Adhikarana athAto dvividhopakramaNIyo nAma caturviMsho&dhyAyaH pratij~jA (1) · Śloka 1
अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरत्रेयादयो महर्षयः||१||
पूर्वेऽध्याये व्याधिनिर्ग़ातनमुक्तम्| अत्र तु तस्यैव द्वैविध्यप्रदर्शनार्थमध्यायारम्भः-अथात इत्यादि|| १||
Adhikarana upakramasya dvaividhyaM tatparyAyau ca (2) · Śloka 2
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः|
एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः|
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ||२||
उपक्रमश्चिकित्सेति पर्यायौ| द्विविध एवोपक्रमः| कुतः ? उपक्रमस्य व्याधितस्य सन्तर्प्यापतर्प्याभेदाद् द्वैविध्यात्|| २||
Adhikarana bRuMhaNala~gghanasvarUpaM tayormahAbhUtasa~ggatishca (3) · Śloka 3
बृंहणं यद् बृहत्वाय लङ्घनं लाघवाय यत्|
देहस्य भवतः प्रायो भौमापमितरच्च ते||३||
बृंहणमित्यादिना बृंहणलङ्घनयोशशब्दयोरन्वर्थतां वदन् सन्तर्पणापतर्पणयोः स्वरूपं वक्ति| यद्देहस्य शरीरस्य बृहत्वाय कल्पते तत् बृंहणम्| तथा देहस्य यल्लाघवाय कल्पते तल्लङ्घनम्| ते च बृंहणलङ्घने भौमापमितरच्च भवतः| तेनैतदुक्तं भवति-भौमापं बृंहणं मतम्| इतरदाग्नेयवायव्यनाभसं लङ्घनमिति|| ३||
Adhikarana snehanAdInAmapi bRuMhaNala~gghanayorevAntarbhAvaHgh (4) · Śloka 4
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत्|
भूतानां तदपि द्वैध्याद् द्वितयं नातिवर्तते||४||
बहूपक्रमवादिनं प्रतीदमुच्यते-स्नेहनमित्यादि| स्नेहनं रूक्षणञ्च यत् कर्म उपक्रमः| तथा स्वेदनं स्तम्भनञ्च यत् कर्म तत् कर्मचतुष्टयं भूतानामग्नीषोमात्मकरूपद्वैविध्यात् द्वितयं बृंहणलङ्घनाख्यं नातिवर्तते| तेनैतदुक्तं भवति-स्नेहनस्तम्भने सौम्यत्वात् बृंहणवर्गे पततः| रूक्षणस्वेदने चाग्नेयत्वाल्लङ्घन इति| शोधनाङ्गस्य स्नेहस्य लङ्घनफलत्वाल्लङ्घनत्वम्| तत्कालन्तु बृंहणत्वमेव एवं स्वेदादीनामपि विचार्यम्| तस्माद् द्वावेवोपक्रमौ|| ४||
Adhikarana la~gghanaM dvividham (5) · Śloka 5
शोधनं शमञ्चेति द्विधा तत्रापि लङ्घनम्||५||
तत्र लङ्घनं शोधनशमनभेदेन द्विविधम्| शोधनं शमनञ्च|
Adhikarana shodhanalakShaNantasya pa~jcavidhatva~jca (6) · Śloka 6
यदीरयेद्बहिर्दोषान् पञ्चधा शोधनञ्च तत्|
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||६||
किमुच्यत इत्याह-यदीरयेदित्यादिना| पञ्चधा पञ्चभिर्वमनादिभिः प्रकारैर्यदौषधमन्तश्शरीरस्थान् दोषान् वातादीन् बहिरीरयेत् तच्छोधनम्| निरूह इत्यादिना पञ्चप्रकारान् दर्शयति| निरुद्धो गुदप्रणिधेयमौषधं क्वाथस्नेहादि| वमनं, कायविरेकशिशरोविरेकः| अस्रविस्रुतिरिति|| ६||
Adhikarana shamanalakShaNantasya saptavidhatva~jcabRuMhaNasyAvasthAyAM shamanatvam (7) · Śloka 7
न शोधयति यद्दोषान् समान्नोदीरयत्यपि|
समीकरोति विषमान् शमनं तच्च सप्तधा|
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः|
बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च||७||
