Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

22. rōgabhēdīyaḥ

Adhikarana dvAviMsho&dhyAyaH-aShTA~ggasaMgrahaH pratij~jA (1) · Śloka 1

अथातो रोगभेदीयमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

पूर्वास्मिन्नध्याये रोगविशेषानपेक्षया दोषाणामेवोपक्रम उक्तः | अस्मिंस्तु रोगाणां स्वरूपमुपक्रमञ्च प्रदर्शयितुमध्याय आऱ्रभ्यते-अथात इत्यादि || १ ||

Adhikarana rogANAM saptavidhatvaM teShAM pRuthagdvividhatva~jca (2) · Śloka 2

सप्तविधाः ख़लु रोगा भवन्ति-सहगर्भजातपीडाकाल- प्रभावस्वभावजाः| ते तु पृथग्द्विविधाः| तत्र सहजाः शुक्रार्तवदोषान्वयाः| कुष्ठार्शोमेहादयः| पितृजा मातृ- जाश्छ| गर्भजा जनन्यभिचारात्कोउब्जपाङ्गुल्यपैङ्गल्य- किलासादयो&अम्प्;न्नरसजा दोउहृदविमाननजाश्छ| जातजाः स्वापचारात्सन्तर्पणजा अपतर्पणजाश्छ| पीडाकृताः क्षत- भङ्गप्रहारक्रोधशोकभयादयः शारीरामानसाश्छ| कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्छ| प्रभावजा देवगुरूल्लङ्ग़नशापाथर्वणादिकृता ज्वरादयः पिशाचादयश्छ| स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्छ| तत्र कालजा रक्षणकृताः| अरक्षणजा अकालजाः||२||

🔊 Audio coming soon

सहजत्वादिना भेदेन सप्तविधा रोगाः | ते तु सहजादयः | पृथक् प्रत्येकं द्विविधाः | पुंसा सह जातत्वात्सहजाः | ते हि शुक्रार्तवदोषान्वयाः | शुक्रार्तवदुष्टिरन्वयो येषां ते तथोक्ताः | शुक्रादुष्टिः पितृजा आर्तवदुष्टिर्मातृजेति द्वैविध्यम् | ते तु कुष्ठादयः | रक्तपित्तादीनां क्षिप्रकारित्वात् सहजत्वाऽसम्भवः | गर्भजाः द्विविधाः | दुष्टाहाररसजा दौर्हृदविमाननजाश्च | ते हि कौब्ज्यादयो गर्भस्थस्य जनन्या मातुरपचारात् जायन्ते | दौहृदं प्रथमगर्भे मातुर्नानाविधहारेच्छाविमाननं तस्या निष्फलत्वं इष्टलाभ इति यावत् | जातजा ये जातस्य स्वापाचाराज्जायन्ते, न तु मापितृदोषेण ते सन्तर्पणापतर्पणहेतुत्वेन द्विविधाः | पीडाकृताः ये दोषकोपेन विना आगन्तुपीडयैव जायन्ते | ते च द्विविधाः | क्षतादयः शारीरा क्रोधादयो मानसाश्च | कालजा ये शीतादिकालत्रयहेतुकाः | ते द्विविधाः | व्यापन्नजा असंरक्षणजाश्च | व्यापन्नजा ये शीतादिभिर्व्यापन्नेन दुष्टेन शाल्यादिना जायन्ते | असंरक्षणजा ये शीतादिभ्योऽरक्षितस्य तदुपग़ातात् जायन्ते | प्रभावजा ये देवगुरूणां शापेन तदतिक्रमहेतुकेनाऽथर्वणाद्यभिचारेण जायन्ते | ते द्विविधाः ज्वरादयः पिशाचादयश्च | आदिग्रहणं भूतग्रामोपलक्षणार्थम् | स्वभावजा ये स्वभवेनैव पुरुषस्य जायन्ते | क्षुत्पिपासादयः | ज्वरस्तु जन्मान्तयोर्मोहमय इति वक्ष्यते | ते तु द्विविधाः | कालजा अकालजाश्च | कालजाः तन्निमित्ताः | विपरीताः अकालजाः |

Adhikarana saptavidharogANAM punirdvividhatvam (3) · Śloka 3

त एते समासतः पुनिर्द्विविधा भवन्ति| प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च| तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रति- षिद्धानामननुष्ठानमनुष्ठानं वा| जन्मान्तरातीतेन तु पूर्वम्| तत्तु पुनर्दैवाख़्यमुक्तञ्च नियतानियतभेदेन प्राक्| तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः| विपरीता दैवजन्मानः| अल्पनिदाना महारुजाश्चोभयात्मकाः||३||

