Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. dōṣabhēdīyaḥ

Adhikarana atha doShaBedIyo nAma viMSo~adhyAyaH pratij~jA (1) · Śloka 1

अथातो दोषभेदीयं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana mahABUteByaH doShANAM samBavaH (2) · Śloka 2

वाय्वाकाशधातुभ्यां वायुः| आग्नेयं पित्तम्| अम्भःपृथिवीभ्यां श्लेष्मा||२||

🔊 Audio coming soon

Adhikarana doShasthAnAni (3) · Śloka 3

तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनञ्च वातस्थानानि| अत्र च पक्वाशयो विशेषेण| नाभिरामाशयः स्वेदो लसिका रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि| अत्र नाभिर्विशेषेण| उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो ग़्राणं रसनं च श्लेष्मस्थानानि| अत्राप्युरोविशेषेण||३||

🔊 Audio coming soon

Adhikarana doShANAM sthUNABidhAnaM tatropapattiSca (4) · Śloka 4

इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमागारमिव स्थूणात्रितयेन स्थिरीकृतम्| अतश्च दोषा देहस्य स्थिरीकरणात् स्थूणा इत्युच्यन्ते||४||

🔊 Audio coming soon

Adhikarana dhAtu-mala-doSha-saMj~jAnAmupapattiH (5) · Śloka 5

धारणाद् धातवः| मलिनीकरणादाहारमलत्वाच्च मलाः| दूषणस्वभावत्वादूषणस्वभावत्वाद्दोषा इति||५||

🔊 Audio coming soon

Adhikarana doShANAM pratyekaM pa~jcavidhatvaM vAyoH praBedasthAnakarmANi ca (6) · Śloka 6

त एते प्रत्येकं पञ्चधा भिद्यन्ते| तद्यथा-प्राणोदानव्यानसमानापानभेदैर्वायुः| तत्र प्राणो मूर्ध्न्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठीवनक्षवथूद्गारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः| उदान उरस्यवस्थितः कण्ठनासिकानाभिचरो वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्ण स्रोतःप्रीणनधीधृतिस्मृतिमनोबोधनादिक्रियः| व्यानो हृद्यवस्थितः कृत्स्नदेहचरः शीघ्रतरगतिर्गतिप्रसारणा कुञ्चनोत्क्षेपावक्षेपनिमेषोन्मेषजृम्भणान्नास्वादनस्रोतो विशोधनस्वेदासृक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्य किट्टात्सारं तेन क्रमाशो धातूंस्तर्पयति| समानोऽन्तरग्निसमीपस्थस्तत्सन्धुक्षणः पक्वा माशयदोषमलशुक्रार्तवाम्बुवहः स्रोतोविचारी तदवल म्बनान्नधारणपाचनविवेचन्किट्टाऽधोनयनादिक्रियः| अपानस्त्वपानस्थितो बस्तिश्रोणिमेढ्रवृषणवङ्क्षणोरुचरो विण्मूत्रशुक्रार्तवगर्भनिष्क्रमनादिक्रिय इति||६||

🔊 Audio coming soon

Adhikarana pittasya pa~jca BedAH sthAnakarmANi ca (7) · Śloka 7

पाचकरञ्जकसाधकालोचकभ्राजकत्वभेदैः पित्तम्| तत्र यदामाशयपक्वाशयमध्यस्थं पञ्चमहाभूतात्मकत्वेऽपि तेजोगुणोत्कर्षात् क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरनुग्राहाद् दहनपचना- दिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति, सारकित्तौ विभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृह्णाति तत्पाचकमित्युच्यते| आमाशयस्थन्तु रसस्य रञ्जनाद्र ञ्जकम्| दृष्टिस्थं रूपालोचनादालोचकम्| त्वक् स्थं त्वचो भ्राजनात् भ्राजकम्| तदभ्यङ्गपरिषेकालेपा दीन् पाचयति छायाश्च प्रकाशयति||७||

🔊 Audio coming soon

Adhikarana SleShmaNaH pa~jca BedAH sthAnakarmANi ca (8) · Śloka 8

अवलम्बकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा| स तूरस्थः स्ववीर्येना त्रिकस्यान्नवीर्येण च सह हृदय स्यच शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्म णावलम्बनादवलम्बक इत्युच्यते| आमाशयस्त्थितोऽन्नसङ्ग़ातस्य क्लेदनात्क्लेदकः| रसनास्थः सम्प्रग्रसबोधनात् बोधकः| शिरस्थश्चक्षुरादीन्द्रियतर्पणात्तर्पकः| पर्वस्थोऽस्थिसन्धिश्लेषणात् श्लेषक इति||८||

🔊 Audio coming soon

Adhikarana doShasthAnakathanopasaMhAraH (9) · Śloka 9

एवममिषु स्थानेषु भूयिष्ठमविकृताः सकलशरीरव्या पिनोऽपि वातपित्तश्लेष्माणो वर्तन्ते||९||