शमनं पुनर्यदौषधमनन्तरोक्तेन प्रकारेण दोषान्नाशयति| समांश्च दोषान्नोदीरयति नोत्क्लेशयति| विषमान् प्रवृद्धान् समीकरोति स्वरूपेण स्थापयति| तच्छमनम्| विषमशब्दः समान् नोदीरयत्यपीति वाक्यसामार्थ्याद् वृद्धावेव वर्तते| तच्च शमनं सप्तभिः प्रकारैः पाचनत्वादिभिर्भवति| पाचनत्वादीनां दोषशमनत्वमुक्तम्| तच्च वायौ वातपित्ते चासौम्यत्वान्न सम्भवतीत्याह बृंहणमित्यादि| यद्यपि शमनं लङ्ग़नं तथापि वायौ वातपित्ते च बृंहणमेव यथोक्तलक्षणं शमनम्| पित्तस्य तु केवलस्यास्वरूपत्वाल्लङ्ग़नमेव शमनम्| वातश्लेष्मणोस्तु वायोः शैत्याद्योगवाहित्वाच्च लङ्ग़नमेव कफेऽपि च| सुबोधम्|| ७||
Adhikarana bRuMhyAH bRuMhaNAni ca (8) · Śloka 8
बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्|
भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्|
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि|
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः|
स्वप्नशय्यासुख़ाभ्यङ्गस्नाननिर्वृतिहर्षणैः||८||
ननु च क्व बृंहणं विधेयं क्व वा लङ्ग़नमित्याह-बृंहयेदित्यादि| व्याध्यादिकर्शितान् बृंहयेत्| क्षीणशब्दस्य भारादिभिः सम्बन्धः| तथा ग्रीष्मे अपरान् सर्वानित्यर्थः| केन बृंहयेदित्याह-मांसेत्यादि| इति बृंहणीयानि|| ८||
Adhikarana la~gGyAH (9) · Śloka 9
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः|
विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः|
स्थूलांश्च लङ्ग़येन्नित्यं शिशिरे त्वपरानपि||९||
मेहादीन् लङ्ग़येदिति सम्बन्धः| नित्यमेव न तु कदाचित्| शिशिरे त्वपरानपि ल~ग़्ग़येत्| श्लेष्मचयभयात्| अपरानिति व्याधितानां ग्रहणम्| अन्यथा स्वस्थवृत्ते शिशिरे हेमन्तविधिस्सविशेषै र्निर्दिष्टः|| ९||
Adhikarana sthUlAdibhedena la~gghanabhedAH (10) · Śloka 10
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्|
आमदोषज्वरच्छर्दिरतीसारहृदामयैः|
विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्|
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः|
एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्|
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्|
समीरणातपायासैः किमुताऽल्पबलैर्नरान्||१०||
केन लङ्घनेन तान् लङ्घयेदिति आह-तत्रेत्यादि| आमदोषादिभिर्व्याधिभिरातुरान् स्थौल्यादिभिः स्थूलत्वादिभिर्गुणैरधिकान् उत्कृष्टस्थौल्यबलादिकान् सतः पूर्वं प्रथमं पाचनैर्दीपनैश्च लङ्घयेत्| ततो यथार्हेण लङ्घनेन प्रायोग्रहणं दोषबलाद्यपेक्षया नियमस्यासर्वविषयत्वप्रदर्शनार्थम्| तथा एभिरेवामदोषादिभिरामयैरार्तान् हीनस्थौल्यबलादिकान् सतः क्षुत्तृष्णानिग्रहैर्लङ्घयेत्| तथा सर्वव्याधितान् मध्यबलैरपि दोषैर्वातादिभिरार्तान् समीरणादिभिर्लङ्घयेत्| किमुताल्पबलैर्दोषैरार्तान्|| १०||
Adhikarana la~gghanIyeShu bRuMhaNaniShedhaH deshAdivashAttadanumatishca (11) · Śloka 11
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्|
युक्त्या वा देशकालादिबलतस्तानपाचरेत्||११||
लङ्घनीयान् लङ्घनार्हान् व्याधीन् न कदाचन बृंहयेत्| यतस्ते बृंहणेन स्वल्पेनापि परां वृद्धिमायान्ति| ये तु व्याधयो बृंहणीयास्तान् मृदु स्वल्पं लङ्घयेत्| बृंहणोपयोगयोग्यतापादनायाऽग्निसन्धुक्षणाय च| लघुतातिशयोत्पत्तये वाऽथवा तान् बृंहणीयान् लङ्घनीयांश्च देशकालाद्यवेक्ष्य युक्त्योपचरेत्| तेनैतदुक्तं भवति-देशकालाद्यपेक्षया लङ्घनीयानपि बृंहयेत्| तथा च श्वोवम्यस्य मत्स्यादयः प्रयुज्यन्त एव तथा देशाद्यपेक्षया बृंहणीयानपि लङ्घयेदिति|| ११||
