Adhikarana athAtaH BeShajAvacAraNIyo nAma trayoviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः भेषजावचारणीयमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अनन्तरोक्तेन प्रकारेणाधिगते रोगे तदुपक्रमार्थं भेषजावचरण परिज्ञानार्थमध्यायारम्भः-अथात इत्यादि|| १||
Adhikarana AturaparIkShAprakAraH (2) · Śloka 2
भेषजमवचारयन् प्रागेव तावेदमातुरं परीक्षेत|
कस्मि- न्नयं देशे जातः संवृद्धो व्याधितो वा|
कस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावद्बलमे- वंविधं सत्त्वमेवंविधं सात्म्यमियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति|
प्राग्ग्रहेणेन केन वा निदान- विशेषेणाऽस्य कुपितो दोषः|
दोषस्य ह्येकस्याऽपि बहवः प्रकोपे हेतवः|
तस्माद्यथा स्वलक्षणैः कर्म- भिश्च बुद्ध्वा भिषक् दोषमेवमवगमयेत्|
तद्यथा- किमाहारेण कुपितो वायुः किं विहारेण तथा रूक्षेण लग़ुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेन वेति|
ततश्च तत्प्रतिपक्षमौषधं प्रयुज्यमानमाशु सिद्धये सम्पद्यते|
तत्र मधुराम्ललवणा रसाः कटुतिक्त- कषायाश्चेतरेतप्रतिपक्षाः|
तदनन्तरञ्चोपलभेत|
मृदु- मध्यातिमात्रविकल्पनया कथं निदानमासेवितम्|
एक- रूपस्यापि हे हेतोः मृद्वादिविभागेन पृथक्समवेतानाञ्च दोषाणामंशांशबलविकल्पविशेषाद् व्यर्धेर्बलाबल- विशेषः|
तत्रानेकदोषात्मकेशु व्याधिष्वनेकरसेषु च भेषजेशु रसदोषप्रभावमेकैकशोऽभिसमीक्ष्य व्याधिभेष- जप्रभवतत्त्वं व्यवस्येत|
न त्वेवं सर्वत्र|
न हि विष- मविकृतिसमवेतानां नानात्मकानां परस्परेणोपगृही- तानामुपहतानाञ्चान्यैश्च विकल्पनैर्विकल्पितानामवयव- प्रभावानुमानेन समुदायप्रभावतत्वमध्यवसितुं शक्यम्|
तथाविधे हि समुदाये समुदायप्रभावमेवोपलभ्य व्या- ध्यौषधप्रभावतत्त्वमवगच्छेत्||२||
तत्र भेषजावचरणप्रसङ्गे कस्मिन् देशे जात इत्यादिना प्रथममातुरं परीक्षेत| एतच्च प्रायोभवत्वेन परीक्षेत| अन्यथा सर्वस्यापि आहारादेः सर्वत्र सम्भवादनवस्थाप्रसङ्गः| भक्तिः सातत्यानुष्ठानम्| सुबोधम्| एवं हि दोषकारणं ज्ञात्वा स्वकारणप्रतिपक्षमौषधमुपयुज्यमानमाशु सिद्धये सम्पद्यते| तत्र लक्षणानि यथा वातस्य रूक्षत्वादीनि| कर्म श्वासोच्छ्वासादि| तत्र मधुराम्ललवणाः| कटुतिक्तकषायाश्च यथासङ्ख़्येन परस्परप्रतिपक्षाः| अनन्तरोक्तेन प्रकारेण परीक्षिते पश्चान्मृद्वादिभेदेन व्याधिमुपलभेत| कथमेकरूपतया व्याधिहेतोः कुत्र कीदृशेन मृद्वादिना विभागेन निदानमासेवितमिति| तत्र मृदुशक्तिना निदानेन मृदुर्व्याधिर्भवति| एवं मध्यशक्तिना मध्यः| अधिकेनाऽधिक इति| तथा दोषाणां वातादीनां पृथग्भूतानां मिश्राणां वा नानाविधेनांशांशबलविशेषेण व्याधीनां बलाबलविशेषः| यदि दोषा बलवत्वेन कल्पिताः ततः तत्कार्यमपि व्याधिर्बलवानिति विज्ञेयः| तथा तेष्वबलेषु स्वल्पबलः| तत्र सर्वे रोगाः पूर्वं त्रिदोषजा उक्ताः| तदुपक्रमणानि च भेषजानि सर्वरसानि| तथाविधेष्वनेकदोषात्मकेशु व्याधिष्वनेकरसेषु च भेषजेषु परस्परं रसदोषांशप्रभावमभिसमीक्ष्य व्याधेरौषधस्य च प्रभावमध्यवस्येत्| तेनैतदुक्तं भवति| व्याधेर्दोषबलं भेषजस्य च दोषोपशमनसमर्थमन्यतमरसादिप्रभावमभिसमीक्ष्य केन रसाद्यंशकेन कस्मिन् दोषांशे अस्मिन् व्याधाविदं भेषजमिति कृत्वा व्याधेर्भेषजस्य च उपक्रम्योपक्रमाख़्यं तत्वमध्यवस्येत्| न चैषामंशांशविकल्पना सर्वस्मिन् व्याधौ सर्वस्मिंश्च भेषजे विज्ञेया| कुत एतदाह-न हीत्यादि| यस्माद् विकृत्या वैषम्येण च संयुक्तानां नानारूपाणां परस्परोपगृहीतानां परस्परेण कृतपारतन्त्र्याणां परस्परेण चैवोपहतानामापादितविकृतीनामन्यैश्च देशकालादिविकल्पनैर्विकल्पितानां भावानामवयवप्रभावतत्वेनैव समुदायप्रभावतत्वमध्यवसितुं न शक्यते| द्रव्यस्य संयोगसंस्कारकालादिभिर्विकृतेर्दूरीकृतस्वरूपत्वात्| तस्मात्तथाविधे यथोक्तलक्षणे समुदायप्रभावत्वमुपलभ्य व्याध्यौषधयोः प्रभावतत्त्वमवगच्छेत्| यत्र तूक्तलक्षणविपरीतो भावानां समुदायस्तत्रावयवप्रभावत एवाध्यवसितुं युक्तः| संयोगादिविशेषेऽपि तथाविधया द्रव्यस्वरूपगुणैर्दवीयस्त्वसम्पादिन्या विकृतेरभावादिति|| २||
