Adhikarana atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो धूमपानविधिं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उत्तमाङ्गाद् दोषनिर्हरणप्रसङ्गेन धूमस्यापि तद्गुणत्वात्तद्विधानप्रदर्शनार्थमध्याय आरभ्यते-अथ इत्यादि|| १||
Adhikarana dhUmayogyAH vyAdhayaH dhUmapAnasya bRuMhaNAdikartRutvaM ca (2) · Śloka 2
धूमो हि शिरोऽक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदक- पीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिग़्राणमुख़हिध्मा गलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहकृमिकण्डू- पाण्डुत्वक्केशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादि जत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते|
तथा शिरःकपालेन्द्रियमनोबृंहणाय प्रसादनाय च||२||
धूमो हि शिरःशूलादीनां वातकफजानामूर्ध्वजत्रुरोगाणां प्रशमाय प्रयुज्य इति सम्बन्धः| पूतिशब्दस्य ग़्राणमुख़ाभ्यां सम्बन्धः| ग्रहशब्दस्य हनुमन्याभ्याम्| क्षवथुशब्दस्य नाशबाहुल्याभ्याम्| क्रथनं सुप्तस्य नासाशब्दः| तथा शिरःप्रभृतीनां बृंहणाय प्रसादनाय च तत्र शिरःकपालयोर्बृंहणाय| इन्द्रियाणां मनसश्च प्रसादनाय च|| २||
Adhikarana dhUmasya pittaraktaviruddhatvam (3) · Śloka 3
शीतद्रव्यनिर्वृत्तोऽप्यग्निसंयोगादुष्णतया पित्तरक्तवि- रुद्धः||३||
सर्वश्च धूमः पित्तरोगेषु रक्तरोगेषु च विरुद्धः|| ३||
Adhikarana dhUmasya paryAyAH (4) · Śloka 4
स त्रिविधो भवति-शमनो बृंहणः शोधनश्च|
तथा कासग़्नो वामनो व्रणधूपनश्च|
तत्र शमनः प्रायोगिको मध्यम इति पर्यायः|
बृंहणः स्नेहनो मृदुरिति|
शोधनो विरेचनस्तीक्ष्ण इति च||४||
तत्र शमनादिभेदेन धूमस्यैकं त्रैविध्यम्| कासग़्नादिभेदेन द्वितीयम्|| ४||
Adhikarana adhUmArhAH, atidhUmapAne doShAH (5) · Śloka 5
अधूमार्हस्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोम धुदधिदुग्धमद्यस्नेहयवागूविषपीतमत्स्याशितपाण्डुरोग प्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनोऽत्यु ष्णेऽन्येऽपि च|
एषां हि भ्रमज्वरशिरोऽभितापेन्द्रि योपग़ाततालुशोषपाकधूमायनच्छर्दिमूर्च्छारक्तपित्ता र्दितानि मृत्युं वा धूमो जनयति|
अतिमात्रश्चान्येषा मपि||५||
विरिक्तदत्तबस्त्यादयो धूमं नार्हन्ति| एषां स्वल्पोऽपि धूमो भ्रमादीन् जनयति| अन्येषामप्यतियोगेन भ्रमादीन् जनयति|| ५||
Adhikarana dhUmopaGAte pittasyetaradoSha saMsargAnusAramupacAraH (6) · Śloka 6
तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिः कषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्ष शीतान् प्रयुञ्जीत|
एतेन सर्वधूमोपग़ातप्रतिकारा व्या ख़्यातः||६||