Adhikarana bRuMhatila~gGitalakShaNAni (12) · Śloka 12
बृंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसङ्क्षयः|
विमलेन्द्रियता सर्गो मलानां लाग़वं रुचिः|
क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता|
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्ग़िते||१२||
ननु बृंहितो लङ्ग़ितश्च कथं ज्ञेय इत्याह-बृंहिते स्यादित्यादि| बृंहिते पुरुषे बलं पुष्टिश्च स्यात्| तथा तत्साध्यानां बृंहणसाध्या-नामामयानां सङ्क्षयश्च स्यात्| विमलेन्द्रियतादीनाञ्च स्यादित्यनेन सम्बन्धः| ल~ग़्ग़िते किमित्याह-क्षुत्तृडित्यादि| क्षुत्तृषोस्सहैककालमुदयः| तथा शुद्धहृदयता शुद्धोद्गारता शुद्धकण्ठता व्याधेर्लङ्ग़नसाध्यस्य मार्दवमुत्साहश्च स्यादिति प्रत्येकमभिसम्बध्यते| तेनैतदुक्तं भवति-क्षुत्तृट्सहोदयादीनां समस्तानां निर्देशो दोषदेशाद्यनुरोधेनैकस्य द्वयोस्त्रिचतुराणां सर्वेषाञ्च लङ्ग़ितलक्षणत्वद्योतनार्थम्| अन्यथैषामशेषाणामेव लक्षणा नामुत्पत्तौ ल~ग़्ग़ितलक्षणत्वं भवेदिति|| १२||
Adhikarana atibRuMhite~atila~gGite ca doShAH (13) · Śloka 13
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते|
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः|
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्ग़िते||१३||
अनपेक्षितेत्यादि| ते बृंहणलङ्ग़ने मात्राद्यनपेक्षया कृते अतिस्थौल्यादीनतिकार्श्यादींश्च कुरुतः| अस्मिन्नेवाध्याये ते व्याधयो वक्ष्यन्ते| तेषामौषधं च वक्ष्यते| तथा तैरेवातिस्थौल्यादिभिरतिकार्श्यादिभिश्च करणभूतैर्यथासङ्ख़्येनातिबृंहितेऽतिलङ्ग़िते च लक्षणं जानीयादिति बृंहणलङ्ग़नातियोगलक्षणम्|
Adhikarana atisthaulyanidAnasamprAptilakShaNAni atisthUlasvarUpam (14) · Śloka 14
तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रागुदाहृताः|
गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः|
आम एव श्लथीकुर्वन् धातून् स्थौल्यमुपानयेत्|
अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः|
आयासाक्षमता जाड्यमल्पायुर्बलवेगता|
दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोऽतिपुष्टितः|
स्रोतः सु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः|
चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततोऽधिकम्|
स्थूलं कोटरवद्दृद्धौ दहतोऽग्न्यनिलौ च तम्|
स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि|
मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता|
कोष्ठ एव विपक्वेऽस्य संरुद्धस्रोतसो रसे|
सर्वत्रालब्धवृत्तित्वात्प्रायो मेदः प्रचीयते|
तच्छेषोऽल्परसोऽल्पत्वान्नालं रक्तादिपुष्टये|
तुल्येऽपि वाय्वादिचये प्राक्चितं चीयतेतराम्|
मेदस्तेनाऽसमस्तेन धातूनां विदधाति तत्|
श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्|
मेहोरुस्तम्भपिटका विद्रधिप्रभृतीन् गदान्|
