Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

21. dōṣōpakramaṇīyaḥ

Adhikarana atha doShopakramaNIyo nAmaikaviMSo&dhyAyaH pratij~jA (1) · Śloka 1

अथातो दोषोपक्रमणीयमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

पूर्वे&अम्प्;ध्याये विकृतान् दोषानाश्वेवोपक्रमेतेत्युक्तं तमेवोपक्रमं रोगविशेषानपेक्षया सामान्यरूपेणैवास्मिन्न्न्ध्याये दर्शयति-अथात इत्यादि||१||

Adhikarana vAtasyopakramaH (2) · Śloka 2

वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यवहार्याणि चाभ्यङ्गपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहनपीडनानि वित्रासनविध्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयद्रव्योपहितास्तथा शतपाकसहस्रपाकाः सर्वशः प्रयोगार्था बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसो&अम्प्;नुवासनानि सुख़शीलता स्त्रीसम्पर्कवर्ज्यश्च हैमन्तो विधिः||२||

🔊 Audio coming soon

तत्र वातस्योपक्रमः स्नेहस्वेदौ शोधनप्रयोजने तु संशोधनान्यौषधानि | किम्भूतान्याह- मृदून्यतीक्ष्णानि स्निग्धादिगुणसंयुक्तानि अभ्यवहार्याणि च| च शब्दान्मृद्वादिगुणयुक्तान्येवाहारद्रव्याणि| तथोपनाहादीनि पीडितान्तान्यभ्यङ्गपूर्वकमेवाङ्गेषु कार्याणि|उपनाहः स्निग्धोष्णवातहरकृतः पिण्डबन्धः | उपवेष्टनं वस्त्ररज्वादिना | उन्मर्दनं पाण्यादिभिः| अवगाहो वातहरद्रव्यपूर्णद्रोन्यां मज्जनम्| संवाहनं मृदुसुख़ं पाणिमर्दनम्| तथा वित्रासनादीनि| वित्रासनं भयङ्करैर्ज़टिति त्रासनम्| विस्मरणं वातवेगोद्भूतस्य सम्बाधस्य| सुराया आसवस्य च विधानम्| विधान शब्देन मांसापूपसंयोगादिशास्त्रोक्तं विधानं दर्शयति| स्नेहा अनेकयोनयः स्थावरजङ्गमजाः | तथा दीपनीयादिभिः सहिताः सिद्धाश्च तैः शतपाकसहस्रपाकग्रहणेन स्नेहानां यथाश्क्यं पुनः पुनर्द्रव्येण पाकः प्रदर्शितः| प्रायोगिक बलस्तयो वक्ष्यमाणलक्षणाः | बस्तावनुपयुज्यमाने&अम्प्;पि बस्तिनियमो बस्तिविध्युक्त आचारः| सर्वेभ्यो&अम्प्;पि विशेषात्तैलादि प्राधान्येनावश्यं योज्यमित्यर्थः| सुख़शीलता सौख़्यवृत्तित्वं हैमन्त ऋतुचर्यायां हेमन्तोक्तः| इति वातस्योपक्रमः||२||

Adhikarana pittasyopakramaH (3) · Śloka 3

पित्तस्य सर्पिष्पानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गन्धानामुपसेवा परमशिशिरसुरभिसलिलमज्जनम्| मनोनुकूलसंस्पर्शसुखानां मुक्तामणिवैडूर्याश्मगर्भशङ्खशिलापद्मरागचन्द्रकान्तकान्ततरतरलावलीनां भ्रामरत्रासितसहस्रपत्रासितोत्पलकदलीदलनवमालिकाकुन्दमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजाञ्च धारणमुरसा| क्षणे क्षणे चागुरुचन्दनप्रियङ्गुकालेयकमृणालकर्पूरसुगन्धिशीतस्वच्छगन्धवारिभिः सकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभित्तीनामभिप्रोक्षणम्| श्रुतिसुखमृदुमधुरमनोनुगानां गीतवादित्राणामभ्युदयानाञ्च श्रवणम्| अयन्त्रणैः समानविषयवेषचरितैरुत्सवोत्सवतरान्योन्यदर्शनैः सुहृद्भिः सहासनम्| अनृतवचनविरहस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिदायिनामनुपचारमधुरकोमलोल्लापानां प्रियाणामपत्यकानां सदयमाश्लेषः| निर्दयञ्च तनुतरमृदुसुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रयालङ्कारिभिः सहचरीनिनादसञ्जल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापशिञ्जितानुगमनसम्मुग्धमृदुवचनाभिर्निजजघननिबिडकुचयुगलालङ्कारभारोद्वहनश्रमश्वसनकम्पितमध्यमुकुलितलोचनोत्पलाभिः किञ्चिद्विगलितनवयौवनाभिः प्रियाङ्गसङ्गमात्रातिमात्रसुखास्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मयस्मितकोपप्रसादसाध्वसस्रस्तस्विन्नसर्वाङ्गद्रवीकृतहिमाङ्गरागाभिः समस्तदेहहृदयप्रह्लादकारिणीभिर्विलासवतीभिश्चतुरङ्गमिवानङ्गबलमङ्गैस्तनुभिरपि समुद्वहन्तीभिरङ्गनाभिराश्लेषः| सकलरजनीकरकरनिकरावकीर्णशिशिरतराणि भवनतलसलिलपुलिनानि| अतिसितसिकतोपस्तृततलमनेककाययन्त्रप्रवृत्तविमलसलिलधारं धारागृहम्| सागरानुकारितोयाशयोपतीरसुनिविष्टकुसुमितबहुविटपपृथुतुङ्गविविधतरतटरुहतरुनिवहबहलच्छायोपस्ञ्छन्नं धवलरक्तनीलिनीरजरजोव्याप्तसमस्तजलविपुलसिकतिलतलोपकल्पितं दोलायमानगणतिपृथुदृतिकलशसरणकरकस्रवदुदकप्रवाहाहितमृत्सौरभभूतैलकदशं प्रलम्बमानाम्बजम्बूकदम्बविदुलनिचुलादिकिसलयमञ्जरीस्तबकप्रत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचन्दनानुविद्धावलग्नपतितशेषमुक्ताफलायमानजललवमुच्छ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थसन्तताम्बुशीतशीकराभिषेकप्रतिहतसन्तापदाहमोहश्रमक्लमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमम्बुधरकाललीलाविडम्बिकायमानम्| प्रफुल्लपद्मोत्पलपुण्डरीकसौगन्धिककोकनदशतपत्रपरागरागानुरञ्जितजलचरविहगगणकलनिनदरम्या दीर्घिकाः| मधुपानलोभनिलीयमानालिकुलचलितलताप्रताननिपतितविविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि| विशेषस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भावाः दिवास्वप्नवर्ज्यश्च ग्रैष्मो विधिः||३||

