा उल्लिखेत् नर आमं वमेदित्यर्थः||१६||

Adhikarana alasake tIkShNAni vamanAni (17) · Śloka 17

तथात्वच्छर्दयन्तमतिलीनदोषं कृष्णानागदन्तीकल्कयुक्तं पाययेत्| मदनफलकषायं वा पिप्पलीसिद्धार्थकल्कयुक्तम्| दन्तीमागधिकावचूर्णितं वा कोशातकीरसम्| अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि||१७||

🔊 Audio coming soon

दोषस्यानुत्क्लिष्टत्वादेवमप्यच्छर्दयन्तं पिप्पलीनागदन्तीचूर्णयुक्तमुष्णाम्बु पाययेत्| पिप्पलीसर्षपचूर्णयुक्तं वा मदनफलकषायम्| कोशातकीनिष्पीडितरसं वा दन्तीपिप्पलीयुक्तम्| एतानि वमनानि योग्यानि योग्यदेशकालशरीरापेक्षया योज्यानि| अन्यानि च वमनकल्पोक्तानि तीक्ष्णान्यातुरव्याध्याद्यवस्थापेक्षया योज्यानि||१७||

Adhikarana alasake svedagudavartI (18) · Śloka 18

ततः स्वेदवर्त्तिप्रणिधानाभ्यामुपाचरेत्||१८||

🔊 Audio coming soon

ततः कृतवमनं नानाविधस्वेदगुदवर्त्तिभ्यां चिकित्सेत्||१८||

Adhikarana alasake shUlaharAH yogAH (19) · Śloka 19

अपि च- सद्यः सम्यग्विशुद्धस्य शाम्यन्ति तदुपद्रवाः| शूले निरन्नकोष्ठेऽद्भिः कोष्णाभिश्चूर्णिताः पिबेत्| हिङ्गुप्रतिविषाव्योषसौवर्चलवचाऽभयाः| अथवा पिप्पलीमूलं त्रिवृतादारुसैन्धवम्| शुण्ठीः सक्षीरलवणपिप्पलीमरिचानि च| पाठाम्लवेतसक्षारयवानीपौष्कराणि वा||१९||

🔊 Audio coming soon

अपि चेति समुच्चये| सम्यग्विशुद्धस्य कृतवमनविरेकस्य तदुपद्रवा दुष्टामजा रोगाः सद्य एव शमं यान्ति| एवञ्च कृतसंशुद्धेः शूलेऽनुबद्धे कोष्ठे चाजीर्णान्नरहिते हिङ्ग्वादीन्यभयान्तानि चूर्णितानीषदुष्णजलेन पिबेद्यथाविहितमात्रया| अथवा पिप्पलीमूलादिसैंधवान्तं कोष्णादिभिरद्भिः पिबेदिति सम्बन्धः| शुण्ठ्यादिकं मरिचान्तं वा कोष्णाभिरद्भिरेव| पाठादिकं पुष्करमूलान्तं वा| एते चत्वारः प्रयोगाः शूलहरा अजीर्णान्नशेषाभावे दोषव्याध्याद्यपेक्षया यथायोगं योज्याः||१९||

Adhikarana alasake hi~ggvAdicUrNam (20) · Śloka 2

द्विरुत्तरं हिङ्गुवचाऽग्निकुष्ठसुवर्चिकाक्षारबिडाजमोजम्| शूलोदरानाहविषूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्||२||

🔊 Audio coming soon

हिङ्ग्वादिकमजमोजान्तं द्विरुत्तरप्रमाणयुक्तं शूलादिनाशनम्| यद्यस्मात् द्रव्यादुत्तरं तत्तस्मात् द्विगुणम्| तथा चैवं स्थितिम्| द्विरुत्तरमौषधं यस्यौषधस्येति द्विरुत्तरम्| द्वौ भागौ द्विः समभागतया उत्तरम्| तेनैतदुक्तं भवति- हिङ्गुनो भाग एकः| द्वौ भागौ वचायाः| चत्वारश्चित्रकस्याष्टौ कुष्ठस्य षोडश सुवर्चिकाक्षारस्य| द्वात्रिंशद्विडलवणस्य चतुष्षष्टिरजमोजस्येति||२०||

