Adhikarana atha doShaBedIyo nAma viMSo~adhyAyaH pratij~jA (1) · Śloka 1
अथातो दोषभेदीयं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
पूर्वेणाध्यायेन दोषादीनां प्राकृतं वैकृतं च स्वरूपमुक्तम्| अत्र तु तेषामेव स्थानक्रियावस्थादिविशेषभेदपरिज्ञानार्थमध्यायारम्भः| अथातो दोषभेदीयमध्यायं व्याख़्यास्यामः| अत्र च यद्यप्यन्यदप्युच्यते, यथापि प्राधान्याद्दोषैरेव व्यपदेशः|| १||
Adhikarana mahABUteByaH doShANAM samBavaH (2) · Śloka 2
वाय्वाकाशधातुभ्यां वायुः|
आग्नेयं पित्तम्|
अम्भःपृथिवीभ्यां श्लेष्मा||२||
वायुना महाभूतस्वरूपेणाकाशधातुमिश्रितेन शरीरस्य वायोः सम्भवः| धातुग्रहणं शक्तिस्वरूपप्रदर्शनार्थम्| अन्यथा अमूर्तान्मूर्तसम्भवो विरुद्धः| पित्तमाग्नेयम्| अम्भसा पृथिवीमिश्रितेन श्लेष्मा निष्पद्यते|| २||
Adhikarana doShasthAnAni (3) · Śloka 3
तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनञ्च वातस्थानानि|
अत्र च पक्वाशयो विशेषेण|
नाभिरामाशयः स्वेदो लसिका रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि|
अत्र नाभिर्विशेषेण|
उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो ग़्राणं रसनं च श्लेष्मस्थानानि|
अत्राप्युरोविशेषेण||३||
तत्र पक्वाशयादीनि वातस्य स्थानानि| पक्वाशयं नाभेरधः| शेषं प्रसिद्धम्| श्रोत्रं श्रवणेन्द्रियाधिष्ठानम्| स्पर्शनं त्वक्| एषु च मध्ये विशेषेण पक्वाशयः स्थानम्| नाभिप्रभृतीनि पित्तस्थानानि| लसिका जलसदृशस्त्वचिः स्नेहः| उरःकण्ठादीनि श्लेष्मस्थानानि| क्लेम शारीरके वक्ष्यमाणम्|| ३||
Adhikarana doShANAM sthUNABidhAnaM tatropapattiSca (4) · Śloka 4
इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमागारमिव स्थूणात्रितयेन स्थिरीकृतम्|
अतश्च दोषा देहस्य स्थिरीकरणात् स्थूणा इत्युच्यन्ते||४||
एवमनेन प्रकारेणेदं स्थानत्रयसन्निवेशिना दोषत्रयेण स्थूणासदृशेन शरीरमगारसदृशं धार्यते| अ एव दोषा आचार्यैः स्थूणाशब्देनोच्यन्ते| स्थूणा अगारधारणस्तम्भा उच्यन्ते|| ४||
Adhikarana dhAtu-mala-doSha-saMj~jAnAmupapattiH (5) · Śloka 5
धारणाद् धातवः|
मलिनीकरणादाहारमलत्वाच्च मलाः|
दूषणस्वभावत्वादूषणस्वभावत्वाद्दोषा इति||५||
शेषमन्वर्थकथनं सुबोधम्|| ५||
Adhikarana doShANAM pratyekaM pa~jcavidhatvaM vAyoH praBedasthAnakarmANi ca (6) · Śloka 6
त एते प्रत्येकं पञ्चधा भिद्यन्ते|
तद्यथा-प्राणोदानव्यानसमानापानभेदैर्वायुः|
तत्र प्राणो मूर्ध्न्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठीवनक्षवथूद्गारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः|
उदान उरस्यवस्थितः कण्ठनासिकानाभिचरो वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्ण स्रोतःप्रीणनधीधृतिस्मृतिमनोबोधनादिक्रियः|
व्यानो हृद्यवस्थितः कृत्स्नदेहचरः शीघ्रतरगतिर्गतिप्रसारणा कुञ्चनोत्क्षेपावक्षेपनिमेषोन्मेषजृम्भणान्नास्वादनस्रोतो विशोधनस्वेदासृक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्य किट्टात्सारं तेन क्रमाशो धातूंस्तर्पयति|
समानोऽन्तरग्निसमीपस्थस्तत्सन्धुक्षणः पक्वा माशयदोषमलशुक्रार्तवाम्बुवहः स्रोतोविचारी तदवल म्बनान्नधारणपाचनविवेचन्किट्टाऽधोनयनादिक्रियः|
अपानस्त्वपानस्थितो बस्तिश्रोणिमेढ्रवृषणवङ्क्षणोरुचरो विण्मूत्रशुक्रार्तवगर्भनिष्क्रमनादिक्रिय इति||६||
ते चैते दोषाः प्रत्येकं पञ्चाभिः प्रकारैर्भिद्यन्ते| विशिष्ट स्थानाश्रयेण क्रियाभेदात्| यथैकोऽपि देवदत्तो यां यां क्रियां करोति तदनुरूपमेवानेकं पाचकलावकादिनाम लभते| तद्यथेत्यादिना तानेव पञ्च भेदान् दर्शयति| तत्र प्राणो मूर्ध्नि शिरसि स्थितः| प्रादान्येन कण्ठमुरश्चरति| बुद्ध्याद्याधारभूतम्| धमन्यः शरीरके वक्ष्यन्ते| ष्ठीवनं मुख़स्रावोत्सारणम्| प्रश्वासः श्वासप्रेरणमुच्छ्वासोऽन्तःप्रवेशनम्| अन्नस्य प्रवेशोऽन्नप्रवेशः| उदानः प्राधान्येनोरसि स्थितः नासिकादित्रितयं चरति| वाक्प्रवृत्त्यादिक्रियः| प्रयत्नः कार्येषु