🔊 Audio coming soon

पित्तस्योच्यते| सर्पिष्पानमभ्यासेन| भविष्यत् संशोधनाय च सर्पिषैव स्नेहनम् न तैलादिना| तथाऽधोमार्गेणैव दोषहरणं विरेचनमेव,न वमनमित्यर्थः| मधुरादिगुणयुक्तानामौषधानामभ्यवहार्याणां चोपयोगः| तथा मृद्वादिगुणयुक्तानां गन्धानामुपसेवनम्| मृदुरतीक्ष्णः| चन्दनादिशीतद्रव्यप्रभावत्वात् गन्धः शीतः| अथवा गन्धानामिति गन्धद्रव्याणाम्| सर्वत्र चैवं गन्धशब्देन गन्धद्रव्याणां व्यवहारः| परमशिशिरसुरभिणि जले मज्जनम्| परमशब्दोऽत्यर्थ पर्यायः| तथोरसा वक्षसा तरलावलीनां स्रजां च धारणम्| आवल्य आभरणगुणाः| तरलैरुपलक्षिता आवल्यस्तरलावल्यः| तरलोहरमध्यमणिः| मुक्तादिभिर्मणिरत्नैः कान्ततरास्तरलावल्यस्तथोक्ताः|स्रजो मालास्ताश्च किम्भूतास्तामरसादिभिर्नानावर्णैः प्रसूनैः पुष्पैर्विरचितास्तथा क्षणे क्षणे प्रतिक्षणं वासगृहे भूमितलादीनां गन्धवारिभिः प्रोक्षणं सिञ्चनम्| गन्धोपलक्षितानि वारीणि गन्धवारीणि स्वच्छानि च तानि गन्धवारीणि स्वच्छगन्धवारीणि| अग्र्यचन्दनादिभिः सुगन्धीनि शीतानि च स्वच्छगन्धवारीणि तथोक्तानि | तैः सकलादिभिरग्र्यचन्दनं हरिचन्दनम्| कालेयचन्दनं रक्तचन्दनम्| कमलं पद्मम्| कुमुदं श्वेतसरोजम्| कुवलयं नीलोत्पलम्| कवाटो द्वारच्छादन पटः| वातयनं गवाक्षः | हर्म्यं गृहम् | तथा शृतिसुख़त्वादियुक्तानां गीतादीनां श्रवणम्| अयन्त्रणत्वदिगुणयुक्तैः सुहृद्भिः सहासनम्| प्रियाणामपत्यकानां च सदयं कृत्वाऽऽश्लेषः किम्भूतानामनृतवचनविरहस्वभावेनैव सुरभितमिववदनकुड्मलं येषामित्यर्थः| कुड्मलं मुकुलम्| अतिस्पष्टं न वदन्तीति नातिस्पष्टाभिधयिनः| अनुपचारेण स्वभावेनैव मधुरः कोमलश्चोल्लाप आलपो येषां ते तथोक्ताः| निर्दयमङ्गनाभिराश्लेष इति सम्बन्धः| किम्भूताभिस्तनूनि मृदूनि सुरभीणिच वसनानि वासांसि यासां ताभिः तथ मल्लिकामुकुलसदृशमुक्तफलभूयिष्ठालङ्काराभिः| तथा सहचारीनिनादसञ्जल्पेनोपजनितमौत्सुक्यं यस्य कलहंसस्य तेनानुनादितं यन्नूपुरयो रशनाकलापस्य च शिञ्जितं तदनुगमनेन सम्मुग्धमस्फुटोपलक्ष्यमाणं मुग्धस्निग्धमप्रौढं मृदुवचनं यासां ताभिः|तथा निजजग़नवन्निबिडं यत् कुचयुगलं तत्सम्बन्धी योलङ्कारभारस्तद्वहनेन योऽसौ श्रमश्वसनस्तेन कम्पितानि मध्यमुकुलितानि लोचनोत्पलानि यासां ताभिः| तथा किञ्चिद्विगलितं नवयौवनं यासां ताभिः | तथा प्रियङ्गसङ्गमात्राद्योऽतिमात्रः सुख़स्तस्यास्वादने एकाग्रचित्ततया योऽसौ विस्रंस्यमानः स्थानात् भ्रश्यमान अंशुकस्तेनैककालोपजातैर्व्ऱीडावैलक्ष्यादिभिर्यानि