Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

36. sirāvyadhavidhiḥ

Adhikarana atha sirAvyadhavidhirnAma ShaTtriMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः सिराव्यधविधं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

रक्तविस्रावणप्रसङ्गे असृग्व्यापिसिराव्यधैरित्युक्तमतस्तद्विज्ञानार्थमध्यायारम्भः-अथात इत्यादि| सुबोधम्|| १||

Adhikarana ratkavirecanAdisAdhyavikAreShu sirAvyadhasya prAdhAnyam (2) · Śloka 2

बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु सिराव्यधः प्रधानम्| अमुना हि ते समूलाः शोषमायन्ति केदारसेतुभेदेन शल्यादय इव||२||

🔊 Audio coming soon

सिराव्यधे प्राधान्यप्रदर्शनार्थमाह-बहव इत्यादि| प्राक्पूर्वेऽध्याये| जलौकःप्रभृतयो रक्तविस्रावणोपाया बहवोऽभिहिताः| तेषां रक्तविस्रावणानां मध्ये तत्साध्येषु रक्तावसेचनसाध्येषु व्याधिष्वन्येषां च विरेकादीनामुपक्रमाणां सिराव्यधः प्रधान उपक्रमः| अमुना हि सिराव्यधेन रक्तावसेचनसाध्या व्याधयः समुलाः शेषमायान्ति| यथा केदारसेतुभेदेन शाल्यादयः| केदारसेतुः क्षेत्रमर्यादा जलावष्टम्भिनी| रक्तावसेचनसाध्यानां तु व्याधीनां न तथा विरेकादय उपक्रमाः न चान्ये रक्तविस्रावणोपायाः यथा सिराव्यधः|| २||

Adhikarana sirAvyadhaprashaMsA (3) · Śloka 3

तथा च- सिराव्यधिश्चिकित्सार्धं सम्पूर्णं वा चिकित्सितम्| शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते| यथा रक्तमधिष्ठानं विकाराणां विकारिणाम्| अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः||३||

🔊 Audio coming soon

तथा चेति तीर्थान्तरपाठं समुच्चिनोति| सुबोधम्|| ३||

Adhikarana raktasya dUShyatvaM samAntara~jca (4) · Śloka 4

तत्राम्बु शरीरमाहारसारभूतं रसाख़्यमविकृतमविकृतेन तेजसा रञ्जितमिन्द्रगोपाकारं च शशशोणितगुञ्जाफलालक्तकपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमसंहतमशीतोष्णं गुरु पित्तैकचयप्रकोपोपशमनं सौम्याग्नेयं प्रकृत्या रक्तमाहुस्तथा दोषम्| दूष्यमिति केचित्| उभयात्मकमन्ये||४||

🔊 Audio coming soon

रक्तं किमुच्यत इत्याह-तत्रेत्यादि| तत्र शारीरमम्ब्वा चार्या रक्तमाहुरिति सम्बन्धः| किम्भुतमित्याहआहारसारभूतमित्यादि| धौतं वस्त्रादि न रञ्जयति| पित्तेनैकं समानं चयादिकं यस्य तत्तथोक्तम्| तच्च रक्तं केचिदाचार्या दोषमित्याहुर्धन्वतरीयादयः| यतो यथा वातादीनां विलक्षणा हेतवस्तद्वदस्यापि| तथा वातादीनां च यद्वद्विशिष्टरोगजनकत्वं विशिष्टश्चोपक्रमः तद्वदस्यापीति| तथान्ये चरकादयस्तद्रक्तं दूष्यमित्याहुः| वातादिभिर्दूषणात्| अन्ये पुनरुभयरूपत्वं रक्तस्याहुः| दोषत्वं दूष्यत्वं च यतस्तस्यैकोंऽशो दुष्टः परमंशं दूषयति|| ४||

Adhikarana shuddharaktakAryam (5) · Śloka 5

तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुख़ायुषां योनिः||५||

🔊 Audio coming soon

तच्च रक्तं विधिवदाहाराद्यभ्यासाद्विशुद्धं सत् बलादीनां हेतुः|| ५||

Adhikarana duShTaraktakAryam (6) · Śloka 6

इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यन्दाधिमन्थशुक्लार्मतिमिररक्तराजीशिरस्तोदभेददाहकण्डूकर्णरोगमुख़पाकपूतिग़्राणास्योपदेहत्वगुल्मप्लीहविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटकाश्लीपदोपदंशशङ्ख़शोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशाङ्गगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्च्छायसंन्यासकम्पतन्द्रादीनाम्||६||

🔊 Audio coming soon

इतरथा अविधिना आहाराद्यभ्यासादथवा शरत्काले कालस्वभावेन दुष्टमभिष्यन्दादीनां योनिरिति सम्बन्धः|| ६||

Adhikarana raktadoShajavikArANAM lakShaNantatra sirovyadhopadeshashca (7) · Śloka 7

ते च शीतोष्णास्निग्धरूक्षद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रान्ताः साध्या अपि न सिद्ध्यन्ति| ते च रक्तप्रकोपजाः तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विद्ध्येत्||७||

