Adhikarana athAshcyotanA~jjanavidhirnAma dvAtriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
ऊर्ध्वाङ्गस्य प्रकृत्वात्तत्र च नेत्रयोः प्राधान्याच्छालाक्यस्य चाष्टाङ्गानुप्रवेशात् सूत्रस्थाने नेत्रोपचारायाध्याय आरभ्यते-अथा इत्यादि || १ ||
Adhikarana AshcyotanAdhikAraH tadguNAshca (2) · Śloka 2
आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः|
नानाद्रव्यकल्पनया च रागाश्रुग़र्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम्||२||
आश्च्योतनं नयनसेकः | तच्चाक्षिरोगेषु प्रधान उपक्रमः |यथास्वं च द्रव्यैः प्रकल्पितं नेत्ररोगादिघ्नम् || २ ||
Adhikarana biDAlakalakShaNam (3) · Śloka 3
अव्योक्तेष्वेवङ्गुणमेव पक्ष्मपरिहारेणाक्षिकोशालेपनम्|
तच्च पुनर्बिडालकसंज्ञम्||३||
अव्योक्तेष्वस्फुटेषु रागादिषु तैरेव द्रव्यैर्गहिरालेपनम् | तद्बिडालकसंज्ञम् || ३ ||
Adhikarana AshcyotanabiDAlakayoH kAlAkAlanirdeshaH (4) · Śloka 4
तयोरकालो रात्रिः|
कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा||४||
तयोरित्यादि | तयोरित्याश्च्योतनबिडालकयोः | सुबोधम् |
Adhikarana AcyotanavidhiH tadviGAte doShAH (5) · Śloka 5
निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्तावसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत्|
एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते|
आश्च्योतितं च मृदुना चैलेन शोधयेत्|
अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत्|
आश्च्योतनं च तयोः कोष्णम्|
सुशीतं पित्तरक्तविषेषु|
तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत्|
अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति|
अतिशीतं स्तम्भाश्रुग़र्षनिस्तोदान्|
अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वग़र्षान्|
ऊनप्रमाणं न रोगशान्तिम्|
अपरिस्रुतमश्रुग़र्षवेदनाः||५||
अपाङ्गः कर्णतो नेत्रान्तम् | कनीनिका नासानिकटे | शुक्तिमुख़े प्रलम्बमाना पिचुवर्तिः कार्या | तयोरिति वातकफयोः | अपरिस्रावितमौषधं पटेनागलितम् | ग़र्ष इव ग़र्षः | कषायवर्त्मता कटकटायनम् | अपरिस्रावितमश्वादिकं करोति || ५ ||
Adhikarana AshcyotanakArmukatA (6) · Śloka 6
नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम्||६||
सर्वं चौषधं नेत्रे प्रणिहितमक्षिकोशादिकं ग़्राणास्यस्रोतांसि च गत्वोर्ध्वप्रवृतं दोषमपावर्तयतीति सम्बन्धः || ६ ||
Adhikarana pakvali~gge~a~jjanAKyo visheShopacAraH (7) · Śloka 7
यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाग़नत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छेदैः पक्वलिङ्गमुपलक्षितं भवति|
तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम्|
न दोषवेगोदये|
न चनिर्हृतदोषे|
तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च||७||
यदा चेत्यादिनाञ्जनविधिः | पित्ताद्युत्थेषु नयनामयेषु आश्च्योतनेन संशोधनैश्च विशुद्धस्य यदा दूषिकादिविच्छेदैः पक्वलिङ्गं ज्ञातं भवति | तदा नेत्रमात्राश्रये व्याधौ शुद्धशरीरस्याञ्जनं योज्यमिति सम्बन्धः | सुबोधम् | अक्षिपाको रोगविशेषः || ७ ||
Adhikarana a~jjanaBedAH dravyANi ca (8) · Śloka 8
तत्तु लेख़नं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति|
तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेख़नम्|
तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम्|
सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम्|
स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम्||८||
