Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. śiṣyōpanayanīyaḥ

Adhikarana pratij~jA (1) · Śloka 1

अथाऽतः शिष्योपनयनीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

तन्त्रार्थं सर्वं पूर्वस्मिन्नध्याये सूत्रयित्वा एवंविधः शिष्यः तन्त्रं शिक्षयितव्य इति प्रदर्शनार्थमध्याय आरभ्यते- अथात इति| अथेति सर्वाध्यायेषु मङ्गलार्थः| तथा अत इत्यानन्तर्ये| `अधिकृत्य कृते ग्रन्थ' इति छप्रत्ययः|| १||

Adhikarana shiShyaguNAH (2) · Śloka 2

गुरुभक्तोऽभियुक्तोऽतियुक्तो धीस्मृतिपाटवैः| ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः| ब्रह्मचारी जितद्वन्द्वो धीरः सुचरितः स्थिरः| षण्मासानुषितः शक्लो लज्जाशौचकुलान्वितः| शिष्योऽध्याप्यो गतो यावदन्तं तन्त्रार्थकर्मणाम्||२||

🔊 Audio coming soon

गुरुभक्तत्वादियुक्तः शिष्योऽध्याप्यः शिक्षयितव्यः| आतन्त्रार्थकर्मणामन्तगमनात्| तन्त्रान्तः तन्त्रपाठनिष्पत्तिः| अर्थान्तः तन्त्रावबोधः| कर्मान्तो ज्ञातस्य शास्त्रस्य लक्ष्ये नियोगः| गुरोरुपाध्यायस्य भक्तः सेवातत्परः| अभियुक्तः शास्त्रविज्ञाने यत्नपरः| तथा धीस्मृतिपाटवैरतियुक्तः अतिशयेन युक्तः धीर्ग्रहणशक्तिः स्मृतिः स्मरणं पाटवमिन्द्रियसौष्ठवम्| स्पष्टमुखः स्पष्टनाशः स्पष्टनेत्रः| तनुनखः स्निग्धनखः| तनुत्वक् स्निग्धत्वक्| ब्रह्मचारी निर्व्यवायः| जितद्वन्द्वो निर्दोषः| धीरो विगतभीः| साधुशीलः सच्चरितः| स्थिरः अचपलस्वभावः| षण्मासानुपाध्यायनिकटे उषितः एतावता हि साध्वसाधुस्वभावतां शिष्यस्योपाध्यायोऽधिगच्छति| शक्लः प्रियंवदः| लज्जयान्वितः शौचेन च शारीरमानसया शुद्ध्या समन्वितः सुकुलीनः|| २||

Adhikarana anadhyAyAH (3) · Śloka 3

नाऽकालविद्युत्स्तनिते भूकम्पे राहुदर्शने| पञ्चदश्यामचन्द्रायां परोक्षे वा गुरोः पठेत्||३||

🔊 Audio coming soon

स च शिष्यः अकालविद्युदादिषु न पठेत्| अकालविद्युद्या वर्षाकालादन्यस्मिन् काले दृष्टा, तद्वदकालस्तनितम्| स्तनितं मेघशब्दः| भूकम्पराहुदर्शने प्रसिद्धे| अचन्द्रा पञ्चदशी अमावास्या या कुहूरित्युच्यते| गुरावनवस्थिते न पठेत्| एतावता हि दुःशिक्षितो भवति|| ३||

Adhikarana adhyayanavidhiH (4) · Śloka 4

नाविच्छिन्नपदं नातिमन्दं नात्युच्चनीचकैः||४||

🔊 Audio coming soon

तथा अविच्छिन्नपदं न पठेत् संहितया न पठेत्| तथा हि विसन्ध्यभ्यासो भवति| अतिमन्दमतिस्तब्धञ्च न पठेत्| इति प्रयत्नविशेषः| नात्युच्चैर्नातिनीचैश्च इति स्वरविशेषः|| ४||