पदार्थग्रहणादिषूद्यमः| स्रोतसां प्रीणनं तर्पणं स्रोतःप्रीणनम्| धीप्रभृतीनां विबोधनेन सम्बन्धः| आदिग्रहणेन सर्वं तेषामेव संवाहनपरिपोषादिकं गृह्यते| व्यानः प्राधान्येन हृद्यवस्थितः कृत्स्नं निरवशेषं देहं चरति प्राणाद्यपेक्षया शीग़्रतरगतिः| गत्यादयश्च सर्वाः क्रियास्तदायत्ताः| गतिर्देशान्तरप्राप्तिः| प्रसारणमङ्गानां दीर्ग़ीकरणम्| आकुञ्चनं तेषामेव सङ्कोचः| उत्क्षेपोऽङ्गस्य ऊर्ध्वं नयनम्| अवक्षेपोऽधः| निमेषोऽक्ष्णः पुटाभ्यां पिधानम्| उन्मेषस्तस्यैव विकासः| जृम्भणं गात्रविनामः| अन्ना स्वादन्मिष्टानिग्रहः| स एव व्यानो योषिच्छरीरस्थः पुंसा सिक्तं शुक्रं योनिं प्रतिपादयति| अन्तर्योनिं नयतीत्यर्थः| स एव च व्यानोऽन्नस्य सम्बन्धि सारं किट्टाद्विभज्य पृथक्कृत्य तेनान्नसारेण धातून् रसादीस्तपर्यति| समानः प्राधान्येनान्तरा ग्निसमीपे तिष्ठति| तस्य चान्तराग्नेः सन्धुक्षक उद्दीपकः| अन्तराग्नेः स्थानमामाशयपक्वाशययोर्मध्यं नाभेरर्धाङ्गुलमात्रेण वामे पार्श्वे| स च समानः पक्वाशये दोषमलादिवः| स्रोतस्सु च विचरति| तदवलम्बनादिक्रियश्च| तेषामनन्तरोक्तानां स्रोतसाम वलम्बनं धारणं क्रिया यस्येति| अन्नस्यापक्वस्यामाशयधारण मन्नधारणम्| पाचनमन्नस्यैव| विवेचनं संहतस्यान्नस्य पाकाय विभजनम्| अपानस्तु प्राधान्येनापाने कटेरधस्तिष्ठति| बस्त्या दिप्रदेशचरः| विण्मूत्रादिनिष्क्रमणक्रियश्च| तन्निष्क्रमणे क्रिया प्रेरणमादिग्रहणेन विड्धारणादिपरिग्रहः| इति वायुभेदाः पञ्च|| ६||
Adhikarana pittasya pa~jca BedAH sthAnakarmANi ca (7) · Śloka 7
पाचकरञ्जकसाधकालोचकभ्राजकत्वभेदैः पित्तम्|
तत्र यदामाशयपक्वाशयमध्यस्थं पञ्चमहाभूतात्मकत्वेऽपि तेजोगुणोत्कर्षात् क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरनुग्राहाद् दहनपचना- दिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति, सारकित्तौ विभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृह्णाति तत्पाचकमित्युच्यते|
आमाशयस्थन्तु रसस्य रञ्जनाद्र ञ्जकम्|
दृष्टिस्थं रूपालोचनादालोचकम्|
त्वक् स्थं त्वचो भ्राजनात् भ्राजकम्|
तदभ्यङ्गपरिषेकालेपा दीन् पाचयति छायाश्च प्रकाशयति||७||
अतः परं पाचकादयः पञ्च पित्तभेदा उच्यते| तत्र तेषु पञ्चसु मध्ये पित्तस्य पञ्चभूतात्मकत्वेऽप्याग्नेयगुणोत्कर्षात् क्षपित सोमगुणमामाशयपक्वाशयमध्यस्थं क्षपितसोमगुणत्वाच्च त्यक्त द्रवस्वभावं सहकारिकारणैः पचनक्रियां प्रति सव्यापारैर्वायु क्लेदादिभिरनुग्रहादुपकाराद्या दहनपाचनादिका क्रिया तस्य, तयापि लब्धाग्निशब्दं यत् पित्तं तत् पाचकमित्युच्यते| तदत्रं पचति तत्सारत्वं किट्टत्वं चान्नस्य सम्पादयति| शोषाणि पित्त स्थानानि धात्वादीन्यनुगृह्णाति स्वस्थानस्थितमेव तेषूपकरोती त्यर्थः| यत्तु पित्तमामाशयस्थितं तद्रसाख़्यस्य धातो रक्तभावोत्पत्तौ रञ्जना-द्रागनिष्पादनाद्रञ्जकशब्देनोच्यते| यत्तु हृदयस्थं बुद्ध्यादिभिः कारणभूतैरभिप्रेथमर्थं बाह्यं ग्रहणस्मरणादिरूपेण साधयति तत्सा धकम्| दृष्टिस्थमन्तस्तारकस्थितं तु रूपस्यालोचनात् तदायत्त रूपग्रहणशक्तित्वादालोचकशक्तित्वेन आलोचकमुच्यते| त्वक्स्थं च त्वचो भ्राजनात् दीप्तिमत्ताकरणाद् भ्राजकशब्देनोच्यते| तद्भ्राजकमभ्यङ्गादीन् पाचयति| तेनैतदुक्तं भवति-न ह्यपक्वं द्रव्यं स्वं कार्यं करोति| दृश्यन्ते च अभ्यङ्गादिप्रयोक्तान्यौषधादीनि रागकाठिन्यादीनि नाशयन्ति तानि त्वक्स्थेन पित्तेन पच्यन्त इति| तदेव भ्राजकं याश्च्छायाः कान्तयो वक्ष्यमाणाः पञ्च नाभसाद्यास्ताः प्रकाशयति प्रकटयतीति पञ्च पित्तभेदाः|| ७||
Adhikarana SleShmaNaH pa~jca BedAH sthAnakarmANi ca (8) · Śloka 8
अवलम्बकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा|
स तूरस्थः स्ववीर्येना त्रिकस्यान्नवीर्येण च सह हृदय स्यच शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्म णावलम्बनादवलम्बक इत्युच्यते|
आमाशयस्त्थितोऽन्नसङ्ग़ातस्य क्लेदनात्क्लेदकः|
रसनास्थः सम्प्रग्रसबोधनात् बोधकः|
शिरस्थश्चक्षुरादीन्द्रियतर्पणात्तर्पकः|