Adhikarana doShasthAnavisheSheNa BeShajavisheShaH (3) · Śloka 3
तथा कस्य धामाऽधिष्ठाय व्याधिरयमवस्थित इति निरूपयेत्|
प्रविसृतो हि दोषः स्वमेवस्थानमातङ्का- याधितिष्ठन्|
मूर्द्धादीन् वा दुस्तरो भवति|
ततश्च स्थान- विशेषेण भेषजविशेषः पर्येषितव्यः||३||
तथेदमपि निरूपयेत्| कस्य दोषस्य धाम स्थानमधिष्ठायाऽयं कुपितोवस्थितश्चेति| यतः सर्वो दोषः कदाचित् स्वमेव स्थानमातङ्कायाऽधितिष्ठन् रोगं कर्तुमाश्रितो दुस्तरो भवति| कदाचित् मूर्धादीनधितिष्ठन् दुस्तरो भवतीति सम्बन्धः| मूर्धादिग्रहणंपरस्थानोपलक्षणार्थम्| ततोऽनन्तरं स्थानविशेषापेक्षया भेषजविशेषो बोद्धव्यः| यद्भि भेषजं स्थानविशेषस्थे दोषे हितं न तदन्यस्थानस्थे|
Adhikarana auShadhAnukUlatA vyAdherAturasya ca AlocanIyA (4) · Śloka 4
ततश्चैवमालोचयेत्-कस्याऽयमौषधस्य व्याधिरातुरो वा योग्यः|
कियतो वा|
दोषानुरूपो हि भैषज्यवीर्य- प्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति||४||
एवं दोषभेषजयोः साम्ये ज्ञाते कस्य भेषजस्य किम्प्रमाणस्याऽयं व्याधिरातुरो वा योग्य इत्यालोचयेत्| यस्माद् दोषानुरूपः सन् भेषजशक्तिमात्राविकल्पो व्याधेर्व्याधितस्य च बलमपेक्षते| अन्यथा दोषानुरूपमपि भेषजमविषये युक्तमनर्थायैव सम्पद्यते|
Adhikarana atibalayuktAnAmauShadhAnAmatimAtrAprayuktAnAmati- saumyauShadhAnAM ca duShpariNAmaprakArAH (5) · Śloka 3
सहसाऽतिबलानि संशोधनौषधान्याग्नेयवायव्यान्यति- सौम्यान्यतिमात्राणि वा तथाऽग्निक्षारशस्त्रकर्माण्यल्प- सत्त्वमातुरमल्पबलं वातिपातयेयुः|
संशमनानि तु व्या- धिबलादधिकानि तमुपशमय्य व्याधिं, व्याधिक्षपितदेहे शीग़्रमन्यमावहन्ति|
शरीरबलाधिकानि ग्लानिमूर्च्छा- मदमोहबलक्षयानग्निबलादधिकानि ग्लानिमग्निसादश्च||३||
तमेवाऽविषयं दर्शयति-सहसेत्यादि| द्विविधानि ह्यौषधानि शोधनानि शमनानि च| तत्र शोधनानि द्विविधानि| असौम्यानि सौम्यानि च| तत्रासौम्यान्याग्नेयवायव्यानि| सौम्यानि चाऽप्यनाभसपार्थिवानि| तत्राग्नेयवायव्यानि संशोधनौषधान्यल्पबलमल्पसत्त्वञ्चातुरन्नाशयेयुः| किम्भूतानि सहसाऽतिप्रयुक्तानि अतिबलान्यतिशक्तीनि| एवमतिसौम्यान्यपि सहसा मात्राधिक्येन प्रयुक्तानि तथाविधमातुरं नाशयेयुः| तथाग्न्यादीनि किम्भूतानि सहसातिप्रयुक्तानि| तथा संशमनान्यप्यौषधानि व्याधिबलाधिकबलानि तं प्रयोगकारणं व्याधिमुपशमय्य तत्क्षपिते देहे शीग़्रमेवाऽन्यत्तद्विपरीतं व्याधिमावहन्ति| बलशब्द उभयत्राऽपि शक्तिवाचकः| तान्येव शरीरबलादधिकानि ग्लानिमूर्च्छादीनावहन्ति| तान्येवाऽग्निबलादधिकानि अतिमात्रत्वात् ग्लानिमग्निसादञ्चावहन्तीति| व्याध्यातुराग्निबलादधिकान्युक्तानि|| ५||
Adhikarana atisthUlAdIn aviShAdakarAdiBirBeShajairupAcaret (6) · Śloka 6
अपि च-अतिस्थूलोऽतिकृशो दुर्बलो दुर्बद्धमांसशो- णितास्थ्यङ्गवायवोऽल्पाग्निरल्पाहारोऽसात्म्याहारोऽप- चितः साररहितो वा व्याधिबलमेव तावदसमर्थः सोढुं किं पुनस्तथाविधो भेषजमेवं वेगम्|
तस्मात्तादृशमवि- षादकरैर्मृदुसुख़ैरुतरोतरगुरुभिरविभ्रमैश्चोपाचरेदौषधै- र्विशेषादबलाः|
ता ह्यनवस्थितमृदुविक्लवहृदयाः प्रायः सुकुमाराः परायत्ताश्च|
ततोऽपि विशेषेण शिशवः||६||