अयथोपचयोत्साहश्चलस्फिगुदरस्तनः|
अतिस्थूलः स्मृतो .....................||१४||
तत्रातिबृंहणेन ये जायन्तेऽतिस्थौल्यादयः ते प्राक् पूर्वं रोगानुत्पादनीये संशोधनभेषजद्वेषोद्भवत्वेनातिस्थौल्याग्निसदनेत्यादिनोदाहृताः| यत्त्वस्मिन्नेवाध्याये वक्ष्यन्त इत्युक्तं तच्चिकित्सानुरोधात्| तत्रातिस्थौल्यप्राधान्यादत्र गुर्वादीत्यादिना हेतुस्वरूपकथनं क्रियते| तत्रान्नरसः स्थौल्यमुपानयेत् कुर्यात्| किङ्कुर्वन्नाह-धातून् रक्तादीन् श्लथीकुर्वन्निबिडभावमापादयन्| किम्भूतो रसः गुर्वादिभिस्सौम्यैस्सात्म्यैर्वृद्धेन संलीनेन च श्लेष्मणामिश्रस्संलीनोऽनुत्क्लिष्टरूपः| अत एवामः अपरिपूर्णपाकः ततश्चाऽतिस्थौल्यादतिक्षुदादिगद्गदत्वान्तं भवेत्| तस्मिंश्चातिस्थौल्ये मेदोवृद्धिकारणैराहारादिभिर्यदि मेदसोऽन्यधात्वपेक्षयाऽतिशयेन पुष्टिर्भवति ततो मेदोऽतिपुष्टितो हेतोर्वायोश्शाख़ासञ्चरणाय स्रोतोमुख़ेषु मेदसा रुद्धेषु सत्सु वायुरन्यत्रागच्छन् कोष्ठ एव चरन् तत्रस्थमेवाग्नि यतः प्रज्वलयत्यतो हेतोः स्थूलेषु पुरुषेषु क्षुत्तृषौ अधिकं स्तौ भवतः| तौ च महास्रोतस्थितावग्न्यनिलौ स्थूलं दहतः| यथा कोटरं तरुमग्न्यनिलौ दहतस्तद्वदिति| तत्र च स्थूले स्वेदभूरिता भवति| कुत आह-मेदसः स्वेदवाहिसिरामूलभावाद्विष्यन्दनाच्छ्लेष्मयोगाच्च| विष्यन्दनं स्रुतिस्वरूपत्वम्| ननु चोक्तं स्थूलस्य मेदोऽतिपुष्टिं यातीति| तत् कथमित्याह-कोष्ठ एवेत्यादि| अस्य स्थूलस्य मेदःकारणैः स्वशक्त्या समृद्धेन उपलेपात्मकेन मेदसा रुद्धेषु रसवहस्रोतस्सु प्रत्यहमन्नरसे कोष्ठ एव विपक्वे सति यतस्स रसस्सर्वधातुष्वप्राप्तवृत्तिर्भवति| गुरुमधुरादिभिश्च मेदस्सादृश्यं भजते| अतोऽस्य पुरुषस्य मेद एव प्रचीयते तेन रसेन| तथा तस्मान्मेदसश्शेषोऽपि रसो रक्तादिधातुपञ्चकपुष्टये स्वल्पत्वान्नालं न पर्याप्तः| ननु च कथं रसरक्ताभ्यामप्रवृद्धाभ्यां मेदसो वृद्धिः ? कथञ्च मेदसि वृद्धेऽस्थ्यादीनि वृद्धिन्नयान्तीति ? यत उक्तं पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश्च तद्विधमिति| तथा धात्वाहाराश्च धातव इति| तस्माद्यावत्सर्वे धातवो न क्षीणा वृद्धा वा तावदेकस्य वृद्धिक्षयौ दुरुपपादकावित्यत्रोच्यते| न ह्येष एव पक्षः यत् पूर्वधातूपमर्देनानेन परधातुसम्भवः अन्यधातूद्भवः| अपि तु युगपदन्नरसेन सकलधातूनां परिपोषोऽपि| तन्त्रान्तरे वक्ष्यते| तत्रैव यथोक्तं विज्ञास्यते| भवतु नामैवम्| यत्र तु क्रमेण पूर्वधातूपमर्दनेनान्यधातूद्भवस्तत्र केवलस्य मेदसः कथं वृद्धिरत्राप्युच्यते| न हि केवलमेव मेदश्चीयते| अपितु रक्तादयोऽपि चीयन्त एव| मेदः पुनः पूर्वकारणशक्त्यतिशयेन वृद्धं सत् पुनरन्यधात्वपेक्षया सुतरां वर्धत इति| एतदेवाह-तुल्येऽपीत्यादि| अतस्तेन धातूनामसमत्वेन कारणेन मेदः स्थूलस्य श्वासादीन् जनयति| अतिस्थूलः कीदृश उच्यत इत्याह-अथथोपचयेत्यादि| उपचयेनावयवसंहननेन सदृश उत्साहो यस्य स यथोपचयोत्साहः| न यथोपचयोत्साहः अयथोपचयोत्साहः| अङ्गैर्महान् उत्साहेन तु स्तोक इत्यर्थः| चलाः स्फिगादयो यस्य स तथाविधः तादृशः पुरुषोऽतिस्थूलः स्मृतः|| १४||
Adhikarana atisthaulye AhArauShadhAdi (15) · Śloka 15
...........................योज्यं तत्रान्नं मारुतापहम्|