Adhikarana alasake tRuTchUlasaMyukte mustAdikvAthaH (21) · Śloka 21

मुस्ताजमोजपूतीकवचाशुण्ठ्यग्निधान्यकैः| सवालकशठीबिल्वैः क्वाथं तृट्छूलवान् पिबेत्||२१||

🔊 Audio coming soon

सप्त भेषजानि| निरन्नकोष्ठस्तु तृट्छूलसंयुक्तो मुस्तादीनां क्वाथकल्पनामानेन क्वाथं पिबेत्|| २१||

Adhikarana alasake rAsnAdilepodvarttanadhUpana~jca (22) · Śloka 22

रास्नाकट्फलषड्ग्रन्थाबृहतीद्वयजोङ्गकैः| गुग्गुल्वतिविषाकुष्ठपत्रव्याघ्रनखाम्बुदैः| कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्त्तनधूपनम्||२२||

🔊 Audio coming soon

रास्नादिभिः शुष्कैर्गोमूत्रमिश्रैर्वा लेपादीन् शरीरे योजयेत्| शुष्कस्य लेपशब्दोऽङ्गसंयोगादौपचारिकः||२२||

Adhikarana alasake saruje udare cAnaddhe devadArvAdilepaH (23) · Śloka 23

सरुक्चानद्धमुदरमम्लपिष्टैः प्रलेपयेत्| दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः||२३||

🔊 Audio coming soon

तस्मिंश्चामेऽलसीभूते सरुजमानद्धं हि जठरमम्लेन काञ्चिकमद्यादिना पिष्टैर्देवदार्वादिभिः प्रलेपयेत्||२३||

Adhikarana alasake koShThArttijidyavacUrNalepaH (24) · Śloka 24

यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित् परम्||२४||

🔊 Audio coming soon

यवचूर्णश्च यवक्षारतक्राभ्यां मिश्रितः परमत्यर्थं प्रलेपादेव कोष्ठार्तिजित्| अन्ये क्षारं भस्म वदन्ति||२४||

Adhikarana alasake viNmUtrasaMgrahe gudavartiH (25) · Śloka 25

योजयेत्सैन्धवान्तैश्च वर्तिं विण्मूत्रसङ्ग्रहे||२५||

🔊 Audio coming soon

विण्मूत्रसङ्ग्रहेऽनन्तरोक्तैर्देवदार्वादिभिः सैन्धवान्तैर्गुदवर्तिः पिष्टैर्देया||२५||

Adhikarana alasake svinnasya veShTanam (26) · Śloka 26

नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||२६||

🔊 Audio coming soon

तत्र चामदोषे ओषवशादङ्गानि नाम्यमानानि सङ्कोच्यमानानि यदि भवन्ति ततस्तान्यत्यर्थं स्विन्नानि चर्मपट्टादिना वेष्टयेत्||२६||

Adhikarana viShUcikAyAM pArShNyordAhaH (27) · Śloka 27

विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते||२७||

🔊 Audio coming soon

अतिवृद्धायां च विषूच्यां पार्ष्ण्योः घुटिकयोस्तप्तशस्त्रादिना दाहः प्रशस्यते||२७||

Adhikarana viShUcikAyAM dvikShArAdi tailAbhya~jjanam (28) · Śloka 28

द्विक्षारजीर्णपिण्याककुष्ठारुष्करचित्रकैः| सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम्||२८||

🔊 Audio coming soon

द्विक्षारादिभिः पक्वं तैलमभ्यञ्जनायेष्यते| शुक्तं तैलसमम्|

Adhikarana bhallAtakAdiyamakaH gAtrAyAmakhallIghnaH (29) · Śloka 29

सुच्छर्दितविरिक्तस्य गात्रायामेऽतिदारुणे| भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः| घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमम्||२९||