पर्वस्थोऽस्थिसन्धिश्लेषणात् श्लेषक इति||८||
अवलम्बकादयः पञ्च श्लेष्मभेदाः| स तु श्लेष्मा उरस्थः सत्रिकस्य बाहुग्रीवांसयोगस्य हृदयस्य चोदककर्मणा तर्पणपूर णाद्याख़्येनावलम्बनादवलम्बकशब्देनोच्यते स त्रिकस्य स्ववीर्येण प्रभावेनैवावलम्बनं करोति| हृदयस्य पुनरन्नप्रभावसहितेन स्वभावेन| तेनैतदुक्तं भवति-हृदयस्यावलम्बनेऽन्नबलमपेक्षते| स्वल्पयाऽप्यन्नहान्या हृदयावलम्बनं कर्तुं न श्क्नोतीत्यर्थः| शेषाणां कण्ठादीनं श्लेष्मस्थानानामवलम्बनादवलम्बकः| स एव श्लेष्मा आमाशयस्थोऽन्नसङ्घातस्य क्लेदनात् क्लेदसंज्ञः| रसनास्थो जिह्वास्थः सम्यक् स्फुटं रसबोधनाद्बोधकसंज्ञः| शिरस्थ इन्द्रियाणां तर्पणात्तर्पकः| पर्वस्थोऽस्थिसन्धिस्थः द्वयोरस्थ्नोः सन्धिश्ले ष्णाश्चछ्लेषकसंज्ञः||८||
Adhikarana doShasthAnakathanopasaMhAraH (9) · Śloka 9
एवममिषु स्थानेषु भूयिष्ठमविकृताः सकलशरीरव्या पिनोऽपि वातपित्तश्लेष्माणो वर्तन्ते||९||
इत्येवमनेन प्रकारेणामीषु स्थानेषु अविकृता वातादयो वर्तन्ते सकलशरीरव्यापिनोऽप्यत्र सातिशयाः||९||
Adhikarana teShAM vRuddhihetuH (10) · Śloka 10
तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु||१०||
तेषां तु वातादीनां रोगविशेषकर्तृत्वे यो वृद्धिहेतुः स यथायथं ज्वरनिदानादिषु वक्ष्यते||१०||
Adhikarana teShAM vRuddhikShayalakShaNe (11) · Śloka 11
सामान्यतश्च वृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये||११||
अत एवाह सामान्यतो रोगविशेषानपेक्षया यद् वृद्धिलक्षणं तत् पूर्वाध्याये दोषादिविज्ञानीय उक्तम्||११||
Adhikarana vRuddherdvaividhyaM doShANAM sa~jcayaprakopapraSamahetavaSca (12) · Śloka 12
वृद्धिर्हि द्वेधा चयप्रकोपभेदेन|
तत्रोष्णगुणोपहिता रूक्षा दयो वायोः सञ्चयमापादयन्ति|
शीतगुणोपहिताः प्रकोप मुष्णगोणोपहिताः स्निग्धादयः प्रशमम्|
शीतगुणोप हितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मन्दादयः प्रशमम्|
शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रूक्षादयः प्रशमम्||१२||
सा च वृद्धिर्द्वेधा द्वाभ्यां प्रकाराभ्यां चयकोपभेदेन| तौ चय कोपौ वक्ष्यमाणलक्षणौ| तेषां वातादीनां यद्यपि वृद्धिकारणमुक्तं, तथाप्यस्मिन्नध्याये तस्मा एव वृद्धेरवस्थाविशेषेण कारण प्रदर्शनार्थमाह-तत्रोष्ण इत्यादि| तत्र रूक्षादयः प्रथमाध्या यानिर्दिष्टाः पञ्च वातगुणाः उष्णेन गुणेन विरुद्धेन युक्ता वायोश्चयं कुर्वन्ति| उष्णस्य विरुद्धत्वान्न कोपम्| त एव रूक्षादयः उष्णाभावे शितगुणसन्नियोगे च सति सदृशत्वाद्वायोः कोपं कुर्वन्ति| एतेषामेव च रूक्षादीनां षण्णां गुणानां विपरीताः स्निग्धादयः तस्मैव वायोः प्रशमम्| अनयैव दिशा पित्तश्लेष्मणोरुत्तरग्रन्थः स्वगुणान्वेयेनैव व्याख़्येयः| श्लेष्मणस्त्वयं विशेषः यच्छीतेन सदृशेनापि स्निग्धादिगुणयुक्तेन श्लेष्मणः स्त्यानत्वाच्चय एव भवति| विपरीतेनाऽप्युष्णेन विलयनात् कोपः| स एवोष्णो यदा रूक्षादिभिः संयोक्तो भवति तदा तस्यैव प्रशमं करोति||१२||
Adhikarana doShacayaprakopapraSamAnAM lakShaNam (13) · Śloka 13
चयो वृद्धिः स्वाधाम्न्येव प्रद्वेषो वृद्धिहेतुषु|
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता|
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः|
स्वस्थानस्थस्य समता विकारासम्भवः शमः|१३|
Adhikarana doShaprakopasthAnAnurodhena vikArasamBavaH (13) · Śloka 13
देहेऽक्रुद्धोऽनिलवशात्कृत्स्नेऽर्द्धेऽवयवेऽपि वा|
दोषा विकारं कुरुते ख़े वर्षमिव तोयदः||१३||
