Adhikarana atha gaNDUShAdividhirnAmaikatriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो गण्डूषादिविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
ऊर्ध्वाङ्गप्रसङ्गेन गण्डूषादिविधानायाध्याय आरभ्यते-अथात इत्यादि|| १||
Adhikarana atha gaNDUShAdividhirnAmaikatriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो गण्डूषादिविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
ऊर्ध्वाङ्गप्रसङ्गेन गण्डूषादिविधानायाध्याय आरभ्यते-अथात इत्यादि|| १||
Adhikarana gaNDUShaBedAH tadviShayAshca (2) · Śloka 2
चतुर्विधो भवति गण्डूषः-स्नैहिकः शमनः शोधनो रोपणश्च| तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामय- ग़्नाः| रोपणस्त्वास्यव्रणघ्नः शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः||२||
🔊 Audio coming soon
स्नैहिकादिभेदेन चतुर्विधो गण्डूशो मुख़धार्यद्रवः| तत्र स्नैहिको वाते पित्ते शमनः शोधनः कफे आस्यव्रणेषु रोपणः|| २||
Adhikarana snaihikAdi gaNDUShadravyANi (3) · Śloka 3
तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः| तिक्तकशायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्ल वोत्पलमधुकक्वाथसितोदकक्षौद्रक्षीरेक्षुरसघृतादिभिः शमनः| कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्त मद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः| रोप णस्तु कषायमधुरशीतै-र्यथास्वं चोपदिष्टः|३|
🔊 Audio coming soon
तत्र स्नैहिकः स्वाद्वम्लादिभिर्द्रव्यैर्भवति| शमनस्तिक्तादिभिः| शोधनः कट्वादिभिः| रोपणः कषायादिभिर्यथास्वेषु प्रकरणेषु चोपदिष्टरिद्रव्यैर्गण्डूषो भवति||३||
Adhikarana dantaharShAdau gaNDUShaH svasthe gaNDUShaH (3) · Śloka 3
अपि च- दन्तहर्षे दन्तचाले मुख़रोगे च वातिके| सुख़ोष्णमथवा शीतं तिलकल्कोदकं हितम्| गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा||३||
🔊 Audio coming soon
Adhikarana UShAdyanvite gaNDUShaHvaishadyAdikaro gaNDUShaH (4) · Śloka 4
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे| विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा| वैशद्यं जनयत्यास्ये सन्दधाति मुख़े व्रणान्| दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्|४|
🔊 Audio coming soon
Adhikarana AsyavairasyAdiharamuKashoShaharagaNDUShaushleShmasa~jcayaharagaNDUShaH (4) · Śloka 4
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्| तदेवालवणं शीतं मुख़शोषहरं परम्| आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||४||
🔊 Audio coming soon
अपि चेति समुच्चये| दन्तहर्षादिषु तिलकल्कोदकं तैलं वा मांसरसोऽथव गण्डूषधारणे नित्यं हितः| सुबोधमन्यत्|| ४||
Adhikarana kavalagaNDUShayordhAraNavidhiH mAtrA dhAraNAvadhishca (5) · Śloka 5
अथ निवाते सातपे सुख़ोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्योऽनभ्यवहरन् धारयेत्| कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्| अयमेव च कवलगण्डूषयोर्विशेषः| मुख़े सञ्चार्यते या तु सा मात्रा कवलः स्मृतः| असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः| पुनश्चास्य स्वेदमर्दनान्याचरेत्| एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते| तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्ग़्राणनेत्रता भेषजस्य वानुपहतिः कफेन| एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्| यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः||५||
🔊 Audio coming soon
तस्य गण्डूषस्य मात्रार्धमुख़पूरणी वरा श्रेष्ठा| त्रिभागमुख़पूरणी मध्या| चतुर्भागमुख़पूरणी अवरा| इति द्रवमानम्| कल्कस्य कोलमात्रा| कोलं तोलकम्| बदरमात्रमेव वा अयमेवासञ्चारसञ्चारकृतो गण्डूषकवलयोर्विशेषोऽन्यत्सदृशम्| मुख़ेत्यादि सुबोधम्|| ५||
Adhikarana yogAyogAtiyogalakShaNAni cikitsAtideshashca (6) · Śloka 6
तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगम्, मुख़शोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्| तेषां यथास्वं प्रतिकुर्वीत||६||
🔊 Audio coming soon
तत्र च धूमवत् सम्यग्योगलक्षणम्| जाड्यादीन्ययोगातियोगलक्षणमिति| एषु जाद्यादिष्वात्मीयां चिकित्सां कुर्यात्|| ६||
Adhikarana pratisAraNaBedAH dravya~jcapratisAraNArhAH vyAdhayaH atiyogalakShaNam (7) · Śloka 7
प्रतिसारणं तु त्रिविधम्| गण्डूषोदितानां द्रव्याणां रसक्रिया कल्कश्चर्णूश्च| तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्| अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति||७||