स्रस्तानि शिथिलानि स्विन्नानि चाङ्गानि तैर्द्रवीकृतो हिमः शीतोऽङ्गरागो यासां ताभिः| तथा स्पर्शनेन सकलदेहप्रह्लादकारिणीभिर्दर्शनेन हृदयप्रह्लादकारिणीभिः| तथा विलासवतीभिः | तथा तनुभिरप्यङ्गैरनङ्गस्य बलं चतुरङ्गमिवोद्वहन्तीभिः अनङ्गबलं कमस्य सकलजयसम्पादनी सेना | चतुरङ्गहस्त्यश्वरथपदातिसङ्कुलं तथा भवनतलसलिलपुलिनानि क्रीडाजलाशयतटानीत्यर्थः | किम्भूतान्याह- सकलरजनीकरस्य करनिकरावकिरणेन शिशिरतराणि | तथा धारागृहं अतिसिताभिः सिकताभिरुपास्तृततलमनेकैर्यन्त्रैः प्रवृत्तिविमलसलिलधारं च| तथा कायमानम् | किम्भूतं सागरानुकारी यस्तोयाशयः तस्योपतीरे यः सुनिविष्टः कुसुमितबहुविटपानां पृथुतङ्गानां विविधानां तटरुहाणां तरूणां निवहः तच्छाययोपसञ्छन्ने धवलानां रक्तानाञ्च नीरजानां रजसा व्याप्तसमस्तजले विपुले सिकतिले प्रदेश उपकल्पितम्| तथा दोलायमानानां गणतिथानां बहुप्रकाराणां दृतिकलशानां सरणेनकरकस्रवन्त्य उदकप्रवाहः तेनाहितमृत्सौरभो भूतलैकदेशो यस्मिन् | सरणं पातः | करकस्तुषारः| तथा प्रलम्बमानैराम्रजम्ब्वादिकिसलयादिभिः प्रत्युप्ताः परिकलिताः पटालिकाः पटकुट्यो यस्मिन्| तथा मुहुर्मुहुः प्रतिक्षणं पुरुषयत्नप्रेरितानां ग़टानां मुख़ोद्गीर्णश्चन्दनेनानुविद्धा अवलग्नाः सन्तः पतितशेषा मुक्ताफलायमाना जललवा यस्मिन्| तथा उछ्रायविस्तारवन्तो निषिद्धा दूरप्रविसृताः शीतवातप्रवेशा वातायनादयो यत्र | तथात्यर्थसन्तताम्बुनः शीतशीकराभिषेकेण प्रतिहताः सन्तापादयो यस्मिन्| तथातिशयप्राप्तं रामणीयकं रम्यत्वं यस्मिन् | हिमाचलेन स्पर्धते शैत्यं यस्मिन् यथोक्तेन छायाम्बुशैत्यादिना वर्षाकाललीलां विडम्बयन्तीति | तथा गुहपुष्करिण्यः किम्भूता प्रफुल्लानां पद्मादीनां परागरागेणानुरञ्जितानां जलचरविहगगणानां निनादेन रम्याः | तथोपवनानि किम्भूतानि मधुपानलोभेन निलीयमानेनालिकुलेन चलिताल्लातप्रतानान्निपतितकुसुमनिचयेन शय्यारचनायां सव्यापरो मृदुपवनो येषु| इति पित्तोपक्रमः | विशेषस्तु ग़ृतादिः पित्तोपक्रमः| दिवस्वप्नः पित्तश्लेष्मकरत्वादहितः||३||

Adhikarana kaphasyopakramaH (4) · Śloka 4

श्लेष्मणः पुनर्विधिविहितानि तीक्षानि संशोधनानि रूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्ग़कालस्थितानि हृद्यानि मद्यानि धावनलन्मर्दनस्नानोच्छादनानि| विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगडूषः सुख़प्रतिषेधः सुख़ार्थमेव वासन्तिको विधिरिति||४||