चयादीनां त्रयाणां लक्षणमुच्यते-चयो वृद्धिरित्यादिना| स्वधामन्यात्मीये स्थाने दोषस्य या वृद्धिः सञ्चयः| चीयमान- दोषवृद्धिहेतुषु प्रद्वेषः तद्विपरीतगुणौषधादिष्विच्छा च चयलक्षणम्| कोपस्तु वृद्धेरेवाधिक्याद्दोषस्य स्वस्थानात् स्थानान्तरगमनम्| अत्र च कोपो स्वेषां कुपितदोषस्यात्मीयानां लिङ्गानां दर्शनं तथाऽस्वस्थता रोगसम्भवश्चः| प्रशमस्तु दोषस्य स्वस्थानस्थस्यैव साम्यं विकारसम्भवश्च| ननु दोषा वृद्धाः क्व विकारं कुर्वत इत्याह-देह इत्यादि| सर्वो दोषो यत्रैव कुपितः कृत्स्ने वा देहेऽर्धे वा अवयवे एकदेशे वा देहस्य तत्रैव विकारं कुरुते| ननु कथं ते दोषाः क्रुद्धाः कृत्स्नं देहं कदाचिद् व्याप्नुवन्ति कदाचिन्नेत्याह-अनिलवशाद्वायोः प्रेरकस्य नानारूपत्वादित्यर्थः| वायोश्च वाय्वन्तरप्रेरणं दृष्टमेव| दुष्टान्तः ख़े वर्षमिव तोयद इति| यदा आकाशे तोयदो मेघोऽनिलवशाद्यत्रैव तिष्ठति तत्रैव वर्षं कुरुते||१३||
Adhikarana AviShkRutatamAnAM vikArANAM sa~gKyAnirdeSaH (14) · Śloka 14
अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतपन्ति|
आविष्कॄततमास्तु वायोरशीतिर्विकाराश्चत्वारिंशत्पित्तस्य विंशतिः श्लेष्मणः||१४||
ते च वातादयः प्रकुपिता नानाविधैः प्रमाणलक्षणक्रियास्थानादिभेदेन विकारैः शरीरमुपतपन्ति सन्तापयन्ति| तेषां विकाराणां ये प्रधाना विकारास्त उच्यन्ते||१४||
Adhikarana aSItiH vAtavikArAH (15) · Śloka 15
तत्र वातविकाराः|
तद्यथा-नख़भेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातख़ुड्डता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृध्रसी जानुभेदो जानुविश्लेषः उरुसादः उरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वंक्षणानाहः श्रोणिभेदो विड्भेद उदावर्तः ख़ञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायास्यता मुख़शोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैः श्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्ख़भेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षोपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नोऽनवस्थितचित्तता च||१५||
तत्र वातविकाराः| तद्यथा-नख़भेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातख़ुड्डता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृध्रसी जानुभेदो जानुविश्लेषः उरुसादः उरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वंक्षणानाहः श्रोणिभेदो विड्भेद उदावर्तः ख़ञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायास्यता मुख़शोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैः श्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्ख़भेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षोपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नोऽनवस्थितचित्तता च||१५||
Adhikarana catvAriMSatpittavikArAH (16) · Śloka 16
पित्तविकाराः पुनः-ओषः प्लोषः दवो दवथुर्विदाहो ऽन्तर्दाहस्त्वग्दाहोंऽसदाहो धूमकोऽम्लक ऊष्माधिक्य मतिस्वेदोऽङ्गगन्धोऽवयवसदनं शोणिक्लेदो मांसक्लेद स्त्वङ्मांसावदरणं चर्मदरणं रक्तकोटो रक्तविस्फोटो रक्तमण्डलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगन्धास्यता पूतिमुख़त्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाकोऽक्षिपाकः पायुपाको मेढ्रपाको जीवादानं तमःप्रवेशो हरि तहारिद्रनेत्रमूत्रशकृत्वञ्च||१६||
ओषादयः पीतशकृत्त्वान्ताश्चत्वारिंशत् पित्तविकाराः| अत्र प्राधान्येन पित्तम्||१६||
Adhikarana viMSatiH SleShmavikArAH (17) · Śloka 17
श्लेष्मविकारास्तु-तृप्तिस्तन्द्रा निद्राऽऽधिक्यं स्तैमित्यं गुरुगात्रताऽऽलस्यं मुख़माधुर्यं प्रसेकः श्लेष्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कण्ठोपलेपो धमनी प्रतिचयो गलगन्डोऽतिस्थौल्यं शीताग्नित्वमुदर्दः श्वेता वभासता श्वेतनेत्रमूत्रशकृत्त्वं च||१७||
तृप्त्यादयः श्वेतशकृत्त्वान्ता विंशतिः श्लेष्मविकाराः||१७||
Adhikarana dAhAdInAM lakShaNam (18) · Śloka 18
तत्र सर्वाङ्गीणस्तीव्रः सन्तापो दाहः|
स्वेदारतिमानोषः|
प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः प्लोषः|
मुख़ो ष्ठतालुषु दाहो दवः|
चक्षुरादीन्द्रियेषु दाहो दवथुः|
पाणिपादांसमूलेषु विविधः सन्तापो विदाहः|
कोष्ठे दाहोऽन्तर्दाहः|
शिरोग्रीवाकण्ठतालुषु धूमायनं धूमकः|
सान्तर्दाहहृदयशूलोद्गारोऽम्लकः|
शोणितस्य कृष्णता दौर्गन्ध्यतनुत्वानि क्लेदः|