🔊 Audio coming soon

तत्र चामदोषेऽतिदारुणे वातकोपवशात् गात्राणामायामे वातव्याधिनिदानवक्ष्यमाणलक्षणे (नि०अ०-१५) भल्लातकादिभिर्घृतं तैलं च मिश्रितं पचेत् वाताद्युपयोगाय सुच्छर्दितविरिक्तस्य सतः| तच्च पक्वं घृततैलमुत्तमं खल्लीनाशनम्| खल्ली वक्ष्यमाणलक्षणा (नि०अ०-१५) वातव्याधौ||२९||

Adhikarana KalliviShUcikAghnamudvartanaM taila~jca (30) · Śloka 30

त्वक्पत्ररास्नागरुशिग्रुकुष्ठै रम्लप्रपिष्टैः सवचाशताह्वैः| उद्वर्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि||३०||

🔊 Audio coming soon

त्वगादिभिरम्लेन काञ्जिकादिना पिष्टैरुद्वर्तनं खल्लीं विषूचिकां च नाशयति| एभिरेव च त्वगादिभिः पक्वं तैलं तदर्थकारि विषूचिकास्वरूपमेव छर्दिविरेकादिमर्थं कुर्वद्रोगमुपशमयति||३०||

Adhikarana viShUcyAmupavAsaH saMsarjanakramashca (31) · Śloka 31

तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्| सामान्येनेति सिद्धोक्ता विषूच्यलसकक्रिया||३१||

🔊 Audio coming soon

एनं विषूचिकार्तं तदहर्विषूचिकादिवसमुपवास्य विरिक्तवत्संसर्जनं क्रमेणोपचरेत्| एतच्च वमनविरेचनविधौ व्याख्यास्यामः| इत्यनेन प्रकारेण विषूच्यलसकयोः सिद्धा निस्संशया कार्यकरी क्रियोक्ता|| ३१||

Adhikarana sheSheshvAmadoSheShu pAcanadIpanauShadhadAnopadeshaH (32) · Śloka 32

आमदोषेषु त्वन्नकाले जीर्णाहारं दोषोपलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधं वह्नि संधुक्षणार्थञ्च||३२||

🔊 Audio coming soon

शेषेषु त्वामदोषेषु जीर्णे ह्याहारे दोषोपलिप्तामाशयं पुरुषं तथा स्तिमितः अचलो गुरुश्च कोष्ठो यस्य तं तथाहारे च निरभिलाषिणं एवंविधावस्थायुक्तमामदोषिणमवेक्ष्याहारस्य जीर्णत्वात्कालवशाद्दोषेषु किञ्चितोपक्वेष्वपि दोषशेषस्य पाचनार्थमग्निसन्धुक्षणार्थं च किञ्चिदेवङ्गुणमौषधं पाययेत्||३२||

Adhikarana ajIrNAhArasya auShadhaniShedhastatra hetushca (33) · Śloka 33

अजीर्णाहारं पुनर्न पाययेत्| यत आमदोषदुर्बलो ह्यग्निर्युगपदामदोषमौषधमाहारजातं चाशक्तः पक्तुम्| अपि चैशां विभ्रमोऽतिबलत्वादुपरतानलबलमातुरं सहसैवातिपातयेत्||३३||

🔊 Audio coming soon

अजीर्णाहाराय न देयमौषधम्| यत आमदोषकृतबलहानिरग्निर्वातादिकमपक्वं दोषं प्रयुज्यमानमौषधमाहारञ्चाजीर्णं पक्तुमशक्तः| अपि चेति पादसमुच्चये| एषामामादीनां बिभ्रमो दुष्टोत्कर्षिणी सामग्री अतिबलत्वान्नष्टानलबलमातुरं सहसैवातिपातयेत् शीघ्रमेव मारयेदित्यर्थः||३३||

