Adhikarana अध्यायोपक्रमः (१) · Śloka
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
|| श्रीः|| श्रीमद्वाग्भटविरचितः अष्टाङ्गसङ्ग्रहः महामहोपाध्यायेन्दुविरचितशशिलेखाव्याख्यासमन्वितः अथ सूत्रस्थानम् मङ्गलाचरणम् रागादिरोगाः सहजाः समूला येनाऽशु सर्वे जगतोऽप्यपास्ताः| तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन्|| १|| टीकाकारकृतं मङ्गलम् प्रोद्भासि-स्वच्छ-शङ्ख-स्फुटशशि-शकलोद्दाम-वैशद्यहृद्य- प्रोद्यत्सौन्दर्यवर्यप्रकटितवपुषं नौमि वागीश्वरीं ताम्| कल्लोलोल्लास-शान्ति-प्रतत-सिततर-क्षीरसिन्ध्वन्तराल- श्लिष्यत्पीयूषरेखां स्मरयति विबुधान्ध्यायतो यो दयालुः|| १|| सरसि सुविपुलायुर्वेदरूपे कृतास्थं मुनिवरवचनौघे दीर्घनाले निबद्धम्| रचितदलमिवाङ्गैः संग्रहाख्यं सरोजं विकसति शशिलेखा व्याख्ययेन्दोर्यथावत्|| २|| अनालोचिततन्त्रार्थः पदादावकृतश्रमः| यत्रावभाषते मूर्खस्तत्रावाच्या विपश्चितः|| ३|| बन्धच्छायाविशेषज्ञः सूक्ष्ममप्यधिगच्छति| सुकवेरपि या वाचः कुण्ठास्ता जनसंसदि|| ४|| कियद्वा कथयिष्यामि यत्सतत्त्वैर्न बुद्ध्यते प्रमाणं च तदेवात्र यदस्माभिर्निरूप्यते|| ५|| दुर्व्याख्याविषसुप्तस्य वाग्भटस्यास्मदुक्तयः| सन्तु संवित्तिदायिन्यः सदागमपरिष्कृताः|| ६|| सोऽयं वाग्भटनामा शास्त्रकारो लोकहिताय शास्त्रमारिप्सुर्विघ्नोपशमायाभिमत देवतानमस्कारं करोति रागादीत्यादिना| रागादिरोगा येनापास्ताः तं नमामीति सम्बन्धः| रागादयः प्रसिद्धाः| राग आदिर्येषां त इमे रागादयः| आदिग्रहणेन द्वेषादीनां परिग्रहः| रुजन्तीति रोगाः, रागादयश्च ते रोगाश्च रागादिरोगाः, सह जाताः सहजाः जन्मनःप्रभृति शरीरिणा सङ्गताः समूला येनापास्ताः| मूलमेषामज्ञानम्| आशु शीघ्रमेव| सर्वे न तु केचिदेव| जगतोऽपि नाऽऽत्मन एव| तमेकवैद्यं नमामि| एकश्चासौ वैद्यश्च तं नमामि| एवङ्गुणयुक्तस्यान्यस्य भिषजोऽभावात्तस्यैकत्वम्| न ह्यन्यो वैद्यः सहजत्वाद्यसाध्यलक्षणयुक्तान् रोगाञ्जेतुं शक्नोति| अभिमतदेवतानमस्कारं कृत्वा विघ्नोपशमायैव पुनर्गुरुनमस्कारं करोति वैद्यागमज्ञांश्च पितामहादीनिति| वैद्यानामागमो वैद्यागम आयुर्वेदस्तञ्जानन्तीति वैद्यागमज्ञाः| आदिग्रहणेन दक्षप्रजापत्यादीनां ग्रहणम्|| १||
Adhikarana अथाऽऽयुष्कामीयो नाम प्रथमोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथात आयुष्कामीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माऽहुरात्रेयादयो महर्षयः||१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अथ नमस्कारं कृत्वा तन्त्रं प्रस्तौति-अथात इत्यादि| अथेति मङ्गलार्थः| अत इति नमस्कारादानन्तर्ये| आयुष्कामेभ्यो हित आयुष्कामीयः| आयुष्कामशब्दोऽत्रास्त्यध्याय इति वा आयुष्कामीयः| अध्याय इति विशिष्टप्रकरणनाम| व्याख्यास्यामो वर्णयिष्यामः| इति ह स्माऽहुरित्यादिना न स्वमनीषाकारितेति द्योतयति| इति हेतिनिपातसमुदायोऽतीतवस्तुविषयः| आहुः स्म ब्रुवन्ति स्म `लट् स्मे' इति भूते लट् प्रयोगः| आत्रेयादयो महर्षयः आदिशब्देन भरद्वाजादीनां परिग्रहः| महान्तश्च ते ऋषयश्च महर्षयः| महत्त्वन्तु ज्ञानाद्यतिशययोगात्पूज्यता|| १||
Adhikarana आयुर्वेदानुसरणफलमधिकारी च (२) · Śloka २
आयुःकामयमानेन धर्मार्थसुखसाधनम्|
आयुर्वेदोपदेशेषु विधेयः परमादरः||२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
किमाहुः? आयुःकामयमानेनेत्यादि| अनेनाऽऽयुर्वेदतत्त्वाधिगमार्थं शिष्यगणं प्रोत्साहयति| आयुःकामयमानेन यथोचितं जीवितं नीरोगमिच्छता| आयुर्वेदोपदेशेषु यैरुपायैरायुर्वेद उपदिश्यते तेषु| परमादरो विधेयः किम्भूतमायुः? धर्मादिसाधनम्| न हि प्राधान्येन धर्मादयः साध्यन्ते| अनेन सम्बन्धादीनि अप्युक्तानि भवन्ति| अत्र उपायोपेयभावलक्षणः सम्बन्धः| अस्य तन्त्रस्याऽऽयुर्वेदोपदेशत्वादुपायत्वम्| तत् साध्यत्वादायुष उपेयत्वम्| अभिधेयमायुर्वेदः| प्रयोजनमायुः धर्मार्थसुखानि चेति|
Adhikarana आयुर्वेदागमक्रमः (३) · Śloka ३
आयुर्वेदामृतं सार्वं ब्रह्मा बुद्ध्वा सनातनम्|
ददौ दक्षाय सोऽश्विभ्यां तौ शतक्रतवे ततः|
धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः|
नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुम्|
धन्वन्तरिभरद्वाजनिमिकाश्यपकश्यपाः|
महर्धयो महात्मानस्तथा लम्बायनादयः|
शतक्रतुमुपाजग्मुः शरण्यममरेश्वरम्|
तान्दृष्ट्वैव सहस्राक्षो निजगाद यथागमम्|
आयुषः पालनं वेदमुपवेदमथर्वणः|
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषैः|
गतमष्टाङ्गतां पुण्यं बुबुधे यं पितामहः||३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
संबन्धादीन्युक्त्वा आगमशुद्धिं दर्शयति- आयुर्वेदामृतमित्यादिना| अनेन गुरुपरम्परामपि दर्शयति| ब्रह्मा पद्मयोनिरायुर्वेदामृतं बुद्ध्वा दक्षाय ददौ| यथाऽमृतेन सकलरोगपरिक्षयः तथैव आयुर्वेदेनेत्यतः सादृश्यम्| सर्वेभ्यो हितं सार्वम्| सनातनमविनाशि| स दक्षोऽश्विभ्यां देवभिषग्भ्यां ददौ| तावश्विनौ शतक्रतवे इन्द्राय ददतुः| ततोऽनन्तरमायुर्वेदज्ञानपरिपूर्णे शतक्रतौ धर्मादिचतुर्वर्गविघ्नकारिभिरामयैः पीड्यमानेषु सत्सु नरेषु सकलजनरोगोपशमहेतोर्महर्षयः शतक्रतुमुपाजग्मुरुपाविशन्| यत एव शरण्यस्ततः| अमराणामीश्वरं देवनायकम्| महती ऋद्धिर्येषां ते महर्द्धयः| महर्षयो धन्वन्तरिप्रभृतयः| न केवलं धन्वन्तरिप्रभृतयः यावल्लम्बायनादयोऽपि| तान् धन्वन्तरिप्रभृतीन् दृष्ट्वैव सहस्राक्षो यथाऽगमं निजगाद आगममनतिक्रामंस्तेभ्यः कथयाञ्चकार| किमित्याह- आयुषः पालनं जीवितस्य रक्षणं उपवेदमथर्वणः अथर्ववेदस्योपवेदम्| कीदृशमायुर्वेदं निजगादेत्याह- कायेति| कायादिभिरष्टाङ्गताङ्गतम्| यं पितमहो बुबुध इति संबन्धः| कायचिकित्सा कायशब्देनोच्यते| एवं बालादिष्वपि योज्यम्| एवमन्येष्वपि| वृषं वाजीकरणम्| यथाभूतमेव ब्रह्मणा बुद्धं तथाभूतमेव तेषां ज्ञानमित्यर्थः|| ३||