मांसस्य तु कृष्णता दौर्गन्ध्यञ्च|
बाह्यत्वक्संहतिश्चर्म कोथः|
कोष्ठगौरवादाहारस्पृहा तृप्तिः|
अन्ये पुनराहुः-अन्नानभिनन्दता तृप्तिरिव तृप्तिररोचकः|
निद्रार्त्तस्येव विषयाग्रहणं तन्द्रा|
स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितम्|
उपलेप इवोपलेपः|
तदतिशयः प्रतिचयोऽतिपूरणम्|
अग्नेरति मन्दता शैत्यम्|
उरसोऽभिष्यन्द उदर्दः|
केषाञ्चिच्छीतवेपथुरुदर्दः|
अन्ये पुनराहुः- शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः|
सरागकण्डूः शोफ स्यादुदर्दः स कफोद्भवः||१८||
एषु च विकारेषु मध्ये केचिद् ग्लानिरौक्ष्यपारुष्यादयो लोके प्रसिद्धाः| केचित् पक्षवधाक्षेपकादयः स्वतन्त्रप्रसिद्धाः| केचित् वृषणाक्षेपनख़भेदादयोऽन्वर्थवन्तः| ये त्वप्रसिद्धा विलक्षणा अन्यर्थयुक्ताश्च तेषां तन्त्रकारः स्वयमेव लक्षणं तन्त्रे व्यवहारार्थं सर्वाङ्गीण इत्यादिना दर्शयति| यः सर्वाङ्गभवस्तीव्रश्च दाहः स सामान्यशब्दवाच्यः, स एव स्वेदेनारत्या च युक्त ओष इत्युच्यते| प्रादेशिको दाहो यः क्वचिदेवाङ्गावयवे स्वेदरहितस्ती क्ष्णोऽग्न्यर्चिषेव ज्वलनज्वालयेव दाहः प्लोषशब्दवाच्यः| मुख़े वा ओष्ठे वा तालुनि वा दाहो दवशब्देनोच्यते| चक्षुरादिष्वि न्द्रियेषु दाहो दवथुः| एष हि विषयग्रहणावसाने इन्द्रियाधिष्ठा नस्य भवति| अथवा इन्द्रियाधारस्य नेत्रादेराधेयेन चक्षुरादीन्द्रि येण व्यपदेशः| पाण्यादिषु नानास्वऱ्रूपः सन्तापो विदाहशब्दवाच्यः| कोष्ठेऽन्तःशब्देन शारीरके अन्तःकोष्ठो महास्रोत इति| तेनैतदुक्तं भवति-अन्तर्दाहशब्देन कोष्ठदाह उच्यते| अन्तःशिरःप्रभृतिषु धूमावृत्तमिव धूमकः| हृदयशूलः सान्तर्दाहः सकोष्ठदाहः साम्लोद्गारश्चाम्लकशब्दवाच्यः| शोणितस्य रक्तस्य कृष्णतादीनि क्लेदशब्दवाच्यानि| तेनैतदुक्तं भवति-रक्तस्य कार्ष्ण्यं दौर्गन्ध्यं तनुत्वं च यदुत्पद्यते स शोणितक्लेदः| मांसस्य कार्ष्ण्यं दौर्गन्ध्यं च मांसक्लेदशब्देनोच्यते| कक्ष्या नाम पिटका क्षुद्ररोगे वक्ष्यते| बाह्यत्वचः संहतिश्चर्मकोथ शब्देनोच्यते| अनेनैतदुक्तं भवति- या अन्तःशरीरास्त्वचस्ता अपि| अन्यत्सुबोधम्| इयं तृप्तिः श्लेष्मविकारपठिता गृह्यते| न तु नञाभिसम्बद्धा पित्तभवा| तत्र बह्वपि भुञ्जानोऽत्रे जीर्यमाणेऽजीर्यमाणे वा तृप्यति| निद्रार्तस्य जाग्रत एवेत्यर्थः| स्तैमित्यं त्वन्यैस्तन्त्रकारैः प्रमीणकमिति पठितम्| अनेन स्तैमित्यप्रमीलकयोः पर्यायत्वं दर्शयित्वा स्तैमित्यशब्देन सुबोधत्वाद् व्यवहारं करोति| उपलेप इव केनचित् पिष्ठेन कण्ठे हृदये चोपलेपः| धमनीप्रतिचयः पुनर्धमनीषु शारीरकवक्ष्य माणासु तस्यैवोपलेपस्यातिशयोऽतिपूरणमेव| अग्निशैत्यमग्नेरतिमाद्यं निरूष्मत्वमिति यावत्| उदर्द उरसोऽभिष्यन्दोऽन्तर्वक्षःस्रोतसां स्रावः| केषाञ्चिदाचार्याणां मतम्, यथा शीतेन यो वेपथुः कम्पः स उदर्दशब्दवाच्यः| अन्ये पुनराचार्याः शीतपानीयेत्यादिना लक्षणेनोदर्दमाहुः| तन्त्रकारोऽतस्तन्त्रान्तरश्लोकं स्वयं पठति| इत्याविष्कृततमाः प्रायोभवा विकाराः||१८||
Adhikarana mahAvikArakShudravikArayornAmakaraNavidhiH (19) · Śloka 19
महाविकारास्तु यथास्वमेवो देक्ष्यन्ते|
क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते|
यथा नख़शङ्ख़ललाटभेदाः सान्तर्दाहकण्ठहृदयोपलेपादयः|
तेषां हि तथैव स्वरूपमुपदिष्ठं भवति||१९||
महाविकाराः पुनर्गुल्मज्वरादयो यथास्वमात्मीयेषु निदाने षूपदेक्ष्यन्ते| ये तु क्षुद्रविकाराः स्वल्पास्ते यस्मिन्नेवाङ्ग उत्पद्यन्ते संवित्तिविशेषेण लब्धव्यपदेशास्तदाश्रयाङ्गनामौपपदं नाम व्यवहाराय लभन्ते| यथा भेदेनेव संविद्यमाना पीडा नख़ाश्रिता तदुपपदमेव नख़भेद इति नाम लभते| उपपदं समीपपदम्| तेषां हि क्षुद्रविकाराणां तथैव नाम्नैव स्वरूपमर्थमुपदिष्टमुक्तं भवति||१९||
Adhikarana anuktavikAreShvapi cikitsopakramaH (20) · Śloka 20
सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसङ्ख़्येयत्वाद्विकारेषु इमान्येव दोषाणामात्मलिङ्गानि सकलशरीरव्यापीन्यव्य भिचारीणि च|
तथा कर्माण्युपक्रमश्च|