अस्मिन् स्वलपबलव्याध्यातुराऽतिबलभेषजप्रसङ्गेऽपि चेति समुच्चिनोति-अतिस्थूल इत्यादि| अतिस्थौल्याद्यन्यतमयुक्तः पुरुषो व्याधेरेव बलं सोढुमशक्तः| किं पुनस्तदुपमर्दकारिभेषजवेगम्| तस्मादतिस्थौल्यादियुक्तमविषादकरत्वादिगुणयुक्तैरौषधैरुपाचरेत्| दुर्बद्धान्यस्थिरप्रचयानि मांसादीनि यस्य| दुर्बलो हीनबलः साररहितोऽदृढः| उत्तरमत्तुरं गुरुभिस्तीक्ष्णैः| प्रथममतिमृदुभेषजं योज्यम्| ततः क्रमेण तीक्ष्णादिकमित्यर्थः| विभ्रमो दोषादीनां क्षोभः| अतिस्थौल्यादियुक्तं मृद्वादिभिरुपाचरेत्| विशेषतोऽबलाः स्त्रियो मृदुभिरविषादकारिभिरौषधैरुपाचरेत्| ता ह्यबलाः पेलवभीरुहृदयाः सुकुमाराः परायत्तस्थितयश्च भवन्ति| अबलाभ्यो विशेषतः शिशव एवंविधा भवन्ति| अतस्तान् विशेषत उपाचरेत्|| ६||
Adhikarana balavadAturAdau svalpabalamalpaM ca BeShajaM vyAdhivardhakam (7) · Śloka 7
तथा बलवति व्याध्यातुरेऽल्पबलमल्पं वा भेषजम- किञ्चित्करम्भूय एव दोषमुक्त्लेश्य व्याधिमुदीरयेत्||७||
अनन्तरमतिबले व्याधावातुरे च स्वल्पबलं यदौषधं करोति तदुच्यते-बलवतीत्यादि| बलवति व्याधावातुरे च स्वल्पशक्ति स्वल्पमात्रं वा भेषजं प्रयुक्तं कार्ये न किञ्चित्करं सत् भूयोऽत्यर्थं दोषमुत्क्लेश्य व्याधिमुदीरयेत्|| ७||
Adhikarana yogyasyApyauShadhasya parIkShAkramaH (8) · Śloka 8
योग्यमपि चौषधमेवं परीक्षेत-इदमेवं रसवीर्यविपा कमेवं गुणमेवं द्रव्यमेवं कर्मैवं प्रभावमस्मिन्देशे जात मस्मिन् ऋतावेवं गृहीतमेवं निहितमेवं विहितमेवं निषिद्ध- मेवमुपसंस्कृतमेवं संयुक्तमेवं संयुक्तमेवं युक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावन्तं दोषमपकर्षयत्युपशमयति वा|
अन्यदपि चैवंविधं भेषजमभूत्|
तन्मानेन वा विशे- षेण प्रयुक्तमिदमकरोत्||८||
एवमन्तरोक्तेन परीक्षाकलापेन परीक्षितं योग्यमप्यौषधं पुनः रसवीर्यादिभिः परीक्षेत| सुबोधम्|| ८||
Adhikarana cikitsakaH shAstrArthakarmAnushIlanena praj~jAM vishodhayet (9) · Śloka 9
सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहाररससा- त्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि|
यान्यनालोचि- तानि निहन्युरातुरम्|
आलोच्यमानानि तु विपुलबुद्धि- मपि चिकित्सकमाकुलीकुर्यः|
किम्पुनरल्पबुद्धिम्|
तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत प्रज्ञाम्|
अपि च-सन्ति व्याधयो ये शास्त्र उत्सर्गा- पवादैरुपक्रमं प्रति निर्दिष्टाः|
तत्र प्राज्ञा एव दोषादि- गुरुलाग़वेन सम्यगध्यवस्येदन्यतरनिष्ठायाम्||९||
कुत एवमित्याह-सूक्ष्माणीत्यादि| दोषौषधादीनामवस्थान्तराणि सूक्ष्माणि दुर्लक्ष्याणि यान्यनालोच्यमानान्यविकल्प्यमानान्यातुरं निहन्युः| आलोच्यमानान्यपि विपुलबुद्धिं विस्तीर्णबुद्धिमपि चिकित्सकमाकुलीकुर्युः| किं पुनरल्पबुद्धिम्| तस्मादभीक्ष्णमत्यर्थं शास्त्रार्थस्य कर्मणश्चिकित्साख़्यस्यानुशीलनेनाभ्यासेनात्मनः प्रज्ञां संस्कुर्वीत| यथैवंविधे चिकित्साकल्पे योग्यो भवति| अपि चेति प्रस्तावसमुच्चये-सन्ति तथाविधा व्याधयो ये शास्त्र उपक्रमं प्रति चिकित्सासम्पादनायोत्सर्गैरपवादैश्च निर्दिष्टातत्र तथाविधे उत्सर्गापवादसङ्कुले विषये अन्यतरनिष्ठायामेकनिश्चयाय प्राज्ञ एव दोषदूष्यादिगुरुलाग़वेन हेतुभूतेनाध्यवस्येत्|| ९||
Adhikarana kAlo~api BeShajayogyatAmApAdayati (10) · Śloka 10
कालश्च भेषजस्य योग्यतामादधाति|
स तु क्षणलव- मुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्राक्|
अपि च शीतोष्णवर्षलक्षणस्त्रिविधः कालः|
तत्र शीतोष्ण- योर्वृष्टिशीतयोश्चाऽन्तरे साधारणौ वसन्त जलदात्ययौ|
ग्रीष्मवर्षकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विक- ल्प्यते|
तेषु साधारणेषु अहस्सु वमनादीनां प्रवृत्ति- र्न्निवृत्तिरितरेष्वयोगाऽतियोगभयात्|
साधारणा हि मन्द- शीतोष्णवर्षतया सुख़त्वात् भवन्त्यविकल्पकाः शरीरौ- षधानां विपरीतास्त्वितरे||१०||
