अथातो विविधद्रव्यगणसंग्रहमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पूर्वस्मिन्नध्याये असाधारणत्वेनोक्त्वाऽस्मिन् साधारणत्वेन गणा निर्दिश्यन्ते||१||
अथातो विविधद्रव्यगणसंग्रहमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पूर्वस्मिन्नध्याये असाधारणत्वेनोक्त्वाऽस्मिन् साधारणत्वेन गणा निर्दिश्यन्ते||१||
विदारिपञ्चाङ्गुलवृश्चिकालीवृश्चलीवदेवाह्वयशूर्पपर्ण्यः| कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी| विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा| शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः||२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
विदार्यादिगणो हृद्यत्वादिगुणयुक्तः||२||
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्| यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्||३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सारिवादिर्दाहादिनाशनः||३||
पद्मकपुण्ड्रौ वृद्धितुगर्घ्यः शृङ्ग्यमृता दश जीवनसंज्ञाः| स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः||४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पद्मकादिस्तन्यकर्तृत्वादियुक्तः||४||
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्| राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्||५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
परूषकादिस्तृडादिनाशनः||५||
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्| सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अञ्जनादिर्विषादिनाशनः||६||
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्| निहन्ति कफपित्तकुष्ठज्वरानिवषं वमिमरोचकङ्कामलाम्||२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पटोलादिः कफादिनाशनः||७||
गुडूचीपद्मकारिष्टधानकारक्तचन्दनम्| पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्||८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
गुडूच्यादिः पित्तश्लेष्मादिनाशनः||८||
आरग्वधेन्द्रयवपाटलिकाकतिक्ता निम्बामृतामधुरसास्रुववृक्षपाठाः| भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः| आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्| कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
आरग्वधादिः छर्द्यादिनाशनो दुष्टव्रणविशोघ्नश्च||९||
असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः| त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः| असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्| पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||१०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
असनादिः श्वित्रादिनाशनः||१०||
वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः| द्विबृहतीद्विकरञ्जजयाद्वयम्बहलपल्लवदर्भरुजाकराः| वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति| आढ्यवातं शिरश्शूलं गुल्मञ्चान्तः सविद्रधिम्||११||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
वरणादिः कफादिकं नाशयति| आढ्यवातं मेदसा रुद्धमार्गं वातं वातव्याधौ वक्ष्यते| अन्तर्गुल्ममन्तर्विद्रधिं च नाशयति|
ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्| सशिलाजतुकृच्छ्राश्मगुल्ममेदःकफापहम्||१२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
ऊषकादिर्मूत्रकृच्छ्रादिनाशनः||१२||
भवन्ति चात्र- वीरतरारणिकौ नलगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम्| मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च| वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्| अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः||१३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
भवन्ति चात्रेति पद्यबन्धसमुच्चये तन्त्ररीतिः| वीरतरादिर्वातव्याधीनामन्यदोषाधिकानामश्मर्यादीनां च नाशनः||१३||
लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः| कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः| एष लोध्रादिको नाम मेदः कफहरो गणः| योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||१४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
लोध्रादिर्मेदोनाशनत्वादियुक्तः||१४||
अर्कालर्कौ नागदन्ती विशल्या भाङ्गी रास्ना वृश्चिकाली प्रकीर्या| प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः| अयमर्कादिको वर्गः कफमेदोविषापहः| कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः||१५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अर्कादिः कफादिनाशनो व्रणशोधनश्च||१५||
सुरसयुगफणिज्जं कालमालाविडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः| क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणी भूतकेशी| सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः| प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः||१६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सुरसादिः श्लेष्मप्रतिश्यायादिनाशनो व्रणशोधनश्च||१६||
मुस्ककस्नुग्वराद्वीपीपलाशधवशिंशिपाः| गुल्ममेहाश्मरीपाण्डुमेदोऽर्शः कफशुक्रजित्||१७||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
मुष्ककादिर्गुल्मादिनाशनः||१७||
वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः| रोहिणीस्थपनिहिङ्गुभार्ङ्गयः शूलघाति दशकं घुणप्रिया वत्सकाद्योऽनिलश्लेष्ममेदोऽरोचकपीनसान्| शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः||१८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
वत्सकादीनि शूलघ्नदशकं च दीप्यकादिः सपञ्चकोलो महाकषायः एतत्सर्वमनिलादिनाशनम्||१८||
वचाजलददेवाह्वनागरातिविषाभयाः| हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः| वचाहरिद्रादिगणावामातीसारनाशनौ| मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ||१९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
वचादिरामातीसारपाचनत्वादियुक्तः तद्वद् हरिद्रादिः||१९||
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता| सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः| अम्बष्ठामधुकं नमस्करीनन्दीवृक्षपलाशकच्छुराः| लोध्रं धातकिबिल्वपेशिका कट्वङ्गः कमलोद्भवं रजः| गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ| सन्धनीयौ हितौ पित्ते व्रणानामपि रोपणौ||२०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
प्रियङ्ग्वादिः पक्वातीसारनाशनत्वादियुक्तः| तद्वदम्बष्ठादिः||२०||
मुस्तावचाग्निद्विनिशा द्वितिक्ता भल्लातपाठात्रिफलाविषाख्याः| कुष्ठं त्रुटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च||२१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
मुस्तादिर्बालानां स्तन्यदोषनाशनो मलपाचनश्च||२१||
न्यग्रोधपिप्पलसदाफललोध्रयुग्म- जम्बूद्वयार्जुनकपीतनसोमवल्काः| प्लक्षाम्रवञ्जुलप्रियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्| न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधनः| मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः||२२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
न्यग्रोधादिर्व्रण्यत्वादिगुणयुक्तः||२२||
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामक- स्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः| शुक्तिव्याघ्रनखौसुराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्| एलादिको वातकफौ विषञ्च विनियच्छति| वर्णप्रसादनः कण्डूपिटकाकोठनाशनः||२३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
एलादिर्वातश्लेष्मघ्नत्वादियुक्तः||२३||
श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्ण- क्षीरीगवाक्षीशिखरिरजनिकाछिन्नरोहाकरञ्जः| बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||२४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
श्यामादिर्गुल्मादिनाशनः||२४||
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पली- हरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गु- हिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति| पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः| निहन्याद् दीपनो गुल्मशूलघ्नश्चामपाचनः||२५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पिप्पल्यादि सुबोधम्||२५||
पञ्चविंशतिरित्युक्ता वर्गास्तेषु त्वलाभतः| युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||२६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
इति पञ्चविंशतिर्वर्गा उक्ताः| तेषु च दोषरोगातुरविकल्पादयौगिकमयोगार्हमौषधं जह्यात् त्यजेत्| अन्यच्च यौगिकं यथालाभं युञ्ज्यादिति||२६||
एते वर्गा दोषदूष्यादपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः| पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||२७|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने विविधद्रव्यगणसङ्ग्रहो नाम षोडशोऽध्यायः||२८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
एते वर्गा दोषदूष्यादीन् विकल्प्य कल्कादिभिः प्रयोगैः प्रयुक्ताः यथोक्तान् सुकृच्छ्रान् रोगान् घ्नन्ति||२७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने षोडशोऽध्यायः