Adhikarana आयुर्वेदानयनम् (४) · Śloka ४
गृहीत्वा ते तमाम्नायं प्रकाश्य च परस्परम्|
आययुर्मानुषं लोकं मुदिताः परमर्षयः||४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
ते च धन्वन्तरिप्रभृतयस्तमाम्नायं शतक्रतुप्रोक्तमागमं गृहीत्वा मयैवमज्ञायि मयैवमज्ञायीति परस्परं प्रकाश्य च मानुषं लोकमाययुः प्रापुः| किम्भूताः मुदिताः सम्पन्नकार्यत्वात्सहर्षाः|| ४||
Adhikarana आयुर्वेदस्य तन्त्रनिर्माणम् (५) · Śloka ५
स्थित्यर्थमायुर्वेदस्य तेऽथ तन्त्राणि चक्रिरे|
कृत्वाऽग्निवेशहारीत भेडमाण्डव्यसुश्रुतान्|
करालादींश्च तच्छिष्यान् ग्राहयामासुरादृताः|
स्वं स्वं तन्त्रं ततस्तेऽपि चक्रुस्तानि कृतानि च|
गुरुन् संश्रावयामासुः सर्षिसङ्घान्सुमेधसः|
तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे||५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
आगत्य च मानुषं लोकमायुर्वेदस्य स्थित्यर्थमायुर्वेदो मान्तर्धादिति तन्त्राणि चक्रिरे अकुर्वन्| ततस्तानि तन्त्राणि कृत्वा आदृताः सादरं पुनर्वसुधन्वन्तरिप्रभृतयोऽग्निवेशादिकान् सुश्रुतान् तानधिगमयामासुः| न केवलमग्निवेशादिकान् यावत्तत् शिष्यान् करालादीनपि ग्राहयामासुः| तेऽप्यग्निवेशादयः धन्वन्तरिप्रभृतिभ्यस्तानि तन्त्राणि गृहीत्वा स्वयं तन्त्रं चक्रुः| ततश्च स्वयंकृतानि तन्त्राणि गुरून् धन्वन्तरिप्रभृतीन् संश्रावयामासुः| किम्भूतान् गुरून्? सर्षिसङ्घान् समुनिसमूहान्| किम्भूता अग्निवेशादयः? सुमेधसः सुप्रज्ञाः| तानि च तन्त्राण्येषामग्निवेशादीनाम्| तैर्धन्वन्तरिप्रभृतिभिः| प्रशस्तानि कृतप्रशंसानि| प्रतिष्ठां सुपूज्यां स्थितिम्| भुवि मनुष्यलोके| लेभिरे प्रापुः|| ५||
Adhikarana अष्टाङ्गसंग्रहोपोद्घातः (६) · Śloka ६
तेषामेकैकमव्यापि समस्तव्याधिसाधने|
प्रतितन्त्राभियोगे तु पुरुषायुषसंक्षयः|
भवत्यध्ययनेनैव यस्मात्प्रोक्तः पुनः पुनः|
तन्त्रकारैः स एवाऽर्थः क्वचित्कश्चिद्विशेषतः|
तेऽर्थप्रत्यायन परा वचने यच्च नादृताः||६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
इत्यनेन ग्रन्थसंदर्भेणाऽगमशुद्धिं दर्शयित्वा स्वयं तन्त्रकरणे हेतुमाह-तेषामिति| तेषामग्निवेशादिप्रणीतानां तन्त्राणामेकैकं तन्त्रं समस्तव्याधिसाधने सकलरोगचिकित्सितेऽव्यापि असम्पूर्णम्| न हि सुश्रुतप्रणीता क्वचिच्चिकित्साऽग्निवेशकृते तन्त्रे ज्ञाते ज्ञाता भवत्यतः प्रतितन्त्राभियोगे त्वध्ययनमात्रेणैव पुरुषायुषसंक्षयो भवति, न हि तदुक्तविधानानुष्ठानस्याऽयुर्भवत्यतः यस्मात् च सुखग्रहणार्थं लोकस्यैक एवार्थस्तन्त्रकारैः पुनःपुनः प्रोक्तः स एवैकेन प्रोक्तः स एवान्येन| न केवलमेवं यावत् क्वचिच्च तन्त्रे कश्चिदर्थो विशेषतः अन्येन विशेषेणोक्तः अतस्तद्विज्ञानमतिदुर्लभम्| यच्च यस्माच्च ते तन्त्रकृतो विवक्षितार्थप्रत्यायनपरत्वाद्वचने शब्दे अनादृता अवहेलावन्तः वचनस्य स्वल्पत्वबहुत्वनिरपेक्षाः अर्थादरेण बहुभाषिण इत्यर्थः|| ६||
Adhikarana संग्रहस्य सर्वतन्त्रसंग्रहरूपत्वं युगानुरूपसन्दर्भत्वञ्च (७) · Śloka ७
सर्वतन्त्राण्यतः प्रायः संहृत्याऽष्टाङ्गसंग्रहः|
अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः|
हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः|
विनिगूढार्थतत्त्वानां प्रदेशानां प्रकाशकः|
स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्तकः|
युगानुरूपसन्दर्भो विभागेन करिष्यते||७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अतोऽपि हेतोः सर्वतन्त्राणि संहृत्याऽष्टाङ्गसंग्रहः करिष्यत इति सम्बन्धः| किम्भूतोऽष्टाङ्गसंग्रहः| अस्थानविस्तरादिवर्जितः| उचिते पुनः स्थाने विस्तरादीनि विधीयन्त एव| तथाहि ऋतुस्वरूपवर्णने दोषोपक्रमणे च स्वस्थातुरहितत्वाद्विस्तरोऽप्युपयुज्यत एव| तथा गर्भावक्रान्त्यङ्गविभागादिषु आक्षेपोऽपि दृश्यते| तथाऽतियोगादिप्रकरणे पुनरुक्तमपीति| अन्ये पुनराहुः- अन्यत्र वक्तव्यमर्थवस्त्वन्यत्रोऽच्यत इत्यस्थानं तद्वर्जितः| तथा विस्तराक्षेपाभ्यां वर्जितः नातिविस्तरो नातिसंक्षिप्त इत्यर्थः| सकृज्ज्ञापितस्य वस्तुनः पुनर्वचनं पुनरुक्तिस्तद्वर्जितः| अन्यच्च हेत्वादिस्कन्धत्रयमात्रनिबन्धनः| हेतू रोगोद्भवकारणं स्कन्धः समूहः| हेतुस्कन्धो मिथ्याहारविहारादिः| लिङ्गं भविष्यतः सतश्च व्याधेश्चिह्नभूतम्| यथा ज्वरस्यालस्यादिः| औषधस्कन्धो रोगचिकित्सार्थं हिताशनचूर्णलेहक्वाथादिः| सम्प्राप्तेर्हेतुस्कन्ध एवाऽन्तर्भावः| उपशयः पुनः लिङ्गस्कन्धे वा औषधस्कन्धे वाऽनुप्रविशति| एवमन्यदप्यस्मिन्नेव स्कन्धत्रयेऽन्तर्भाव्यम्| एतावन्मात्रमत्र निबध्यत इत्यर्थः| मात्राशब्दः स्तोकपर्यायः अन्यतन्त्रेषु यथा बहुवक्तव्यता न तथाऽत्र किन्तु केवलं तात्पर्यवस्तुग्रहणमिति मात्रशब्दप्रयोगः| अन्यच्च किम्भूतोऽष्टाङ्गसंग्रहः? अन्यतन्त्रेषु विनिगूढार्थतत्वा ये प्रदेशास्तेषां प्रकाशकः| तथा चरकमुनिना षष्टिकस्य गुणेषु "स्निग्धोऽगुरुश्चे"ति सन्धानकेऽकारप्रयोगः कृत इति वाग्भटेन दर्शयता लघुशब्दप्रयोगः कृतः| सुश्रुतोऽप्याह "षष्टिकः प्रवरस्तेषां कषायमधुरो लघु"रिति| कृष्णात्रेयोऽपि "षष्टिकः सुकर" इत्यादि पठित्वा लघवः कटुपाकाश्चेत्याह| खरनादोऽप्याह-`दोषघ्नः षष्टिको लघु' रिति| पराशरोऽपि `रक्तो महान् शकुनाहृतः षष्टिक' इत्यादि पठित्वा लघवः संग्राहिका इत्याह| चरकेऽपि पठ्यते `शालिषष्टिकादीनि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ती' ति| अन्यच्च स्वतन्त्रविरोधानामन्यतन्त्रविरोधानां च भूयिष्ठमतिशयेन निवर्तकः| स्वतन्त्रविरोधो