न केवलं व्याध्यातुरबलमेव भेषजायोग्यतामापादयति यावत् कालोऽपि भेषजयोग्यतामुत्पादयति| स च कालः पूर्वं द्विविधः उक्तः क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृदिति| तत्र यः क्षणदिः स शीतादिलक्षणभेदात्त्रिविधः| तत्र शीतोष्णयोरन्तरेण मध्य साधारणो वसन्तः| वृष्टिशीतयोर्मध्ये साधारणो जलदात्ययः| ग्रीष्मवर्षकालयोस्त्वन्तरे यो वृष्टेः प्रारम्भः स नात्युष्णशीतः साधारणः प्रावृट्शब्देनोच्यते| तत्र यदुच्यते कालो भेषजयोग्यतामापादयतीति तदुच्यते| तेषु साधारणेषु त्रिषु वसन्तशरत्प्रावृडाख़्येष्वहस्सु वमनादीनां प्रवृत्तिः| इतरेषु शीतोष्णवर्षाख़्येष्वयोगातियोगभयान्निवृत्तिर्वमनादीनाम्| कुत एवमित्याह-साधारणा इत्यादि| हि शब्दो यस्मादर्थे| यस्मात्साधारणा मन्दशीतादित्वेन सुख़ेन हेतुना शरीरस्यौषधानाञ्चाऽविकल्पका अव्यापादका भवन्ति| इतरे असाधारणाः शीतादयोऽति विपरीतास्तीक्ष्णशीतादित्वेन दुःख़त्वाच्छरीरस्यौषधानाञ्च व्यापादका भवन्तीत्यर्थः|| १०||
Adhikarana sAdhAraNetareShu RutuShu saMshodhane doShAH (11) · Śloka 11
तथा हि शीतकालेऽतिमात्रशीतोपहितत्वाच्छारीरम- त्यर्थशीतवातविष्टब्धमतिस्तब्धबहुगुरुदोषं भवति|
तदनु प्राप्तञ्च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोप- हतत्वान्मन्दवीर्यतां गतमयोगाय जायते|
शरीरञ्च वात- प्रायोपद्रवाय|
तद्वद्वर्षास्वपि समन्तादतिग़नेन बहलेन ग़नसम्पातेनावतते नभस्युपरुद्धतेजः प्रसरेषु दिनकर- करेषु जलपटलोत्प्लावनोद्दामकर्दमायां भूमात्वत्यर्थो- पक्लिन्नमवसन्नानलबलमादानदुर्बलं शरीरं भवति|
औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृता- म्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमल- पल्लवोपचितस्कन्धशाख़ः पुनरिव बालतामुपगतो- ऽल्पवीर्यो भवति|
अपरिसंस्थिततया च क्षितिमल- प्रायाभिरम्लविपाकाभिः ख़गमृगसरीसृपादिशवधातुमूत्र- पुरीषसंस्पृष्टाभिरद्भिः सलिलशिशिरशीकरानुविद्धशि- शिरपवनसम्पृक्तेन च धराधरोष्मणा कोमलत्वादपरिण- तस्याऽस्य सुतरां विदाहो जन्यते|
ततश्चासावपथ्य- तामुपगतो ध्रुवमयोगाय|
प्रथमसंगृहीतमपि चौषधं तोयदतोयानुगतमारुतोपहते जगतीति|
ग्रीष्मे पुनरा- दानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मातमति- स्विन्नमतिशिथिलमतिप्रविलीनदोषं भवति|
भेषजं पुन- रनुष्णमपि तपनकरनिपातादुष्णवीर्यतीक्ष्णतामुपगत- मतियोगायोपकल्पते|
शरीरञ्च पिपासाभ्रमक्लमोप- द्रवाय||११||
तथा हीत्यादिना सैव व्यापत्तिरुच्यते| शीते काले एवंविधं शरीरं भवति| तथाविधे शरीरे एवंविधं भेषजमनुप्राप्तमयोगाय जायते| तद्विधं शरीरञ्च वातप्रायव्याधये जायते| किंविधं शरीरमाह-शीतोपहतत्वादत्यर्थशीतेन वायुना विष्टब्धस्तम्भितोऽतिस्तब्धोऽतिबद्धः प्रलिप्तमार्गः गुरुः प्रभूतो दोषा वातादिर्यस्मिन् शरीरे तत्तथाविधम्| भेषजं किम्भूतमाह-संशोधनार्थमुष्णस्वभावमपि सम्प्रयुक्तं शीतोपहतत्वाद् दोषोपशमाय मन्दवीर्यतां गतं तद्वर्षास्वपि एवं विधं भेषजं ध्रुवमयोगाय| कीदृशं शरीरं तदा भवतीत्याह-समन्तात्सर्वदिक्ष्वतिग़नेनातिशयबहलेन ग़नसम्पातेन वारिधरव्रातेनावतते व्याप्ते सति नभसि वियत्यत एव दिनकरकरेषु सहस्रांशुरष्मिषूपरुद्धतेजःप्रसरेषु तिरोहितधामप्रतानेषु सत्सु| तथा जलपटलेनाम्भोवितानेन यदुत्प्लावनं पूरणं तेनोद्दामं प्रभूतं कर्दमं यस्यां तथाविधायां भूमौ सत्याम्| शरीरमत्यर्थोपक्लिन्नामवसन्नानलबलमादानकालेन च हेतुना दुर्बलं भवति| तथाविधे शरीर एवंविधमौषधग्रामं प्रयुक्तमपथ्यतामुपगतं ध्रुवं नियतमयोगाय सम्पद्यते| किम्भूत औषधग्रामः? जल-दोदरैर्वारिधरकुक्षिरन्ध्रैः प्रततप्रमुक्तो योऽसौ धारावपातः तेनाप्लावितानि मूलादीनि यस्य| तथा बहलैः कोमलैश्च पल्लवैरुपचिता स्कन्धशाख़ा यस्य| अतिसौकुमार्येण