Adhikarana AmadoShANAmapatarpaNenaiva cikitsopadeshaH (34) · Śloka 1

आमदोषजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति||१||

🔊 Audio coming soon

सर्वेषां च पुनरामदोषजानां स्तैमित्यादीनां विकाराणामपतर्पणं लङ्ग़नमेव चिकित्सा||३४||

Adhikarana apatarpaNasya traividhyam (35) · Śloka 35

तत्तु त्रिविधं लङ्घनं लङ्घनपाचनमवसेवनञ्च||३५||

🔊 Audio coming soon

तत्त्वपतर्पणं त्रिप्रकारम्||३५||

Adhikarana la~gghanam (36) · Śloka 36

तत्र लङ्घनमल्पदोषाणाम्| तेन ह्यनिलानलवृद्ध्या वातातपपरीत इवाल्पः सलिलाशयोऽल्पदोषः प्रशोषमापद्यते||३६||

🔊 Audio coming soon

तत्र स्वल्पदोषाणां लङ्घनमेव| अत्र लङ्घनशब्देनोपवासो भण्यते| तेन हीत्यादिना दृष्टान्तः| तेन ह्युपवासेनानिलोऽग्निश्च वृद्धिं याति| तद्वृद्ध्या चाल्पो दोषः शोषं प्राप्नोतीति| यथाल्पसलिलाशयो जलस्थानं तटाकादि, वातातपवृद्ध्या शोषं यान्ति| तद्वद् दोषोऽपि||३६||

Adhikarana la~gghanapAcanayoH (37) · Śloka 37

लङ्घनपाचनाभ्यां मध्यदोषे वातातपाभ्यान् पांसुभस्मावकिरणैरिव चानतिमहान् सलिलाशयः||३७||

🔊 Audio coming soon

तथा मध्यदोषो नातिवृद्धो लङ्घनेनोपवासेन पाचनेन च क्वाथादिना शोषं याति| यथा मध्यः सलिलाशयो नातिबहुजलो वातातपाभ्यां पांसुभस्मावकिरणेन शोषमापद्यते| तद्वन् मध्योऽपि दोषः| लङ्घनस्य वातातपाभ्यां सादृश्यम्| पाचनस्य पांसुभस्मावकिरणेन||३७||

Adhikarana avasecanam (38) · Śloka 38

बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्| न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति||३८||

🔊 Audio coming soon

बहुदोषाणां दोषावसेचनं वमनविरेचनेनापतर्पणम्| दृष्टान्तो यथा- पल्वलोदकौघे नड्वलपानीये अस्राविते तत्स्थानां शाल्यादीनां पुष्टिर्न भवति| बहूनां दोषाणां पल्वलोदकेन सादृश्यम्| शालीनामायुषा अनुक्तेनापि बलात्सादृश्यम्| शरीरस्य पल्वलेन च||३८||

Adhikarana santarpaNajanyavyAdherapatarpaNamauShadhamapatarpaNajanye santarpaNa~jca (39) · Śloka 39

तस्मात्सन्तर्पणनिमित्तानां नान्तरेणापतर्पणमस्ति शान्तिः| अपतर्पणनिमित्तानाञ्च नान्तरेण सन्तर्पणमिति||३९||

🔊 Audio coming soon

तस्मादनया दिशा एतदुक्तं भवति- सर्वेषां सन्तर्पणोत्थानां व्याधीनामपतर्पणं कार्यम्| अपतर्पणोत्थानां च सन्तर्पणमिति||३९||

Adhikarana sarvAmayeShu nidAnaviparItamauShadhamavacAraNIyam (40) · Śloka 40

एवमन्येषामपि व्याधीनां यथास्वं निदानविपरीतमौषधमवचारयेत्||४०||

🔊 Audio coming soon

एतच्च स्वयमुक्तवता शास्त्रकारेणौषधं निदानविपरीतं दर्शितम्| निदानं हेतुरिति पर्यायौ| सन्तर्पणहेतुकानामपतर्पणमिति|