🔊 Audio coming soon

त एतेऽनन्तरोक्ता सर्वे सङ्क्षेपेण द्विविधाः | प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च | तत्र प्रत्युत्पन्नं नाम कर्म यदनेनैव रोगभोक्तृशरीरेण क्रियते | तच्च दृष्टमदृष्टं वोऽद्दिश्य यदाऽप्तेन कर्तव्यतयोपदिष्टं तस्याऽननुष्ठानं तत्प्रतिषिद्धस्यानुष्ठानं वा | पूर्वं कर्म यज्जन्मान्तरतीतेन शरीरेण कृतमिह फलदायि | तच्च पूर्वं विरुद्धान्नविज्ञानीये दैवपर्यायेण नियतानियतद्वैविद्ध्योनोक्तम् | तस्मादेवं स्थिते रोगा स्वयं दृष्टेनाऽपथ्याहारादिना हेतुना जायन्ते | ते प्रत्युत्पन्नकर्मजा इति विज्ञेयाः | एतद्विपरीता येषां हेतुर्न दृष्ट उत्पान्नश्च ते दैवजन्मानो ज्ञेयाः | ये तु स्वल्पेन हेतुना निदानेन जाता महारुजश्च ते दैवप्रत्युत्पन्नोभयात्मका ज्ञेयाः | समासग्रहणादुभयात्मकत्वाच्च तॄतीयराशिर्न दोषाय || ३ ||

Adhikarana tatra sAmAnyaM cikitsAsUtram (4) · Śloka 4

तत्र यथास्वं प्रतिपक्षशीलनात्पूर्वेषां रोगाणामुपशमः| सत्येव विपक्षशीलनेऽनिष्टकर्मक्षयाद्दैविकानाम्| दोष- कर्मक्षयादन्येषाम्||४||

🔊 Audio coming soon

तत्र पूर्वेषां प्रत्युत्पन्नकर्मजानां रोगाणां यथास्वं प्रतिपक्षस्य हेतुव्याधिविपरीतस्य औषधादेः सेवनात् प्रशमो भवति | दैवजानान्तु रोगाणां यथास्वं प्रतिपक्षशीलने सत्यपि पूर्वकृतानिष्टकर्मक्षयादुपशम इति सम्बन्धः | अन्येषामुभयजानामपथ्यहेतुकदोषस्य पूर्वकर्मणश्च क्षयादुपशमो भवतीति सम्बन्धः || ४ ||

Adhikarana anyamatena parakRutakarmaNo~api pratyutpannakarmatvam (5) · Śloka 5

अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति| तच्च पराभिसंस्कारमाचक्षते| एवञ्चाहुः- यदि स्वयं कृतादेव कर्मणः कार्यनिर्वृत्तिः स्यात्| न दृष्टपुरुषान्तरकृतात्| किमिति विद्वानपि पराचरित- योरुपकारापकारयोः सुख़दुःख़ानुरोधात्तोषरोषौ प्रति- कर्तव्यचित्तं वा प्रतिपद्यते| एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते||५||

🔊 Audio coming soon

अन्ये पुनराचार्याः परेण शत्रुप्रभृतिनाऽपि कृतं कर्माभिचारादि प्रत्युत्पन्नमिति वर्णयन्ति | तच्च परकृतं कर्म पराभिसंस्कारशब्देन पर्यायेणाचक्षते | एवञ्च ते आचार्या रोगोत्पत्तिकारणत्वेन परकृतस्योत्पत्तिमाहुः | कथमित्याह-यदि स्वयं कृतादेव कर्मणः फलाख़्यकार्यनिर्वृत्तिः स्यात् | दृष्टशत्र्वादिपुरुषानन्तरकृतान्न स्यात् | ततश्च विद्वान् पण्डितोऽपि किमिति पराचरिते तदुपकारे सुख़ानुरोधात्तोषं प्रतिकर्तव्यचित्तं वा प्रतिपद्यते | तथा किमिति पराचरिते तदपकारे दुःख़ानुरोधाद्रोषं प्रतिकर्तव्यचित्तं वा प्रतिपद्यते | तस्मादन्यकृतात् कर्मणः श्येनादेरन्यतरस्य फलयोग इत्यनुमीयते | एवं परकृतकर्मणो व्याधिकारणत्वानुप्रवेशात् द्विविधाः सन्तः त्रिविधा जायन्ते || ५ ||

Adhikarana vyAdhInAM doShavisheSheNa punaH saptavidhatvam (6) · Śloka 6

ततश्च दोषवन्तो भूयः सप्तविधाः||६||

🔊 Audio coming soon

ते च व्याधयो दोषवन्तः सन्तो दोषाणां पृथक्संसर्गसन्निपातभेदेन भूयः सप्तविधा भवन्ति || ६ ||

Adhikarana rogANAmAyurvedopadeshAt parihArAryatvAdi (7) · Śloka 7

सकलोऽपि चायं रोगसमूहः प्रतिकारवानायुर्वेदवि- हितमुपदेशमपेक्षते| यस्मान्नियतहेतुकोऽप्यामयः सम्य- ग्भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोऽपि वा सह्यवेदनतां प्रतिपद्यते| अनुपक्रम्याणस्तु सर्व एव प्रायशो भिनत्यकाण्डे| स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानः षोडशगुणसमुदितक्रियोपलम्भादाशुतर- मपिरिक्लिष्टस्य चाऽपगच्छति| अनियतफलदायिनि त दैवे हिताभ्यासरतस्यावकाशमेव न लभते व्याधिः| तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्य- दर्शी स्यात्||७||