श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः|
जूर्णश्यामाकमुद्गाद्याः पानेऽरिष्टां मधूदकम्|
मस्तु तक्रञ्च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम्|
चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत्|
देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च|
मधुना त्रिफलां लिह्याद्गुडूचीमभयां ग़नम्|
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः|
शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः|
विडङ्गं नागरं क्षारः काललोहरजो मधु|
यवामलकचूर्णञ्च योगोऽतिस्थौल्यदोषजित्|
मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम्|
सपाठारग्वधं पीतमतिबृंहणरोगजित्|
तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्|
समुस्तपाठाख़दिरत्रिफलानिम्बगोक्षुरम्|
मदनादीनि चालेपः स्नानादिष्वपि योजयेत्|
हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्|
एलावृक्षकषड्ग्रन्थाख़राश्वोपलभेदकम्|
तक्रेण दधिमण्डेन पीतं कोलरसेन वा|
मूत्रकृच्छ्रं कृमीन् मेहं स्थूलताञ्च व्यपोहति|
कृमिग़्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः|
लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्|
व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः|
हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः|
निशे बृहत्यौ हपुषा पाठा मूलञ्च केम्बुकात्|
एषां चूर्णं मधु ग़ृतं तैलं च सदृशांशकम्|
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्|
अतिस्थौल्यादिकान्सर्वान् रोगानन्यांश्च तद्विधान्|
हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्|
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्|
योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि||१५||
तत्रातिस्थूले मारुतापहमन्नं योज्यम्| तथा यच्चान्नादिकं श्लेष्ममेदोहरं तत्सर्वं योज्यम्| तथा कुलत्थादयः| पाने त्वरिष्टादीनि| भेषजमौषधं यत् किञ्चित् तीक्ष्णत्वादियुक्तम्| तथातिस्थूलो देहमपेक्ष्य यथोचितांश्चिन्ताव्यवायव्यायामादीन् भजेत्| अस्वप्नं निद्राप्रतिषेधः तथा रूक्षस्नानादीन्यपि भजेत्| तथा त्रिफलागुडूच्यादीनामन्यतमं मधुना लिह्यात्| तथा रसाञ्जनादीनां च प्रयोग अग्निमन्थरससहितोऽतिस्थूले हितः| विडङ्गादियोगः सर्वसमभागोऽतिस्थौल्यदोषजित्| मदनाद्यौषधदशकं समभागं जलेन पीतमतिबृंहणोद्भवान् रोगान्नाशयति| वत्सकादि गोक्षुरकान्तं तद्वन्मदनादिदशकवदतिबृंहणरोगजित्| तथा मदनादीन्यनन्तरपठितानि क्वाथादिना स्नानानुलेपोद्धर्षादिष्वपि योजयेत्| तथा हिङ्ग्वाद्युपलभेदान्तं तक्रादीनामन्यतमेन पीतं मूत्रकृच्छ्रादीनपोहति| तथा कृमिग़्नाद्यौषधदशकेन समभागेन कृतो लोहोदकेन शस्त्रभाजनोषितपानीयेनाप्लुतो मन्थोऽतिबृंहणोत्थरोगाणां पथ्यः| व्योषादीन्यौषधानि चतुर्विशतिः परस्परसमभागानीत्ययमेको भागः| तत्समो मधुनो द्वितीयः| ग़ृतस्य तृतीयः| तैलस्य चतुर्थः| एषां चतुर्णां भागानां मिश्रीभूतानां षोडशगुणा यवसक्तवः| अयं मन्थः पीतः सन् अतिस्थौल्यादिकान् यथापठितान् सर्वान् रोगान् निहन्ति| अन्यांश्च तद्विधान् बृंहणोत्थानित्यर्थः| तथा हृद्रोगादीन् निहन्ति| बुद्ध्यादिकरः| सन्नस्य चाग्नेर्दीपन इति| तथा तेषु बृंहणोत्थेषु रोगेषु यथाव्याधि व्याधेः सादृश्येन क्रमेण स्वेदरक्तस्रावाद्यपि योज्यम्|