एषु च भ्रमादिषु सर्वथा पित्तकोपः| तच्च पित्तं वायुना कफेन वा संसृष्टमुपलक्ष्य यथायोगं सर्पिष्पानादीन्युपयुञ्जीत| अनेन ये केचन धूमहेतुका उपग़ाता व्याधयस्तेषाम् प्रतीकारा व्याख़्याताः पित्तप्राधान्यादिति भावः|| ६||
Adhikarana sarvasroto~aBigatadhUmalakShaNAni cikitsA ca (7) · Śloka 7
विशेषतस्तु सर्वस्रोतोगते धूमे तीव्रतरा वेदना भवन्त्यू षाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः|
तत्रग़ृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्|
कातुतिक्तैरपि च नस्यगण्डूषाः||७||
विशेषतः सर्वस्रोतोगते धूम ऊषादयो भवन्ति| तेषु ऊषाध्मानादिषु ग़ृताद्युपयोगः तद्विधैरेवेति ग़ृतादिसदृशगुणैर्वमनविषयेषु वमनम्| तेष्वेवोषादिषु कटुतिक्तैश्च नस्यगण्डूषाः| स्वेदारतिमान् दाह ऊषः|| ७||
Adhikarana trividhadhUmapAnakAlAH (8) · Śloka 8
पानकालास्त्वष्टौ प्रयोगिकस्य निशामूत्रशकृद्दन्तधावन स्वेदनस्याहारशस्त्रकर्मान्ताः|
एकादश मृदोः|
क्षुतव्य वायहसितचिरासितजृम्भितमुत्रशकृद्दन्तधावनतर्पणपुट पाकशस्त्रकर्मान्ताः|
पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्ना नाहस्स्वप्नान्ताः|
एषु हि कालेषु वातकफोत्क्लेशो भवति||८||
निशान्ताद्या अष्टौ कालाः प्रायोगिकधूमस्य अन्तशब्दः सर्वैरभिसम्बध्यते| क्षुतान्तादय एकादश काला मृदोर्धूमस्य| नस्यान्तादयः पञ्च कालास्तीक्ष्णस्य| एषु हि नस्यान्तादिषु कालेषु वातकफयोरुत्क्लेषो भवति|| ८||
Adhikarana dhUmanetram (9) · Śloka 9
नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनि ष्ठकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमा दातुराङ्गुलमानेन चत्वारिंशद्द्वात्त्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात्|
कासग़्ने वमने च दशाङ्गुलम्|
व्रणधूपनार्थे ऽष्टाङ्गुलं कलायपरिमण्डलं कुलत्थवाहि स्रोत इति|
एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्न बाधको भवति||९||
अत्र च धूमे नेत्रं बस्तिनेत्रद्रव्यवत् सुवर्णादिमयमित्यर्थः| अग्रे कनिष्ठकाग्रपरिणाहं मूलेऽङ्गुष्ठाग्रपरिणाहमग्रे राजमाषप्रवेशच्छिद्रं मूले धूमवर्तिप्रवेशच्छिद्रम्| त्रिकोशं यस्य वंशस्यान्तः स्तोकस्तोकेन त्रीणि सूक्ष्मछिद्राणि विबन्धानि भवन्ति| तैर्हि प्रतिहतो धूमः शनैः शिरः प्रविशन् सुख़करो भवति| तस्य च नेत्रस्यान्तश्शिथिला शलाका धार्या| यथा पांस्वादि न प्रविशति| धूमपानकाले त्वपनेयेति| सुबोधम्|| ९||
Adhikarana kAsaghnAdiShu netrAbhAve nalAdinADI (10) · Śloka 10
कासाघ्नादिषु तु नेत्राभावे देवनलवंशैरण्डादोनामन्यतमां नाडीं योजयेत्||१०||
कासघ्नादिषु नेत्राभावे नलवंशाद्यन्यतमां नाडीं योजयेत्||१०||
Adhikarana dhUvartinirmANam (11) · Śloka 11
यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वाद- शाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत्|