🔊 Audio coming soon

अयञ्च सकलो रोगसमूहः प्रतीकारवान् सप्रतिक्रियः | सा च प्रतिक्रिया आयुर्वेदोपदेशेन विना न भवतीति रोगसमूहप्रतिकार आयुर्वेदविहितमुपदेशमपेक्षते | कुत आह-य आमयो नियतेन हेतुना जायते | स तथाविध आमयः सम्यक् भिषगादेशानुष्ठाना-द्धेतोर्यथोपात्तायुस्संस्कारापरिक्षये सति हेतुमेव न लभते | जातोऽपि वा सह्यवेदनतां प्रतिपद्यते | अनुपक्रम्यमाणस्तु सर्वरोग अकाले नाशयति | ननु च केचिद्रोगाः स्वयं निवर्तमाना दृष्टाः तत्र किमायुर्वेदोपदेशेनेति आह-स्वयमपीत्यादि | दैवात् कर्म बलात् निदानाल्पतया वा निवर्तमानोऽप्यायुर्वेदोपदिष्टषोडशगुणक्रियोपलम्भादपरिक्लिष्टस्यैवाशुतरमपगच्छति रोगः | यत्राऽप्यनियतफलदायि दैवं तत्राऽप्यायुर्वेदोपदेशाद्धिताभ्यासरतस्य पुरुषस्य व्याधिरवकाशमेव न लभते | तस्मादात्मवता न कस्याञ्चिदवस्थायां हितेऽहिते च समदर्शिना भवितव्यम् || ७ ||

Adhikarana rogANAM mRudvAdiBedena trividhatvam (8) · Śloka 8

त्रिविधाश्च पुनर्व्याधयो मृदुमध्याऽधिमात्रभेदेन| तत्रा- ल्पलक्षणा मृदवो, मध्यलक्षणा मध्याः, सम्पूर्णलक्षणा- स्त्वधिमात्राः||८||

🔊 Audio coming soon

पुनश्च व्याधयो मृद्वादिभेदेन त्रिविधाः | सुबोधम् || ८ ||

Adhikarana vyAdhayaH suKasAdhyAdiBedena caturvidhoktAH (9) · Śloka 1

ते पुनः सुख़साध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः||१||

🔊 Audio coming soon

ते च पुनः रोगाः प्राग्द्वितीयेऽध्याये सुख़साध्यादिविशेषेण चतुर्विधा उपदिष्टा इति || ९ ||

Adhikarana vyAdhInAM nijAgantuBedena dvaividhyam (10) · Śloka 10

सुबहुशोऽपि च भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति| तत्र निजास्तु दोषोत्थाः| तेषु पूर्वं वाता- दयो वैषम्यमापद्यन्ते ततो व्यथाऽभिनिर्वर्तते| बाह्यहेतु- जास्त्वागन्तवः| तेषु प्रहारेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम्| दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च| एवं च कृत्वा न दोषव्यतिरेकेण रोगा- नुबन्धः| केवलं पौर्वापर्ये विशेषः||१०||

🔊 Audio coming soon

व्याधीनामनेकविधत्वमुक्त्वा द्वैविध्यमुच्यते | अनन्तरोक्तेन प्रकारेण बहुशो भिद्यमाना व्याधयो निजत्वमागन्तुत्वञ्च न व्यभिचरन्ति | केचिन्निजाः केचिदागन्तव इति यावत् | तत्र निजा ये वातादिदोषत्रयोत्थाः तेषुः स्वैः स्वैः हेतुभिः पूर्वं वातादयो वैषम्यमापद्यन्ते | तैस्तैर्वातादिभिर्व्यथाऽभिनिर्वर्तते | आगन्तवो बाह्यहेतुजाः | तेषु प्रहारेण शस्त्रप्रहारादिना हेतुना पूर्वं व्यथा जायते | ततश्च तत एव दोषवैषम्यम् | तेन च दोषवैषम्येण पुनर्बहुरूपा रुगनुबध्यते प्रवर्द्धते च || १० ||

Adhikarana rogANAmekatvAsa~gKyeyatvAdi (11) · Śloka 11

तस्मादेकाकारा एव रोगाः रुक्सामान्यात्| असङ्ख़्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभवो- पक्रमविशेषात्| ते यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते| असङ्ख़्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभ- जेत्||११||

🔊 Audio coming soon

तस्मात् सर्वे रोगा रुक्सामान्यानुगतत्वादेकाकाराः | अथवा प्रत्येकं समुत्थानादिविशेषवैचित्र्यादसङ्ख़्यभेदाः | एकोऽपि ज्वरादिः समुत्थानादिभेदविशेषादनकविकारतां यातीत्यर्थः | समुत्थानं निदानं स्थानं देहदेशः | संस्थानं लक्षणम् | वर्णं पाण्डुपीतादिः | नाम ज्वरादिः | वेदनाः शूलादयः | प्रभावो व्याधिशक्तिः | उपक्रमश्चिकित्सा | एतावाता हि सर्वे ज्वराः परस्परव्यावृत्ताः सम्पद्यन्ते | अत एव व्याधीनामसङ्ख़्यत्वम् | तत्र च ये स्थूला व्याधयः ते यथास्वमध्यायेषु निदानचिकित्सितेषूपदेक्ष्यन्ते | ये तु सूक्ष्मास्ते असङ्ख़्येयत्वात् प्रतिपदं वक्तुमशक्याः | अतः तान् वातादिलक्षणैरेवेदन्तयाऽध्यवसेत् | ज्ञातस्वरूपाणां वातादिविशेषेणैवोपक्रमञ्च विभजेत् || ११ ||