य एकस्मिन्नेव तन्त्रेऽन्यस्थानस्थितो ग्रन्थोऽन्यस्थानस्थितेन विरुध्यते| यथा चरके `चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणा' इत्युक्त्वा पुनरप्याह `एवमेताश्चतुष्षष्टिः स्नेहानां प्रविचारणा' इति| तद्वाग्भट एकीकुर्वन्नाह `युक्त्यावचारयेत् स्नेह'मित्यादि| भक्ष्यादिनोपयुज्यमान एव रसभेदेन त्रिषष्टिधा स्नेहो भवति एकश्च| इति चतुष्षष्टिः| एतच्च सम्मोहनमात्रनिवृत्तये उक्तं न हि वस्तुतो विरोधः सम्भवति| परतन्त्रविरोधो यथा चरकग्रन्थेन कृष्णात्रेयो विरुद्धः| तथा चरको हिमवत्प्रभवानां नदीनां पथ्यत्वमिच्छति| कृष्णात्रेयसुश्रुतौ तासामेव गलगण्डादिकर्तृत्वम्| वाग्भटस्तूपलास्फालनेत्यादिना विरोधं निवर्तयति| एवमन्यत् ग्रन्थगौरवभयान्न लिख्यते| विनिवर्तको विनाशकः, अर्थानां सुबोधकत्वात्| तथा युगानुरुपसन्दर्भः अस्मिन् कलियुगे पाठावबोधधारणयोग्यग्रन्थसम्भारः| विभागेन शोभनैरर्थप्रकरणादिविच्छेदैः|| ७||
Adhikarana संग्रहस्य कायचिकित्सापरत्वम् (८) · Śloka ८
नित्योपयोगि दुर्बोधं सर्वाङ्गव्यापि भावतः|
संगृहीतं विशेषेण यत्र कायचिकित्सितम्||८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तथा यत्र चाष्टाङ्गसंग्रहे कायचिकित्सितं विशेषेणातिशयेन संगृहीतम्| किम्भूतमित्याह नित्योपयोगि सततं शरीरिणा उपयुज्यते| दुःखेन च बोद्धुं शक्यत इति दुर्बोधम्| न हि अकृतप्रयत्नः तज्जानातीत्यर्थः| तथा भावतस्तत्त्वतः सर्वाङ्गानां व्यापकम्| कायचिकित्साङ्गमेकं वर्जयित्वा सप्त सर्वशब्दसंगृहीतानि| तथा च बालचिकित्सायां वक्ष्यति क्षीरदोषजनितरोगप्रसङ्गे `यथा स्वलिङ्गानि'त्यादि| तथा ऊर्ध्वाङ्गरोग चिकित्सायां `सर्वरोगनिदानोक्तै'रित्यादि| अत एव कायचिकित्सितस्य व्यापकत्वम्| यतश्च द्रव्यरसादिमात्राशितान्नस्वरुपादि परिज्ञानस्नेहाद्युपयोगासङ्गिकरोगचिकित्सादिसप्तानामप्यङ्गाना कायचिकित्सितमेव| अस्य च ग्रन्थसन्दर्भस्य संग्रहसंज्ञाऽर्थानुगता तेन खरनादसंहितावच्चरकादिनयव्याख्यानतात्पर्यमत्र विपरीतावगमसम्भावनाभयान्न क्रियत इति|| ८||
Adhikarana संग्रहस्य सिद्धत्वम् (९) · Śloka ९
न मात्रामात्रमप्यत्र किञ्चिदागमवर्जितम्|
तेऽर्थाः स ग्रन्थबन्धश्च संक्षेपाय क्रमोऽन्यथा||९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अनन्तरग्रन्थोक्तार्थमेव प्रकटीकुर्वन्नाह- न मात्रेत्यादि| मात्राऽक्षरकला| अक्षरकलामात्रमप्यत्र न किञ्चिदागमवर्जितं कथितमिति| त एवार्थाः स एव ग्रन्थबन्धः| केवलं संक्षेपार्थमन्यः क्रम आश्रितः|| ९||
Adhikarana त्रिदोषाणां निर्देशः, तेषां विकृताविकृतानाङ्कार्यञ्च (१०) · Śloka १०
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः|
प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदतः|
उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि|
विकृताऽविकृता देहं घ्नन्ति ते वर्त्तयन्ति च||१०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
आयुर्वेदागमशुद्धिं दर्शयित्वा आत्मन आगमपरतन्त्रतां चानन्तरं तन्त्रमारभते| तन्त्रं चायुषः पालनम्| आयुर्जीवितम्| तच्च शरीरसम्बद्धम्| शरीरं च दोषधातुमलसमुदायः| तेषाञ्च धात्वादीनां दोषा एव प्रधानं, यतो दोषेभ्य एव धातूनां प्रवृत्तिः| तथा च धातुपोषाय रसस्य वहनपाकस्नेहकाठिन्यादिदोषप्रसादलभ्यमेव| अतस्त एव पूर्वमुच्यन्ते- वायुरित्यादि| उद्देशादेवाधिगते त्रित्वे पुनस्त्रिग्रहणं नियमार्थम्| त्रय एव दोषा न चतुर्थोऽस्ति| यथा सुश्रुतोक्ताविति नियमयति| समासतः संक्षेपतः न संसर्गभेदादिविस्तरेण| विस्तरतस्तु बहवः| दूषणात्मकत्वाद्दोषाः| ते च वातादयः प्रत्येकं त्रिधा त्रिप्रकाराः| कथं त्रिप्रकारा? अत आह-प्रत्येकं वृद्धिक्षयसाम्यविभेदात्| वायुर्वृद्धः वायुः क्षीणः वायुः सम इति| एवं पित्तकफयोरपि वाच्यम्| तेषां च प्राकृतस्वरुपमपेक्ष्य वृद्ध्यादिगतिर्विज्ञेया| वृद्धिक्षयावपि पुनरुत्कृष्टत्वादिना त्रिधैव उत्कृष्टा वृद्धिर्मध्या वृद्धिरल्पा वृद्धिरेवं क्षयेऽपि वाच्यम्| साम्ये तूत्कर्षाद्यसम्भवान्न भेदः| ते वातादयः विकृताऽविकृता देहं घ्नन्ति वर्तयन्ति च| विकृताः स्वरुपात् चलिताः शरीरं घ्नन्ति नाशयन्ति| अविकृताः स्वरुपादचलिताः शरीरं वर्त्तयन्ति|| १०||
Adhikarana दोषस्थानविशेषः (११) · Śloka ११
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||११||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
ननु वातादयः किं नियतदेशा आहोस्विद्व्यापिनोऽत आह-त इति| ते दोषा व्यापिनोऽपि सकलशरीरचरा अपि प्रतिनियतदेशाः| कः कस्य देश इत्यत आह-हृन्नाभ्योरिति| अस्यायमर्थः नाभेरधो वायोः स्थानं हृन्नाभ्योर्मध्ये पित्तस्य हृदयादूर्ध्वं श्लेष्मण इति|| ११||
Adhikarana दोषाणां कालविशेषः (१२) · Śloka १२
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्||१२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
न केवलं शरीरव्यापिनः सन्तो नियतदेशा यावत् सकलकालव्यापिनोऽपि नियतकालाः| एतत्प्रदर्शनार्थमाह-वय इति| अन्तादीनां वातादिभिर्यथासङ्ख्यं संबन्धः| वयसः पुरुषायुषस्य अन्तः पश्चिमो भागो वायोः कोपकालः| मध्यभागः पित्तस्य| पूर्वभागः श्लेष्मणः| अह्नोऽप्येवं रात्रेश्च| भुक्तं निगीर्ण आहारः| तस्यान्तो जीर्णप्रायावस्था वायोः कोपकालः| मध्यं विदाहावस्था पित्तस्य| पूर्वावस्था भुक्तमात्र एवान्ने श्लेष्मणः|
Adhikarana अग्नेश्चातुर्विध्यम् (१३) · Śloka १३