तत्र न नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छाया- शुष्कां वर्ति कृत्वा विगतेषीकाञ्च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत्||११||
अत्र प्रथमं तावत् काष्ठमयीमिषीकां द्वादशाङ्गुलां शलाकामहोरात्रं पानीयमध्ये स्थापयेत्| एवं हि किञ्चिदुच्छूना भवति| द्वितीयेऽहन्युत्क्षिप्य यथास्वं धूमद्रव्यकल्केन श्लक्ष्णेन कर्षमात्रेणोच्छोष्योच्छोष्य लेपयेत्| मध्ये नवाङ्गुले तां लेपवर्ति स्थूलमध्यां शोषयेत्| शुष्कां विगतेषीकां कुर्यात्| ततोऽङ्गारेषु प्रदीप्तां नेत्रमूले धूममुद्वमन्तीं स्थापयन् धूमं पिबेत्|| ११||
Adhikarana dhUmapAnavidhiH (12) · Śloka 12
अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनि- श्वासो विवृतौष्ठदशनो नेत्राग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुख़ेनोत्सृजेत्|
मुख़ेन तु मुख़ेनैव|
न नासया दृग्विग़ातभयात्||१२||
स्थगितादितरेण नासापुटेन धूमं पीत्वा मुख़ेनैवोत्सृजेत्| सर्वथा नासया नोत्सृजेत्| दृग्विग़ातभयात्|| १२||
Adhikarana dhUmapAnavidhiH (13) · Śloka 13
तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वाऽऽपानां स्त्रींश्च पर्यायान् कण्ठाच्चोर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुख़ेन|
कण्ठे तु पुर्वमास्येन|
परं चहोरात्रस्य द्विः पिबेत्|
स्नैहिकं त्रीस्त्रींश्चतुरश्चतुरो वाऽऽपानान् यावद्वाऽऽस्रप्र वृत्तिस्तथा अहोरात्रस्य|
तीक्ष्णं नासाभ्यामेव चतुरश्च तुरश्चाऽऽपानान् यावद्वा स्रोतोलाग़वम्|
तथा त्रिश्चतु र्वाऽहोरात्रस्य|
तत्राक्षेपविसर्गावापानमित्याहुः||१३||
तत्र प्रायोगिकं प्रत्येकं नासापुटेन मुख़ेन च पर्यायेण त्रीन् वारान् पाययेत्| न त्वेकवारम्| प्रत्येकं पर्यायेण त्रीनापानान् द्वौ वा पर्यायेण योजयेत्| आक्षेपमोक्षावेकमापानम्| कण्ठादूर्ध्वं यदा दोषोत्क्लेशस्तदा पूर्वं नासया धूमः| यदा तु कण्ठ एवोत्क्लेशस्तदा पूर्वं मुख़ेन| अहारोत्रस्य मध्ये द्वौ वारौ प्रायोगिकस्य परं पानम्| त्रींस्त्रींश्चतुरश्चतुरो वाऽऽपानान् पर्यायेण स्नैहिकं धूमं पिबेत्| यावद्वास्रस्रुतिः| तच्च स्नैहिकमहोरात्रस्य मध्ये एकवारं पिबेत्| तीक्ष्णं पर्यायेण चतुरश्चतुरश्चाऽऽपानान् अहोरात्रस्य मध्ये त्रींश्चतुरो वा वारान् तच्च नासयैव न मुख़ेन| मतान्तरमाह-तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन्वाऽऽपानान् पाययेत्| नासापुटाभ्यां मुख़ेन च द्वौ द्वौ त्रींस्त्रीन्वाऽऽपानान् पाययेत्| नन्वेभिः स्रोतोभः संहत्य कियन्तो द्विकाः पातव्याः कियन्तो वा त्रिका इत्यपेक्षायामाह-त्रींश्च पर्यायानिति त्रीनेव पर्यायन् पिबेत् न त्वधिकं नाप्येकवारेण सर्वैः स्रोतोभिः सर्वान् द्विकान् त्रिकान् पाययेत्| अपि तु त्रिभिः पर्यायैरेवेति| अस्यायमर्थः-प्रयोगिकं धूमं प्रथममेकेन नासापुटेन द्वौ वा त्रीन्वाऽऽपानान् पिबेदित्येकः