Adhikarana atili~gGitalakShaNAni atikRushAsyAyAsAdyasahatvam kRushasulaBA vyAdhayaH (16) · Śloka 16
अतिकार्श्य भ्रमः कासस्तृष्णाधिक्यमरोचकः|
स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजः क्षुत्स्वरक्षयः|
बस्तिहृन्मूर्द्धजङ्ग़ोरुत्रिकपार्श्वरुजा ज्वरः|
प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम्|
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्ग़नात्|
अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः|
तृप्तिव्याध्यौषधमदान् सहतेऽल्पबलत्वतः|
श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः|
कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः||१६||
अतिलङ्ग़नोत्था अतिकार्श्यादयो वक्ष्यन्त इत्युक्तमित्युच्यते-अतिकार्श्यमित्यादि| स्नेहादीनां क्षयशब्देन समासः| बस्त्यादीनां रुजाशब्देन| मूत्रग्रहाद्याश्चेत्यत्रादिग्रहणेन नानाविधानां वातजानां रोगाणां ग्रहणम्| एते ह्यतिकार्श्यादयोऽतिलङ्ग़नाज्जायन्ते| तत्र चातिकार्श्यस्य प्राधान्यात् पृथगुक्तिः| एतेनाति कार्श्येन हेतुना यदा त्वबलत्वं ततोऽल्पबलत्वतो हेतोरायासादीन् पुरुषो न सहते| मदशब्दस्य व्याध्यौषधाभ्यां समासः| तथा कृशं पुरुषं श्वासादयोऽन्ये च रक्तपित्तानिलजा आमया धावन्ति| तमतिकृशमायान्तीत्यर्थः|| १६||
Adhikarana sthaulyAtkArshyasya varatvantatra hetushca (17) · Śloka 17
कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम्|
बृंहणं ल~ग़्गनं नालमतिमेदोऽग्निवातजित्|
मधुरस्निग्धसौहित्यैर्यत् सौख़्येन च नश्यति|
क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः||१७||
यद्यप्ययं कार्श्याख़्यो महान् रोगस्तथाप्यतिस्थौल्यात् कार्श्यमेव वरं कुत एवमित्याह-न हीत्यादि| अतिस्थूलस्य हि भेषजमतिमेदसोऽग्नेर्वायोश्च नाशनं यत्तत् साधु| तथाविधं चातिमेदोऽग्निवातजिद् भेषजमतिस्थूलसाधनं न बृंहणं पर्याप्तं नापि लङ्ग़नम्| तेनैतदुक्तं भवति-अतिस्थूलाय यदि बृंहणं दीयते तदग्निवातजिद्भवति| न तु मेदोजिदथ लङ्ग़नं तद्धि मेदोजिद्भवति न त्वग्निवातजिदिति| तस्मादतिस्थौल्यस्य दुश्चिकित्स्यत्वात् कार्श्यमेव वरम्| तथायमपरः कार्श्यवरत्वे हेतुः| यन्मधुरादिभिः प्रियसुख़ैः क्रशिमा नश्यति| स्थविमात्यन्तं तच्चित्तदेहविपरीतानां व्यायामचिन्तादीनां निषेवणैरिति|| १७||
Adhikarana atikRushalakShaNam (18) · Śloka 18
शुष्कस्फिगुदरग्रीवः स्थूलपर्वा सिरा ततः|
उच्यतेऽतिकृशः...............................||१८||
शुष्कस्फिगित्यादिनातिकृशलक्षणमुच्यते| एवंविधो हि पुरुषोऽतिकृश इत्युच्यते|| १८||
Adhikarana atikArshye BeShajam prakRuShTabRuMhaNopAyAH (19) · Śloka 19
.....................तत्र प्रागुक्तो बृंहणो विधिः|
अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः|
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च|
स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||१९||