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः||१३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तैश्च वातादिभिः पुरुषस्याग्निश्चतुर्विधो भवति| न ह्येकेनापि दोषेण हीना वातादयः शरीरजनने समर्थाः| अवश्यं च सर्वैरेव भवितव्यम्| यश्चैषामेकव्यपदेशः स उत्कर्षकृतः| वातोत्कर्षेण विषमः पित्तोत्कर्षेण तीक्ष्णः कफोत्कर्षेण मन्दः समैर्हान्युत्कर्षवर्जितैः समः| विषमादीनां लक्षणं शारीरे वक्ष्यते| यत्र तु द्वावुत्कृष्टौ तत्र भिषजा स्वबुद्ध्या परिकल्पनीयः| वयं दिशं दर्शयामः- द्वौ दोषौ वातपित्ते वा वातकफौ वा पित्तकफौ वा| तत्र वातस्य योगवाहित्वाद्वातपित्ते तीक्ष्णत्वोत्कर्षः| वातकफे मन्दत्वोत्कर्षः| पित्तकफे त्वाहारविशेषात्कदाचित्तैक्ष्ण्यं कदाचिन्मान्द्यम्| प्रकृत्या विकृत्या चैवमेव|| १३||
Adhikarana कोष्ठचातुर्विध्यम् (१४) · Śloka १४
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि||१४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तैश्च वातादिभिः कोष्ठचतुर्विधो भवति| प्रकृत्या विकृत्या च| वातोत्कर्षेण क्रूरः, पित्तोक्तर्षेण मृदुः, श्लेष्मोत्कर्षेण मध्यः, सर्वैः समैर्मध्य एव| क्रूरादीनां च लक्षणं वक्ष्यते|| १४||
Adhikarana प्रकृतिसम्भवः (१५) · Śloka १५
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषकृमेः|
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्|
समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः||१५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तैश्च वातादिभिः प्रकृतयो भवन्ति| प्रकृतिः शरीरस्वरूपम्| किम्भूतैः वातादिभिः प्रकृतिः सम्पद्यते, अत आह- शुक्रार्तवस्थैरित्यादि| तथा च वक्ष्यति `शुक्रासृग्गर्भिणीभोज्ये'त्यादि| जन्मादौ गर्भाधानकाले पिण्डीभूतशुक्रार्त्तवस्थैः| शुक्रं रेतः आर्तवं शोणितम्| दृष्टान्तः विषेणेव विषकृमेः| यथा विषकृमेः विषयोनेः कीटस्यान्यमारणस्वभावेनापि विषेण प्रकृतिः स्वरुपं सम्पद्यते| एवं पुरुषस्य दोषैः प्रकृतिः सम्पद्यते| अनेन दृष्टान्तेनैतद्दर्शयति- वातादीनामुपघातकत्वेऽपि शुक्रार्त्तवस्थावस्थायां प्रकृतिनिष्पादनं प्रत्यनुपहन्तृत्वम्| तैश्च प्रकॄतय इत्युक्तम्| तास्तु कियन्त्य इत्याह-तिस्र इति| पृथग्दोषैः प्रकृतयस्तिस्रो भवन्ति| मिश्रदोषाणां तूद्देशकथने पृथग्ग्रहणं लिङ्गम्| दोषाणां पॄथक्त्त्वं मिश्रीभावश्च सप्तप्रकृतिहेतुः| तत्र च वातोत्कर्षेण हीना प्रकृतिरुच्यते| पित्तोत्कर्षेण मध्या| श्लेष्मोत्कर्षेणोत्तमा| याश्च मिश्रदोषजाः प्रकृतयः ताः सर्वा निन्द्या गर्हणीयाः| सर्वासु प्रकृतिषु मध्ये समधातुः श्रेष्ठा| या सर्वैरेव समदोषैर्नोनेव केनचिन्नाऽप्यधिकेन| धातुशब्दो दोषपर्यायः, धारणाद्धातव इति|| १५||
Adhikarana त्रिदोषगुणाः (१६) · Śloka १६
तत्र रुक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः|
पित्तं सस्नेहतीक्ष्णोष्णं लघुः विस्रं सरं द्रवम्|
स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः||१६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
दोषाणां वातादीनां प्रकृत्यादिकारणत्वमुक्तम्| तेषां स्वरूपं न ज्ञातमतस्तद्विज्ञानार्थमाह-तत्रेति| एवं हि स्वरूपे ज्ञाते वातादिहेतुकस्य रोगग्रामस्य स्वकारणदोषविशेषगुणसमन्वयेनाप्रतिपदोक्तावपि विशिष्टदोषकारणत्वं वृद्धिहानिकारणस्य च दोषाणां वस्तुजातस्य यथास्वं दोषैः सादृश्यमसादृश्यञ्च ज्ञातं भवति| यस्माद्वक्ष्यति `वृद्धिः समानैः सर्वेषा'मिति| तत्रानिलो वायू रूक्षः लघुः शीतः| खरः अमृदुः| सूक्ष्मः सूक्ष्मस्रोतोगामित्वात्सूक्ष्मः| चलः नैकत्र स्थितिशीलः| वातस्य योगवाहित्वेऽपि तावन्मात्रं शैत्यं स्वाभाविकं न विनश्यति| पित्तम् ईषत् स्निग्धं, तीक्ष्णं शीघ्रकारि, उष्णं लघु, विस्रं दुर्गन्धि, सरं व्याप्तिशीलं, द्रवमकठिनम्| कफः स्निग्धः, शीतः, गुरुः, मन्दश्चिरकारी| श्लक्ष्णः अपरुषः| मृत्स्नः कचकचायमानः| स्थिरः अव्यापनशीलः|| १६||
Adhikarana संसर्गसन्निपातौ (१७) · Śloka १७
संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः|
तौ षोढा दशधा चोक्तावुत्कर्षादिविकल्पनात्||१७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एषां दोषाणां मिश्रीभूतानां तन्त्रव्यवहारार्थं संज्ञाद्वयं चिकीर्षुरिदमाह-संसर्ग इति| द्वयोस्त्रयाणाञ्च संसर्गसन्निपातौ यथासङ्ख्यम्| द्वौ दोषौ मिश्रीभूतौ क्षीणौ कुपितौ वा संसर्गवाच्यौ| एवं त्रयो दोषाः सन्निपातवाच्याः| तौ च संसर्गसन्निपातौ यथासङ्ख्येन षोढा दशधा चोक्तौ| षड्भिः प्रकारैः षोढा दशभिः दशधा| कथम्? उत्कर्षादिविकल्पनात्| आदिग्रहणेन मध्यहान्योः परिग्रहः| तेनैतदुक्तं भवति-संसर्ग उत्कर्षादिना विकल्पितः षोढा भवति| सन्निपातश्च दशधा| तत्र संसर्ग एको दोषः उत्कृष्टेन कोपेन कुपितः क्षयेण वा क्षीणः द्वितीयो मध्येनाल्पेन चेति द्वौ भेदौ| एको मध्येन द्वितीयोऽल्पेनेति तृतीयः| द्वावप्युत्कर्षेणेति चतुर्थः| द्वावपि मध्येनेति पञ्चमः| द्वावल्पेनेति षष्ठः| इति संसर्गः सन्निपाते एकोत्कर्षेण द्वयोः मध्यत्वेनाल्पत्वेन चेति द्वौ भेदौ| एको मध्येन द्वितीयोऽल्पेनेति तृतीयः| द्वयोरुत्कर्षेणैकस्य मध्यत्वेनाल्पत्वेन चेति चतुर्थः पञ्चमश्च| द्वौ मध्यावेकोऽल्प इति षष्ठः| सर्व उत्कर्षेणेति सप्तमः| सर्वे मध्येन इति अष्टमः| सर्वे अल्पेनेति नवमः| एक उत्कर्षेण द्वितीयो मध्येन तृतीयोऽल्पेनेति दशमः| इति सन्निपातो दशधा|| १७||
Adhikarana सप्त धातवः (१८) · Śloka १८
रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः|
सप्त दूष्याः||१८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
रसादयः सप्त धातुसंज्ञाः| शरीरधारणाद्धातवः| ते च दूष्याः वातादिभिर्दोषैर्दूषणीयाः|| १८||
Adhikarana मलाः (१९) · Śloka १९