पुनरिव बालतामुपगतः सन् तस्मिन् कालेऽल्पवीर्यो भवति| अस्य चौषधग्रामस्योपरिसंस्थिततया अगृहीतस्थिरस्वरूपत्वेन हेतुना सुतरां विदाहो जन्यते| केन कारणनेत्याह-क्षितीत्यादि| अद्भिर्द्धाराधरोष्मणा च| कीदृशीभिरद्भिः ? क्षितिमलप्रायाभिः ख़गादिशवरसादिधातुमूत्रादिसंस्पृष्टाभिश्च| किम्भूतेन क्षितिधरोष्मणा ? आह-सलिलशीकरैरनुविद्धेन मिश्रेण पवनेन सम्पृक्तेन संस्पृष्टेन| औषधग्रामस्य च किम्भूतस्याह-कोमलत्वादपरिणतस्येति तस्मिंश्च काले अपरिपूर्णं प्रथमगृहीतमौषधं तोयेन तोयानुगतेन च मारुतेनोपहते जगति ध्रुवमयोगायेति सम्बन्धः| इति हेमन्ते शिशिरे वर्षासु च प्रयुज्यमाने शोधनौषधे अयोगाद् भयम्| ग्रीष्मे पुनरतियोगतो भयम्| एतदेवाह-ग्रीष्म इत्यादि| ग्रीष्मे पुनः शरीरमादानोपहतत्वाद्धेतोरुष्णेन रूक्षेण च वातेनाध्मातं भवति| तथाऽतिशिथिलं भवति| शिथिलमनिबिडमौष्ण्याच्चाऽतिप्रविलीनदोषं शरीरं भवति| तथाविधे शरीरे भेषजं शोधना योपयोगात् स्वभावादनुष्णमपि तपनकरनिपातादतिशयेनौष्ण्यन्तैक्ष्ण्यञ्चोपगतं सन् प्रयुक्तमतियोगाय शोधनस्य कल्पते| तच्च शरीरं पिपासाद्युपद्रवाय कल्पत इतिसम्बन्धः|| ११||
Adhikarana sAdhAraNeShu RuruShu saMshodhanopadeshaH Atyayike vidhishca (12) · Śloka 12
तस्मात्साधारणेष्वेव तदन्तरालेशु वमनादीनि योजयेन्न चेदात्ययिको व्याधिः|
आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चो- पपाद्यौषधमेवावहितोऽवचारयेत्||१२||
एवमत्यर्थशीतादिषु त्रिषु कालेष्वयोगतियोगभयं एतदन्तरालेषु तु कालेषु वसन्तादिषु वमनादीनि कर्माणि योजयेदित्ययं नियमो मृदुव्याधौ स्वस्थे च| एतदेवाह-न चेदात्ययिको व्याधिरात्ययिके तु व्याध्यपेक्षया शीतादिष्वपि वमनादीनि योजयेत्| एवञ्च योजयेत्| कथमित्याह-यथर्तुगुणविपरीतेन कृत्रिमगुणोपधानेन यस्मिन्नृतावतिशीतेऽत्युष्णे वाऽत्ययिकव्याध्युप शमाय शोधनमुपयुज्यते तस्यर्तौ ये शीतादयो गुणाः तेषां येविपरीताः ते कालस्वभावादसन्तोऽपि कृत्रिमा उपधेयाः| यथा हेमन्ते गर्भगृहादि| ग्रीष्मे धारागृहादि| एतावता अयोगातियोगौ परिहृतौ भवतः| अथवोपयोक्ष्यमाणस्यौषधस्य तथाविधाः संयोगादय उपपाद्याः| यैरयोगशङ्कायां तैक्ष्ण्यमतियोगशङ्कायाञ्च मार्दवमिति|| १२||
Adhikarana ekAdashaBeShajakAlAH (13) · Śloka 13
आतुरावस्थासु तु कलाः कालसंज्ञाः|
तद्यथा-अस्या- मवस्थायामस्यौषधस्य कालोऽकालो वा|
न ह्यप्राप्ता- तीतकालमौषधं यौगिकं भवति|
तस्य त्वेकादश- धाऽवचारणम्|
तद्यथा-अभक्तं प्राग्भक्तं मध्यभक्त- मधोभक्तं सभक्तमन्तरभक्तं सामुद्रं मुहुर्मुहुः सग्रासं ग्रासा- न्तरा निशि च||१३||
क्षणादिः कालः| आतुरावस्थासु तु याः कला भागास्ताः कलाः कालसंज्ञाः| एतच्च शास्त्रकारस्तद्यथेत्यादिना दर्शयति| यथाऽस्य रोगस्य अस्यामवस्थायामस्यौषधस्य काल अकालो वा| यथा ज्वरस्य सामावस्थायां ल~ग़्ग़न पेयादेः निरामावस्थायां क्वाथादेः| जीर्णावस्थायां पयः पानादेरिति| एष ह्युभयोऽपि कालो भेषजयोग्यत्वमापादयति| यतः अप्राप्तकालमतीतकालञ्च औषधमुपयुक्तं यौगिकं न भवति| व्याधिना योगं नार्हति| हि शब्दो यस्मादर्थे| तस्य त्वौषधस्याभक्तादिभेदेनैकादशधाऽवचारणं भवति|| १३||
Adhikarana aBaktam (14) · Śloka 14
तत्राऽभक्तं नाम केवलमेवौषधम्|
निरन्नोपयोगादति- वीर्यम्|
कफोद्रेकविमुक्तामाशयस्रोताः प्रातर्बलवानु- पयुञ्जीत|
इतरस्तु प्राग्भक्तादिकम्|
अन्नसंसर्गेण हितं नातिग्लानिकरं भवति||१४||
तत्राऽभक्तं यत् भक्तेन योगं न याति| ह्यस्तनेऽन्ने जीर्णे तदौषधमुपयुज्यते| तस्मिंश्च जीर्णे पुनराहार इत्यनन्नम्| तच्चनिरत्रोपयोगाद्धेतोरतिवीर्यं भवति| तच्च निरन्नं प्रातः पूर्वाह्णे कफोद्रेकेण विमुक्तामाशयस्रोताः सन् याममात्रोद्गते रवौ बलवान् पुरुष उपयुञ्जीत| इतरस्त्वबलः प्राग्भक्तादिकं दशकं यथायोग प्राग्भक्तादिकं दशकं यथायोगमुपयुञ्जीत| तद्ध्यबलस्यान्नसम्सर्गेण हेतुना नाऽतिग्लानिकरं भवति|| १४||