Adhikarana guruparicaryAkramaH (5) · Śloka 5

हीनान्यवेष आचार्यं पर्युपासीत राजवत्| शयीत सुप्त एवास्मिन्नुत्तिष्ठेतास्य पूर्वतः| न ब्रूयात्केवलं नाम नाऽसाध्वपि विनाटयेत्||५||

🔊 Audio coming soon

अन्यच्चेदं शिष्यः कुर्यात्| राजवन्नृपवच्चाचार्यं पर्युपासीत सेवेत| किम्भूतः? हीनान्यवेषः प्रकरणाद्गुरुत एव हीनवेषः| गुरुवेषात् स्वल्पवेषः, अन्यवेषः विसदृशवेषः| तथा अस्मिन् गुरौ सुप्त एव शयीत नासुप्ते स्वप्यात्| अस्य च गुरोः पूर्वतः पूर्वमुत्तिष्ठेत् अस्मिन् शयनादनुत्थित एवोत्तिष्ठेत्| अन्यच्च तस्य गुरोः केवलं पूजावाचकोपपदरहितं नाम न कीर्तयेन्न केवलं नाम ब्रूयात्| यावदसाध्वपि न विनाटयेत् गुरुकृतां दुरीहामुपहासपूर्वकं नानुकुर्यादित्यर्थः|| ५||

Adhikarana BiShaglakShaNam (6) · Śloka 6

अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः| बहुश्रुतः कालवेदी ज्ञातग्रन्थोऽर्थशास्त्रवित्| अनाथान् रोगिणो यश्च पुत्रवत्समुपाचरेत्| गुरुणा समनुज्ञातः स भिषक्छब्दमश्नुते||६||

🔊 Audio coming soon

स च शिष्यः अभेद्यत्वादिगुणयोगाद्भिषक्छब्दः भिषगिति नाम अश्नुते प्राप्नोति| अभेद्यः परैः प्रतिवादितधूर्त्तादिभिरधृष्यः| अनुद्धतः प्रसिद्धः| स्तब्धः चिरकारी| सूनृतः सुखोपगमनीयः| प्रियदर्शनः सुमुखः सुवेषश्च| बहुश्रुतः प्रसिद्धः| कालवेदी रोगिणोऽन्यस्य चावस्थास्वभावविशेषं जानाति| ज्ञातग्रन्थः अभ्यस्तशास्त्रः| तथा शास्त्रार्थज्ञश्चिकित्सितश्च| यश्च शिष्यः अनाथान् स्वामिबान्धवाद्यभावान्निरुपायान् व्याधितान्| पुत्रस्नेहेन परिपालयेत् गुरुणा योग्यत्वाच्चिकित्साकरणे समनुज्ञातः| स भिषक्छब्दमश्नुते|| ६||

Adhikarana kevalashAstraj~jasya doShAH (7) · Śloka 7

यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः| स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम्||७||

🔊 Audio coming soon

यः पुनः केवलशास्त्रज्ञः कर्मसु चिकित्सितेष्वपरिनिष्ठितः अविज्ञातयाथातथ्थः स आतुरं प्राप्य मुह्यति| यथा भीरुराहवं संग्रामं प्राप्य मुह्यति| न ह्यातुरस्य ग्रन्थपदार्थवाक्यार्थावबोधाद् रोगोपशमः|| ७||

Adhikarana shAstravidhurasya nindyatvam (8) · Śloka 8

यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्जितः| स सत्सु गर्हामाप्नोति वधं चर्च्छति राजतः||८||

🔊 Audio coming soon

यः पुनः भिषगाभासः शास्त्रार्थज्ञानेनैव रहितः धार्ष्ट्यात् चिकित्सां करोति स सत्सु साधुषु मध्ये गर्हां प्राप्नोति राजतश्च वधम्| यतः स राज्यकण्टकत्वाद्राज्ञा वध्यः आम्नातः शास्त्रान्तरे|| ८||