Adhikarana doShANAmeva sarvarogaikakAraNatvam (12) · Śloka 12

दोषा एव हि सर्वरोगैककारणम्| यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नाऽतिवर्तते| यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्थितं गुणत्रयमच्यति- रिच्य न वर्तते; तथैवेदमपि कृत्स्नं विकारजातं दोष- त्रयमिति| यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्वव- श्यं निमित्ततस्त्ववश्यमपि| तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः||१२||

🔊 Audio coming soon

कुत एवम् इत्याह-दोषा एवेत्यादि | सर्वेषां रोगाणां वातादय एव दोषा एकमेव कारणम् | न हि दोषेण विना क्वचिदपि रोगा दृश्यन्ते | दृष्टान्तो यथा शकुनिः सरिद्वनोदधिविमानादिषु पतन् सर्वमपि दिवसं पर्यटन्नपि विना स्वच्छायया न दृश्यते | तद्वद्देशकालभेदेऽपि रोगा दोषेण | यथा वेत्यादिना | सर्वरोगाणां सर्वदोषकारणत्वोक्तौ दृष्टान्तः | यथा कृत्स्नं निरवशेषं वैश्वरूप्येण व्यवस्थितं पुरुषादि गुणत्रयं सत्त्वरजस्तम आख़्यमपि अतिरिच्य न वर्तते | तद्वदिदमपि ज्वराद्याख़्यं विकारजातं दोषत्रयमप्यतिरिच्य न वर्तते | ननु च दोषाः शरीरे नित्यं सन्निहिताः तत् कथं कदाचिद्रोगोत्पत्तिरित्याह-यथा चेत्यादि | यथा यद्यपि विद्युद्वर्षेन्द्रचापादयो नभसि भवन्ति | तथाऽपि नावश्यं विनैव निमित्तेन भवन्ति | निमित्तेन त्वत्र संयोगादिनाऽवश्यं भवन्ति; एवं तरङ्गादयश्चाम्भसि तद्वद्दोषेषु नभःप्रख़्येषु विद्युदादिप्रख़्या रोगाः असात्म्यादिनिमित्तमाश्रित्य भवन्ति | नाऽनिमित्तेन || १२ ||

Adhikarana doShaprakopahetuH (13) · Śloka 13

त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः प्रज्ञा- पराधः परिणामश्च| ते पुनः प्रत्येकमतियोगाऽयोग- मिथ्यायोगभेदात्त्रिधा भिद्यन्ते| तत्र यथास्वं चक्षुरा- दीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गोऽतियोगः| अल्पशो नैव वा संसर्गस्त्वयोगः| सूक्ष्मातिदूरान्तिकस्थाति भास्वत् भैरवाप्रियविकृतादिदशनम्| द्विष्टात्युच्चपरुषभीषणा- दिश्रवणम्| पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याग़्राणम्| स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसा- नामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृ- श्यानामयथावदुपसेवनमशुचिभूताभिग़ातविषवातादि- संस्पर्शश्च मिथ्यायोगः||१३||

🔊 Audio coming soon

एतदेवाह-त्रिविधमित्यादि | एषां दोषाणां त्रिविधं निमित्तम् | किमित्याह-असात्म्येत्यादिना | एतच्चाऽसात्म्यादि त्रयं प्रत्येकं हीनातिमिथ्यायोगभेदेन त्रिधा भिद्यते | तत्र इन्द्रियाणां चक्षुरादीनां रूपादयो विषया इन्द्रियार्थाः | एतदेवाह-यथास्वमित्यादिना | चक्षुरादीनां स्वैः स्वै रूपादिभिरर्थैरत्यर्थे संयोग इन्द्रियार्थातियोगः | एवं स्वेन विषयेण | इन्द्रियस्य स्वलपासंयोगो नैव वा संयोगोऽयोगः | सूक्ष्मादिदर्शनं चक्षुषो मिथ्यायोगः | सूक्ष्मं सूक्ष्ममाकारे | दूरे तिष्ठतीति दूरस्थम् | अन्तिके निकटे तिष्ठतीत्यन्तिकस्थम् | अतिभास्वरमतिदीप्तिमत् | भैरवं भीषणम् | आदिग्रहणं सर्वत्र प्राकृताद्रूपादेर्विपरीतग्रहणार्थम् | द्विष्टात्युच्चादिशब्दश्रवणं श्रोत्रमिथ्यायोगः | भीषणो भयावहः | पूत्यादिगन्धाग़्राणं ग़्राणमिथ्यायोगः | तीक्ष्णमुद्वेगकृत् | उग्रं स्वरूपेणोत्कटम् | प्रतिकूल-मप्रियम् | रसनामिथ्यायोगो यः स्वभावसंयोगभावनाभाजनमात्रादिभिराहारस्य नानाविधकल्पनाविशेषहेतुभिरपथ्यानां रसानामभ्यवहारः | स्पर्शनमिथ्यायोगो यत् स्नानादीनां स्पृश्यानामयथावद्वैपरीत्येन सेवनमशुच्यादीनां स्पर्शश्च | इतीन्द्रियार्थानं मिथ्यायोगः || १३ ||