मला मूत्रशकृत्स्वेदादयोऽपि च||१९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अनन्तरं मला उच्यन्ते-दोषधातुमलसमुदायात्मकत्वात् कायस्य मलाः मूत्रशकृत्स्वेदादयः| तेऽपि च दूष्याः| न केवलं धातव इत्यपि शब्दार्थः| आदिशब्दात् कर्णमलादीनां ग्रहणम्| चशब्दात् मलानां धातुसंज्ञापि देहधारकत्वात्|| १९||
Adhikarana रसजः व्याधिरित्युपचारात् (२०) · Śloka २०
रसादिस्थेषु दोषेषु व्याधयः संभवन्ति ये|
तज्जानित्युपचारेण तानाहुर्घृतदाहवत्||२०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
दोषा एव सर्वेषां रोगाणां कारणं विकृता न धातुमलाः| या तु धातूनां मलानां रोगहेतुकत्वकल्पना सा औपचारिकी| एतदेवाहरसादीत्यादि| रसादिधातुस्थेषु दोषेषु ये व्याधयः सम्भवन्ति ते रसादिजा इत्याचार्या उपचारेण ब्रुवन्ति| दृष्टान्तः `घृतदाहवत्'| न हि घृतस्य दाहशक्तिः कदाचिदस्ति, किं तर्हि तत्स्थस्याग्नेः| एवं चोच्यते `घृतेनायं दग्ध' इति|| २०||
Adhikarana धातूनां कर्माणि (२१) · Śloka २१
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे|
गर्भोत्पादश्च कर्माणि धातूनां क्रमशो विदुः|
शरीरं धारयन्त्येते धात्वाहाराश्च सर्वदा||२१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एषां च धातूनां सप्तानां यथासङ्ख्येन प्रीणनादीनि सप्त कर्माणि| यानि कुर्वन्तो देहं धारयन्ति| प्रीणनं रसस्य कर्म| प्रीणनं चित्तप्रीतिः| जीवनमसृजः| जीवनम् जीवितं प्राणनमिति यावत्| तथा च रक्तमयमष्टबिन्दुकमोजो नाम जीवानां ग्रहणधारणविवेककार्यकरं वक्ष्यते| लेपो मांसस्य| लेपनं अस्थ्यादीनां लेपः| शरीरस्नेहो मेदसः| शरीरधारणमस्थ्नः| अन्यथा निरवलम्बनं मांसं स्यात्| पूरणमस्थ्नो मज्ज्ञः कर्म| गर्भोत्पादः शुक्रस्य| एते चानन्तरोक्ता धातवः शरीरं धारयन्ति| धात्वाहाराश्च-आहारो यथा जन्तूनां वृद्धिकारणं तथैव धातूनां धातव एव वृद्धिकारणम्| पूर्वः पूर्वो धातुरुत्तरस्योत्तरस्य आहारः|| २१||
Adhikarana सामान्यविशेषौ वृद्धिह्रासहेतु (२२) · Śloka २२
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः||२२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
दोषादीनां वृद्धिहानिकारणवादप्रसङ्गेन सर्वभावानामपि वृद्धिहानिकारणमाहवृद्धिरित्यादि| समानैः सदृशैः सर्वेषां वृद्धिः| यो यो येन यावता चांशेन यस्य समानः तेनैव तावता चांशेन सदृशेन स तस्य वृद्धिकारणम्| यथा वायोरन्यो वायुर्द्रव्यस्वभावेनैव समानः| तस्यैव मरिचं लाघवरौक्ष्यगुणतः| तस्यैव सरणादिका क्रिया चलनादिसाधर्म्यात्| एवं सर्वभावानामप्यूह्यम्| एतत्समानमसमानं च सामान्यविशेषरूपं गोत्वादिविषयमपेक्ष्य विज्ञेयम्| नतु द्रव्यत्वसत्तादिमहाविषयं सामान्यम्| ततो व्यवहारासिद्धेः| तथा च महासामान्यापेक्षया न कस्यचिदपि वस्तुनो वस्त्वन्तरेण समानत्वव्यभिचारो न चासमानत्वसम्भवः| यतश्चैकस्यैव वस्तुनः केनचित्सादृश्यमन्येन वैपरीत्यमतः सकृदेवोभयस्य वृद्धिहानिलक्षणस्य प्रवृत्तिः न विरुध्यते| यद्यपि वस्तुनः येनैव वस्तुनोंऽशेन सादृश्यं तेनैवांशेन वैपरीत्यमपि| तथापि तयोर्वस्तुनोरुभयरूपत्वाद्वृद्धिहानिलक्षणमुभयं प्रत्येकदैव कारणत्वम्| कथमेको विरुद्धकार्यकर इति चेन्न, विरुद्धयोः कारणयोरेकस्मिन्द्रव्ये निवेशात्| न हि विरुद्धयोर्जलतेजसोरत्र द्रव्ये न सम्भवः, पञ्चभूतात्मकत्वात्तस्य| अथैवमुच्यते-यथा सुरया द्रव्यत्वेन समानस्य स्तन्यस्य वृद्धिः क्रियते तथैव कथमम्लत्वादुष्णत्वाच्च विपरीतत्वे तस्यैव न क्षय इत्येतदपि न| तथाविधस्वभावत्वात्| न हि स्वभावः पर्यनुयोक्तव्यः| तथा च वक्ष्यति शास्त्रकारः- कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्| लशुनो वातकफकृन्न तु तैरेव यद् गुणैः|| इति|| तच्च तत्रैव व्याख्यातम्| सादृश्यसामान्ययोश्चात्र न कश्चिद्विशेषः, एकेन रूपेण विना सादृश्यमपि न सम्भवति| तथा सामान्यस्याप्यर्थक्रियासु व्यक्त्यनुविधायित्वात्सामान्यं वृद्धिकारणमित्युक्तेऽपि न गोस्पर्शवद्व्यक्तिविशेषानपेक्षा| न हि सामान्यमनालम्बनवद्वृद्धिहेतुतां याति| अपि त्वाश्रययोर्मिश्रीभावविशेषेणेति|| २२||
Adhikarana षड्रसाः (२३) · Śloka २३
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः|
षड् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः||२३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
वातादीनामाध्यात्मिकानां बाह्येन द्रव्येण सादृश्यम्| द्रव्यञ्च महाभूतकार्यं रसवीर्यविपाकप्रभावैः कार्यकरम्| ते च रसादयोऽस्मिन्नेव सूत्रस्थाने वक्ष्यन्ते| अत्र त्वध्याये तन्त्रार्थसूचनार्थं किञ्चिदुच्यते-रसा इत्यादि| स्वाद्वादयः षड्रसाः| रसनेन्द्रियग्राह्यत्वात् रसाः द्रव्यम् निर्विशेषं पञ्चभूतात्मकं मूर्तमाश्रिताः| तेषाञ्च यो यस्मात् पूर्वः स तस्माद्देहिनो बलावहः स्वभावविशेषात्|| २३||
Adhikarana रसानां कार्याणि (२४) · Śloka २४
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्|
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते||२४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एषाञ्च रसानां दोषविशेषप्रशमनप्रकोपप्रशमनविभागं तत्रेत्यादिना दर्शयति| अन्ये तु कुर्वते इत्येतत् घ्नन्तीत्येतच्च मारुतादिभिः प्रत्येकमभिसम्बध्यते| तेषु रसेषु मध्ये आद्यास्त्रयः स्वाद्वम्ललवणा मारुतमनिलं घ्नन्ति| अन्ये तु तिक्तोषणकषायाः तमेव चानिलं कुर्वते| तिक्तादयस्त्रयः तिक्तोषणकषायाः कफं घ्नन्ति| अन्ये तु मधुराम्ललवणाः तमेव कफं कुर्वते| कषायतिक्तमधुराः पित्तं घ्नन्ति नाशयन्ति| अन्ये त्वम्ललवणोषणाः पित्तमेव कुर्वते| तेनैतदुक्तं भवति-मधुरो वातपित्तघ्नः श्लेष्मकरः| अम्लो वातं हन्ति कफपित्ते तु जनयति| लवणो मारुतं हन्ति कफपित्ते तु कुरुते| तिक्तः कफपित्ते नाशयति वातं तु जनयति| ऊषणः कफं नाशयति वातपित्ते तु जनयति| कषायः कफपित्ते हन्ति वातं करोतीति|| २४||