Adhikarana BiShaktamalakShaNam (9) · Śloka 9

हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे| ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||९||

🔊 Audio coming soon

भिषग्दोषानुक्त्वा भिषग्गुणानाह-हेतावित्यादि| चतुःप्रकारं यस्य ज्ञानं स भिषक्तमो राजार्हः| भिषजश्चिकित्साज्ञान-योगादतिशयः| हेतौ निदाने, लिङ्गे लक्षणे| प्रशमने रोगाणामपुनर्भवे नष्टो रोगो यथा न पुनर्जायत इति ज्ञानचातुर्विध्यम्|| ९||

Adhikarana bAhushrutyena praj~jAmupabRuMhayet (10) · Śloka 10

शस्त्रं शास्त्राणि सलिलं गुणादोषप्रवृत्तये| पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्||१०||

🔊 Audio coming soon

अन्यत् भिषजा किं कार्यम्? बाहुश्रुत्येन प्रभूतशास्त्रश्रवणेन प्रज्ञां प्रज्ञानं बृंहयेत्| यतो दृष्टं गुणदोषकरणं भावाः पात्रमपेक्षन्ते| तथा च शस्त्रं शौर्ययुक्ते पात्रे स्थितं कार्यकरं भवति, भीरौ च दोषकरम्| एवं शास्त्रसलिलेऽपि परिकल्पनीये| बाहुश्रुत्योपबृंहितप्रज्ञे स्थितं शास्त्रं शोभनतां यातीत्यर्थः|| १०||

Adhikarana praj~jopabRuMhaNe hetuH (11) · Śloka 11

प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः| ताभ्याम्भिषक्सुयुक्ताभ्याञ्चिकित्सन्नापराध्यति||११||

🔊 Audio coming soon

किमर्थं प्रज्ञामुपबृंहयेदित्यत आह-प्रदीपभूतमित्यादि| शास्त्रप्रदीपयोः सादृश्यम्| विस्तीर्णा मतिर्दृष्ट्या समाना| यथा प्रदीपोपबृंहीता दृष्टिर्भावग्रहणे समर्था भवत्येवं शास्त्रोपबृंहिता विपुला मतिश्चिकित्सितयोग्या| एवं हि चिकित्सान्नापराधवान् भवति|| ११||

Adhikarana siddhiBAgvaidyalakShaNam (12) · Śloka 12

आहूत एव यो याति सुवेषः सुनिमित्ततः| गत्वाऽतुरार्थादन्यत्र न निधत्ते मनः क्वचित्| व्याधीन् परीक्षते सम्यङ्निदानादिविशेषतः| ह्रेपणीयां च तद्वार्त्तां न प्रकाशयते बहिः| सहसा न च तस्यापि क्रियाकालमहापयन्| जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते||१२||

🔊 Audio coming soon

किम्भूतश्च वैद्यः सिद्धिं प्राप्नोतीत्याह-आहूत इति| य आहूत एवतुरगृहं याति| सुवेषः दूतादिविज्ञानीयोक्तकुचेलादिवेषरहितः| सुनिमित्ततो याति दुर्निमित्तं दृष्ट्वा नयातीत्यर्थः| गत्वा चातुरार्थं वर्जयित्वाऽन्यत्र मनो न निधत्ते| आतुरार्थो निदानादिभिः पंचभिः विशेषैर्व्याधिपरीक्षणं तद्योग्या च चिकित्सा| ह्रेपणीयां गोप्यां लज्जावहां चातुरवार्तां बहिर्जनसंसदि न प्रकाशयेत्| आतुरस्यापि झटिति न प्रकाशयेत् ईदृशी तवोपगता पीडेति| एवं ह्यातुरस्य व्याधिस्वरूपं कथयतो भिषजः कदाचिच्चिकित्साहानिर्भवति| क्रियाकालं चिकित्साकालमत्यजन्नुपचरितुं चिकित्सितुं च यो जानाति चिकित्सामार्गे स्पष्टविकल्पयोग्या बुद्धिरित्यर्थः| एवम्भूतो वैद्यो रोगोपशमलक्षणां सिद्धिं प्राप्नोति|