Adhikarana praj~jAparAdhaH (14) · Śloka 14

कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः| तत्र कायादिकर्मणोऽतिप्रवृत्तिरयोगः| अल्पशो नैव वा प्रवृत्तिरयोगः| वेगोदीरणधारणविषमाङ्गचेष्टनस्ख़लन- कण्डूयनप्रहारप्राणायामादि| तथा क्षुत्पिपासाऽर्धभुक्त- भाषणादि| भयशोकेष्यर्यामात्सर्यादि| दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः||१४||

🔊 Audio coming soon

प्रज्ञापराधः किमुच्यत आह-कायेत्यादिना | कायादिभेदेन त्रिविधं कर्म | तदुभयलोकाहितं सर् प्रज्ञापराधशब्देनोच्यते | तत्र कायवाङ्मनसां स्वे स्वे धावनभाषणचिन्तनादिके कर्मण्यतिप्रवृत्तिः प्रज्ञापराधाख़्यं कर्माऽतियोगः | एवं स्वल्पं नैव वा संयोगोऽयोगः | वेगोदीरणादिकर्म यथास्वं कायादिभेदेन प्रज्ञापराधो मिथ्यायोगः | तत्र वेगोदीरणादिप्राणायामान्तं क्षुदादिभाषणान्तं भयाद्यकुशलान्तं यथासङ्ख़्येन कायवाङ्मनसां मित्यायोग इति यथास्वशब्दार्थः | भाषणशब्दस्य क्षुत्पिपासार्धभुक्तशब्दत्रयेण समासः | दशविधं हिंसादिकर्म यथास्वं यथात्मीयं कायादीनां मिथ्यायोगः | तत्र हिंसा चौर्यगगम्यागमनं कायिकम् | पैशून्यं परुषमसत्यं सम्भिन्नालापमिति वाचिकम् | व्यापादमभिध्यादृग्विपर्ययमिति मानसम् | इति यथास्वशब्दात् प्रविभागः | हिंसादयः पूर्वं व्याख़्याताः || १४ ||

Adhikarana pariNAmaH (15) · Śloka 15

परिणामः काल उच्यते| सोऽपि शीतोष्णवर्षभे- दात्त्रिधा| तत्रातिमात्रस्वलक्षणः कालोऽतियोगः| हीन- स्वलक्षणस्त्वयोगः| विपरीतो मिथ्यायोगः| त एतेऽ- तियोगादयः सामान्यतोऽनुपशयलक्षणाः| सर्वो वा प्रज्ञापराध एवाऽयं यदेषामविवर्जनम्||१५||

🔊 Audio coming soon

परिणामः किमुच्यत आह-परिणामः काल उच्यते | तत्र कालः शीतादिभेदेन त्रिविधः | तस्य कालस्य यथास्वं लक्षणं ग्रीष्मादेरौष्ण्याद्यतिमात्रं यदा भवति तदा कालातियोगः | उष्णादौ काले हीनोष्णादित्वं हीनयोगः | तथोष्णे काले औष्ण्यस्य स्वलक्षणस्य विपरीतं शीतं यदा भवति तदा कालमिथ्यायोगः | एतेषां त्रयाणामतियोगादीनामनुपशयः देहासुख़कारित्वं लक्षणम् | अथवा यदेतत् सर्वेषामिन्द्रियातियोगादीनामप्यवर्जनं तत्सर्वं प्रज्ञापराध एव भवति || १५ ||

Adhikarana arthAdInAM samyagyogena svAsthyahetutvam (16) · Śloka 3

अर्थकर्मकालाः पुनः सम्यग्योगेनोपशयात् भूयिष्ठं स्वा- स्थ्यहेतवः| तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्तेऽनुगृह्णन्ति च| शेषा रसकर्मकालास्तु सर्वं देहम्||३||

🔊 Audio coming soon

अर्थादीनां सम्यग्योगेन देहसुख़ावहत्वात् स्वास्थ्यहेतुत्वम् | तत्राऽपि मध्ये अर्थादिषु रसवर्ज्याश्चत्वारो विषया यथास्वं स्वमिन्द्रियमेवाऽतियोगादिभिर्बाधन्ते | सम्यग्योगेनेन्द्रियमेवाऽनुगृह्णन्ति | शेषा रसकालकर्मादय अतियोगादिभिः सर्वं देहं बाधन्ते | सम्यग्योगेन चाऽनुगृह्णन्ति | रसस्य द्रव्यसहितस्योपयोगात्सर्वदेहानुग्रहः || १६ ||

Adhikarana sarveShAM vyAdhInAM nidAnAdivisheSheByo BAvABAvavisheShatvam (17) · Śloka 17

अपि च-सर्वभावानां भावाभावौ नान्तरेण योगा- तियोगादीन् व्यवस्येत्| सर्वेषां पुनिर्वकाराणां निदान- दोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति| यदा ह्येते त्रयो निदानादिविशेषात् नाऽन्योन्यमनुबध्नन्ती- षद्वानुबध्नन्त्यबला वा न तदाऽभिनिर्वर्त्तन्ते| व्याधयिश्चि- राद्वाऽभिनिर्वत्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा| विपर्यये तु विपरीताः||१७||

