Adhikarana atha jalaukovidhirnAma pa~jcatriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो जलौकोविधं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
पूर्वस्मिन्नध्याये यान्यनुशस्त्राण्युक्तानि तेषु तु प्रधानं जलौकसोऽतस्तन्निर्णयार्थमध्यायारम्भः || १ ||
Adhikarana jalaukasAmadhikAraH (2) · Śloka 2
नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत्||२||
नृपाढ्य इत्यादि | नृपादीनां दुःख़सहिष्णुत्वादसृग्विस्रावणाय जलौकसो योजयेदिति सम्बन्धः || २ ||
Adhikarana jalaukasAM saviShanirviShaBedAH saviShajalaukAdaMshe vyApadastatra cikitsAsUtra~jca (3) · Śloka 3
तास्तु द्विविधाः सविषा निर्विषाश्च|
तत्र दुष्टाम्बुसर्पमण्डूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थूलचपलपिच्छिलाः स्थूलमध्यरोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः|
तद्दंशाद्दाहशोफपाककण्डूपिटकाविसर्पज्वरमूर्छाश्वित्रोत्पत्तिः|
तत्र विषपित्तरक्तहरां क्रियां कुर्वीत|
पद्मोत्पलसौगन्धिकादिसुगन्धि विमलविपुलसलिलशैवालजाः शैवालश्यावा नीलोर्ध्वराजयो वृत्ताश्च निर्विषाः||३||
ताश्च दुष्टाम्बूद्भवादिलक्षणयुक्ताः सविषा इति वर्ज्याः | यतस्तद्दम्शाहाद्युत्पत्तिः | तत्राज्ञानाद्दाहादिषु विषादिहरां क्रियां कुर्वीत | पद्मसौगन्ध्यादियुक्ता निर्विषाः || ३ ||
Adhikarana jalaukAvarNanaM tatpramANali~ggaBedena prayogaBedaH (4) · Śloka 4
सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि|
तत्र चतुःपञ्चषडङ्गुलाः नृषु योजयेत्|
गजवाजिष्वपराः|
ताः सुकुमारस्तनुत्वचोऽल्पशिरस्का बृहदधरकायाश्च स्त्रियः|
विपरीताः पुमांसोऽर्धचन्द्राकृतिपुरोवृत्ताश्च|
तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः|
स्त्रियो विपरीतेषु जलौकसस्त्वार्द्रचर्माद्युपायैर्गृहीत्वा सुरभिपङ्क गर्भे नवे ग़टे स्थापयेत्|
शृङ्गाटककशेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्|
लालादिकोथपरिहारार्थमेवं च त्र्यहात्त्र्यहादूर्ध्वं पूर्वमन्नपानमपनीयान्यत्प्रक्षिपेत्|
पञ्चाहाच्च तद्विध एव ग़टान्तरे ताः सञ्चारयेत्|
तासां तु दुष्टशोणितासम्यग्वमनात्प्रततपातनाच्च मूर्च्छा भवति|
तासामम्भोभिः पूर्णभाजनस्थानामचेष्टयाऽऽहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत्|४|
Adhikarana jalaukAvacaraNavidhiH (4) · Śloka 4
इतरास्तु हरिद्रासर्षपकल्काम्भसि मुक्तपुरीषा अवन्तिसोमे तक्रे वा पुनराश्वासिता जले सुख़ोपविष्टस्य संविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुख़ं विरूक्ष्य दंशदेशं योजयेत्|
अलगन्तीषु क्षीरग़ृतनवनीतरुधिरान्य- तमबिन्दून् न्यसेत् प्रच्छेद्वा|
अश्वख़ुरवच्च वक्त्रं निवेश्योन्नतस्कन्धा दशन्ति यदा च शिशुवच्छ्वसन्त्यो शिरःस्पन्दोर्मिवेगैः पिबन्ति तदा मृदुवाससा प्रच्छादयेत्|
सेचयेच्चाम्भसाल्पाल्पम्|
यथा च हंसः क्षीरोदकात् क्षीरमादत्ते तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राक् दुष्टमसृक्|
यदा च तद्दंशे तोदः कण्डूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत्|
लौल्याच्च दंशममुञ्चन्त्याः क्षौद्रं लवणचूर्णं वा मुख़े दद्यात्||४||