🔊 Audio coming soon

Adhikarana teShAM vRuddhihetuH (10) · Śloka 10

तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु||१०||

🔊 Audio coming soon

Adhikarana teShAM vRuddhikShayalakShaNe (11) · Śloka 11

सामान्यतश्च वृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये||११||

🔊 Audio coming soon

Adhikarana vRuddherdvaividhyaM doShANAM sa~jcayaprakopapraSamahetavaSca (12) · Śloka 12

वृद्धिर्हि द्वेधा चयप्रकोपभेदेन| तत्रोष्णगुणोपहिता रूक्षा दयो वायोः सञ्चयमापादयन्ति| शीतगुणोपहिताः प्रकोप मुष्णगोणोपहिताः स्निग्धादयः प्रशमम्| शीतगुणोप हितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मन्दादयः प्रशमम्| शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रूक्षादयः प्रशमम्||१२||

🔊 Audio coming soon

Adhikarana doShacayaprakopapraSamAnAM lakShaNam (13) · Śloka 13

चयो वृद्धिः स्वाधाम्न्येव प्रद्वेषो वृद्धिहेतुषु| विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता| लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः| स्वस्थानस्थस्य समता विकारासम्भवः शमः|१३|

🔊 Audio coming soon

Adhikarana doShaprakopasthAnAnurodhena vikArasamBavaH (13) · Śloka 13

देहेऽक्रुद्धोऽनिलवशात्कृत्स्नेऽर्द्धेऽवयवेऽपि वा| दोषा विकारं कुरुते ख़े वर्षमिव तोयदः||१३||

🔊 Audio coming soon

Adhikarana AviShkRutatamAnAM vikArANAM sa~gKyAnirdeSaH (14) · Śloka 14

अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतपन्ति| आविष्कॄततमास्तु वायोरशीतिर्विकाराश्चत्वारिंशत्पित्तस्य विंशतिः श्लेष्मणः||१४||

🔊 Audio coming soon

Adhikarana aSItiH vAtavikArAH (15) · Śloka 15

तत्र वातविकाराः| तद्यथा-नख़भेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातख़ुड्डता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृध्रसी जानुभेदो जानुविश्लेषः उरुसादः उरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वंक्षणानाहः श्रोणिभेदो विड्भेद उदावर्तः ख़ञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायास्यता मुख़शोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैः श्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्ख़भेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षोपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नोऽनवस्थितचित्तता च||१५||

🔊 Audio coming soon

Adhikarana catvAriMSatpittavikArAH (16) · Śloka 16

पित्तविकाराः पुनः-ओषः प्लोषः दवो दवथुर्विदाहो ऽन्तर्दाहस्त्वग्दाहोंऽसदाहो धूमकोऽम्लक ऊष्माधिक्य मतिस्वेदोऽङ्गगन्धोऽवयवसदनं शोणिक्लेदो मांसक्लेद स्त्वङ्मांसावदरणं चर्मदरणं रक्तकोटो रक्तविस्फोटो रक्तमण्डलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगन्धास्यता पूतिमुख़त्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाकोऽक्षिपाकः पायुपाको मेढ्रपाको जीवादानं तमःप्रवेशो हरि तहारिद्रनेत्रमूत्रशकृत्वञ्च||१६||

🔊 Audio coming soon

Adhikarana viMSatiH SleShmavikArAH (17) · Śloka 17

श्लेष्मविकारास्तु-तृप्तिस्तन्द्रा निद्राऽऽधिक्यं स्तैमित्यं गुरुगात्रताऽऽलस्यं मुख़माधुर्यं प्रसेकः श्लेष्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कण्ठोपलेपो धमनी प्रतिचयो गलगन्डोऽतिस्थौल्यं शीताग्नित्वमुदर्दः श्वेता वभासता श्वेतनेत्रमूत्रशकृत्त्वं च||१७||

🔊 Audio coming soon

Adhikarana dAhAdInAM lakShaNam (18) · Śloka 18

तत्र सर्वाङ्गीणस्तीव्रः सन्तापो दाहः| स्वेदारतिमानोषः| प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः प्लोषः| मुख़ो ष्ठतालुषु दाहो दवः| चक्षुरादीन्द्रियेषु दाहो दवथुः| पाणिपादांसमूलेषु विविधः सन्तापो विदाहः| कोष्ठे दाहोऽन्तर्दाहः| शिरोग्रीवाकण्ठतालुषु धूमायनं धूमकः| सान्तर्दाहहृदयशूलोद्गारोऽम्लकः| शोणितस्य कृष्णता दौर्गन्ध्यतनुत्वानि क्लेदः| मांसस्य तु कृष्णता दौर्गन्ध्यञ्च| बाह्यत्वक्संहतिश्चर्म कोथः| कोष्ठगौरवादाहारस्पृहा तृप्तिः| अन्ये पुनराहुः-अन्नानभिनन्दता तृप्तिरिव तृप्तिररोचकः| निद्रार्त्तस्येव विषयाग्रहणं तन्द्रा| स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितम्| उपलेप इवोपलेपः| तदतिशयः प्रतिचयोऽतिपूरणम्| अग्नेरति मन्दता शैत्यम्| उरसोऽभिष्यन्द उदर्दः| केषाञ्चिच्छीतवेपथुरुदर्दः| अन्ये पुनराहुः- शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः| सरागकण्डूः शोफ स्यादुदर्दः स कफोद्भवः||१८||