🔊 Audio coming soon

अपि चेति प्रासङ्गिकार्थोक्तिसमुच्चये | सर्वभावानां बाह्याध्यात्मिकानां भावाभावौ नान्तरेण योगातियोगादीनध्यवस्येत् | भावश्चाऽभावश्च भावाभावौ | योगश्चाऽतियोगादयश्च योगातियोगादयः | तेनैतदुक्तं भवति-सर्वभावानां देशकालक्रियादिसम्यग्योगेन भावः | तथा देशकालक्रियाद्यतियोगादिभिः सर्वभावानामभाव इति | अभावोऽसम्भवो विनाशश्च | एवं सामान्ये स्थिते विकाराणां पुनर्ज्वरादीनां भावाभावविशेषा निदानादिविशेषात् भवन्ति | यदेत्यादिना एतदेव विवॄणोति | एते निदानदोषदूष्या यदा परस्परमनुबन्धं गृह्णन्ति ईषद्वा गृह्णन्ति | स्वल्पबला वा भवन्ति न तदा व्याधयोऽभिनिर्वर्तन्ते | अथवा चिरान्निर्वर्तन्ते निवृत्ताश्च तनवः स्तोकरुजा वा असम्पूर्णलक्षणा वा भवन्ति | एतद्विपर्यये विपरीतास्तेनैतदुक्तं भवति | यदैतानि त्रीणि निदानादीनि परस्परमनुबध्नन्ति बहुलानि वा भवन्ति तदा हि निर्वर्तन्ते व्याधयः आशु च ग़नाः सम्पूर्णलिङ्गाश्च || १७ ||

Adhikarana trayo rogamArgA rogAshca (18) · Śloka 18

त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः| तत्र बाह्यो रक्तादिधातवस्त्वक् च स पुनः शाख़ाख़्यः| तदाश्रयाः गण्डपिटकाज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः| मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः| तत्रोपनिब- द्धाश्च स्नायुसिराकण्डरादयः| तदाश्रयाः पक्षवधग्रहा- पतानकार्दिराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मुर्द्धा- दिरोगाश्च| आभ्यन्तरो महास्रोतः शरीरमध्यं महानि- म्नमामपक्वाशयाश्रयः कोष्ठोऽन्तरिति पर्यायाः| तदा- श्रया ज्वरातिसारछर्द्यलसकविषूचिकाश्वासकासहिध्मा- ऽऽनाहोदरप्लीहादयोऽन्तर्भागाश्च विसर्पशोफार्शोवि- द्रधिगुल्मादयः||१८||

🔊 Audio coming soon

एते च व्याधयो न विनाऽऽश्रयविशेषेण भवन्तीत्यत उच्यते-त्रय इत्यादि | एषां रोगाणां बाह्यादयः त्रयो मार्गाः | चकारः प्रसक्तावक्तव्यसमुच्चये | तत्र रक्तादयः षड् धातवः त्वक् च बाह्यो रोगमार्गः | स च शाख़ाशब्दवाच्यः | तदाश्रया बाह्याश्रया गण्डादयः तथा ये शोफादयः स्वेष्वध्यायेषु बहिर्भागा उक्ताः तेऽपि बाह्याश्रयाः | मूर्द्धादीनि मर्माण्यस्थिसन्धयोऽस्थिसन्ध्याश्रयाश्च स्नाय्वादयो मध्यो रोगमार्गः | तदाश्रयाः पक्षवधादयः | आभ्यन्तरपर्याया महास्रोत आदयः षदेतच्च पर्यायैर्गतार्थं तदाश्रया ज्वरादयः | अन्तर्भागाश्च शोफादयः तदाश्रयाः कोष्ठाश्रया इति यावत् || १८ ||

Adhikarana rogANAmanubandhyanubandhAKyadvaividhyaM tallakShaNa~jca (19) · Śloka 19

ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमा- दनुबन्ध्यनुबन्धाख़्याः| तत्राऽद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयश्च| इतरे तु तद्विपरीताः तद्वच्च दोषा अपि||१९||

🔊 Audio coming soon

ते च व्याधयः कदाचित् स्वप्रधाना भवन्ति कदाचिदन्यव्याधिपरिवाराः | तत्र स्वप्रधानस्याऽनुबन्धीत्याख़्या | योग्यतयाऽन्यपरिवारस्याऽनुबन्ध इत्याख़्येति क्रमार्थः | तत्र ये स्पष्टलक्षणा व्याधयः यथाऽत्मीयनिदानोपशयाश्चाद्याः स्वप्रधाना ज्ञेयाः | एतद्विपरीता इतरे | एतदुक्तं भवति-येऽन्यव्याधिपारतन्त्र्योत्पन्ना अस्पष्टलक्षणाः परायत्तनिदानोपशमाश्चाऽन्यपरिवारा इति | एवमनेनैव प्रकारेण दोषा वातदयोऽपि स्वतन्त्रपरतन्त्रा ज्ञेयाः || १९ ||

Adhikarana pUrvarUpopadravayoH vivaraNam (20) · Śloka 20

तत्रान्यपरिवारा व्याधयो द्विविधाः| पुरागामिनोऽनुगा- मिनिश्च| तेष्वाद्याः पूर्वरूपसंज्ञाः| उपद्रवास्तिवतरे| तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत्| प्रधानप्रशमे च प्रशमो भवति तेषाम्| अनुपशाम्यतो वा पश्चात्तानु- पक्रमेत्| त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन| स हि पीडाकरतरो भवति| व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत्||२०||