तत्रात्मलिङ्गान्यायुष्कामीये निर्दिष्टानि||२०||
सर्वेषु तूक्तेषु दोषजेषु विकारेष्वानन्त्यादनुक्तेषु च इमान्येवाग्रे उद्दिश्यमानानि विकारारम्भकदोषाणामात्मलिङ्गानि स्वरूपलक्षणानि| किम्भूतानि आह-सकलशरीरव्यापीनि| तेनैतदुक्तं भवति| सर्वस्यैव वकारस्यारम्भकदोषस्वरूपलक्षणेन विना सम्भवो न भवति| तथा व्यभिचारीणि च विकारं न व्यभिचरन्तीत्यर्थः| अनेनैतदुक्तं भवति यद् वाताविकारेषु वातस्य स्वरूपलक्षणान्येव भवन्तीत्येवं पित्तश्लेष्मविकारेष्वपि वाच्यम्| नान्यदोषजेषु विकारेष्वन्यदोषजानि लक्षणानि भवन्तीत्यर्थः| न केवलमात्मलक्षणानि यावत् कर्माण्यपि दोषजानि सामान्येन विकारेष्वेवानुस्यूतान्युपक्रमश्च तथैव| तेनैतदुक्तं भवति| यत्र विकारसामान्ये वायुस्वरूपलक्षणं वायुकर्माणि च दृश्यन्ते स विकारो वातजो ज्ञेयः| तत्र वातोपक्रम एव कार्य इत्युक्त्याऽनुक्तविकारो सामान्येन| एवं पित्तकफयोरपि वाच्यम्| तत्र वातादीनामात्मलिङ्गानि आयुष्कामीयाऽध्याये तत्र रूक्षेत्यादिना निर्दिष्टानि| कर्माणि दोषाणामसाधारण्येन स्रंसव्यासेत्यादिना दर्शयति||२०||
Adhikarana doShANAM karmANi (21) · Śloka 21
कर्माणि तु वायोः स्रंसव्यासङ्गसादभेदतोदहर्षतर्षवर्त्ता ङ्गिमर्दकम्पव्यथवेष्टभङ्गशूलशोषस्वापपारुष्यसौषिर्यसङ्कोच स्पन्दनानि कषायरसत्वं श्यावारुणवर्णता च|
पित्तस्य दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ज्यवर्णता च|
श्लेष्मणः कण्डूस्थैर्यगौर वोपदेहस्नेहशैत्यबन्धनचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति||२१||
स्रंसः बाह्वादिसन्धिभ्रंशः| व्यासः शारीराणां भावानां व्यायतत्वम्| सङ्गो नैकत्रस्थितानामेकत्र सङ्घटनम्| वर्त्तः काठिन्यापादनम्| अन्यत्र वर्त्तो व्यवहारः| स्पन्दः किञ्चिच्चलनम्| कम्पस्त्वतिशयेन| कषायरसत्वं रसान्तरेऽपि कषायग्रहः| दाहादीनि पित्तकर्माणि| कोथः कलेदस्यातिशयेन विच्छिन्नत्वं कट्वम्लरसत्वं पूर्ववद्व्याख़्येयम्| शुक्लारुणवर्णयोः प्रतिषेधेन तच्छेषनानावर्णसम्भवं दर्शयति| कण्डूस्थैर्यादीनि श्लेष्मविकाराः| इति दोषाणां कर्माणि| स्वरूपलक्षणमस्माभिः प्रथमाध्याय आत्रेयमतानुसारिभिरुक्तम्||२१||
Adhikarana kapilabalamatena doShasvalakShaNAni suSrutamata~jca (22) · Śloka 22
कपिलबलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश कट्वम्ललवणं पित्तं स्वाद्वम्ललवणं कफः|
कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः|
सुश्रुतः पुनः पठति-पित्तं विदग्धमम्लतामुपैति, श्लेष्मा लवणताम्||२२||
आचार्यकपिलबलस्त्वेषां रसस्वरूपेणैव निर्दिदेश| न तु शीतादिगुणान्तरस्वरूपेणेत्यर्थः| तच्च कपिलबलग्रन्थं वाग्भटः कट्वम्लेत्यादिना स्वयं पठति| ननु वायोरमूर्तत्वान्मूर्तधर्मानुगः कथं ज्ञायत इत्याह-दृष्टोऽनुमानत इति| तत्रानुमानं तथाविधै राहारौषधैर्वृद्धिः| तेन कार्यत् कारणानुमानमुक्तम्| वृद्धिश्च समानेनेति दृष्टमेतच्च शारीरस्य वायोर्विज्ञयेम्||२२||
Adhikarana prakaraNopasaMhAraH (23) · Śloka 23
तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्ष येदागमप्रत्यक्षानुमानैः|
अनन्तरञ्च देशकालमात्रादीन् प्रमाणीकृत्याश्वेवोपक्रमेतेति||२३||
इति कपिलबलमतं दर्शयित्वा पित्तं विदग्धमित्यादिना श्लेष्मा लवणतामित्यन्तेन ग्रन्थेन सुश्रुतमतं पठति| अनेनैतत् दर्शयति| याथा सुश्रुतः कपिलबलमतमेव वेशेषयति| यथा येयं पित्त स्याम्लता श्लेष्मणश्च लवनता वा सा विदाहावस्थायामेव न तु सततम्| तदेतदेवमेतानि वाय्वादीनां रूपाणि कर्माणि चावहितोऽवधानवानागमादिभिः सम्यगुपलक्षयेत्| आगमः शास्त्रादिषु साधुपुरुषकथितः| प्रत्यक्षमितीन्द्रियेण विषयग्रहणं, तत्पूर्वकमेव हेत्वादिभिः पदार्थविशेषावच्छेदनमनुमानम्| इति वाय्वादिस्वरूपकर्माण्युपलक्ष्य देशादीन् प्रमाणीकृत्यावेक्ष्याशु शीघ्रं तानुपक्रमेत चिकित्सेत्| आदिग्रहणेन बलाहारसात्म्यासत्त्वादिपरिग्रहः एतान्यप्यवेक्ष्येत्यर्थः||२३||
Adhikarana doShANAM triShaShTirBedAH (24) · Śloka 24