सर्वासामित्यादि सुबोधम् | गजवाजिष्वति प्रासङ्गिकम् | तासु च मध्ये सुकुमारत्वादियुक्ताः स्त्रियः | तद्विपरीताः पुर्वकाये बृहन्तश्च पुमांसः | प्रततपातनं सततं रक्तपानाय योजनम् | सुबोधमन्यत् || ४ ||
Adhikarana jalaukApAtanottaraM jalaukAyAH vAmadeshatatsthAnasyopacAraH (5) · Śloka 5
पतितां तु तण्डुलकण्डनोपदिग्धगात्रां तैललवणाभ्यक्तमुख़ीं आपुच्छादामुख़मनुलोमं शनैः पीडयन् सम्यग्वामयेत्|
ततः पूर्ववत्सन्निदध्यात्|
सप्तरात्रं च ताः पुनर्न पातयेत्|
अशुद्धे तु रक्ते मधुना गुडेन वा दंशात्किञ्चिद्विग़ट्टयन् स्रावयेत्|
स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिः पिचुनावगुण्ठयेत्|
स्थितरक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सग़ृतैः प्रदेहैः प्रदिह्यात्||५||
तण्डुलकण्डनं तण्डुलत्वक्चूर्णम् | अशुद्धरक्ते व्रणाद् दृश्यमाने मधुना गुडेन वा किञ्चिच्छलयन् व्रणे स्रावयेत् | स्थितरक्तमवहद्रक्तम् || ५ ||
Adhikarana yogAdilakShaNaM sirAvyadhavat (6) · Śloka 6
तत्र योगादीन् सिराव्यधवदुपलक्षयेत्|
प्रतिकुर्वीत च|६|
Adhikarana duShTaraktApagamalakShaNaM Pala~jca (6) · Śloka 6
दुष्टरक्तापगमात् श्वयथुशैथिल्यं दाहारागशूलोपमश्च|६|
Adhikarana raktanirharaNe alAbuGaTikAshRu~ggANAmadhikAravisheShanirdeshaH (6) · Śloka 6
रक्तं पित्तेन दुष्टमलाबुग़टिकाभ्यां न निर्हरेदग्निसंयोगाद्वातकफाभ्यां च दुष्टं निर्हरेत्|
तथा कफेन न शृङ्गेण स्कन्नत्वात्|
वातपित्ताभ्यां तु दुष्टं निर्हरेत्|
अथ प्रच्छाद्याङ्गं तनुवस्त्रपटलावनद्धप्रान्तेन शृङ्गेण चूषेत्|
तथा प्रदीप्तपिचुगर्भाभ्यामलाबुग़टिकाभ्यामिति||६||
योगातियोगायोगान् सिराव्यधवदत्रापि लक्षयेत् | तद्वदेव च चिकित्सेत् | कफेन दुष्टमलाबुग़टिकाभ्यां निर्हरेत् | रक्तस्य स्कन्नत्वात् तयोश्चाग्निसंयोगात् | शेषं व्याख़्यासमम् || ६ ||
Adhikarana pracCAnavidhiH (7) · Śloka 7
भवति चात्र- गात्रं बध्वोपरिदृढं रज्ज्वा पट्टेन वा समम्|
स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्|
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः|
न गाढग़नतिर्यग्भिर्न पदे पदमाचरेत्|७|
Adhikarana samAsataH pracCAnashRu~ggAdyupayoganirdeshaH (7) · Śloka 7
प्रच्छानेनैकदेशस्थं सुप्तं शृङ्गादिभिर्हरेत्|
ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः|
प्रच्छानं पिण्डिते वास्यादवगाढे जलौकसः|
त्वक्स्थेऽलाबुग़टीशृङ्गं सिरैव व्यापकेऽसृजि|
वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्||७||
गात्रमित्यादि सुबोधम् | ग्रथितं संहतम् | अथवा वातधाम्न्यधरकाये शृङ्गेण | पित्तधाम्नि मध्यकाये जलौकोभिः | पूर्वकाये कफधाम्न्यलाबुनेति क्रमार्थः || ७ ||
Adhikarana upadravopashamanaprakAraH (8-9) · Śloka 9
स्रुतासृजः प्रदेहाद्यः शीतैः स्याद्वायुकोपतः|
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्||८||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने जलौकोविधिर्नाम पञ्चत्रिंशोऽध्यायः||९||
स्रुतासृजः पुरुषस्य शीतैः प्रदेहपरिषेकादिभिर्वायुकोपात् कदाचित् सतोदकण्डूः शोफः स्यात् | तं शोफमुष्णेन सर्पिषा सेचयेदिति | इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने पञ्चत्रिंशोऽध्यायः