Adhikarana vaidyena varjanIyam (13) · Śloka 13

नावदीताऽमिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे| ताभिश्च रहसि स्थानं परिहासं च वर्जयेत्||१३||

🔊 Audio coming soon

एतत् प्रसङ्गेनैव वैद्येनेदमनुष्ठेयं नेदमनुष्ठेयमित्याह-नाददीतेति| परस्त्रीभ्य आमिषमर्थादिकं नाऽऽददीत न गृह्णीयात्| `आमिषं भोग्यवस्तुनि' इति कोशः| तदध्यक्षे आमिषदातृयोषिद्रक्षाधिकृते पराङ्मुखे परोक्षे ताभिः स्त्रीभिश्च रहसि एकान्ते स्थितिं परिहासञ्च वर्जयेत्|| १३ ||

Adhikarana acikitsyAH (14) · Śloka 14

आर्त्तं च नृपसद्वैद्यैर्द्विष्टं तद्द्वेषिणं द्विषम्| चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्| हीनोपकरणं व्यग्रमविधेयं गतायुषम्||१४||

🔊 Audio coming soon

आर्त्तं रोगिणञ्चैवम्भूतं भिषग्वर्जयेत्| किम्भूतम्? नृपेण राज्ञा द्विष्टं सद्वैद्यैश्च| अथवा नृपेण सद्भिश्च वैद्यैश्च| तद्द्वेषिणं तान् नृपसद्वैद्यान् यो द्वेष्टि तम्| द्विषं शत्रुं च न चिकित्सेत्| चण्डं दर्पिणम्| शोकातुरादयः प्रसिद्धाः| वैद्यमानिनं अवैद्योऽपि यो वैद्यमात्मानं मन्यते स्वमतेनौषधं करोतीत्यर्थः| हीनोपकरणं हीनचिकित्साङ्गम्| व्यग्रं कार्यबहुलम्| अविधेयं भिषजः| गतायुषं रिष्टज्ञानेन|| १४||

Adhikarana varjanIyavaidyAH (15) · Śloka 15

जिजीविषुर्व्याधितोऽपि पूर्वोक्तगुणवर्जितान्| क्रियाविक्रियिणो वैद्यान् मृत्योरग्रेसरा हि ते||१५||

🔊 Audio coming soon

न केवलं भिषगेवम्भूतमातुरं वर्जयेत् यावदातुरोऽपि जीवितुमिच्छुः पूर्वोक्तवैद्यगुणवर्जितान् वैद्यांस्त्यजेत्| क्रियाविक्रयिणः पण्यचिकित्सकान्| ते हि मृत्योरग्रेसराः पुरस्सराः पुरुषाः, पदातयः|| १५||

Adhikarana cikitsAyAH pAdacatuShTayam (16) · Śloka 16

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्||१६||

🔊 Audio coming soon

चिकित्सायाः प्रकृतत्वात् इदमुच्यते-भिषगित्यादि| चिकित्सितस्य रोगोपशमलक्षणस्य पादचतुष्टयमङ्गचतुष्टयमुक्तम्| प्रत्येकं तच्चतुर्गुणम्| उपस्थाता परिचारकः|| १६||

Adhikarana BiShagguNAH (17) · Śloka 17

दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्||१७||

🔊 Audio coming soon

भिषक् वैद्यश्चतुर्गुणः| दक्षश्चतुरः| तीर्थात्तशास्त्रार्थः उपाध्यायात् प्राप्तशास्त्रस्वरूपः| दृष्टकर्मा बहुशश्चिकित्सितरोगः| शुचिः शरीरेण मनसा वा|| १७||