भवन्ति चात्र वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः|
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव|
त्रीनेव समया वृद्ध्या षडेकस्यातिशायने|
त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु|
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्|
पञ्चविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः|
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्|
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते|
भेदा द्विषष्टिर्निर्दिष्टास्त्रिषष्टिः स्वास्थ्यकारणम्||२४||
भवन्ति चात्रेपि तन्त्ररीतिः| अतः परं दोषा वातादयो वृद्धिक्षयकृतेन भेदेन वक्ष्यन्ते| तत्र वृद्धेरेव प्रथममुच्यते| पृथगसंहतैर्वृद्धैस्त्रीन् भेदान् विद्धि जानीहि| तत्र वायुर्वृद्धः पित्तं वृद्धं कफो वृद्धः| संसर्गो द्विदोषसंयोलक्षणस्त्रिप्रकारो वातपित्तं, वातकफं, पित्तकफमिति| एतद् गणनायां न प्रविशति त्रयमनूद्यमानत्वात्| तत्र त्रिप्रकारेऽपि संसर्गे तान् भेदान् नव विद्धीति विधीयते| कथमित्याह-त्रीनेवेत्यादि| समया परस्परापेक्षया अन्यूनाधिकया वृद्ध्या त्रीन् भेदान्| तत्र वातपित्ते समया वृद्ध्या वृद्धे| वातकफौ समया वृद्ध्या वृद्धौ| कफपित्ते समया वृद्ध्या वृद्धे| एकस्योभयोरन्यतरस्यातिशयेन षड् भेदान् विद्धि| तत्र वायुरधिकया वृद्ध्या वृद्धः पित्तम्| हीनया| वायुर्हीनया वृद्धः पित्तमधिकया| कफो हीनया पित्तमधिकतया| पित्तं हीनया कफोऽधिकया वायुरधिकया कफो हीनया| वायुर्हिनया कफोऽधिकया इति संसर्गे नव| समस्तेषु त्रयोदश भेदान् विद्धीति सम्बन्धः| समस्तेषु सन्निपातेष्वित्यर्थः| कथमित्याह-षड्द्व्येकातिशयेन| तत्र द्वयोरेकस्य वा त्रयाणां मध्येऽन्यतमस्यातिशयेन षट्| तत्र द्व्यतिशयेन त्रीनेकातिशयेन त्रीनिति| अत्र वातपित्तेऽधिकया वृद्ध्या वृद्धे| कफो हीनया| वातकफावधिकया वृद्ध्या वृदौ| पित्तं हीनया| कफपित्तेऽधिकया वायुर्हीनया| इति द्व्यतिशयः| एकातिशयेन यथा वायुरधिकया कफपित्ते हीनया| पित्तमधिकया वातकफौ हीनया| कफोऽधिकया वातपित्ते हीनया| इति षट्| एकं तुल्याधिकैः समवृद्धैरित्यर्थः| वातपित्तकफाः समवृद्धाः| तारतम्यविकल्पनात् षड् भेदात् विद्धि| एकोऽधिकोऽन्योऽधिकतरोऽन्योऽधिकतमः इत्यर्थः| तत्र वायुर्हीनया पित्तं मध्यमा कफोऽधिकया| पित्तमूनया, वायुर्मध्यया, कफोऽधिकया| कफो हीनया, वायुर्मध्यया, पित्तमधिकया| कफो हीनया, पित्तं मध्यमा, वातोऽधिकया| वायुर्हीनया, कफो मध्यया, पित्तमधिकया| पित्तं हीनया, कफो मध्यया वायुरधिकया| इति समस्तेषु त्रयोदश| इत्येवमनेन प्रकारेण वृद्धैः पञ्चविंशतिः| तत्र पृथक् त्रयः संसर्गो नवधा| समस्तेषु त्रयोदश चेति| क्षीणैश्चैतावन्त एव पञ्चविंशतिरेवेत्यर्थः| तत्र वृद्धिस्थानोपक्षेपेण क्षयशब्दस्य गणनीयम्| इति संसर्गसन्निपातभेदा उक्ताः| अनन्तरं पृथग्भूतेन विशेषेण भेदा उच्यन्ते| ते च भेदा दोषेष्वेकैकस्य वृद्ध्या समानया क्षयेण च षट्| एको वृद्धोऽन्यः समोऽन्यः क्षीण इत्यर्थः| तत्र वायुर्वृद्धः पित्तं समं कफः क्षीणः| वायुर्वृद्धः पित्तं क्षीणं कफः समः| वायुः समः पित्तं वृद्धं कफः क्षीणः| वायुः समः पित्तं क्षीणं कफो वृद्धः| वायुः क्षीणः पित्तं समं कफो वृद्ध इति षट्| सविपर्यया एकक्षयद्वन्द्ववृद्ध्या पुनः षडेव भेदा भवन्तीति वाक्यशेषः| द्वन्द्वस्य वृद्धिर्द्वन्द्ववृद्धिः| एकस्य क्षयः एकक्षयः| तेन सहिता द्वन्द्ववृद्धिः सह विपर्ययेण वर्तत इति सविपर्ययया| द्वन्द्वक्षयैकवृद्ध्या इति विपर्ययार्थः| तत्रैकक्षयद्वन्द्ववृद्ध्या यथा वायुः क्षीणः कफपित्ते वृद्धे| पित्तं क्षीणं वातकफौ वृद्धौ| कफः क्षीणः वातपित्ते वृद्धे| द्वन्द्वक्षयैकवृद्धिरुच्यते| वातपित्ते क्षीणे कफो वृद्धः| वातकफौ क्षीणं पित्तं वृद्धम्| कफपित्ते क्षीणे वायुर्वृद्ध इति षट्| इति द्विषष्टिभेदा निर्द्दिष्टाः| तत्र वृद्ध्या पञ्चविंशतिः क्षयेण पञ्चविंशतिः| एकैकवृद्धिसमताक्षयैः षट्| पुनः षट्| त्रिषष्टो भेदः स्वास्थ्यकारणम्| समरूप इत्यर्थः||२४||