तत्रातिकृशे स विधिर्हितो यः पूर्वस्मिन्नध्याये बृंहणत्वेनोक्तः| तथाश्वगन्धाद्याश्च मधुरबृंहणा नानाविधैः प्रयोगैरौषधयो हिताः| तथातिकृशोऽचिन्ताप्रभृतिभिः कारणैः पुष्यति पुष्टिं प्राप्नोति| तथा स्वप्नप्रसङ्गेन च पुष्यति वराह इव| यथा वराहः सूकरः स्वप्नप्रसङ्गात् पुष्यत्येवं कृशोऽपीति|| १९||
Adhikarana cirakShINasadyaHkShINayorupakrame visheShaH (20) · Śloka 20
लङ्ग़नोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्|
यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये|
सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते|
चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च|
बृंहणं तत्र मात्राग्निबलादीन्वीक्ष्य योजयेत्||२०||
अतिकार्श्यस्य चिकित्सामुक्त्वा अन्येष्वपि लङ्ग़नोत्थेषु विवक्षुरिदमाह-लङ्ग़नोत्थेष्वित्यादि| शेषेष्वपि लङ्ग़नोत्थेषु कार्श्यादवशिष्टेषु भ्रमकासादिषूपकल्पयेत्| किमित्याह-यत्तदात्व इत्यादि| तदात्वे तत्कालं प्रयोगानन्तर्येणैव यद्रोगोपशमने समर्थं स्यात् यच्चौषधादिकमभ्यासेन पुष्टये भवति तदप्युपकल्पयेदिति सम्बन्धः| कुतो द्विविधमुपकल्पयेदित्याह-यतः सद्यः क्षीणः सद्य एवोपयुक्तेन बृंहणेनोपचयं प्राप्नोति| यः पुनः चिरं बहुकालं क्रमेण च क्षीणः स तदभ्यासेन बृंहणाभ्यासेनोपचीयत इत्यर्थः| तस्मादुभयमपि योजयेत्|| २०||
Adhikarana bRuMhaNe mAMsasya rasakShIrAdInA~jca prayogaH (21) · Śloka 21
न हि मांससमं किञ्चिदन्यद् देहबृहत्त्वकृत्|
मांसादमांसं मांसेन सम्भृतत्वाद् विशेषतः|
क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लग़ून्|
वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्|
रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः|
युञ्ज्यात्कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्|
तृष्यतामूर्ध्ववातानां मूढमारुतवर्चसाम्||२१||
मांसेन समं चान्यन्न किञ्चिद् देहस्य बृंहणत्वकृत्सम्भवति| मांसादानामामिषभुजां प्राणिनां सिंहादीनां सम्बन्धिः मांसं मृगादिमांसेन सम्भृतत्वाद्विशेषतो बृंहणत्वकृदिति सम्बन्धः| यस्माद्यत एवमुक्तमतः क्रव्यान्मांसानां रसान् दकलावणिकान् ल~ग़्ग़नोत्थेषु रोगेषु युञ्ज्यात्| तथा जाङ्गलैरपि मांसैर्वेशवारीकृतैरतिसूक्ष्मच्छिन्नैः कृतानकृतांश्च रसान् युञ्ज्यात्| तथा क्षीरादीनपि सन्तर्पणान् युञ्ज्यात्| आदिग्रहणेनेक्षुरसादीनां ग्रहणम्| तथा कृशानां ज्वरितादीनां तर्पणादीन्यपि युञ्ज्यात्| अनेन हि तर्पणशब्देन सक्तव उच्यन्ते|| २१||
Adhikarana santarpaNAH manthayogAH (22) · Śloka 22
समैः कृष्णासितातैलक्षौद्राद्यैद्वर्यंशतर्पणैः|
मन्थस्तद्वत्सिताक्षौद्रमदिरासक्तुयोजितः|
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|
तर्पणं मूत्रकृच्छ्रग़्नमुदावर्त्तहरं परम्|
मन्थः ख़र्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|
परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्|
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||२२||