🔊 Audio coming soon

श्लेष्मणः उपक्रमः शास्त्रोक्तविधिना विहितानि तीक्ष्णानि संशोधनानि वमनविरेचनानि | विधिग्रहणमुत्केशरक्षणार्थम्| आहारद्रव्याणि च रूक्षभूयिष्ठानि कट्वादिरसमिश्राणि | मद्यानि तीक्ष्णादि गुणयुक्तानि| धावनाद्याश्च क्रियाः| धावनं द्रुतगमनम्| लङ्ग़नङ्गमनम्| प्लवनं पद्भ्यामुत्प्लवनम्| नियुद्धं बाहुयुद्धं युद्धं काष्ठादिभिः| व्यवायः स्त्रीगमनम्| व्यायामो वाहनादि शरीरायसजननं कर्म| तथारूक्षाणि रूक्षद्रव्यकृतान्यङ्गानामुन्मर्दनादीनि| विशेषतो मध्वादीन्युपक्रमः| सर्वशोवमनानि सर्वाणीत्यर्थः सुख़कारणस्यासेवा सुख़प्रतिषेधः| स च सुखार्थं दोषोपशमायेत्यर्थः||४||

Adhikarana saMsargasannipAteShu cikitsAtideSaH (5) · Śloka 5

भवन्ति चात्र- उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः| संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्| ग्रैष्मः प्रायो मरुत्पित्ते वसन्तः कफमारुते| मरुतो योगवाहित्वात् कफपित्ते तु शारदः||५||

🔊 Audio coming soon

भवन्ति चात्रेति पद्यारम्भे समुच्चयतीति| दोषान् पृथगुद्दिश्य योऽयमुपक्रमः कीर्तितः स एव संसर्गेषु सन्निपातेषु च यथास्वं कार्यः प्रवृद्धदोषानुसरणेनेति यथास्वशब्दार्थः| न केवलमेतद्यावदिदमपि| मरुत्पित्ते वातपित्ते ग्रैष्मो विधिः शीतपधानः कार्यः| कफ्मारुते वसन्तो विधि रूक्षप्रधानः कार्यः| ननु ग्रैष्मवासन्तिकयोः कथं संसर्गस्य वातशमकारणत्वं शीतादिसादृष्यादाह- मरुतो योगवाहित्वाद्वायुर्योगवाही| येनैव संयुज्यते तेनैवैकयोगक्षेमो भवतीत्यर्थः| तेन पित्तेन सहितस्य वायोः पित्तचिकित्सा | कफेन सहितस्य कफचिकित्सेति| अत्र स्वभावो हेतुः| कफपित्ते तु शारदो विधिरिति सम्बन्धः||५||

Adhikarana vAtAdiShu krameNa lavaNAdiprayogavidhiH (6) · Śloka 6

योज्यः पट्वम्लमधुरा वायौ क्रुद्धो रसाः क्रमात्| पित्ते तिक्तस्ततः स्वादुः कषायश्च रसो हितः| कटुकः प्राक् ततस्तिक्तः कषायोऽन्ते कफामये||६||

🔊 Audio coming soon

तथा क्रुद्धे वायवादौ लवणो रसो योज्यः| पश्चादम्लः| ततो मधुरः| एवं क्रमेणैव पित्ते तिक्तादयः| कफे कटुकादयः | युक्तिश्चात्र मन्दबुद्धिसम्मोहभयान्नोच्यते||६||

Adhikarana vAyvAdInA~jcayAdiShu kAlastatra hetuSca (7) · Śloka 7

चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु| वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु| चीयते लग़ु रूक्षाभिरोषदीभिः समीरणः| तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुपय्ति| अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्| पित्तं याति चयं कोपं न तु कालस्य शैत्यतः| चीयते स्निग्धशीताभिरुदकौषधीभिः कफः| तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति| इति कालस्वभावोऽयम्..........................||७||

🔊 Audio coming soon

एषां च दोषाणामाहाराद्यनपेक्षया कालस्वभावेनैव चयादय उच्यन्ते| तत्र वायोर्ग्रीष्मादिषु त्रिष्वृतुषु क्रमेण् चयादयो भवन्ति| ग्रीष्मे वातवृद्धिकारणबहुत्वाच्छीतरहितत्वेनापरिपूर्णत्वाच्च वातस्य चय एव भवति| वर्षासु तु शीतपूरणादौष्ण्याभावाद्वायुः कुप्यत्येव| सरदि तु वैपरीत्यात् कालस्य प्रशाम्यति| एवं पित्तकफयोरपि ऋतुषु क्रमेणैव चयादयो वाच्याः| ग्रीष्मवर्षाशिशिरेषु वातादयश्चयमेव यान्ति| ननु कुप्यन्तीत्यत्र तन्त्रकारः स्वयमेव हेतुं वक्ति-चीयत इत्यादि| ग्रीष्मे लग़ुत्वाद्रूक्षत्वाच्चौषधीनां समीरणो वायुः स्वरूपेण तद्विध औषधीसदृशो लग़ुरूक्ष अदानत्वाच्च तद्विधे लग़ुरूक्षे देहे चीयत एव| न तु कुप्यति, कालस्योष्णत्वात्| वर्षास्वद्भिरौषधीभिश्चाम्लविपाकाभिस्तादृशमम्लं पित्तं चयमेव याति| नतु कोपम्| कालस्य शैत्येन पित्तवैपरीत्यात्| शिशिरे स्निग्धशीतेनोदकेन ओषधीभिश्च कालेऽपि कफेन सदृशे विसर्गत्वाद्देहेऽपि स्निग्धशीते कफः शितत्वेन स्कन्नत्वात् स्त्यानत्वान्न कुप्यति| चयमेव याति| इत्याहारादिनिरपेक्षः कालस्वभावः||७||

