Adhikarana athAshcyotanA~jjanavidhirnAma dvAtriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana athAshcyotanA~jjanavidhirnAma dvAtriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana AshcyotanAdhikAraH tadguNAshca (2) · Śloka 2
आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः| नानाद्रव्यकल्पनया च रागाश्रुग़र्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम्||२||
🔊 Audio coming soon
Adhikarana biDAlakalakShaNam (3) · Śloka 3
अव्योक्तेष्वेवङ्गुणमेव पक्ष्मपरिहारेणाक्षिकोशालेपनम्| तच्च पुनर्बिडालकसंज्ञम्||३||
🔊 Audio coming soon
Adhikarana AshcyotanabiDAlakayoH kAlAkAlanirdeshaH (4) · Śloka 4
तयोरकालो रात्रिः| कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा||४||
🔊 Audio coming soon
Adhikarana AcyotanavidhiH tadviGAte doShAH (5) · Śloka 5
निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्तावसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत्| एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते| आश्च्योतितं च मृदुना चैलेन शोधयेत्| अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत्| आश्च्योतनं च तयोः कोष्णम्| सुशीतं पित्तरक्तविषेषु| तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत्| अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति| अतिशीतं स्तम्भाश्रुग़र्षनिस्तोदान्| अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वग़र्षान्| ऊनप्रमाणं न रोगशान्तिम्| अपरिस्रुतमश्रुग़र्षवेदनाः||५||
🔊 Audio coming soon
Adhikarana AshcyotanakArmukatA (6) · Śloka 6
नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम्||६||
🔊 Audio coming soon
Adhikarana pakvali~gge~a~jjanAKyo visheShopacAraH (7) · Śloka 7
यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाग़नत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छेदैः पक्वलिङ्गमुपलक्षितं भवति| तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम्| न दोषवेगोदये| न चनिर्हृतदोषे| तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च||७||
🔊 Audio coming soon
Adhikarana a~jjanaBedAH dravyANi ca (8) · Śloka 8
तत्तु लेख़नं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति| तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेख़नम्| तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम्| सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम्| स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम्||८||
🔊 Audio coming soon
Adhikarana pratya~jjanam a~jjanasya ShaDvidhatvaM dvividhatvaM vA (9) · Śloka 9
प्रसादन एव च चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते| षड्विधं वा प्रतिरसभेदादञ्जनम्| द्विविधमेव वा तीक्ष्णं मृदु च||९||
🔊 Audio coming soon
Adhikarana a~jjanakalpanABedAH mAtrA ca (10) · Śloka 10
कल्पना तु त्रिविधा| पिण्डो रसक्रिया चूर्णश्च| यथापूर्व ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषु क्रमात्तान् प्रयोजयेत्| तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य| रसक्रिया विडङ्गमात्राः| तद्द्विगुणा मृदोः| चूर्णो द्विशलाकः| मृदोस्त्रिशलाकः||१०||
🔊 Audio coming soon
Adhikarana a~jjanasthApanapAtraM gharShaNashilA ca (11) · Śloka 11
पात्रे तु कुर्यात् सौर्वर्णे मधुरम्| राजतेऽम्लम्| मेषशृङ्गमये लवणम्| कांस्ये तिक्तम्| वैडूर्यमयेऽश्ममये वा कटुकम्| ताम्रमय आयसे वा कषायम्| नलप्लक्षपद्मस्फटिकशङ्ख़ाद्यन्यतमे शीतम्| एवमव्यापन्नगुणं भवति| वर्तिग़र्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायतान्यङ्गुलविस्तीर्णा||११||
🔊 Audio coming soon
Adhikarana shalAkABedAH teShAmupayogasthalAni ca (12) · Śloka 12
शलाकाः पञ्च कनकरजतताम्रमोहोद्भवा अङ्गुली च| तत्राद्ये प्रसादनेऽञ्जने स्नेहने च| मध्या लेख़ने| अन्त्ये रोपणे| मृदुत्वादङ्गुल्यत्र प्रधानतमा| अतः सरुजेऽक्ष्णि सैव प्रयोज्या| शेषा दशाङ्गुला राजमाषस्थूलाः| सुश्लक्ष्णास्तनुमध्या मुख़योर्मुकुलाकाराः कलायपरिमण्डलाश्च||१२||
🔊 Audio coming soon
Adhikarana a~jjanakAlaH (13) · Śloka 13
अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम्| तथा सततं नैव वा||१३||
🔊 Audio coming soon
Adhikarana saruje~akShiNa prathamama~jjanaM yojayet (14) · Śloka 14
सरुजे चाक्ष्णि प्राक्पश्चादितरस्मिन्| अन्यथाऽञ्जनोद्वेगसङ्कुचितेऽन्तः सम्यगौषधं नानुप्रविशेत्| तत्रैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः||१४||
🔊 Audio coming soon
Adhikarana a~jjanAnArhAsteShAma~jjanAddoShAshca (15) · Śloka 15
न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदन्तनस्यरात्रिजागरितवेगितरुदितपिपा- सितज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु| एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृच्छ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत्||१५||
🔊 Audio coming soon
Adhikarana a~jjanavidhiH (16) · Śloka 16
अथ समसुख़ोपविष्टस्योपविष्टो वामाङ्गुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधः कनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितीक्ष्णमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमग़ट्टितमनाक्रान्तञ्च| चूर्णे तु गतागतं कुर्यात्| अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः| ततोऽञ्जनानुगमनायानुन्मीलयन् शनैरन्तश्चक्षुः सञ्चारयेत्| एवमप्यनुगच्छति| वर्त्मनी किञ्चिच्चालयेत्| न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्| स बाष्पोत्क्लिष्टदोषस्तम्भभयात्||१६||
🔊 Audio coming soon
Adhikarana a~jjanottaraM netraprakShalanAdi (17) · Śloka 17
अपि च- अपेतौषधसंरम्भं निर्वृतं नयनं यदा| व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा| सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम्| ऊर्ध्ववर्त्मनि संगृह्य शनैः शोध्यं समन्ततः| दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यञ्च लोचनम्| वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा||१७||
🔊 Audio coming soon
Adhikarana tIkShNA~jjanAnte dhUmAdi (32) · Śloka 32
तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत्| यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः| तस्य तीक्ष्णमञ्जनं धूमं वा पुनरेवावचारयेत्| एतदेव द्रुविरिक्ताक्षिलक्षणं साधनञ्च| अतिविरेकात् अन्तापनिस्तोदशूलस्तम्भग़र्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि| तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा| सम्यग्विरेकाद्यथास्वमामयोपशमः| सुख़ोन्मीलननिमीलनवातातपसहत्वानि चेति| भवति चात्र - रोपणादिष्वपि तथा योगादीननुचिन्तयेत्| दोषोदयानुसारेण प्रतिकुर्वीत तेषु च||१८|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने आश्च्योतनञ्जनविधिर्नाम द्वात्रिंशोऽध्यायः||३२||
🔊 Audio coming soon