Adhikarana prAgBaktam (15) · Śloka 15
प्राग्भक्तं नाम यदनन्तरभक्तम्|
तदपानानिलविकृतावधः कायस्य च बलाधानार्थं, तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणार्थञ्च योज्यम्||१५||
तत्र प्राग्भक्तं नाम यदनन्तरभक्तम्| अनन्तरं पश्चात् भक्तं यस्य| तेनैतदुक्तं भवति| यस्मिन्नौषधे भुक्ते पश्चात्तत्कालमेव भक्तं भुज्यते तत्प्राग्भक्ताख़्यम्| तच्चापानाख़्यस्याऽनिलस्य विकृतावधःकायस्य च बलाधानार्थम्| तथा तद्गतेष्वधः कायगतेषु व्याधिषु प्रशमाय देहकृशीकरणाय च योज्यम्|| १५||
Adhikarana madhyaBaktam (16) · Śloka 16
मध्यभक्तं मध्ये भक्तस्य तत्समानानिलविकृतौ|
कोष्ठ- गतेषु च व्याधिषु पैत्तिकेषु च||१६||
मध्यभक्तं नाम यत् भक्तस्य मध्येऽर्धं भोजनमुपयुज्यौषधमुपयोज्यं पुनः तत्कालमेव शिष्टमर्धमिति| तच्च समानाख़्यस्याऽनिलस्य विकृतौ तथा कोष्ठगतेषु व्याधिषु पैत्तिकेष्वकोष्ठगतेष्वपि योज्यम्|| १६||
Adhikarana adhoBaktam (17) · Śloka 17
अधोभक्तं भक्तादनन्तरम्|
तत्तु व्यानविकृतौ प्रातरा- शान्तमुदानविकृतौ पुनः सायमाशान्तम्|
पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु च प्रशमाय स्थूलीकरणार्थञ्च||१७||
अधोभक्तं नाम यद् भक्तात् भोजनादनन्तरं तत्कालमेवोपयुज्यते| तच्च व्यानविकृतौ प्रातर्भोजनानन्तरं कार्यम्| उदानविकृतौ पुनः सायं भोजनानन्तरमिति| तदुभयकालान्यतरप्रयुज्यमानमपि पूर्वकायस्योरःप्रभृतेर्बलाधानार्थं तद्गतेषु पूर्वकायस्थेषु च व्याधिषु प्रशमाय देहस्य स्थूलीकरणाय च भवति|| १७||
Adhikarana saBaktam (18) · Śloka 18
सभक्तं यदन्नेन समं साधितं पश्चाद्वा समालोडितम्|
तद्बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वा~ग़्गगेषु च रोगेषु||१८||
सभक्तं नाम यदन्ने साध्यमाने दत्तमन्नेन सहोपयुज्यते| सिद्धे वान्ने पश्चात्तेन समालोड्य भुज्यते| तदुभयमपि बालादिषु| तथाऽरुचौ सर्वाङ्गगेषु च रोगेषु योज्यम्|| १८||
Adhikarana antarABaktam (19) · Śloka 19
अन्तराभक्तं यत्पूराह्णे भक्ते जीर्णे मध्याह्ने भेषज- मुपयुज्यते|
तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम्|
एतेन रात्रिर्व्याख़्याता|
तद्दीप्ताग्नेर्व्यानजेष्वामयेषु||१९||
अन्तराभक्तं नाम यत् पूर्वाह्णे भोजनमुपयुज्य तस्मिन् जीर्णे मध्याह्न औषधमुपयुज्यते| तस्मिंश्चौषधे जीर्णे तदहरेव पुनः सायं भोजनमिति| अनेनान्तराभक्तस्य कालेन निशोपयुज्यमानस्यौषधस्य कालो व्याख़्यातः| एतदेवाह-अनेन रात्रिर्व्याख़्यातेति| तेनैतदुक्तं भवति-निशा यस्यौषधस्य काल उक्तः तदेवमुपयुज्यते| सायं भुक्ते जीर्णे याममात्रगतायां निशायामौषधमुपयोज्यम्| तस्मिंश्च जीर्णे पुनर्द्वितीयेऽहनि प्रातर्भोजनमिति| एतच्च प्रासङ्गिकग्रन्थं परित्यज्य तदित्यनेनान्तराभक्तं परामृश्य दीप्ताग्नेरित्यादि विषयस्य निर्देशः| यस्मान्निशायां प्रयुज्यमानस्य जत्रूर्ध्वामयेष्वित्यनेन विषयं वक्ष्यति|| १९||
Adhikarana sAmudram (20) · Śloka 20
सामुद्गं यदाऽदावन्ते च भुक्तस्य|
तत्तु लग़्वल्पान्नयुक्तं पाचनावलेहचूर्णादि हिध्मायां कम्पाक्षेपयोरूर्ध्वाधः संश्रये च दोषे||२०||
सामुद्गं नाम यथौषधमुपयुज्य पश्चात्तत्कालमेव भोजनमुपयुज्य तदनन्तरं तत्कालमेव पुनस्तदेवौषधमिति| तच्च हिध्मादिषूर्ध्वंशरीरे अधश्शरीरे च युगपत् स्थितेशु दोषेषु पाचनलेहचूर्णादिकं योज्यम्| आदिग्रहणेन दीपनानामनुत्क्लेशकराणां निरपायाणां परिग्रहः|| २०||
Adhikarana muhurmuhuH (21) · Śloka 21
मुहुर्मुहुस्तु पुनः पुनर्भुक्ते यदभुक्ते वा|
तच्छ्वास- कासहिध्मातृट्छर्दिषु विषनिमित्तेषु च विकारेषु||२१||