Adhikarana yugapadvRuddhisAmyakShayAnugadoShavikAravarNanam (25) · Śloka 25
रोग्यवस्थासु युगपद् व्रुद्धिसाम्यक्षयानुगम्|
षट्कं हि दुर्बोधतरं विकारैरुपदेक्ष्यते|
प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये|
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति|
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितौ|
गात्रोद्देशे तथा स्यातां बलहानिपरिश्रमौ|
प्रकृतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली|
कर्षेत्कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्|
प्रकृतिस्थं यदा वातं पित्तं वृद्धं कपक्षये|
संरुणद्धि तदा दाहः शूलं चास्योपजायते|
प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा|
सन्निरुन्ध्यात्तदा कुर्यात्स तन्द्रागौरवं ज्वरम्|
प्रकृतिस्थं यदा वायुं वृद्धः पित्तक्षये कफः|
सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्|
प्रकृतिस्थं यदा पित्तं वृद्धः श्लेष्मानिलक्षये|
सन्निरुन्ध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्|
निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवम्|
ष्ठीवनं पित्तकफयोर्नख़ादीनां च पीतताम्||२५||
एषु च मध्ये वृद्धिसाम्यक्षयानुगं यत् षट्कं तद्विकारैरुपदेक्ष्यते| यतो रोग्यवस्थासु युगपद् वृद्धिसाम्यक्षयानुरूपेण यत् षट्कं तद् दुर्बोधतरम्| तच्चोच्यते-प्रकृतिस्थमित्यादिना| वृद्धो वायुः कफो क्षीणे सति पित्तं प्रकृतिस्थमादाय यत्र यत्र गात्रेषु नानाविधेष्ववयवेषु विसर्पति प्रसरति| तत्र गात्रोद्देशे यत्र पित्तमादाय वायुर्गतस्तस्मिन्ननवस्थितौ भेददाहौ स्याताम्| अनवस्थितावनियतौ बलहानिपरिश्रमौ च स्यातामिति सम्बन्धः| वायुर्बली पित्ते क्षीणे सति प्राकृतं कफं यदा स्वस्थानादाकर्षेत्, तदा तत्र सशैत्यस्तम्भगौरवं शूलं कुर्यात्| पित्तं वृद्धं कफे क्षीणे वातं प्रकृतिस्थं यदा संरुणद्धि प्रतिबध्नाति तदा तस्य पुरुषस्य तत्र तत्र वृद्धदोषस्थाने दाहः शूलं च जायते| पित्तं वृद्धं वायुक्षये सति प्रकृतिस्थमेव कफं यदा सन्निरुन्ध्यात्तदा सतन्द्रागौरवं ज्वरं कुर्यात्| तन्द्रा आलस्यातिशयः| कफो वृद्धः पित्ते क्षीणे प्रकृतिस्थमेव वायुं यदा सन्निरुन्ध्यात्तदा शीतकं शीतपूर्वकं ज्वरं कुर्यात्| अङ्गानां गौरवं रुजं च| कफो वृद्धो वायौ क्षीणे प्रकृतिस्थमेव यदा पित्तं सन्निरुन्ध्यात् तदा मन्दाग्नित्वादीन् पुरुषस्य कुर्यात् उपलेप इवोपलेपो गात्राणाम्| इति षट्के वृद्धिसाम्यक्षयानुगे विकाराः कीर्तिताः||२५||
Adhikarana anuktalakShaNasamAveSaH (26) · Śloka 26
ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्|
शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्||२६||
ननु च शेषेषु भेदेषु को विकारसमूह इत्याह- ये दोषेत्यादि| पुऱ्र्वेऽध्याये दोषाणां वातादीनां वृद्धानां क्षीणानां च कार्श्यकार्ष्ण्य कम्पस्फुरणेत्यादिना ग्रन्थेन विकाराः कीर्तिताः तानेव विकारान् वृद्धक्षीणदोषानुगमनेन शेषदोषभेदेष्वपि कल्पयेत्| यथायथं वृद्धक्षीणदोषानुगमनेन शेषदोषभेदेष्वपि कल्पयेत्| यथायथं वृद्धिक्षयतारतम्यानुगुण्येन विकाराणामपि तारतम्यं लक्षयेदित्यर्थः||२६||
Adhikarana doShANAM saMsargAdiBirAnatyam (27-20) · Śloka 20
संसर्गाद्रसरुधिरादिभिस्तथैषां दोषाणां क्षयसमाविवृद्धभेदैः|
आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्||२७||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दोषभेदीयो नाम विंशोऽध्यायः||२०||
एतांश्च वातादीन् दोषानानन्त्यं यातानसङ्ख़्यत्वं प्राप्तान वहितमानसो नियतचित्तो यथास्वे रूपैर्जानीयादुपलक्षयेदित्यर्थः| कथमानन्त्यमित्याह-रसरुधिरादिभिः संसर्गात्संयोगात्| तथा तेषां रसादीनां क्षयादिभेदैस्तथा तारतम्ययोगैश्च| तेनैतदुक्तं भवति-वृद्धिक्षयतारतम्यस्यावस्थारूपत्वादवस्थानाञ्च बहुसंयोगादिकृतत्वादानन्त्यम्| रसरक्तादिसंयोगेन एकद्वित्र्यादितार तम्याच्चानन्त्यमिति||२७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायं सूत्रस्थान विंशोऽध्यायः