तच्चाञ्जनं लेख़नादिभेदेन चतुर्विधम् | तत्र मधुरवर्ज्यै रसैर्लेख़नं भवति | तच्च शुक्लादिषु | तच्च शुक्लादिषु | तिक्तैः कषायैश्च स्नेहमिश्रैः रोपणं भवति | तच्चाभिष्यन्दादिषु | सर्पादिवसादिभिः स्नेहनं भवति | तच्च वाततिमिरादिषु | स्वादुशीतैः स्नेहमिश्रैः प्रसादनं नाम भवति | तदभिष्यन्दस्यान्ते सूर्योपरागावलोकनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च || ८ ||
Adhikarana pratya~jjanam a~jjanasya ShaDvidhatvaM dvividhatvaM vA (9) · Śloka 9
प्रसादन एव च चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते|
षड्विधं वा प्रतिरसभेदादञ्जनम्|
द्विविधमेव वा तीक्ष्णं मृदु च||९||
यदान्येन तीक्ष्णाञ्जनेन सन्तप्ते चक्षुषि प्रसादनमेव चूर्णं प्रयुज्यते तदा तच्चूर्णं प्रत्यञ्जनसंज्ञां प्राप्नोति | सुबोधम् || ९ ||
Adhikarana a~jjanakalpanABedAH mAtrA ca (10) · Śloka 10
कल्पना तु त्रिविधा|
पिण्डो रसक्रिया चूर्णश्च|
यथापूर्व ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषु क्रमात्तान् प्रयोजयेत्|
तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य|
रसक्रिया विडङ्गमात्राः|
तद्द्विगुणा मृदोः|
चूर्णो द्विशलाकः|
मृदोस्त्रिशलाकः||१०||
तस्य चाञ्जनस्य कल्पना पिण्डादिभेदेन त्रिविधा | तत्र प्रबलेष्वामयेषु पिण्डो मध्येषु रसक्रिया अबलेषु तु चूर्णः | तत्रेत्यादि सुबोधम् | शलाकामुख़द्वयलग्नश्चूर्णो मात्रा तीक्ष्णस्येति यथासङ्ख़्यम् || १० ||
Adhikarana a~jjanasthApanapAtraM gharShaNashilA ca (11) · Śloka 11
पात्रे तु कुर्यात् सौर्वर्णे मधुरम्|
राजतेऽम्लम्|
मेषशृङ्गमये लवणम्|
कांस्ये तिक्तम्|
वैडूर्यमयेऽश्ममये वा कटुकम्|
ताम्रमय आयसे वा कषायम्|
नलप्लक्षपद्मस्फटिकशङ्ख़ाद्यन्यतमे शीतम्|
एवमव्यापन्नगुणं भवति|
वर्तिग़र्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायतान्यङ्गुलविस्तीर्णा||११||
पात्र इत्यादि सुबोधम् | अनुद्गारिणी या घृष्यमाणे नोद्गिरति ||११||
Adhikarana shalAkABedAH teShAmupayogasthalAni ca (12) · Śloka 12
शलाकाः पञ्च कनकरजतताम्रमोहोद्भवा अङ्गुली च|
तत्राद्ये प्रसादनेऽञ्जने स्नेहने च|
मध्या लेख़ने|
अन्त्ये रोपणे|
मृदुत्वादङ्गुल्यत्र प्रधानतमा|
अतः सरुजेऽक्ष्णि सैव प्रयोज्या|
शेषा दशाङ्गुला राजमाषस्थूलाः|
सुश्लक्ष्णास्तनुमध्या मुख़योर्मुकुलाकाराः कलायपरिमण्डलाश्च||१२||
शलाका इत्यादि सुबोधम् | आद्ये कनकरजते द्वे शलाके प्रसादनेऽञ्जने योज्ये स्नेहने च | मध्या ताम्रमयी | अन्त्ये लोहाङ्गुल्यौ | कलायपरिमण्डला मुकुलाकारा मुख़योरतीक्ष्णाग्रेत्यर्थः ||१२||
Adhikarana a~jjanakAlaH (13) · Śloka 13
अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम्|
तथा सततं नैव वा||१३||
अथाञ्जनं नातिशीतोष्णाभ्रवातायां सदोभयकालं च योजयेत् | नैव वा कस्यचिदञ्जनं योजयेत् | एतावता एतदुक्तं भवति-उचिताञ्जनाय सततमञ्जनं देयम् | अनुचिताञ्जनाय नैव देयमिति | तथा च वैदेह्यां संहितायं स्कन्दरक्षितसंस्कृतायां पठ्यते | अनञ्जनेनाभ्युचितान्मनुष्यान् प्रबाधते दत्तमिहाञ्जनन्तत् | अथाञ्जनेनाभ्युचिताननेकाननञ्जनाद्व्याधिरुपैति कृच्छ्रः || तस्माद्धि नित्याञ्जनमेव पथ्यमनञ्जनञ्जानुचितस्य पथ्यम् | अनञ्जनात्त्वञ्जनमेव भूयस्तस्माद्धि नित्याञ्जनमेव कुर्यात् | अनञ्जनो यस्तु पुनर्मनुष्यः कथं सुख़ी स्यात्पुनरञ्जनेन || इति || एतच्च स्वस्थवृत्त एवोच्यते | आतुरवृत्ते तु व्याध्युपशमावधि त्वञ्जनं स्यात् || १३ ||
Adhikarana saruje~akShiNa prathamama~jjanaM yojayet (14) · Śloka 14
सरुजे चाक्ष्णि प्राक्पश्चादितरस्मिन्|
अन्यथाऽञ्जनोद्वेगसङ्कुचितेऽन्तः सम्यगौषधं नानुप्रविशेत्|