🔊 Audio coming soon

तत्र येऽन्यपरिवारा व्याधयस्तेऽपि द्विविधाः | कदाचिद् द्वितीयस्य व्याधेः पुरोगामिनो भवन्ति | कदाचिदनुगामिनः | तत्र पुरोगामिनः पूर्वरूपसंज्ञाः | यथा ज्वरस्याऽऽलस्यादयः | इतरेऽनुगामिन उपद्रवसंज्ञाः | यथा तस्यैव श्वासादयः | तांश्चाऽन्यपरिवारान् यथायथं निदानशारीरादिषु वक्ष्याणानुपलक्षयेत् | तेषां चाऽन्यपरिवाराणां प्रधानप्रशमे सति प्रशमो भवति | अथवा बद्धमूलत्वात् प्रधानप्रशमेऽप्यनुपशाम्यतः प्रधानादुत्तरकालमुपक्रमेत | यतः कालशेषेण प्रधानव्याधिपरिक्लिष्टशरीरत्वात् स बलवान् पीडाकरतरो भवति | यथा प्रमेहे शराविकाद्याः पिटकाः || २० ||

Adhikarana ekorogo~anyasya rogasya hetutvam (21) · Śloka 21

तथाऽन्यः प्रधान एव रोगोऽन्यस्य प्रधानस्य हेतुः भवति| यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य| तौ श्वा- सस्य| प्लीहा जठरस्य| तच्छ्वयथोः| अर्शासि गुल्मो- दरातीसारग्रहणीनाम्| प्रतिश्यायः कासज्वरयोः| तौ क्षयस्य| क्षयः शोषस्य||२१||

🔊 Audio coming soon

तथोऽन्यो रोगः प्रधान एव प्रधानस्य हेतुर्भवति | यथा ज्वरो रक्तपित्तस्य | तत्र हि रोगस्वरूपादेव ज्वरसन्तापलक्षणाद् रक्तपित्तहेतोर्दोषस्य कोपः | अत एव रोगो रोगकारणम् | शेषं सुबोधम् | क्षयो धातुक्षयः | शोषो राजयक्ष्मा | एकादश रोगसमूहः |

Adhikarana doShaprakopahetUn samyagAgamAdiBiH parIkSheta (22) · Śloka 22

एकश्चाऽपचारो निमित्तमेकस्य व्याधेः| बहूनां च तथा बहवः| तद्वदेकं लिङ्गम्| एवमेव प्रशमेऽभ्युपायः| तथा स एवान्यस्य प्रकोपे| तस्मात्तानवहितः सम्य- गागमादिभिः परीक्षेत||२२||

🔊 Audio coming soon

तथा एको ह्यपचार एकस्यैव व्याधेः कारणतां याति | तथाऽन्यो बहूनाम् | बहवस्तद्वत् | एकं बहूनां लक्षणं भवति | तथा य एवैकस्य व्याधेः प्रशमेऽभ्युपायः स एवाऽन्यस्य प्रकोपे | तस्मात्तान् यथोक्तान् सम्यगिदन्तया आगमादिभिश्चतुर्भिः परीक्षेताऽवहितः सन् सामान्यं परित्यज्य विशेषकाष्ठामधिरोहेत् || २२ ||

Adhikarana Agamato pratyakShAdiBirAturasya parIkShA (23) · Śloka 23

तत्रागमो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठान- मेवमात्मानमेवं वेदनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्व- रूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम्| तस्मिन्नियं प्रतीकारस्य प्रवृत्तिरन्यथा निवृत्तिः| प्रत्यक्षतस्त्वाऽऽतुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमा- णोपचयछायाविण्मूत्रछर्दिताधिक्यमान्त्रकूजनमङ्गुल्या- दिषु सन्धिषु स्फुटनं देहशकृद् व्रणादिगन्धं सुप्तशीतो- ष्णस्तम्भनसंस्पन्दश्लक्ष्णख़रस्पर्शञ्च| प्रकृतिविकृति- युक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदु- क्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्र- द्विष्टेष्टसुख़दुःख़ानि च| तथा वयःप्रत्यक्षेण च| अनु- मानतस्तु यूकापसर्पणेन शरीरवैरस्यम्| मक्षिकोप- सर्पणेन शरीरमाधुर्यम्| तथाऽग्निं जरणशक्त्या| बलं व्यायामशक्त्या| गूढलिङ्गं व्याधिमुपशयाऽनुपश्यतः| दोषप्रमाणपचारविशेषेणायुषः क्षयं रिष्टैः| प्रकृति- सत्त्वसारसात्म्यबलाननुशीलनेनेति||२३||