Adhikarana vyAdhiviparItatadarthakAricikitsayoshcAvasaraH (41) · Śloka 41

सति त्वनुबन्धे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा||४१||

🔊 Audio coming soon

यदा तु सर्वव्याधयो हेतुविपरीतौषधेन कृतेनापि न शाम्यन्ति तदा व्याधिविपरीतं कार्यम्| तदर्थकारि वा| न हेतुविपरीतमात्रेणैव कृतार्थतामवलम्बेत| एतानि हेतुविपरीतादीनि वक्षमाणलक्षणानि||४१||

Adhikarana nirAmAderabhya~ggAdividhAnam (42) · Śloka 42

विमुक्तामदोषस्य पुनः परिक्वामदोषशेषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विविधस्नेहपानं च युक्त्या प्रयोज्यम्| प्रसमीक्ष्य दोषौषधादीनामवस्थान्तराणि||४२||

🔊 Audio coming soon

विमुक्त आमदोषेण यः पुरुषः कालौषधादिना परिपक्वदोषो दीप्ताग्निश्च तस्य शरीरस्य दोषप्रयुज्यमानौषधादीनां नानाविधान्यवस्थान्तराण्यभिसमीक्ष्याभ्यङ्गादीनामन्यतमं यथेच्छं वा युक्त्या यथा संवाहनेन कामं योजयेत्||४२||

Adhikarana asAdhyAmadoShavataH lakShaNam (43) · Śloka 43

भवन्ति चात्र- यः श्यावदन्तौष्ठनखोऽल्पसंज्ञः छर्द्यर्दितोऽन्तर्गतताम्रनेत्रः| क्षामस्वरः स्रस्तसमस्तसन्धि- र्यायान्नरोऽसौ पुनरागमाय||४३||

🔊 Audio coming soon

भवन्ति चात्रेति श्लोकैरर्थसमुच्चये तन्त्ररीतिः| प्रकरणाद्यामदोषवान् श्यावदन्तत्वादिलक्षणयुक्तः स नरो पुनरागमनाय यायात् म्रियत इत्यर्थः||४३||

Adhikarana viShUcikAghnAH vyoShAdya~jjanam (44) · Śloka 44

व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्गाः| छायाविशुष्का गुलिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन||४४||

🔊 Audio coming soon

व्योषादिकृता वर्त्तयो नेत्राञ्जनेन विषूचिकां हन्युः| समावाप्य सम्मिश्र्य||४४||

Adhikarana viShUcikAghnI shirIShAdivartiH (45) · Śloka 45

शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामार्गफलैश्च वर्त्तिः| बस्तस्य मूत्रेण विषूचिकाघ्नी प्रलेपधूपाञ्जननस्ययोगैः||४५||

🔊 Audio coming soon

शिरीषादिभिश्चूर्णितैर्बस्तस्य छागस्य मूत्रेण कृता वर्त्तिः| प्रलेपादियोगाद्विषूचिकाघ्नी| एषामदोषचिकित्साऽजीर्णेऽन्ने योज्याः|

Adhikarana ajIrNasya traividhyam (46) · Śloka 46

अजीर्णं च कफादामं विष्टब्धमनिलाद्भवेत्| विदग्धं पित्तकोपेन त्रिप्रकारमिति स्मृतम्||४६||

🔊 Audio coming soon

अजीर्णमन्नमुच्यते| त्रिविधमजीर्णम्| कफाधिक्येन वाताधिक्येन द्रवस्वरूपपित्ताधिक्येन वा| अग्निवैपरीत्येन कफस्याजीर्णकर्तृत्वे प्राधान्यादग्रे पाठः||४६||