तत्रैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः||१४||
यत्रैकमक्षि सरुजं द्वितीयं नीरुजं तत्र सरुजोऽक्ष्णि प्रथमं नीरुजेऽक्ष्णि पश्चादित्येवं योजयेत् | अन्यथा प्राक् नीरुजे दीयमानमुद्वेगेन सरुजस्याक्ष्णः सङ्कोचनादौषधं न प्रविशति | सुबोधम् || १४ ||
Adhikarana a~jjanAnArhAsteShAma~jjanAddoShAshca (15) · Śloka 15
न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदन्तनस्यरात्रिजागरितवेगितरुदितपिपा- सितज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु|
एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृच्छ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत्||१५||
तच्चाञ्जनं क्रुद्धादिषु न योज्यम् | अशितमात्रे भोजनानन्तरम् | एषु क्रुद्धादिषूर्ध्वशरीरस्थ ऊष्मा संरम्भादीन् जनयेत् || १५ ||
Adhikarana a~jjanavidhiH (16) · Śloka 16
अथ समसुख़ोपविष्टस्योपविष्टो वामाङ्गुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधः कनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितीक्ष्णमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमग़ट्टितमनाक्रान्तञ्च|
चूर्णे तु गतागतं कुर्यात्|
अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः|
ततोऽञ्जनानुगमनायानुन्मीलयन् शनैरन्तश्चक्षुः सञ्चारयेत्|
एवमप्यनुगच्छति|
वर्त्मनी किञ्चिच्चालयेत्|
न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्|
स बाष्पोत्क्लिष्टदोषस्तम्भभयात्||१६||
अथोपविष्टो वैद्य उपविष्टस्यातुरस्योर्ध्वमक्षिपुटमुत्क्षिप्य यथोक्तविधानेनाञ्जयेत् | अञ्जनानुगमायेति | तथाञ्जनं सकलमक्ष्यनुगच्छति || १६ ||
Adhikarana a~jjanottaraM netraprakShalanAdi (17) · Śloka 17
अपि च- अपेतौषधसंरम्भं निर्वृतं नयनं यदा|
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा|
सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम्|
ऊर्ध्ववर्त्मनि संगृह्य शनैः शोध्यं समन्ततः|
दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यञ्च लोचनम्|
वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा||१७||
यदा चोपेतौषधसंरम्भं चक्षुर्भवति तदा व्याध्यादियोग्याभिरद्भिः प्रक्षालयेत् | तथा वैद्यो वामाङ्गुष्ठेनातुरस्य दणिमक्षि शोधयेत् | दक्षिणेन च वामम् | अतोऽन्यथेति संशोधनेन विनाञ्जनेन वर्त्मप्राप्तो दोषो वर्त्मन्येव रोगान् कुर्यात् || १७ ||
Adhikarana tIkShNA~jjanAnte dhUmAdi (32) · Śloka 32
तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत्|
यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः|
तस्य तीक्ष्णमञ्जनं धूमं वा पुनरेवावचारयेत्|
एतदेव द्रुविरिक्ताक्षिलक्षणं साधनञ्च|
अतिविरेकात् अन्तापनिस्तोदशूलस्तम्भग़र्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि|
तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा|
सम्यग्विरेकाद्यथास्वमामयोपशमः|
सुख़ोन्मीलननिमीलनवातातपसहत्वानि चेति|
भवति चात्र - रोपणादिष्वपि तथा योगादीननुचिन्तयेत्|
दोषोदयानुसारेण प्रतिकुर्वीत तेषु च||१८||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने आश्च्योतनञ्जनविधिर्नाम द्वात्रिंशोऽध्यायः||३२||
तीक्ष्णेत्यादि सुबोधम् | एतदेवेति | कण्ड्वादिकं दुर्विरिक्ताक्षिलक्षणम् | एषैव तत्र चिकित्सा यत्तिक्ष्णमञ्जनं धूमो वा अक्ष्णि तीक्ष्णाञ्जनातियोगात् सन्तापाद्युद्भवः | सम्यग्विरेकाद्रोगोपशमः सुख़ोन्मीलनादयश्च जायन्ते | रोपणादिष्वपि यथायोग्यं सम्यग्योगादींस्तच्चिकित्सां चोहयेत् || १८ || इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने द्वात्रिंशोऽध्यायः||३२||