Adhikarana auShadhaguNAH (18) · Śloka 18

बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्||१८||

🔊 Audio coming soon

औषधमपि चतुर्विधम्| बहुकल्पं बहवः कल्पाः स्वरसक्वाथचूर्णादिकाः कल्पना यस्य न तु लवणवदेककल्पम्| बहवो गुणाः सत्त्वादयो यस्य तद्बहुगुणम्| सम्पन्नं पाकसंस्कारादियुक्तम्| योग्यं रोगस्य रोगिणश्च देशकालाद्यवस्थापेक्षया|| १८||

Adhikarana paricArakaguNAH (19) · Śloka 19

अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः||१९||

🔊 Audio coming soon

उपस्थाताऽपि चतुर्विधः| आतुरस्यानुरक्तः| शुचिर्दक्षौ व्याख्यातौ| बुद्धिमान् प्रसिद्धः|| १९||

Adhikarana rogiguNAH (20) · Śloka 20

आढ्यो रोगी भिषग्वश्यो ज्ञापकस्सत्त्ववानपि||२०||

🔊 Audio coming soon

रोग्यपि चतुर्विधः| आढ्यो धनवान्| वैद्यवश्यः| ज्ञापकः वैद्यं रोगाहारविहारादीनामन्वयव्यतिरेकं बोधयितुं समर्थः| सत्त्ववानभीरुः|| २०||

Adhikarana cikitsAyAH pradhAnaM kAraNaM BiShak (21) · Śloka 21

यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः| स पादहीनानप्यार्त्तान् गुणवान् यच्च यापयेत्| चिकित्सायास्तमेवातः प्रधानं कारणं विदुः||२१||

🔊 Audio coming soon

चिकित्सायाश्च यद्यपि कारणं चतुष्टयमुक्तं तथापि वैद्य एव प्रधानं कारणम्| कुतः? आह- यद्वैद्य इति| यद्यस्माद्वैद्ये विगुणे यथोक्तगुणरहिते, शेषास्त्रयः पादाः गुणवन्तो यथोक्तगुणा अप्यनर्थकाः| अयमपरो हेतुः- यच्च यस्मात् च वैद्यो गुणवान् पादहीनानप्यार्तान् यापयेत् मरणाद्रक्षति| अतोऽपि तमेव प्रधानम् कारणं विदुर्विद्वांसः||२१||

Adhikarana vyAdhiprakArAH (22) · Śloka 22

साध्योऽसाध्य इति व्याधिर्द्विधा तौ तु पुनस्त्रिधा| सुसाध्यः कृच्छ्रसाध्यश्च व्याप्यो यश्चानुपक्रमः||२२||

🔊 Audio coming soon

चिकित्सा प्रकृता| सा च व्याधेर्नाशनम्| अत उच्यते, द्विविधो व्याधिः साध्योऽसाध्यश्च| साध्यो द्विविधः सुखसाध्यः कृच्छ्रसाध्यश्च| असाध्योऽपि द्विविधः याप्यः अनुपक्रमश्चेति|| २२||

Adhikarana suKasAdhyavyAdhilakShaNam (23) · Śloka 23

सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः| अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः| अतुल्यदूष्यदेशर्तुप्रकृतिः पादस्म्पदि| ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः| सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते||२३||