Adhikarana AmAjIrNalakShaNam (47) · Śloka 47

तत्रामे गुरुतोत्क्लेदः शोफो गण्डाक्षिकूटयोः| उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते||४७||

🔊 Audio coming soon

तत्र कफकृतोऽजीर्ण आमनामा तस्मिन् स्थिते गात्राणां गुरुत्वं धातूनामुत्क्लेदः| उत्क्लेदो विकारविशेषः| सद्यो भुक्तवदप्राप्तविदाहावस्थो ह्युद्गारः||४७||

Adhikarana viShTabdhAjIrNalakShaNam (48) · Śloka 48

विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः| मलवातप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम्||४८||

🔊 Audio coming soon

वातेनाजीर्णं विष्टब्धमुच्यते| तस्य लक्षणं जठरशूलाद्युद्भवः||४८||

Adhikarana vidagdhAjIrNalakShaNam (49) · Śloka 49

विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजाः| उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते||४९||

🔊 Audio coming soon

पित्तादजीर्णं विदग्धशब्देनोच्यते| तस्य लक्षणं भ्रमाद्युद्भवः| उद्गारश्चास्य धूम इव जठरादुदेति तीक्ष्णतया||४९||

Adhikarana AmAdyajIrNeShu cikitsAsUtram (50) · Śloka 50

लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम्| विदग्धे वमनम् यद्वा यथावस्थं हितं भवेत्||५०||

🔊 Audio coming soon

आमे अजीर्णे चिकित्सा लङ्घनमुपवासः| विष्टब्धेऽत्यर्थं स्वेदः| विदग्धे वमनम्| अवस्थाविशेषेण वा सर्वमेतत् सर्वत्रापि||५०||

Adhikarana vilambikAlakShaNaM pratIkArashca (51) · Śloka 51

गरीयसो भवेल्लीनादामादेव विलम्बिका| कफवातानुविद्धामलिङ्गा तत्समसाधना||५१||

🔊 Audio coming soon

एतत्प्रसङ्ग इदमाह- आमान्महास्रोतसि लीनात् गरीयसः प्रभूताद्विलम्बिका नाम रोग उत्पद्यते| सा च विलम्बिका वातश्लेष्मभ्यामनुबद्धा भवति| सा चामनामाजीर्णसदृशलक्षणातच्चिकित्सा च||५१||

Adhikarana rasasheShAjIrNalakShaNaM pratIkArashca (52) · Śloka 52

रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे| तत्राभुक्त्वा दिवा स्वप्यात्क्षुद्वानद्याल्लघु प्रति||५२||

🔊 Audio coming soon

जीर्णे त्वन्ने कदाचिदाहारसारो रसोऽजीर्णो भवत्यतस्तल्लक्षणमुच्यते- अन्नविद्वेष इत्यादि| तत्र रसेऽजीर्णे अकृतभोजनः स्वप्याद्वा लाघवात्| प्रबुद्धश्च यदि क्षुद्वांस्ततोऽद्याल्लघुप्रति| लघु स्तोकम्| स्वभावलघु स्वल्पमात्रं चेत्यर्थः||५२||

Adhikarana agnyanurodhena bhojyauShadhayoH pAkakAlaH (53) · Śloka 53

यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे| पाकोऽग्नौ युक्तयोर्द्राक्च तीक्ष्णे मन्दे पुनश्चिरात्||५३||