तत्र कृष्णादिभिः समभागैर्मिश्रितैर्द्विगुणतर्पणैः कृतो मन्थः पूर्वेषु रोगेषु हितः| तथा सितादिभिर्मन्थस्तद्वद्विज्ञेयः यथोपपादः कृतः सन् तथा फाणितादिभिः कृतः प्रयोगः परमत्यर्थं तर्पणो मूत्रकृच्छ्रग़्न उदावर्तहरश्च| तथा ख़र्जूरादिभिः समभागैः कृतो मन्थः सद्यस्तृष्णादिरोगजित्| तथा यः कश्चिज्जलकृतो मन्थः स्वादुर्वाऽम्लो वा सस्नेहो रूक्षोऽपिवा स सर्वो मन्थः सद्य एव सन्तर्पणो देहस्थैर्यादिप्रदश्च|| २२||
Adhikarana sthUlakRushayorAhAraH (23) · Śloka 23
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे|
यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||२३||
अनन्तरमध्यायार्थमुपसंहरति| स्थूले पुरुषे गुर्वपतर्पणञ्चाहारं योज्यम्| कृशे त्वेतद्विपरीतं लग़ु सन्तर्पणञ्चेत्यर्थः| तथैवोभयोरपि कृशस्थूलयोर्यवगोधूमं हितम्| किम्भूतम्| तद्योग्याहितकल्पनम्| तद्योग्या कृशस्थूलयोग्या आहिता उत्पादिता संस्कारादिका कल्पना यस्मिन्यवगोधूमे तत्तथोक्तम्| तेनैतदुक्तं भवति-यदा स्थूलाय यवगोधूमं दीयते तदा स्थूलयोग्ययैवापतर्पणार्हया कल्पनया| यदा तु तदेव यवगोधूमं कृशाय दीयते तदा कृशयोग्ययैव सन्तर्पणया कल्पनयेति व्याधिभूतयोः स्थौल्य कार्श्ययोश्चिकित्सा|| २३||
Adhikarana sahajasthaulyakArshyayoshcikitsAtideshaH (24) · Śloka 24
स्यौल्यकार्श्ये प्रकृत्यापि स्यातां तत्राऽप्ययं विधिः|
सततं व्याधिततया सदा योज्यो विभज्य च||२४||
यत्र तु पुरुषाणां प्रकृत्या सहजत्वेन स्थौल्यकार्श्ये स्याताम् तत्राप्ययमेवाऽनन्तरोक्तो विधिर्विभज्य विकल्प्य यथोचितं सदैव योज्यः सततव्याधितत्वाद्धेतोः| तेनैतदुक्तं भवति-यद्यपि स्थौल्यं कार्श्यं वा केषाञ्चित् स्वभावेनैव भवति| तथाऽपि ते स्वभावेनैव व्याधिता उच्यन्ते| अत एव तेषामयं विधिः सदा योज्यः|| २४||
Adhikarana mAtrayA bRuMhaNala~gGanayoH sevanaPalam (25) · Śloka 25
मात्रादियुक्ते सेवेत यस्तु ल~ग़्ग़नबृंहणे|
समधात्वग्निदेहोऽसौ समसंहननो भवेत्|
दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते||२५||
तथा यः पुरुषो मात्रादियोगेनातियोगायोगं परिरक्षन् बृंहणलङ्ग़ने सेवेत| असौ पुरुषः समधात्वग्निदेहः सन् समसंहननो भवेत्| समा धात्वादयो यस्य स तथोक्तः| देहस्य समत्वमङ्गानामनूनाधिकतां, समसंहननत्वं देहसङ्ग़ातसमत्वम्| न क्वचित् स्थौल्यं नापि कार्श्यमिति| स च पुरुषो दृढेन्द्रियत्वाद्धेतोर्द्वन्द्वैर्दुःख़ैरातपादिभिर्नाभिभूयते|| २५||
Adhikarana sarvopakramANAM la~gGanabRuMhaNayorevAntarBAvaH (26-27) · Śloka 27
दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः|
उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव||२६||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने द्विविधो- पक्रमणियोनाम चतुर्विशोऽध्यायः||२७||
ननु बहवो ग्राह्यादय उपक्रमाः शास्त्रे दृष्टाः तत् किमित्युक्तं द्विधैवोपक्रम इत्याह-दोषगत्येत्यादि| परस्परं भिन्ना अप्युपक्रमा विलक्षणया दोषगत्या हेतुभूतया ग्राह्यादिभेदादतिरिच्यन्ते| न तु यथोक्ताद् द्वित्वादतिरिच्यन्ते| यथा गदा व्याधयो भिन्ना अपि सन्तो द्वित्वालङ्घ्यबृंह्याख्यादग्नीषोमात्मकत्वान्नातिवर्तन्ते| तद्वदुपक्रमाः| तेनैतदुक्तं भवति- लङ्घनबृंहणे एव दोषगतिविशेषेण ग्राह्यादिविशेषं प्राप्नुत इति|| २६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने चतुर्विंशोऽध्यायः