🔊 Audio coming soon

Adhikarana mahAvikArakShudravikArayornAmakaraNavidhiH (19) · Śloka 19

महाविकारास्तु यथास्वमेवो देक्ष्यन्ते| क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते| यथा नख़शङ्ख़ललाटभेदाः सान्तर्दाहकण्ठहृदयोपलेपादयः| तेषां हि तथैव स्वरूपमुपदिष्ठं भवति||१९||

🔊 Audio coming soon

Adhikarana anuktavikAreShvapi cikitsopakramaH (20) · Śloka 20

सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसङ्ख़्येयत्वाद्विकारेषु इमान्येव दोषाणामात्मलिङ्गानि सकलशरीरव्यापीन्यव्य भिचारीणि च| तथा कर्माण्युपक्रमश्च| तत्रात्मलिङ्गान्यायुष्कामीये निर्दिष्टानि||२०||

🔊 Audio coming soon

Adhikarana doShANAM karmANi (21) · Śloka 21

कर्माणि तु वायोः स्रंसव्यासङ्गसादभेदतोदहर्षतर्षवर्त्ता ङ्गिमर्दकम्पव्यथवेष्टभङ्गशूलशोषस्वापपारुष्यसौषिर्यसङ्कोच स्पन्दनानि कषायरसत्वं श्यावारुणवर्णता च| पित्तस्य दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ज्यवर्णता च| श्लेष्मणः कण्डूस्थैर्यगौर वोपदेहस्नेहशैत्यबन्धनचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति||२१||

🔊 Audio coming soon

Adhikarana kapilabalamatena doShasvalakShaNAni suSrutamata~jca (22) · Śloka 22

कपिलबलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश कट्वम्ललवणं पित्तं स्वाद्वम्ललवणं कफः| कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः| सुश्रुतः पुनः पठति-पित्तं विदग्धमम्लतामुपैति, श्लेष्मा लवणताम्||२२||

🔊 Audio coming soon

Adhikarana prakaraNopasaMhAraH (23) · Śloka 23

तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्ष येदागमप्रत्यक्षानुमानैः| अनन्तरञ्च देशकालमात्रादीन् प्रमाणीकृत्याश्वेवोपक्रमेतेति||२३||

🔊 Audio coming soon

Adhikarana doShANAM triShaShTirBedAH (24) · Śloka 24

भवन्ति चात्र वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः| पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव| त्रीनेव समया वृद्ध्या षडेकस्यातिशायने| त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु| एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्| पञ्चविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः| एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्| एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते| भेदा द्विषष्टिर्निर्दिष्टास्त्रिषष्टिः स्वास्थ्यकारणम्||२४||

🔊 Audio coming soon

Adhikarana yugapadvRuddhisAmyakShayAnugadoShavikAravarNanam (25) · Śloka 25

रोग्यवस्थासु युगपद् व्रुद्धिसाम्यक्षयानुगम्| षट्कं हि दुर्बोधतरं विकारैरुपदेक्ष्यते| प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति| तदा भेदश्च दाहश्च तत्र तत्रानवस्थितौ| गात्रोद्देशे तथा स्यातां बलहानिपरिश्रमौ| प्रकृतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली| कर्षेत्कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्| प्रकृतिस्थं यदा वातं पित्तं वृद्धं कपक्षये| संरुणद्धि तदा दाहः शूलं चास्योपजायते| प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा| सन्निरुन्ध्यात्तदा कुर्यात्स तन्द्रागौरवं ज्वरम्| प्रकृतिस्थं यदा वायुं वृद्धः पित्तक्षये कफः| सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्| प्रकृतिस्थं यदा पित्तं वृद्धः श्लेष्मानिलक्षये| सन्निरुन्ध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्| निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवम्| ष्ठीवनं पित्तकफयोर्नख़ादीनां च पीतताम्||२५||

🔊 Audio coming soon

Adhikarana anuktalakShaNasamAveSaH (26) · Śloka 26

ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्| शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्||२६||

🔊 Audio coming soon

Adhikarana doShANAM saMsargAdiBirAnatyam (27-20) · Śloka 20

संसर्गाद्रसरुधिरादिभिस्तथैषां दोषाणां क्षयसमाविवृद्धभेदैः| आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्||२७|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दोषभेदीयो नाम विंशोऽध्यायः||२०||

🔊 Audio coming soon