🔊 Audio coming soon

एतच्चाजीर्णं दोषोपहताग्निवशाद्भवति| तस्य च दोषोपहतत्वे त्रिविधं रूपं विषमत्वादि शारिरे वक्ष्यमाणलक्षणम्| दोषाननुबन्धेन चतुर्थं रूपं यत्समत्वम्| तस्य चतुर्विधस्याग्नेर्जीर्णाजीर्णनियमं कालनियमेन दर्शयति| समेऽग्नौ बलशरीराद्यपेक्षया उपयुक्तस्य भोज्यस्याहारस्य मात्रया चोपयुक्तस्य चतुर्भियामैः पाको भवति| भेषजस्यौषधस्य तद्वद् द्वाभ्यां यामाभ्याम्| युक्तयोर्देशकालशरीराद्यपेक्षया प्रयुक्तयोर्भोज्यभैषज्ययोरित्युक्तमेवास्माभिः| तीक्ष्णेऽग्नौ यथोक्ते कालेऽप्राप्ते विपाकः| मन्देऽग्नौ पुनश्चिरान्मन्दत्वातिशयापेक्षया यथोक्तं कालं बहु बहुतरं चातिक्रम्याऽऽटोपादिकंच कृत्वा| विषमे तु प्रकृतानुपयोगः यतः स कदाचित्तैक्ष्ण्यं कदाचिन्मान्द्यं भजते| अजीर्णज्ञाने तु वर्तमानमेवाहोरात्रमग्निस्तीक्ष्णोऽन्यो वा उपकरोति सातत्येन| अतो विषमोऽत्र नोक्तः||५३||

Adhikarana mandAgneH sabhaktauShadhadAnaM pUrvAhNe bhojana~jca (54) · Śloka 54

सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्| पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम्||५४||

🔊 Audio coming soon

अत एव च कारणादाह-सभक्तमित्यादि| यतो मन्दाग्नौ चिरात् पाकस्ततो मन्दाग्नेः पुरुषस्य सभोजनमौषधं दीयते| अत्र युक्तिरुच्यते- यस्मान्मन्दाग्नेराहारश्चिरात् पाकं याति ह्यस्तने चान्नेऽजीर्णे अद्यतनाहारयोग्ये च कालेऽन्तरौषधस्योपयोगकरणकालो न संभवतीति| समे चाग्नौ चतुर्भिर्यामैरन्नपाक उक्तः| अष्टौ च यामा अहोरात्रम्| तेन बलादुक्तं भवति-अहोरात्रवर्तितस्यान्नस्य द्वौ भोजनकालाविति| तत्र रात्रौ भोजनप्रतिषेधादहन्येव द्वौ वारौ पूर्वाह्णे चापराह्णे च भोजनम्| पूर्वाह्णे तत्साम्यमुचितं पथ्यं लघु च सदग्निदीप्तिकरं बृंहणं च| ह्यस्तने ह्याहारे सम्यक् परिणते विमलेषु स्रोतस्सूपयोगादेतस्य चासम्भवादपराह्णे भोजनं पूर्वाह्णे भोजनात् गुणैर्हीनम्||५४||

Adhikarana pUrvAhNabhojane~ajIrNe~api sAyaMbhojanopadeshaH (55) · Śloka 55

प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति| अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति||५५||

🔊 Audio coming soon

ननु चतुर्भिर्यामैरन्नपाक उक्तस्तत्कथमहःसंज्ञे चतुर्यामे द्वौ वारौ भोजनं विधीयते अजीर्णप्रतिषेधः कथं नापततीत्याह- प्रातराशे त्विति| पूर्वाह्णभोजनेऽजीर्णेऽपि सायमाशो न दुष्यति| बलादुक्तं सायमाशेऽजीर्णे प्रातराशो दुष्यतीति||५५||

Adhikarana prAtarAshe~ajIrNe~api sAyamAshAnumatau yuktiH (56) · Śloka 56

दिवा प्रबोध्यतेऽर्केण हृदयं पुण्डरीकवत्| तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः| व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः| न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः| अक्लिन्नेष्वन्नमासिक्तमत्यन्तेन न दुष्यति| अविदग्धेष्विव पयस्स्वन्यत्सम्मिश्रितं पयः||५६||