🔊 Audio coming soon

सुखसाध्यादिकस्य व्याधिचतुष्टयस्य लक्षणमुच्यते| सर्वौषधक्षमे देहे उत्पन्नो व्याधिः सुखः सुखसाध्यः| यूनः तरुणस्य| पुंसः पुरुषस्य| जितात्मनो जितेन्द्रियस्य गेयशब्दादीनामलोलुपस्य देह उत्पन्नः| अन्यच्च किम्भूतः? अमर्मगः हृत् कण्ठादिपीडाकरणे असमर्थः| स्वल्पनिदानः स्वल्पपूर्वरूपः स्वल्पलक्षणश्च सुसाध्यः| तथोपद्रवरहितः उत्पन्ने व्याधावुत्पन्नं दुःखानुबन्धिव्याध्यन्तरमुपद्रवशब्देनोच्यते| तथा अतुल्यदूष्यः यस्मिन् व्याधौ विसदृशेन दोषेण दूषितो दूष्यः| यथा श्लेष्मणा शीतेन रक्तमुष्णं दूषितम्| तथा अतुल्यदेशो व्याधिः, यथा आनूपदेशे पित्तसम्भूतः| अतुल्यर्तुर्यथा शरदि कफोद्भवः| अतुल्यप्रकृतिर्यथा पित्तप्रकृतेः श्लेष्मसम्भवः| पादसम्पद्यङ्गचतुष्टयपरिपूर्णत्वे सति व्याधिः सुखसाध्यः| तथा ग्रहेषु अनुगुणेषु अनुकूलराशिस्थितेषु| तथैकेन वातादीनामन्यतमेन दोषेण यो जातः तथा एकमार्गः अन्तर्मार्ग एव वा बहिर्मार्ग एव वा| एतच्च परस्ताद्वक्ष्यामः| तथा नवः| इति सुखसाध्यस्य लक्षणमुक्तम्| तस्यैव सुखसाध्यस्य अन्वर्थताऽप्युच्यते| सुखसाध्यो यः सुखोपायः स्वल्पोपाय इत्यल्पेन च कालेन सिद्ध्यति|| २३||

Adhikarana kRucCrasAdhyalakShaNam (24) · Śloka 24

कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण वा| असाध्यलिङ्गसङ्कीर्णस्तथा शस्त्रादिसाधनः||२४||

🔊 Audio coming soon

कृच्छ्रसाध्यस्तु कृच्छ्रैः सुदुष्करैरुपायैर्महद्भिः प्रभूतैश्चिरेण च सिद्ध्यति| असाध्यलिङ्गानि यथास्वं वक्ष्यमाणानि| तैः सङ्कीर्णो मिश्रितः| तथा शस्त्रादिकं साधनमुपायो यस्य| आदिग्रहणेनाग्निक्षारादीनां ग्रहणमिति कृच्छ्रसाध्यलक्षणानि|| २४||

Adhikarana yApyavyAdhilakShaNam (25) · Śloka 25

शेषत्वादायुषः पथ्यैर्याप्यः प्रायो विपर्यये| दत्त्वाऽल्पं सुखमल्पेन हेतुना स प्रतन्यते| याति नाशेषतां रोगः कर्मजो नियतायुषः| प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः||२५||

🔊 Audio coming soon

याप्य उच्यते- शेषत्वादित्यादि| बाहुल्येन विपर्यये साध्यलक्षणविपरीतत्वे सत्यायुषो जीवितस्य शेषत्वादक्षीणत्वान्मारयितुमसमर्थः| पथ्यैराहारविहारैर्याप्यः| स च व्याधिः चिकित्सितेनाल्पं सुखं दत्त्वा पुनः सोऽल्पेनैव हेतुना प्रतन्यते विस्तीर्यते| यतश्च दुष्कृतकर्मजो रोगो नियतायुष उत्पन्नो न च नश्यति नापि मारयति| अत्र च याप्ये व्याधौ आतुरो हितैराहारविहारादिकैर्धार्यते, यथा- प्रपतन् पिपतिषुः कुड्यादिर्विष्कम्भैः स्तम्भैर्धार्यते| इति याप्यलक्षणानि|| २५||

Adhikarana asAdhyavyAdhilakShaNam (26) · Śloka 26

परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्त्तते| तस्मादुपेक्ष्य एवासौ स्थितोऽत्यन्तविपर्यये| भ्रममोहारतिकरो दृष्टिरिष्टोऽक्षनाशनः||२६||