Adhikarana द्रव्याणां त्रैविध्यम् (२५) · Śloka २५
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||२५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एषां च रसानामाश्रयो द्रव्यं यद्रसादीननपेक्ष्य प्रभावादेव किञ्चित् करोति| तत् त्रिप्रकारं विशिष्टैः रसादिभिर्युक्तं कुपितानां वातादीनां शमनं नाशकरं गुडूच्यादि| अन्यैर्युक्तं कोपनं साम्यनाशकरं यवकादि| अन्यैः स्वस्थहितं शाल्यादि| यन्न कुपितस्य समीकरणे समर्थं नापि समस्य कोपने केवलं यथास्थितमेव संवाहयति| केचित्तु एकस्यैव द्रव्यस्य योगमात्राकालादिभेदात् त्रिरूपतामाहुः|| २५||
Adhikarana वीर्यद्वैविध्यम् (२६) · Śloka २६
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्||२६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तत्र द्रव्ये वीर्यं द्विविधं उष्णशीतगुणाधिक्यात्| यद्यपि सर्वं द्रव्यं पञ्चभूतात्मकं तथाप्यग्नीषोमात्मकत्वात् सर्वभावानां किञ्चिदुष्णगुणोत्कर्षात् तन्मुखेनैव कार्यकारणमुष्णवीर्यमुच्यते| तद्विपरीतं शीतवीर्यम्| वीर्यं शक्तिः कार्यकारणहेतुः|| २६||
Adhikarana त्रिधा विपाकः (२७) · Śloka २७
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||२७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विपाकस्तु त्रिधा| सर्वद्रव्याणां विपाको जठराग्निसम्बन्धात् द्रव्यस्य स्वरूपान्तर प्रादुर्भावः| तत्र किञ्चित् स्वादुविपाकं किञ्चिदम्लविपाकम्| किञ्चित् कटुविपाकम्|| २७||
Adhikarana द्रव्यमाश्रिताः गुणाः (२८) · Śloka २८
गुरुमन्द- हिमस्निग्ध- श्लक्ष्णसान्द्र- मृदुस्थिराः|
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः|
इन्द्रियार्था व्यवायी च विकाषी चापरे गुणाः|
व्यवायी देहमखिलं व्याप्य पाकाय कल्पते|
विकाषी विकषन्धातून्सन्धिबन्धान् विमुञ्चति|
सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकीर्तितौ||२८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तदेव च द्रव्यमाश्रिता विंशतिर्गुणा गुर्वादयः, सविपर्ययाः सविपरीताः| गुरुर्लघुर्मन्दस्तीक्ष्णः, हिम उष्णः, स्निग्धः रूक्षः, श्लक्ष्णः परुषः, सान्द्रः द्रवः, मृदुः कठिनः, स्थिरश्चलः, सूक्ष्मः स्थूलः, विशदः पिच्छिलः| खरादयस्त्वेतद्भेदा एव यथासम्भवं व्याख्येयाः| एतेभ्य अन्ये गुणा इन्द्रियार्थाः शब्दादयः| व्यवायी विकाषी च| इन्द्रियार्थानां प्रसिद्धत्वात् लक्षणं नोच्यते| सर्वं देहं व्याप्य यत् पाकं याति स व्यवायी| विकाषी धातून् विकषन् हिंसन् सन्धिबन्धानुपलेपादिकान् मुञ्चति नाशयति| कैश्चिदाचार्यैर्व्यवायी सरस्यैव प्रकर्ष इति परिकल्पितः| विकाषी तीक्ष्णप्रकर्षः|| २८||
Adhikarana महागुणाः (२९) · Śloka २९
सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः||२९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
सत्त्वं रजस्तमश्च तन्त्रे व्यवहारार्थे महागुणशब्देन उक्ताः|| २९||
Adhikarana रोगारोग्यकारणम् (३०) · Śloka ३०
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः|
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्||३०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
दोषादीनां सदृशेन वृद्ध्या विसदृशेन च हान्या रोगकारणत्वमुक्तम्| कालादीनां त्वतियोगादयो दोषवृद्धिक्षयमुखेनैव रोगकारणत्वेनोच्यन्ते- कालेति| कालः शीतोष्णवर्षलक्षणस्त्रिविधो वक्ष्यते| तस्य स्वरूपहानिर्हीनयोगः| स्वरूपातिशयोऽतियोगः| स्वरूपवैपरीत्यं मिथ्यायोगः| अर्थाः इन्द्रियार्थाः शब्दादयः तेषामिन्द्रियेणाल्पसंयोगः संयोगाभावश्च हीनयोगः| अत्यन्तसंयोगोऽतियोगः| परुषानभिमतादिस्वरूपस्यार्थजातस्य इन्द्रियेण योगो मिथ्यायोगः| कायवाङ्मनसां क्रिया कर्म| तस्य हीना प्रवृत्तिर्हीनयोगः| अतिप्रवृत्तिरतियोगः| वेगोदीरणादिमुत्तरत्र वक्ष्यमाणं मिथ्यायोगः| सर्वेषां समा प्रवृत्तिः समयोगः| हीनादियोगस्त्रयो रोगकारणम्| सम्यग्योगः त्वारोग्यकारणम्|
Adhikarana रोगारोग्यस्वरूपम् (३१) · Śloka ३१
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता|
निजागन्तु विभागेन रोगाश्च द्विविधा मताः|
तेषां कायमनोभेदादधिष्ठानमपि द्विधा|
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||३१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
रोगारोग्ये के उच्येते इत्याह- रोग इति| रोगो वातादीनां विषमता स्वरूपाच्चलनम्| संप्राप्तिवशेन मुख्योक्तिर्हेतुत्वेनौपचारिकी| विशिष्टसंप्राप्तयो हि दोषा एव रोगाः तत् कार्यं वेति पक्षद्वयण् तेन व्याधिविशेषमनिष्पादयदपि दोषवैषम्यं परिगृहीतं भवति| रोगविशेषाणां ज्वरादीनां नामानि| वातादीनां साम्यमरोगता| ते च रोगा द्विविधा निजागन्तुविभागेन| मिथ्याहारविहारेण यो दोषकोपस्तत्कृता पीडा निजो रोगः| अभिघातादिना दोषकोप आगन्तू रोगः| तेषां रोगानां कायमनोभेदेन द्विविधमधिष्ठानं स्थानम्| ज्वरास्रपित्तादीनां कायः रागद्वेषादीनां मनः| ननु च रोगाणां वातादयः कारणत्वेनोक्ताः ते च कायिकानामेव सम्भवन्ति न मानसानामत आह- रजस्तमश्चेति| मनः शुद्धं सत्वम्| रजः तमसी दोषौ तस्योपप्लवावविद्यासम्भूतौ|| ३१||
Adhikarana रोगिपरीक्षा (३२) · Śloka ३२
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्||३२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
रोगो ज्ञातः, रोगोपहतशरीरज्ञानोपायमाह- दर्शनेति| दर्शनेन दृष्ट्या वर्णसंस्थानादिकम्| स्पर्शनेन सन्तापकाठिन्योत्सेधादिकम्| प्रश्नेन शूलारोचकादि| एवं रोगोपहतशरीरं दर्शनादिभिर्ज्ञातव्यम्|| ३२||
Adhikarana रोगपरीक्षा (३३) · Śloka ३३
रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः||३३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
सामान्येन शरीरस्य रोगसम्बन्धे ज्ञाते रोगविशेषस्याधिगमोपायमाह- रोगमिति| निदानादिभिः पञ्चभिर्लक्षणैः रोगं परीक्षेत| निदानं हेतुः| एवंविधमर्थजातमेवंविधस्य रोगस्य हेतुत्वेनोपदिष्टमेवंविधश्चोत्पन्नः| अतो निदानात् ज्ञायते रोगः| प्राग्रूपं भविष्यतो व्याधेरप्रकाशितदोषविशेषाधिष्ठानस्य लक्षणम्| लक्षणमुत्पन्नस्य चिह्नम्| उपशयः सुखानुबन्ध्याहाराद्युपयोगः| एवंविधेराहारादिना ह्यस्य पीडा नाभूदेवंविधेनाभूदत उपशयात् ज्ञायतेऽयं रोग इति| आप्तिः समाप्तिः| एवंदुष्टेन एवंस्थानस्थितेन एवमनुगतेनानया कल्पनया एवं मार्गेण दोषेणेति परिकल्पनम्| अत आप्त्या ज्ञायतेऽयम् रोग इति|| ३३||
Adhikarana देशद्वैविध्यम् (३४) · Śloka ३४
भूमिदेहप्रभेदेन देशमाहुरिह द्विधा||३४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
उपशयादिप्रसङ्गेन च देशकालावप्युपयुज्येते अतस्तावपि सूत्रयति| इहायुर्वेदशास्त्रे आचार्या द्विप्रकारं देशमाहुः| भूमिभेदेन देहभेदेन च| देहदेशः शिरःपाण्यादिः प्रसिद्धः|| ३४||
Adhikarana भूदेशत्रैविध्यम् (३५) · Śloka ३५
जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम्|
साधारणं सममलं त्रिधा भूदेशमादिशेत्||३५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
भूमिदेश उच्यते- जाङ्गलमित्यादि| जाङ्गलो नामाल्पोदक तरुपर्वतत्वेन वक्ष्यमाणलक्षणो वातभूयिष्ठः सञ्जातौषधिखगमृगपुरुषादिर्यो वातप्रधानः| आनूपस्तस्माद्विपरीतलक्षणः| स कफप्रायौषधिसलिलः श्लीपदादिरोगदः| साधारणः उभयलक्षणमध्यपतितः, सममलः समवातादिदोषः| एवं त्रिविधो भूमिदेशः|| ३५||
Adhikarana कालनिरूपणम् (३६) · Śloka ३६
क्षणादिर्व्याध्यवस्था च कालो भैषज्ययोगकृत्||३६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
कालो द्विविधः क्षणादिर्व्याध्यवस्था च व्यवहारार्थं तन्त्रे प्रयुज्यते| तत्र क्षणादिः प्रसिद्धः| व्याध्यवस्था च पुराणनवत्वादिकं विशिष्टलक्षणसंयुक्तत्वं व्याधेः| द्विविधोऽपि कालो रोगिणो भेषजस्य सम्बन्धं करोति| तथा च वक्ष्यति `पूर्वाह्णे वमनं देयं मध्याह्ने तु निरूहणम्' इति| तथा च बस्तिविधौ `निवृत्तिकालः परमस्त्रयो यामाः' इत्यादि| तथा ज्वरे `कषायपानपथ्यान्नै'रिति| `इति दोषे विजिते' इत्यादि कुष्ठे|| ३६||
Adhikarana औषधस्य द्वैविध्यम् (३७) · Śloka ३७
शोधनं शमनं चेति समसादौषधं द्विधा||३७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
कालो भेषजयोगकृदित्युक्तम्| भेषजमौषधम्, अतः तद्विज्ञानार्थमाह-शोधनमिति| यद् द्रव्यमद्रव्यं वाऽभयातपादिकुपितदोषविनाशनार्थमुपयुज्यते तदौषधमित्युच्यते| संक्षेपेण द्विविधमौषधं शोधनं शमनञ्च| विस्तरतस्तु निरूहपाचनक्वाथचूर्णादिकं बहुविधम्| शोधनं यत् कुपितान् दोषान् निःसार्य बहिः रोगोपशमनं करोति| शमनं पुनर्यत् स्वस्थानस्थितानामेव साम्यहेतुः|| ३७||
Adhikarana शारीरमानसरोगयोः परमौषधम् (३८) · Śloka ३८
शरीरजानां दोषाणां क्रमेण परमौषधम्|
बस्तिर्विरेको वमनं तथा तैलं घृतं मधु|
धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्||३८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
औषधमुक्तं, तस्य विशेषतः प्राधान्यमुच्यते-शरीरजानामित्यादि| शरीरजानां वातादीनां क्रमेण यथासङ्ख्येन परमौषधं प्रधानौषधम्| किमित्याह-बस्तिरित्यादि| बस्तिर्गुदप्रणिधेयः स्नेहक्वाथादिर्वातस्य परमौषधम्| विरेको मुखपीतं गुदमार्गेणाऽन्तःस्थितस्य दोषस्य निस्सारणं पित्तस्य परमौषधम्| वमनं मुखेन पीतम्, तेनैव दोषस्य निस्सारणं श्लेष्मणः परमौषधमिति शोधनरूपेण दोषाणामौषधम्| तथैव वातादिषु शमनस्वरूपेणैतदाह-तथेति| तैलं वातस्य घृतं पित्तस्य मधु श्लेष्मणः| मनोदोषयो रजस्तमसो रोगविघ्नकारिधीधैर्यादिकं परमौषधम्| कालविशेषमाश्रित्य सर्वत्र सर्वमेव|| ३८||
Adhikarana ग्रन्थाध्यायसंग्रहः (३९) · Śloka ३९
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसंग्रहः||३९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अस्य चाष्टाङ्गसंग्रहाभिधानस्य तन्त्रस्य सुखस्मरणार्थमध्यायानां संग्रहो वक्ष्यते|| ३९||
Adhikarana सूत्रस्थानाध्यायाः (४०) · Śloka ४०
आयुष्कामीय शिष्यार्थ-दिनर्तुव्याध्यसंभवाः|
द्रवान्न-ज्ञान-संरक्षा-विरुद्धान्नान्न-पानिकाः|
मात्राशितौषध-ज्ञान-श्रेष्ठ-शुध्यादि- संग्रहाः|
महाकषाय-विविध-द्रव्यादि-रस-भेदकाः|
दोषादिज्ञानतद्भेदतत्क्रिया रोगभेषजम्|
द्व्यौषध-स्नेहन-स्वेद-शुध्यास्थापन-नावनम्|
धूम-गण्डूष-दृक्सेक-तृप्ति-यन्त्र-जलौकसः|
सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः|
चत्वारिंशदिमेऽध्यायाः सूत्रम्||४०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
१. आयुष्कामीयः २. शिष्यार्थः शिष्योपनयनीयः ३. दिनचर्या ४. ऋतुचर्या ५. व्याध्यसम्भवः रोगानुत्पादनीयः ६. द्रवद्रव्यविज्ञानीयः ७. अन्नस्वरूपविज्ञानीयः ८. अन्नसंरक्षणीयः ९. विरुद्धान्नविज्ञानीयः १०. अन्नपानविधिः ११. मात्राशितीयः १२. द्विविधौषधविज्ञानीयः १३. श्रेष्ठसंग्रहः अग्र्यसंग्रहः १४. शोधनादिसंग्रहः १५. महाकषायसंग्रहः १६. विविधगणसंग्रहः १७. द्रव्यादिविज्ञानीयः १८. रसभेदीयः १९. दोषादिविज्ञानीयः २०. दोषभेदीयः तत्क्रिया २१. दोषोपक्रमणीयः २२. रोगभेदीयः २३. भेषजावचरणीयः २४. द्विविधोपक्रमणीयः २५. स्नेहविधिः २६. स्वेदविधिः २७. शुद्धिः वमनविरेचनविधिः २८. बस्तिविधिः २९. नावनविधिः ३०. धूमविधिः ३१. गण्डूषादिविधिः ३२. आश्च्योतनविधिः ३३. तर्पणविधिः ३४. यन्त्रविधिः ३५. जलौकावचरणीयः ३६. सिरावेधविधिः ३७. शल्यापहरणविधिः ३८. शस्त्रकर्मविधिः ३९. क्षारकर्मविधिः ४०. अग्निकर्मविधिः इमे चत्वारिंशदध्यायाः सूत्रस्थानम्|| ४०||