🔊 Audio coming soon

कात्र युक्तिरित्युभयस्यापि युक्तिरुच्यते-प्रथमस्य युक्तिर्दिवसस्य प्रारम्भप्रभृत्यर्केण सूर्यभट्टारकेण बाह्यपुण्डरीकवत् पुरुषस्य हृदयपुण्डरीकं प्रबोध्यते प्रकाश्यते| तस्मिंश्च हृदये प्रबुद्धे पुरुषस्य व्यायामेन शरीरचेष्ट्या विचारेण च बुद्धिविकल्पनेन तथा चेतसश्च मनसो विक्षिप्तत्वेन क्रियायोगाः व्यायामादियोगाच्च सर्वस्रोतांसि स्वबाह्यवाहकत्वे स्फुटत्वं निरावरणत्वं यान्ति| यतः स्रोतसां स्फुटत्वेन वातादयो धातवः कोष्ठे परिक्लेदं न यान्ति| तेनाक्लिन्नेषु धातुषु सायमाशोऽन्नमासिक्तं जठरे न्यस्तमत्यन्तेन न दुष्यति| अत्यन्तग्रहणं किञ्चित् दुष्यति सात्म्यत्वादिना रोगं न करोतीति ज्ञापनार्थम्| दृष्टान्तो यथा- अविदग्धे अनग्निस्पृष्टे पयस्यन्यत् पयो न्यस्तं न दुष्यतीति| ये त्वन्नमन्यदासिक्तं ते हेतुना न दुष्यतीति वदन्ति तेषामासिक्तशब्देनैवान्यत्वस्य लब्धत्वाद्विचारणीयम्||५६||

Adhikarana sAyamAshe~ajIrNe prAtarAshasya niShedhe yuktiH (57) · Śloka 57

रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च| यान्ति कोष्ठे परिक्लेदं संवृते सर्वधातवः| क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति| विदग्धेषु पयस्स्वन्यत् पयस्तप्तेष्विवार्पितं| नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्||५७||

🔊 Audio coming soon

द्वितीयस्य वस्तुनो युक्तिरुच्यते- रात्रावित्यादि| पूर्ववैपरीत्येन व्याख्येयम्||५७||

Adhikarana jIrNAhAralakShaNam (58) · Śloka 58

उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः| लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम्||५८||

🔊 Audio coming soon

उद्गारशुद्ध्यादि जीर्णाहारपुरुषस्य लक्षणम्||५८||

Adhikarana ashanalubdhatvameva viShUcikAyAH kAraNam (59) · Śloka 59

प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते| नृणामशनलुब्धानां विशेषेण विषूचिका||५९||

🔊 Audio coming soon

अध्यायार्थमुपसंहारन्नाह- सकलो रोगग्रामो व्याधिसमूहः| प्रायो बाहुल्येन प्रज्ञापराधेन त्याज्यसेवनादनुष्ठेयत्यागाच्च जायते| नराणां भोजनलुब्धानां तु न तथान्ये रोगा उत्पद्यन्ते| यथा विषूचिका||५९||

Adhikarana duShTA buBukShA (11) · Śloka 11

दोषोपनद्धं यदि लीनमन्नं पित्तोल्बणस्यावृणुयान्न वह्निम्| जायेत दुष्टा तु ततो बुभुक्षा या मन्दबुद्धीन् विषवन्निहन्ति| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने मात्राशितीयो नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

अजीर्णाहारमुच्यते| तच्च व्याप्तिमदिति प्रदर्शनार्थमाह- दोषोपनद्धमित्यादिना| द्रव्यस्वरूपपित्तोल्बणस्य पुरुषस्य वातश्लेष्मरुद्धमन्नं कोष्ठैकदेशे लीनं द्रव्यपित्ताधिक्यादग्निसम्बन्धं गन्तुं न शक्नोति| तत्र तदा दुष्टा भोक्तुमिच्छोत्पद्यते| या मन्दबुद्धीन् भोजनयोग्यत्वविकल्पशून्यान् भोजनोपयोगेन विषवत् पुरुषान् मारयतीति||६०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने एकादशोऽध्यायः||११||