Adhikarana AhArAdivaSattu sadya eva doShANAM cayAdisamBavAsamBavau (8) · Śloka 8

................................आहारादिवशात् पुनः| चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु||८||

🔊 Audio coming soon

आहारादिवशत् यथायथं वातादयश्चयं वा कोपं वा शमं वा सद्य एव प्राप्नुवन्ति| पूर्वोक्ते वा काले न प्राप्नुवन्ति| यथा वर्षास्वपि वातविपरीताहारादिसेवनेन वायुर्न कुप्यति | शीतादि सेवनात्तु ग्रीष्मे कुप्यति| एवं सर्वत्रोह्यम्||८||

Adhikarana kupitadoShavyAptinivRuttikramaSca (9) · Śloka 9

व्याप्नोति सहसा देहमपादतलमस्तकम्| निवर्तते तु कुपितो मलोऽल्पाल्वं जलौग़वत्||९||

🔊 Audio coming soon

अयं च सञ्चितो मलो वातादिदोषः कुपितः सन् सहसा क्षिप्रतरमेवापादतलमस्तकं देहं व्याप्नोति| कोपात्तु यदा निवर्तते तदाल्पाल्पम्| अत्र दृष्टान्तो जलौग़ः| यथा जलौग़ो ज़टित्याक्रामति| आक्रम्य च कारणान्तरेण क्षीयमाणः क्रमेण क्षयं याति | तद्वत् कुपितो दोष इति||९||

Adhikarana doShasyopakramakAlaH kramaSca parASarasammatiH (10) · Śloka 10

चय एव जयेद्दोषं कुपितं त्वविरोधयन्| सर्वकोपो बलीयांसं शेषदोषाविरोधतः| क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले| वातादीनां यथा पूर्वं यतः स्वाभाविकं बलम्| ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्| यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्| नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः||१०||

🔊 Audio coming soon

सर्वं च दोषं चय एव चय कालएव जयेत्| यदा तु चयकाल उपेक्षितः सन् कुपितस्तदाऽविरोधयन् अकुपितेन दोषान्तरेणेत्यर्थाल्लभ्यते| तेन कुपितस्तथा जेतव्यः यथा तद्विपरीतैराहारादिभिः सदृशत्वाद्दोषान्तरं न कुप्यतीति| यदा तु सर्वे दोषा असाम्येन युगपत्कुपितास्तदा बलीयांसमधिककुपितं जयेत्| शेषयोस्त्वल्पकुपितयोरविरोधेन| यद तु सर्वे साम्येन कुपितास्तदा मरुत्पित्तकफान् क्रमाज्जयेत्| आदौ वायुर्जेतव्यः| ततः पित्तं | ततः कफ इति| कुतः यतो वातादीनां यथापूर्वं स्वाभाविकं बलम्| स्वभावेनैव कफात् पित्तं बलवत्| ततो वायुरिति| पराशरोऽप्यृषिरमुमेवास्मदुक्तमर्थं प्रमाणयन् दृढीकुर्वन् यथोक्तोपन्यासेन वातादिक्रमेण दोषाणां भिषग्जितमौषधं प्राप्तमित्यूचे वक्ति स्म| दृष्टान्तरूपेण् च हेतुं वक्ति| नेतृभङ्गेन समं नायकविनाशेनैककालं सैन्यपराजयो दृष्टः| वायुश्च नेतृस्थानीयः तदायत्तत्वाच्छारीराणाम् दोषधात्वादीनाम्| पित्तकफौ सैन्यस्थानीयौ| स्थानान्तरगमनादिषु वायुपरायत्वात्| तेन वायावादौ प्रधाने नाशिते पित्तकफनाशः सुकर इति||१०||

Adhikarana keShA~jcinmatena sthAnAnukrameNopakramaH (11) · Śloka 11

स्थानतः केचिदिच्छन्ति प्राक्तावच्छ्लेष्मणो वधम्| शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः| तदभावे कथं भोज्यपानद्रव्यावचारणम्| असत्यभ्यवहारे च कुतो दोषविनिग्रहः| तस्मादादौ कफो ग़ात्यः कायद्वारार्गलो हि सः| मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते| अतो वातसख़स्यास्य कुर्यात्तदनु निग्रहम्||११||

🔊 Audio coming soon

केचित् पुनराचार्याः शरीरस्थानानुक्रमेण प्रथमं श्लेष्मणो वधं नाशमिच्छन्ति स्थानानुक्रमात्ततः पित्तस्य ततो वायुरिति| अस्मिंश्चार्थे युक्तिः का? आह- शिरसीत्यादि| शिरसि वक्षसि कण्ठे च वृद्धेन सन्निपातकुपितेन श्लेष्मणा प्रलिप्ते सति कुतोऽन्नरुचेः सम्भवः| रुच्यभावे च भोज्यादीनामवचारणं कथम्| न सज्जत इत्यर्थः| असति च भोज्याभ्यवहारे दोषस्य नाशयितव्यस्य क्षयं कर्तुं न पार्यते| अत आदावेव कफो घात्यः| यस्मात् कफः प्रवृद्धः कायद्वारस्य महास्रोतोमुखस्यार्गल इवार्गलो बन्ध इत्यर्थः| ततः कफे नष्टे वातसख़ं पित्तम्| तत्रापि पित्तस्यैवादौ निग्रहं कुर्यात्| यतः पित्तं देहस्य मध्ये प्रधाने भागे तिष्ठति| आशु च स्वं कर्म रोगाख़्यं करोति| पित्ते जिते वायुर्जेतव्यः इत्यनुक्तमपि बलाल्लभते||११||