🔊 Audio coming soon

तत्रागम आयुर्वेदोपदेशः | तेनागमेनैकैकं रोगमेवं प्रकोपणमित्यादिना परीक्षेत | यथा शास्त्रे कस्य रोगस्य किं प्रकोपणाद्युक्तमस्मिंश्चाऽतुरे किमस्तीति | प्रकोपणमाहारादि | योनिः कारणं वातादि | आत्मा स्वरूपमधिष्ठानमाश्रयः | वेदना रुजा | रुपादयः प्रसिद्धाः | उदर्को व्याधेः फलम् | प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रयैर्वणादिकं परीक्षेत | तत्र वर्णादिकं दर्शनेन | आन्त्रकूजनादिकं श्रोत्रेण | शीतादिकं स्पर्शं प्राकृतं वैकृतञ्च स्पर्शेन | आस्यरसं सुच्छर्दनत्वादिकञ्च प्रश्नेन | जन्मदेशकालाहारमातापित्रादिविशेषञ्च | वयः प्रश्नेन प्रत्यक्षेण च | जन्मदिवसदर्शनादि च | अनुमानादिकमनुशीलनान्तं सुबोधम् | अपसर्पणमपहाय गमनम् | उपसर्पणमभिमुख़गमनम् | अपचारोऽपथ्यविशेषः | तस्याल्पबहुत्वेन दोषस्याल्पत्वबहुत्वं कल्पयेत् | प्रकृतिर्वातादिकृता | सत्त्वं प्रसिद्धम् | साम्यमुचितम् || २३ ||

Adhikarana BiShajA AturasyAdhyayanaM j~jAnapUrvakaM kAryam (24) · Śloka 24

भवति चात्र- ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत्| आतुरस्याऽन्तरात्मानं न स रोगांश्चिकित्सति||२४||

🔊 Audio coming soon

भवति चात्रेतिपद्यबन्धे तन्त्ररीतिः | ज्ञानसहिता बुद्धिः ज्ञानबुद्धिः | सैव पदार्थदर्शनहेतुत्वात् प्रदीपम् | तेन ज्ञानबुद्धिप्रदीपेनाऽऽतुरस्य तमोग्रहभूतमन्तरात्मानं योगिवद्यो नाविशति स रोगान् न चिकित्सति | चिकित्सितुं न शक्नोतीत्यर्थः || २४ ||

Adhikarana AturasvarUpasya durvij~jeyatvam (25) · Śloka 25

द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ| तद्यथैकौ गुरुव्याधिः सत्त्वदेहबलाश्रयात्| लग़ुव्याधिवदाभाति लग़ुव्याधिरतोऽन्यथा| बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः| ततोऽल्पमल्पवीर्यं वा विपरीतमतोऽथवा| पथ्यं विपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम्||२५||

🔊 Audio coming soon

द्वाविमावित्यादिना आतुरस्वरूपस्य दुर्विज्ञेयत्वं प्रकाशयति-द्वाविमावातुरौ व्याधिस्वरूपस्याप्रकाशकौ | एतयोः स्थितस्य व्याधेः स्वरूपं ज्ञातुं न शक्यत इत्यर्थः | कौ तावित्याह | तद्यथा एको व्याधितो गुरुव्याधितः सन् सत्त्वदेहबलाधिक्यात् लग़ुव्याधिवदाभाति | तत्र् हि यो बालिशः स्वल्पज्ञः स बाह्यावयवमात्रं दृष्ट्वा स्वरूपज्ञाने मुह्यति | ततो मूढः सन्नल्पमात्रमल्पवीर्यं वापथ्यं विपरीते गुरुव्याधौ प्रयुञ्जानो वैद्यो रोगिणां प्राणान् मुष्णाति | अतोऽथवा विपरीतं बहुमात्रं बहुवीर्यं वा पथ्यं विपर्यये लग़ुव्याधौ युञ्जानः प्राणान् मुष्णातीत्यर्थः || २५ ||

Adhikarana BiShak tantrAnushIlanAdvyAdhestattvaj~jo Bavet (26) · Śloka 26

ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते| बुभुत्सेत भिषक्तस्मात्तत्वं तन्त्रानुशीलनात्| अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा| न जातु स्ख़लति प्राज्ञो विषमेऽपि क्रियापथे||२६||

🔊 Audio coming soon

तथा भिषग्वैद्यः तन्त्रानुशीलनेन व्याधेस्तत्त्वं बुभत्सेत | बोद्धुमिच्छेदित्यर्थः | यतो ज्ञानांशेन स्वल्पेन ज्ञानेन कृत्स्ने ज्ञेये ज्ञानं न प्रवर्तते न ह्येकेन ज्ञातेनान्यदज्ञातं ज्ञातं भवति | यस्तु प्रायः कर्मणि चाऽभियुक्तः स विषमे दुरवगाहे चिकित्सामार्गे न स्ख़लति || २६ ||

Adhikarana AgantunijayoranyonyAnubandhyAnubandhakatvam (3) · Śloka 3

आगन्तुरन्वेति निजं विकारंनिजस्तथागऽन्तुमतिप्रवृद्धः| तत्रानुबन्धं प्रकृतिञ्च सम्यग्ज्ञात्वा ततः कर्म समारभेत| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने रोगभेदीयो नाम द्वाविंशोऽध्यायः||३||

🔊 Audio coming soon

किं कृत्वा ? सर्वथा सर्वेण प्रकारेण सर्वमातुरगतमालोच्य | एवं हि यतो दृश्यते | निजं विकारमतिप्रवृद्ध आगन्तुरन्वेति | आगन्तुमतिप्रवृद्धो निजः अन्वेति | स्वरूपं त्वत्तवा तदानुगुण्येन वर्तत इत्यर्थः | तत्र त्वनुबन्धं स्वरूपञ्च व्याधीनामिदन्तया ज्ञात्वा पश्चाच्चिकित्सार्थं कर्म समारभेत || २७ || इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसZंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने द्वाविंशोऽध्यायः