🔊 Audio coming soon
गण्डूषोक्तानां द्रव्याणां रसक्रियाकल्कचूर्णैस्त्रिविधं प्रतिसारणमुच्यते| तच्च प्रतिसारणमभिष्यन्दाधिमन्थगलशुण्डिकादिषु यथोयोगमुपयोज्यम्| प्रतिसारणातियोगादूषादयो भवन्ति| स्वेदारतिमान् दाह ऊषः|| ७||
Adhikarana mukhAlepavidhiH (8) · Śloka 8
मुख़ालेपोऽपि त्रिविधो दोषग़्नो विषघ्नो वर्ण्यश्च| त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः| न चालिप्तमुख़ोऽतिभाष्यहास्यक्रोधशोकरोदनख़ादनाग्यातपदिवास्वप्नान् सेवेत| कण्डूत्वक्शोषपीनसदृष्ट्युपग़ात भयात्| न च शुष्यन्नुपेक्षितव्यः| शुष्को हि छविं दूषयति| तमार्द्रयित्वापनयेत्| आलोपान्ते च मुख़मभ्यज्यात्||८||
🔊 Audio coming soon
दोषघ्नादिभेदेन त्रिविधो मुख़ालेपः| तस्य च द्विविधं प्रमाणम्| अङ्गुलचतुर्भागोत्सेधोऽङ्गुलद्विभागोत्सेधोऽर्धाङ्गुलोत्सेधश्च| उत्सेधो ग़नत्वम्| आलिप्तमुख़स्तत्कालमतिभाष्यादीन् न सेवेत| कण्ड्वादिरोगभयात्| सुबोधम्|| ८||
Adhikarana muKAlepAnarhAH samyakprayuktamuKAlepaPala~jca (9) · Śloka 9
न तु योज्यो रात्रिजागरिताजीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम्| सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति| स्वस्थस्य तु दृप्टिबलं पुण्डरीककान्तवक्त्रताञ्च करोति||९||
🔊 Audio coming soon
न तु मुख़ालेपो रात्रैजागरितादिषु योज्यः| स च सम्यक्प्रयुक्तः सन् अकालपलितादीन् नाशयति|| ९||
Adhikarana mUrdhatailaBedAH prayojyavyAdhayashca (10) · Śloka 10
मूर्धतैलं पुनश्चतुर्धा भिद्यते-अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति| यथोत्तरं ते बलिनः| तत्राभ्यङ्गो रूक्षकण्डूमलादिषु प्रयुज्यते| परिषेकत्वरू~ंषिकाशिरस्तोददाहपाकव्रणेषु| केशशातस्फुटनधूपननेत्रस्तम्भेषु पिचुः| बस्तिस्तु प्रसुप्त्यर्दितरात्रिजागरितनासास्यशोषतिमिरवाक्सङ्गेषु चातिदारुणेषु| तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः||१०||
🔊 Audio coming soon
शिरसि यत्तैलं दीयते तन्मूर्धतैलमुच्यते| तस्याभ्यङ्गादिभेदेन चतुर्विधत्वम्| पिचुः कार्पासमयः|| १०||
Adhikarana shirobastividhiH (11) · Śloka 11
शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुख़ं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात्| अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुख़ाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्| ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुख़ोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम्| तावच्च धार्यो यावत् कर्णमुख़नासास्रुतिर्वेदनोपशमो वा भवति| विशेषतो वातजेषु विकारेषु दश मात्रासहस्राणि| पित्तरक्तजेष्वष्टौ| षट् कफजेषु| सहस्रमरोगकर्मणि| ततोऽपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुख़ं मर्दयेत्| उष्णाम्बुना स्नातं च यथार्हं भोजयेत्| स्नेहोक्तं चास्याचारमादिशेत| एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति||११||
🔊 Audio coming soon
शिरोबस्तिरित्यादि| द्विमुख़मित्येकेन मुख़ेन शिरः प्रविशति द्वितीयेन स्नेहं विभर्ति| केशानामन्ते माषकल्केन लिप्तं वस्त्रपटं बध्वा तस्योपरि चर्मपटं बस्त्याख़्यं योजयेत्| चैलवेणी वस्त्रपट्टिका| सुबोधमन्यत्|| ११||
Adhikarana mUrdhatailaguNAH (12) · Śloka 12
भवति चात्र- तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु| अरू~ंषिकाशिरस्तोददाहपाकव्रणेषु च| परिषेकः पिचुः केशशातस्फुटनधूपने| नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे| नासास्यशोषे तिमिरे शिरोरोगे च दारुणे| कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान्| जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्||१२||
🔊 Audio coming soon
भवति चात्रेति तन्त्ररीतिः| तत्रेत्यादि सुबोधम्|| १२||
Adhikarana karNapUraNavidhiH (13) · Śloka 13
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्| रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||१३||
🔊 Audio coming soon
कर्णे पूरणं धारयेदातुरो यावद्रुजो मार्दवं स्यात्| स्वस्थावृत्ते मात्राशतम्|| १३||
Adhikarana mAtrAlakShaNam (14-15) · Śloka 15
यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||१४|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने गण्डूषादिविधिर्नामैकत्रिंशोऽध्यायः||१५||
🔊 Audio coming soon
निमोषोन्मेषेण सह यावद्दक्षिणं जानुमण्डले हस्ताग्रं पर्येति आवृत्त्या गच्छति तावत्कालो मात्रा|| १४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने एकत्रिंशोऽध्यायः