Adhikarana suSrutamatena pittAdikaPAntakramaH jvarAtisArayorviSeShaSca (12) · Śloka 12

अत एव च पित्तादिः कफान्तोऽन्यै क्रमः स्मृतः| सुश्रुतश्च न सर्वत्र मतमेतत् ब्रवीति तु| जयेज्ज्वरेऽतिसारे च क्रमात्पित्तकफानिलान्| प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते| विशश्च सरणं पित्तस्तथा च मृदुकोष्ठता| तस्य चाऽनुबलः श्लेष्मा गौरवाऽपक्तिजाड्यकृत्| वायुश्च वर्धतेऽवश्यं यात्यहस्सु तयोः क्षये| ज्वरातिसारयोस्तस्मादेष दोषजये कृतः||१२||

🔊 Audio coming soon

अथवा पित्तस्य वातसख़स्य निग्रहं कुर्यादिति वायोर्योगवाहित्वात् पित्तैककालमेव चिकित्सां कुर्यात्| अन्यैश्चाचार्यैरत एव पित्तस्य मध्यस्थायित्वादाशुकारित्वाच्च हेतोः पित्तादि कफान्तः सन्निपाते क्रम आश्रितः| काये विचारादिक्षमत्वात् पित्तानन्तर्येण वायोश्चिकित्सा | एतच्च यः पित्तादिः कफान्ते दोषजयक्रमस्तत् सुश्रुतस्य मतमेव न तु सर्वत्र| कथमेतद्विज्ञायत इत्याह- ब्रवीतितु सुश्रुतः| किमित्याह- जयेदितादि| अनेन श्लोकत्रयेण सुश्रुतमतं सुयुक्तिकं पठति| ज्वरेऽतिसारे चाऽदौ पित्तं जयेत्| ततः कफम्| ततोऽनिलमिति| कथमेवमित्याह- प्रायेणेत्यादि| सर्वो ज्वरः सन्तापस्वरूपत्वात् पित्तकार्यः| एवमतिसारोऽपि विट्सरणमृदुकोष्ठस्वरूपत्वात् पित्तकार्य एव| अतो ज्वरातिसारयोरेवादौ पित्तं जयेत्| पित्ते च जिते तदुभयाङ्गभूतानां गौरवादीनां कारणं श्लेष्मा जेयः| तयोः पित्तश्लेष्मणोः क्षीणयोस्तत्क्षयप्रभावादेवाहस्सु यात्यवश्यं वायुवृद्धिं यात्यतस्स जेयः| अतः कारणात् सुश्रुतेन दोषजये एष पित्तदिर्वातान्तः क्रमः आश्रितः||१२||

Adhikarana jvarAtIsArayoScikitsAkrame matAntarANi (13) · Śloka 13

कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि| यस्मादामाशयोत्क्लेशाद्भूयिष्ठं तत्समुद्भवः| क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाश्रये स्थितान्| स्वाश्रयेषु प्रदुष्टानां स्थितैव ह्याषुकारिता||१३||

🔊 Audio coming soon

अन्ये पुनराचार्यास्तयोरपि ज्वरातिसारयोः क्रमात् कफपित्तानिलान् जेयानाहुः| अत्र च युक्तिं वदन्ति- आद्येन पित्तादिना वातान्तेन क्रमेण भूयिष्ठमत्यर्थं तत्समुद्भवः ज्वरातिसारसमुद्भवः| कुतः आमाशयोत्क्लेशात्तयोः | आमाशयोत्क्लेशे च पित्तहरं शीतादिकमपथ्यमित्याहुर्मतानि| तत्रापि स्थितेऽप्येवं सर्वाश्रये स्थितान् सतः प्रवृद्धान् जयेत्||१३||

Adhikarana pUrvoktakramaNe BeShajaM yojayet (14) · Śloka 14

विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम्| भेषजं योजयेत्तत्तत् तन्त्रीकुर्यान्नन् तु क्रमम्||१४||

🔊 Audio coming soon

यतः स्वाश्रयेषु दुष्टानां बलित्वादाशुकारिता स्थितैव | अथवा दोषाणां पूर्वोक्तैर्यथास्वं कर्मभिरुद्रेकं बलञ्च विज्ञाय भेषजं योजयेत्| न तु तन्त्री | तन्त्रज्ञः क्रमं कुर्यात्||१४||

Adhikarana SuddhaprayogalakShaNam (15) · Śloka 15

प्रयोगः शमयेद् व्याधिं योन्यमन्यमुदीरयेत्| नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्||१५||