मुहुर्मुहुर्नाम यत् भुक्ते चाभुक्ते च प्रतिक्षणमुपयुज्यते| तच्छ्वासकासादिषु विषजेषु च विकारेषु योज्यम्|| २१||
Adhikarana sagrAsaM, grAsAntaraM nishi ca (22) · Śloka 22
सग्रासं यद् ग्राससम्पृक्तम्|
ग्रासान्तरं यद् ग्रासयो- र्ग्रासयोर्मध्ये|
द्वयमप्येतत्प्राणानिलविकृतौ|
तथा सग्रासं चूर्णलेहवटकादिकमग्निदीपनं वाजीकरणानि चोप- युञ्जीत|
ग्रासान्तरं हृद्रोगे वमनं धूमञ्च|
जत्रूर्ध्वामयेषु निशायाम्||२२||
सग्रासं नाम यत् ग्रासेन सहोपयुज्यते| ग्रासान्तरं नाम यत् ग्रासयोर्मध्ये ग्रासमुपयुज्य पुनर्भेषजं पुनर्ग्रासमिति| एतद् द्वयं ग्रासं ग्रासान्तरं च प्राणानिलविकृतौ योज्यम्| अयं तु विशेषः-सग्रासञ्चूर्णाद्यग्निदीपनाय वाजीकरणाय चोपयुञ्जीत| ग्रासान्तरं पुनर्हृद्रोगोपशमाय| वमनौषधं धूमञ्च जत्रूर्ध्वजेष्वामयेषु निशायामुक्तम्|| २२||
Adhikarana aBaktauShadhAnarhAH, aBaktetarakAlAnarhamauShadham (23) · Śloka 23
तत्राद्ये काले तृषितः पीतशीताम्बुरजीर्णा क्षुधितः क्षा- मश्च भेषजं वर्जयेत्|
शेषेषु वाऽहृद्यमसात्म्यमति- तीक्ष्णोष्णोग्रगन्धं भूरिमात्रञ्चेति||२३||
तत्राद्ये अभक्ताख़्ये काले तृषितः पीताम्बुरजीर्ण्यतिक्षुधितः क्षामश्च भेषजं सर्वं वर्जयेत्| शेषेशु प्राग्भक्तादिषु कालेशु अहृद्यत्वादियुक्तं भेषजं वर्जयेदिति|| २३||
Adhikarana roganidAnAnantaraM cikitsAyAH karaNIyatvam punarAgatarogacikitsAkramaH (24) · Śloka 24
भवति चात्र- रोगमादौ परीक्षेत तदनन्तरमौषधम्|
ततः कर्म भिषक्पश्चाज्ज्ञानपुर्वं समाचरेत्|
निवृत्तोऽपि पुनर्व्याधिरल्पेनायाति हेतुना|
देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः|
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना|
सिद्धानामपि योगानां पूर्वेषां दाढ्यमावहन्||२४||
भवति चात्र श्लोक इति सामान्योपक्रमेणैकवचनम्| अध्यायार्थमुपसंहरति| निदानादिभिः पञ्चभिरुपायैः प्रथमं रोगं परीक्षेत| तदनन्तरमनन्तरोक्तेन प्रकारेण भेषजकल्पोक्तेन च योग्यायोग्यतया भेषजं परीक्षेत| ततो रोगस्य भेषजस्य च स्वरूपेण ज्ञाते ज्ञानपूर्वं चिकित्साख़्यं कर्म समाचरेत्| ज्ञानपूर्वमिति सुविचारयन्नित्यर्थः| तथाविधेन कर्मणा निवृत्तोऽपि सशेषः सन् देहे वातादिभिर्दोषैर्मार्गीकृते लब्धसंस्कारे सति स्वल्पमेव कारणमाश्रित्य पुनरायाति| दृष्टान्तो यथा-निर्वाणशेषस्सूक्ष्मोऽप्यनलः स्वल्पेनैव हेतुना पुनर्वृद्धि यातीति| तस्मात्तं पुनरागतं रोगं निरपायेन प्रयोगेणानुबध्नीयात्| किङ्कुर्वन्नाह-पूर्वेषां योगानां यैर्योगैः स रोगः पूर्वं शान्त आसीत् तेषां रसवीर्यानुसारेण दार्ढ्यमावहन् संस्कारं बृंहयन्निति यावत्|| २४||
Adhikarana dveShyatAM prAptasyauShadhasya priyatvApAdanakramaH (25) · Śloka 25
सातत्यात् स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्|
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः|
मनःप्रियत्वापादनफलम् मनसोऽर्थानुकूल्येन तुष्टिरूर्जा रुचिर्बलम्|
सुख़ोपभोगता च स्याद्व्याधेश्चातः परिक्षयः|
लौल्यादिजन्यरुचौ भेषजयोगेनान्नकल्पनं कार्यम् लौल्याद् दोषक्षयाद्व्याधिवैषम्येण च या रुचिः|
तासु पथ्योपचारज्ञो योगेनाद्यं विकल्पयेत्||२५||
प्रसङ्गेनेदमुच्यते| सततसेवया अनिष्टत्वेन हेतुना च यत् पथ्यं सत् द्वेष्यत्वं प्राप्तं तत् तैस्तैर्नानाविधैः पूर्वोक्तैः संयोग संस्कारादिभिः कल्पनाविधिभिः पुनः प्रियत्वं गमयेत्| यतो मनसोऽर्थानुकूल्येन प्रियत्वेन च तुष्ट्यादयो जायन्ते| अतः तुष्ट्यादिभिर्व्याधेः परिक्षयो भवति| तस्मात् प्रियत्वं गमयेदिति| सुख़ोपभोग्यता पथ्यस्यानायासेनोपयोगः| तथा लौल्यादिभिर्या रुचयो भवन्ति तासु रुचिषु पथ्यापथ्योपचारज्ञो वैद्यो योगेन तत्कालोचितेन धातुसात्म्यापादनेन प्रयोगेण सहाऽऽद्यमदानीयमन्नमपथ्यमपि कल्पयेत्| व्याधेर्वैषम्यमस्थिररूपत्वम्| अथवा अयोगेन स्वल्पेन स्वल्पं अद्यं विकल्पयेदिति|| २५||