पर्यायः| इदमेव द्विरापानं त्रिरापानं व प्रथमकृतनासापुटान्तरेण मुख़ेन चावर्तयितव्यमिति द्विरापानानां त्रिरापानानां च पर्यायत्रयं त्रिरावर्तनं कृतं भवति| तत्रायं क्रियापक्षः-प्रथममेकेन नासापुटेनापानद्वयं त्रयं वा ततो द्वितीयेन नासापुटेनाऽऽपानद्वयं त्रयं वा| ततो मुख़ेनाऽऽपानद्वयं त्रयं वेति संहृत्य त्रिभिः स्रोतोभिरापानषट्कमापाननवकं वा पातव्यं भवति| सुश्रुतेनापि त्रिभिः कलाभिः परिमितेन कालेन प्रायोगिकस्योपयोग इत्यापाननवकमेव विहितं भवति| अयं नासिकादिक्रमो दोषः ग़्राणशिरोगते सति| यदा पुनः कण्ठगतो दोषस्तदाऽऽपानषट्कमापाननवकं वा मुख़ादिक्रमेण पातव्यमित्येकस्मिन्नहनि एकवारं कृत्वा पुनरपि तस्मिन्नेवाहन्येकवारं प्रयोक्तव्यम्| प्रायोगिकस्य एकस्मिन्नहनि द्वादशाऽष्टादश वा पानानि भवन्ति| स्नैहिकं पुनरेकस्मिन्नहनि आपाननवकमापानद्वादशकं वा प्रयोक्तव्यम्| पुनर्विरेचनं नासापुटाभ्यामेव पातव्यमेकस्मिन्नहनि चतुर्विशत्यापानं द्वात्रिंशदापानं वा प्रयोक्तव्यमिति केचिदाचार्याः|| १३||
Adhikarana kAsaghnadhUmapAnavidhiH (14) · Śloka 14
कासग़्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गार पूर्णे सुसंस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं मुख़ेनैव धूमं पिबेत्|
उरःप्राप्तञ्च मुकेनैवोद्वमेत्|
प्रशान्ते च धूमे पुनः क्षिपेत्|
पिबेच्चादोषशुद्धेर्लाग़वाद्वा||१४||
अङ्गारपूर्णे शरावे चूर्णं गुटिकां वा प्रक्षिप्य द्वितीयमधोमुख़ं कृतच्छिद्रं शरावमुपरि दत्वा तच्छिद्रे धूमनेत्रमुलं संयोज्य तदग्रं चास्ये संयोज्य कासग़्नं धूमं पिबेत्|| १४||
Adhikarana vAmanadhUmavraNadhUpanayorvidhiH (15) · Śloka 15
तद्वद्वामनमपि कृसरामनतिग़नां पीत्वा पिबेत्|
तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च||१५||
कृसरां च नातिग़नां पित्वा वामनं धूमं पिबेत्| तद्वदेव व्रणं धूपयेत्| वैशद्याद्युद्भवाय|| १५||
Adhikarana ayogAtiyogalakShaNAni (16) · Śloka 16
धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः|
अतियोगे प्रागु क्तमिति||१६||
धूमयोगेन दोषोत्क्लेशाद् रोगोद्भवः अतियोगेऽतिमात्रश्चान्येषामपि भ्रमादीन् करोतीत्युक्तम्|| १६||
Adhikarana samyakpItalakShaNam shamanAdidhUmAnAmadhikAraBedAH (17-18) · Śloka 18
भवति चात्र-हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाग़वं शमः|
यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम्|
शमनो वातकफयोः संसर्गे स्वस्थकर्मणि|
बृंहणो मारुते शस्तो धूमः संशोधनः कफे||१७||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने धूमपानविधिर्नाम त्रिंशोऽध्यायः||१८||
सम्यक्पीते हृच्छुद्ध्यादिलक्षणम्| सुबोधमन्यत्|| १७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने त्रिंशोऽध्यायः