🔊 Audio coming soon

अनुपक्रमणलक्षणान्युच्यन्ते| परश्चैषां शेष असाध्यः प्रत्याख्येयः सन् सर्वाः क्रियाः चिकित्साः अतिवर्त्तते कुण्ठयति| तस्मात्सुखसाध्यलक्षणेभ्योऽत्यन्तविपरीतत्वे स्थित उपेक्षणीय एव| तथा भ्रमादिकरः भ्रम इव भ्रमः चित्तस्य बहुस्वरूपमवस्थानम्| मोहो वै चैतन्यम्| अरतिः कुत्रचिदनवस्थितिः| तथाऽक्षनाशनो दर्शनादीन्द्रियनाशन| इत्यनुक्रमलक्षणानि|

Adhikarana vyAdhIn vimRushya cikitsAmAraBeta (27) · Śloka 27

व्याधीन् पुरा परीक्षैवमारभेत ततः क्रियाम्| स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्||२७||

🔊 Audio coming soon

इत्येवमनन्तरोक्तप्रकारेण व्याधीन् पुराऽऽतुरसंयोग एव समीक्ष्य ततः क्रियां चिकित्सामारभेत| अन्यथैतदकुर्वन् ध्रुवमवश्यं स्वार्थादिहानिमवाप्नुयादश्नुवीत|| २७||

Adhikarana sAdhyasyA~apyasAdhyatAprAptiH (28) · Śloka 28

साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यताम्| विद्यादसाध्यमेवातः साध्यासाध्यसमागमम्| नासाध्यस्साध्यतां याति साध्यो याति त्वसाध्यताम्||२८||

🔊 Audio coming soon

वेद्यस्य परीक्षणीयप्रसङ्गः इदमप्याह- साध्ययोरित्यादि| बलिनोर्बलयुक्तयोः साध्यलक्षणयुक्तयोः संयोगोऽप्यसाध्यतां याति| अत एव संयोगाद्धेतोः साध्यासाध्यसमागममप्यसाध्यं विद्यात्| तथा योऽसाध्यो व्याधिः स न कदाचिदपि साध्यतामेति| साध्यः पुनरसाध्यतामेति|| २८||

Adhikarana vyAdhInAmavasthAntaragamane hetuH (29) · Śloka 29

पादापचाराद्दैवाच्च यान्तवस्थान्तरं गदाः||२९||

🔊 Audio coming soon

कथमित्याह- पादापचारादित्यादि| पादापचारो यथोक्तानामङ्गानामपरिपूर्णत्वम्| अथवा सर्व एव व्याधयः पादनिरपेक्षा एव दैवाद्धेतोरवस्थान्तरं स्वरूपाद्विलक्षणतां यान्ति| दैवमन्यजन्मकृतं कर्म|| २९||

Adhikarana vaidyavRuttam (30) · Śloka 30

वरमाशीविषविषं दीप्तमग्निमयोऽपि वा| उपयुञ्जीत न त्वर्त्तादामिषं कृपणाज्जनात्||३०||

🔊 Audio coming soon

वैद्यस्यानुष्ठेयप्रसङ्ग इदमप्याह- वरमित्यादि| वरमाशीविषाणां दंष्ट्रिणां विषमुपयुक्तम्| दीप्तो वाऽग्निरुपयुक्तः| दीप्तामयोऽपि वा उपयुक्तं शरीरेण संयोगं नीतम्| न तु कृपणाज्जनादामिषमर्थादिकमुपयुक्तम्| अथवा आशीविषाश्च वरम्| विषश्च वरम्|| ३०||

Adhikarana antya (2) · Śloka 2

वरो भूतदया धर्म इत्यार्त्तेषु भिषग्वरः| वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते||३१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

इति यो भिषग्वैद्यः भूतदया वरः श्रेष्ठो धर्मः इति विदित्वाऽर्त्तेषु रोगिषु वर्त्तते, स सिद्धार्थः अर्थसिद्ध्या युक्तः सर्वं सदाचारं जनमतिवर्त्तते तेषामुपरि भवतीत्यर्थः|| ३१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया-मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने द्वितीयोऽध्यायः||२||