Adhikarana svarasthasya doShasaMshodhanakAlaH , Aturasya shodhanam (26) · Śloka 26
शीतोष्णवर्षानिचितं चैत्रश्रावणकार्तिके|
क्रमात्साधारणे श्लेष्मवातपित्तं हरेद् द्रुतम्|
प्रावृट्शरद्वसन्तानां मासेष्वेतेषु वा हरेत्|
साधारणेषु विधिना त्रिमासान्तरितान् मलान्|
कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्|
प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत्||२६||
यथासङ्ख़्येन शीतादिकालत्रयसञ्चितं श्लेष्मादिकं कर्मणैव चैत्रादिषु मासेषु निर्हरेत्| शीतसञ्चितं श्लेष्माणं चैत्रे, उष्णसञ्चितं वातं श्रावणे| वर्षासञ्चितं पित्तं कार्तिक इत्यर्थः| अयं नियमः स्वस्थवृत्ते| आतुरवृत्ते त्वनियमप्रदर्शनार्थमुच्यते| कृत्वेत्वादि| अकालेऽपि रोगापेक्षया प्राप्तां क्रियां योजयेत्| न तु क्रियाकालं हापयेत्| कथं योजयेदित्याह-यथायथं यथाकालं शीतादीनां कृत्रिमैर्गुणैः प्रतीकारं कृत्वा|| २६||
Adhikarana guNAlABe anyA kriyA prayojyA svalpaguNalABe~api saivAnuvartanIyA (27) · Śloka 27
सप्ताहेन गुणालाभे क्रियामन्यां प्रयोजयेत्|
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः|
गुणेऽल्पेऽपि तु तामेव विशेषोत्कर्षलब्धये||२७||
रोगापशमाय क्रियायां प्रयुज्यमानायां सत्यां क्रियां योग्यां प्रयोजयेन्न त्वरया| अपितु प्रथमाय़ां शान्तवेगायाम् अन्यथा क्रियासङ्करो भवति| स च न हितः| यदा तु प्रथमयैव क्रियया स्वल्पो गुणो दृश्यते तदा तामेव प्रयोजयेद्विशेषोत्कर्षलाभायेति|| २७||
Adhikarana nRupatiBeShajam (28) · Śloka 28
भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः|
शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम्|
अनन्यकार्योऽवहितः तथा तन्मन्त्रिसम्मतः|
आस्वादितं परिचरैः स्वयञ्चानु प्रयोजयेत्||२८||
राज्ञां नानाविधोपकरणसम्भवात्सुकुमारत्वात् प्राधान्याच्चेदमुच्यते| नृपतेर्हृद्यत्वादिगुणयुक्तं भेषजं पथ्यम्| अल्पमबहुमात्रम्| अल्पात्ययं देशकालाद्यपायेऽपि निरपायम्| शुद्धः परिशुद्ध आगमो वणिगादिभिरहिंस्त्रैर्यस्य तत्तथोक्तम्| तथा राजपरिचरैरास्वादितम्| भिषजा वा स्वयमास्वादितम्| किम्भूतो वैद्यस्तथाविधं नृपतेर्भेषजं प्रयोजयेदित्याह| शुचिरनन्यकार्यः अवहितश्च| तथा तस्य राज्ञो मन्त्रिणां सम्मतः पूजितः|| २८||
Adhikarana abhyastadeshajameva hitamauShadham, tacca amRutabheShajam (29-30) · Śloka 30
उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम्|
देशेऽन्यत्रापि वसतस्तत्तुल्यगुणजन्म च|
वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लग़ु|
रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया|
एकाग्रमनसा युक्तं भैषज्यममृतायते||२९||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने भेषजा- वचारणीयो नाम त्रयोविंशोऽध्यायः||३०||
अनन्तरं सामान्येनोच्यते| यस्यातुरस्य य एवोचितदेश अभ्यस्तदेशः तज्जमेवौषधमन्यत्रापि वसतो हितम्| यदि वा तज्जमौषधं न सम्भवति तदा तेनोचितेन तद्देशेन यत् समानगुणं देशान्तरं तज्जमौषधं हितमिति| तथा एवं विधं सत् भेषजं सर्वस्योपयोक्तुरमृतायते| कीदृशमौषधमित्याह-वीर्यवदित्यादि| वीर्यवदुत्कृष्टशक्तिः| स्वरसैः स्वजातिभिर्विजातिभिश्च असकृदनेकवारं भावितम्| तथा लग़ुः| रसादिसम्पन्नञ्च| आदिग्रहणेन वर्णस्पर्शपाकादीनां परिग्रहः| तथा एकाग्रमनसा अवहितमानसेन भिषजा उचिते काले जीर्णे मात्रया च प्रयुक्तमिति|| २९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने त्रयोविंशोऽध्यायः