Adhikarana शारीरस्थानाध्यायाः (४१) · Śloka ४१
शारीरमुच्यते|
पुत्रार्थगर्भावक्रान्ति-चर्याव्यापच्छरीरजाः|
सिरामर्मप्रकृत्याख्या विकृताङ्गेहितामयाः|
सदूता द्वादशाध्यायाः||४१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
शारीरमुच्यते- १. पुत्रार्थःपुत्रकामीयः २. गर्भावक्रान्तीयः ३. चर्या गर्भावचरणीयः ४. व्यापत् गर्भव्यापत् ५. शरीरजः अङ्गविभागः ६. सिराविभागः ७. मर्मविभागः ८. प्रकृतिभेदीयः ९. विकृताङ्गविज्ञानीयः १०. विकृतेहितविज्ञानीयः ११. विकृतामयविज्ञानीयः १२. दूतादिविज्ञानीयः इति द्वादशाध्यायाः शारीरम्|| ४१||
Adhikarana निदानस्थानाध्यायाः (४२) · Śloka ४२
ंइदानं सार्वरौगिकम्|
ज्वरासृक्श्वासयक्ष्मादि-मदाद्यर्शोतिसारिणाम्|
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च|
पाण्डुकुष्ठानिलार्त्तानां वातास्रस्य च षोडश||४२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
निदानमुच्यते- १. सर्वरोगनिदानम् २. ज्वरनिदानम् ३. रक्तपित्तनिदानम् ४. श्वासहिध्मानिदानम् ५. यक्ष्मादिनिदानम् ६. मदात्ययनिदानम् ७. अर्शोनिदानम् ८. अतिसारनिदानम् ९. मूत्रघातनिदानम् १०. प्रमेहनिदानम् ११. विद्रध्यादिनिदानम् १२. उदरनिदानम् १३. पाण्डुरोगनिदानम् १४. कुष्ठनिदानम् १५. वातव्याधिनिदानम् १६. वातशोणितनिदानम् इति षोडशाध्याया निदानस्थानम्||४२||
Adhikarana चिकित्सास्थानाध्यायाः (४३) · Śloka ४३
चिकित्साज्वरयोरस्रकासयोः श्वासयक्ष्मणोः|
वमौ मदात्ययेऽर्शस्सु विशि द्वौ द्वौ च मूत्रिते|
विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु|
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्|
चतुर्विंशतिरध्यायाः||४३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
चिकित्सितमुच्यते- १. ज्वरचिकित्सितम् २. जीर्णज्वरचिकित्सितम् ३. रक्तपित्तचिकित्सितम् ४. कासचिकित्सितम् ५. क्षतक्षयकासचिकित्सितम् ६. श्वासचिकित्सितम् ७. यक्ष्मचिकित्सितम् ८. छर्द्यादिचिकित्सितम् ९. मदात्ययचिकित्सितम् १०. अर्शश्चिकित्सितम् विशि द्वौ- ११. अतिसारचिकित्सितम् १२. ग्रहणीदोषचिकित्सितम् १३. मूत्राघातचिकित्सितम् १४. प्रमेहचिकित्सितम् १५. विद्रधिवृद्धिचिकित्सितम् १६. गुल्मचिकित्सितम् १७. उदरचिकित्सितम् १८. पाण्डुरोगचिकित्सितम् १९. शोफचिकित्सितम् २०. विसर्पचिकित्सितम् २१. कुष्ठचिकित्सितम् २२. श्वित्रचिकित्सितम् २३. वातव्याधिचिकित्सितम् २४. वातशोणितचिकित्सितम् इति चतुर्विंशतिरध्यायाश्चिकित्सितस्थानम्||४३||
Adhikarana कल्पस्थानाध्यायाः (४४) · Śloka ४४
कल्पसिद्धिरतःपरम्|
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना|
कल्पश्च सिद्धबस्तीनां सिद्धिर्बस्त्यनुवासयोः|
द्रव्यकल्पोष्टमः||४४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
कल्पस्थानमुच्यते- १. वमनकल्पः २. विरेचनकल्पः ३. वमनविरेचनव्यापत् सिद्धिकल्पः ४. बस्तिकल्पः ५. सिद्धबस्तिकल्पः ६. बस्तिव्यापत्सिद्धिकल्पः ७. अनुवासनव्यापत् सिद्धिकल्पः ८. द्रव्यकल्पः| इत्यष्टावध्यायाः कल्पस्थानम्||४४||
Adhikarana उत्तरस्थानाध्यानाध्यायाः (१) · Śloka १
स्थानमत उत्तरमुत्तरम्|
बालोपचरणे व्याधिग्रहज्ञाननिषेधने|
स्नाने पृथग्ग्रहे भूते द्वावुन्मादे स्मृतिक्षये|
वर्त्मसन्धिगतौ द्वौ द्वौ दृक्त्तमोलिङ्गनाशिषु|
सर्वदृक्स्यन्ददृक्पाके कर्णनासामुखेषु च|
मूर्ध्नि व्रणे तथा द्वौ द्वौ सद्योभङ्गे भगन्दरे|
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्|
विषे द्वौ भुजगे कीटे द्वौ च लूतासु मूषिके|
विषे विषोपयोगे च तथाऽध्यायो रसायने|
वाजीकरणमुद्दिश्य पञ्चाशोऽष्टाङ्गपूरणः||४५||
इति वैद्यपतिसिह्मगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने आयुष्कामीयो नाम प्रथमोऽध्यायः इति पञ्चाशदधिकमध्यायशतं षड्भिः स्थानैः समीरितं सम्यगुक्तम्||१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अत उत्तरमनन्तरमुत्तरस्थानमुच्यते- १. बालोपचरणीयः २. बालामयप्रतिषेधः ३. बालग्रहविज्ञानीयः ४. बालग्रहप्रतिषेधः ५. स्नानविधिः ६. पृथग्ग्रहे प्रत्येकग्रहप्रतिषेधः ७. भूतग्रहविज्ञानीयः ८. भूतग्रहप्रतिषेधः ९. उन्मादप्रतिषेधः १०. अपस्मारप्रतिषेधः वर्त्मसन्धिगतौ द्वौ द्वौ- ११. वर्त्मरोगविज्ञानीयः १२. वर्त्मरोगप्रतिषेधः १३. सन्धिसितासितरोगविज्ञानीयः १४. सन्धिसितासितरोगप्रतिषेधः १५. दृष्टिरोगविज्ञानीयः १६. तिमिरप्रतिषेधः १७. लिङ्गनाशप्रतिषेधः १८. सर्वाक्षिरोगविज्ञानीयः १९. अभिष्यन्दप्रतिषेधः २०. दृष्टिपाकप्रतिषेधः कर्णादिषु व्रणान्तेषु द्वौ द्वौ- २१. कर्णरोगविज्ञानीयः २२. कर्णरोगप्रतिषेधः २३. नासारोगविज्ञनीयः २४. नासारोगप्रतिषेधः २५. मुखरोगविज्ञानीयः २६. मुखरोगप्रतिषेधः २७. शिरोरोगविज्ञानीयः २८. शिरोरोगप्रतिषेधः २९. व्रणविभक्तिविज्ञानीयः ३०. व्रणविभक्तिप्रतिषेधः ३१. सद्योव्रणप्रतिषेधः ३२. भङ्गप्रतिषेधः ३३. भगन्दरप्रतिषेधः| ग्रन्थ्यादित्रितये द्वौ द्वौ- ३४. ग्रन्थ्यादिविज्ञानीयः ३५. ग्रन्थ्यादिप्रतिषेधः ३६. क्षुद्ररोगविज्ञानीयः ३७. क्षुद्ररोगप्रतिषेधः ३८. गुह्यरोगविज्ञानीयः ३९. गुह्यरोगप्रतिषेधः ४०. विषप्रतिषेधः| भुजङ्गे द्वौ- ४१. सर्पादिदंष्ट्राविज्ञानीयः ४२. सर्पादिदंष्ट्राप्रतिषेधः ४३. कीटप्रतिषेधः ४४. लूतादिविज्ञानीये लूतादिप्रतिषेधः ४५. प्रत्येकलूताप्रतिषेधः ४६. मूषिकालर्कप्रतिषेधः ४७. विषोपद्रवप्रतिषेधः ४८. विषोपयोगीयः ४९. रसायनाध्यायः ५०. वाजीकरणाध्यायः आहृत्य ग्रन्थाध्ययाः पञ्चाशदध्यायशतं षड्भिः स्थानैः समीरितम्|| ४६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने प्रथमोऽध्यायः||१||