🔊 Audio coming soon

तथा य औषधाहारादियोजनारूपः प्रयोगः एकं व्याधिं शमयत्यन्यमुदरीयति च | असौ प्रयोगो न विशुद्धः | यस्त्वेकं शमयेदन्यं च न कोपयेत् सः शुद्धः||१५||

Adhikarana doShA anyonyaM na jayanti (16) · Śloka 16

क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि| दोषा दोषात्मकत्वाच्च न समेऽपि परस्परम्| शीतद्रवाम्ललवणकट्वादिगुणतुल्यता| दृष्टा मिथश्च दोषेषु नातोऽन्योन्यं जयन्ति ते||१६||

🔊 Audio coming soon

ननु च सर्वरोगस्त्रिदोषज इत्युक्तं ते दोषाः परस्परविरुद्धाः| अथ कथमेकः क्रुद्धो द्वयोर्विरुद्धयोः सतोः शमं न याति | तथा परस्परविरुद्धाः सन्तः कथं रोगाख़्यमेकं कार्यं जनयितुं समर्था भवन्ति| अत उत्तरद्वयमाह- क्रुद्धमित्यादि| द्विविधः सन्निपातः| विषमदोषः समदोषश्च| तत्र विषमदोषे एकं क्रुद्धं जेतुं शेषावबलत्वादुभावपि नालमपर्याप्तौ | समेऽपि दोषाः सन्निपाते परस्परं जेतुं नालम्| कुतः दोषात्मकत्वात्| दोषाणां हि दुष्टीकरण स्वभावात् | न तु परस्परोपशमः| अन्यच्चासाधारणो दोषाणां गुणः प्रायेण दुर्लभः,येनविपरीतत्वात् दोषोऽन्यं न शमयति| एतदेवाह-शीतद्रवेत्यादि| शीतादयो हि गुणाः दोषाणां तुल्याः सदृशा दृष्टाः | तथा च वातश्लेष्माणौ शीतौ पित्तश्लेष्माणौ द्रवौ| अतः शीतो गुणो यथा वातस्य हेतुः श्लेष्मणोऽपि| एवमम्लो लवणश्च | कटुर्वातपित्तयोः| आदिग्रहणाल्लग़ु वातपित्तयोः| एवमन्यदप्यूह्यम्| तस्माद्दोषाः परस्परगुणसादृश्येनावैपरीत्यादन्योऽन्यं परस्परं न जयन्ति| सन्निपाते समं कुप्यन्तीत्यर्थः| इति दोषाः परस्परं जेतुं नालम्||१६||

Adhikarana viruddhairapi doShaiH vyAdhyutpAdastatra dRuShTAntaSca (17) · Śloka 17

आरम्भकं विरोधेऽपि मिथो यद्यत् गुणत्रयम्| विश्वस्य दृष्टं युगपद्व्याधेर्दोषत्रयं तथा||१७||

🔊 Audio coming soon

विरुद्धानां एककार्यजनकत्वे हेतुरुच्यते-आरम्भकमपित्यादि| यथा परस्परविरुद्धमपि सत्वरजस्तम इत्याख़्यं गुणत्रयं युगपद्विश्वस्य सर्वस्य कारणं दृष्टम्| तद्वत् व्याधेरपि दोषत्रयं विज्ञेयम्||१७||

Adhikarana vAtAdInAM sAmanirAmalakShaNAni (18) · Śloka 18

वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः| दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु| आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः| विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम्| पीतञ्च पित्तमच्छञ्च श्लेष्माऽच्छः पिण्डितोऽथवा| विशदश्च सफेनश्च धवलो मधुरो रसे||१८||

🔊 Audio coming soon

अस्मिन् दोषोपक्रम प्रसङ्गे दोषाणां सामानां लक्षणं प्रतीकारश्चोच्यते-वायुरित्यादि| तत्र वायुरामान्वयः सामः सार्तिः सन् अध्मानकृदसञ्चरश्च भवति| पित्तमामान्वयं दुर्गन्धत्वादि गुणयुक्तं भवति| कफ आमान्वय आविलत्वादियुक्तः| आविलो ग़नः| तन्तवो रज्जवः श्लेष्ममयाः यथोक्तस्वरूपविपर्यये तु वातादीनां पक्वत्वं निरामत्वं विज्ञेयम्| पित्तश्लेष्मणोस्तु निरामयोर्विशेष उच्यते| पित्तं निरामं ताम्रत्वादिगुणयुक्तम्| समेचकमनेकवर्णम्| श्लेष्मा निराम अच्छो भवति| शुष्कत्वात् पिण्डितो वा भवति| विशदत्वादिगुणयुक्तश्च| मधुरोऽतिशयेन||१८||

Adhikarana AmalakShaNamatra matAntara~jca (19) · Śloka 19

ऊष्मणोऽल्पबलत्वेन धातुमद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते| अन्ये दोषेभ्य एवाति दुष्टेभ्योऽन्योन्यमूर्छनात्| कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||१९||

🔊 Audio coming soon

ननु चाऽमं किमुच्यत? आह-ऊष्मण इत्यादि| अद्यं धातुमाहारसाराख़्यं स्वस्योष्मणो अग्नेरल्पत्वेनाऽपाचितं दुष्टमामाशयगतं सन्तं रसमाममित्याचार्याः प्रचक्षते| अन्ये पुनराचार्या अन्यथा आमस्य सम्भवं वर्णयन्ति| कथमित्याह-दोषेभ्य एव वातादिभ्योऽतिदुष्टेभ्योऽन्योन्यं परस्परं सम्मूर्छनात् फेनवदामसम्भवः| यथा कोद्रवाख़्येभ्यः शालिभ्यो देशकालापेक्षया विषसम्भवः| तेनैतदुक्तं भवति- यथा कोद्रवा एव विषं सम्पद्यन्ते| एवम् दोषाः अप्यतिदुष्टाः स्वेनैव भावेनाऽऽमः सम्पद्यन्ते||१९||

Adhikarana sAmadoSheShu SodhananiShedhaH pakveShu tadvidhiSca (20) · Śloka 20

सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्| लीनान्धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव| आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः| पाचनैर्दीपनैः स्नेहैस्तान्स्वेदैश्च परिष्कृतान्| शोधयेच्छोधनैः काले यथासन्नं यथाबलम्||२०||

🔊 Audio coming soon

एवं भूतेनाऽऽमेन सम्पृक्तान् दोषान् धातुषु रसादिषु लीनान् सर्वदेहप्रविसृतान् व्याप्ताऽशेषकायान् अनुत्क्लिष्टांश्च न निर्हरेत्| उत्क्लेषः चलनम्| ते च दोषा दुर्निर्हरत्वोद्धतोराश्रयस्य शरीराख़्यस्य निर्ह्रियमाणा दोषाय स्युः| दृष्टान्तो यथा आमात् फलान्निर्ह्रियमाणो रसो दुर्निर्हरत्वादाश्रयस्य फलाख़्यस्य नाशाय भवति| एवं दोषा अपि| तस्मात्तांस्तथाविधान् पाचनादिभिः कृतसंस्कारान् यथासन्नं यथाबलञ्च कृत्वा यथोक्ते काले शोधनैर्दव्यैः शोधयेत्| ऊर्ध्वमासन्नान् वमनेन| अध आसन्नान् विरेचनबस्तिभिश्च| शिर आश्रितांस्तद्विरेचनेनेति| प्रकृष्टबलान् तीक्ष्णैः शोधनैः | मध्यान् मध्यबलैः | हीनान् मृदुभिरिति यथाबलम्||२०||

Adhikarana yathAMsannatvavyAkaraNam (21) · Śloka 21

हन्त्याशु युक्तं वक्त्रेण द्रव्यमामाशयान्मलान्| ग़्राणेन चोर्ध्वजत्रूत्थान् पक्वधानात् गुदेन तु||२१||

🔊 Audio coming soon

यथासन्नमिति स्वयं व्याकरोति} वक्त्रेण प्रयुक्तमौषधमामाशयादाशु मलान् हन्ति| ग़्राणेन प्रयुक्तमूर्ध्वजत्रूत्थानाशु मलान् हन्ति| गुदेन प्रयुक्तं पक्वाशयादाशु मलान् हन्ति सकलशरीरमाकर्षणेऽपि विशेषार्थमाशुग्रहणम्||२१||

Adhikarana svayampravRuttAnAM doShANAmadhAryatvaM dhAraNe doShASca vibaddhAnAM pAcanapUrvakaM Sodhanam (22-23) · Śloka 23

उत्क्लिष्टानध ऊर्ध्वं वा न चाऽऽमान् वहतः स्वयम्| धारयेदौषधैर्दोषान्विधृतास्ते हि कुर्वते| रोगानुत्पदनिर्दिष्टानतिस्थौल्यादिकान् गदान्| प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः| विबद्धान् पाचनैस्तैस्तैः पाचयन्निर्हरेत वा||२२|| इति श्रीवद्यपतिसिंहगुप्तस्य सुनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दोषोपक्रमणीयोनामैकविंशोऽध्यायः||२३||

🔊 Audio coming soon

ततोत्क्लिष्टानामान् दोषान् अधोमार्गेणोर्ध्वमार्गेण वा स्वयमयत्नेन वहतः औषधैः स्तभनैर्न धारयेत्| ते हि विधृताः सन्तोऽतिस्थौल्यादिकान् रोगनुत्पादनीयाध्यायनिर्दिष्टान् गदान् कुर्वते| ते च भेषजद्वेषिणानुपक्रम्या गदा अतिस्थौल्याग्निसदनेत्याद्युक्ताः| अतो विधारणस्य रोगोत्पत्तिहेतुत्वात् प्रागुपेक्षेत प्रवृत्तदोषानुगुण्येन हिताशनः सन् यावदामक्षयस्तावत् स्तम्भनं येदिति प्राग्रहणाल्लभ्यते| अथवा विबद्धानीषत्प्रवृत्तांस्तैस्तैः यथोक्तैर्यथायोग्यपाचनैः पाचयन् निर्हरेत्||२२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहख़्यायां शशिलेख़ायां सूत्रस्थाने एकविंशोऽध्यायः