🔊 Audio coming soon

सर्वदोषप्रतिपक्षैः शीतादिभिः सम्यगुपक्रान्ताश्चिकित्सिताः साध्यलक्षणयुक्ता अपि ये न सिद्ध्यन्ति ते रक्तप्रकोपजा ज्ञेयाः|| ७||

Adhikarana sirAvyadhAnarhaH apavAdashca (8) · Śloka 8

न तु स्नेहपीतकृतपञ्चकर्मान्यतमगर्भिणीसूतिकाजीर्णकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिग़ातातिस्रुतरक्तादुष्टरक्तास्निग्धातिस्निग्धास्विन्नाक्षेपकपक्षाग़ातातिसारच्छर्दिश्वासकासोदररक्तपित्तार्शः पाण्डुरोगः सर्वाङ्गशोफपीडितानाम्| न चाव्यधनीयाश्चायन्त्रितानुत्थिताः सिराः न तिर्यङ् न चातिशीरोष्णवर्षवाताभ्रेषु| तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवन्त्यतिस्रवन्ति वा सम्यक् स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते| न त्वेष निषेधो विषसंसृष्टापसर्गात्ययिकव्याधिषु||८||

🔊 Audio coming soon

न तु स्नेहपीतादीनाम् सिरां विध्येदिति सम्बन्धः| सिरां अव्यधनीयत्वेन पठितां न विध्येत्| उत्थिता अभ्याहननादिना दृश्यन्ते| सुबोधम्|| ८||

Adhikarana pratirogaM vyadhyasirAnirdeshaH (9) · Śloka 9

प्रतिरोगं तु व्यधं प्रति विभागः| शिरोनेत्ररोगेषु लालाट्यामुपनास्यामपाङ्ग्यं वा| कर्णरोगेषु परितः कर्णौ| नासारोगेषु नासाग्रे| प्रतिश्याये तु नासाललाटस्थाः| मुख़रोगेषु जिह्वौष्ठहनुतालुगाः| जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्ख़मूर्धगाः| अपस्मारे हनुसन्धिमध्यगाः| उन्मादे तूरोऽपाङ्गललाटगाः| विद्रधौ पाऱ्श्वशूले च पार्श्वकक्षास्तनान्तरस्थाः| चतुर्थके स्कन्धाधोगतामन्यतरपार्श्वश्रयाम्| तृतीयकेंऽसयोरन्तरे त्रिकसन्धिमध्यगताम्| प्रवाहिकायां शूलिन्यां श्रोण्याः समन्ताद् द्व्यङ्गुले निर्वृत्तोपदंशशुक्रव्यापत्सु मेढ्रे| गलगण्ड ऊरुमूलसंश्रिताम्| गृध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले| अपच्यामिन्द्रबस्तेरधस्ताद् द्व्यङ्गुले| क्रोष्टुकशीर्षे सक्थिवातरुजासु च गुल्फस्योपरिष्टाच्चतुरङ्गुले| श्लीपदेषु यथास्वं वक्ष्यते| दाहहर्षचिप्पवातशोणितवातकण्टकविदारिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मण उपरिष्टाद् द्व्यङ्गुले| एतेनेतरसक्थिबाहू व्याख़्यातौ| विशेषतस्तु वामभागाभ्यन्तरतो बाहुमध्ये प्लीहोदरे| एवमेव दक्षिणे बाहौ यकृदाख़्ये| तथा कासश्वासयोरप्यादिशन्ति| गृध्रस्यामिव विश्वाच्यम्| बाहुशोषापबाहुकयोरप्येके| अदृश्यमानासु त्वेतास्वतिवृद्धस्य व्याधेरन्यव्याध्युक्तानामापि यथासन्नं व्यधः||९||

🔊 Audio coming soon

प्रतिरोगं तु व्यधनविभागौच्यत इति वाक्यशेषः| तत्र शिरोरोगेषु नेत्ररोगेषु च नेत्ररोगविशेषनैकट्यापेक्षयापाङ्गयाद्यन्यतमां व्यधयेत्| अपाङ्गे भवा अपाङ्ग्या| उपनास्या नासासमीपस्था| चतुर्थके ज्वरे स्कन्धस्याधोगतानां मध्यादन्यतरस्य पार्श्वाश्रयाम्| प्रवाहिका निस्तानिका| शूलिनी शूलमिश्रा| उपदंशो मेढ्ररोगो गुह्यरोगेषु वक्ष्माणः| अपची गण्डमाला| इन्द्रबस्तिर्नाम जङ्ग़ामध्ये मर्म| कोष्टुकशीर्षे नाम जानुमध्ये रोगः| यथैवैकस्मिन्सक्थिनि बाहौ च तद्वदपरस्मिन्नपि| कासश्वासयोरपि बाहुसिरामित्येवमादिश्यन्त्याचार्याः| यस्मिन् व्याधौ सिरा उक्त सा यदि न दृश्यते तदा अन्यव्याध्युक्ता अपि तन्निकटे व्यधनीया|| ९||

Adhikarana sirAvyadhAtprAgupakalpanIyam (10) · Śloka 10

प्रागेव चोपकल्पयेच्छयनासनोदकुम्भवस्त्रपट्टादि| तथा यथालाभं च तगरैलाशीतशिवकुष्ठपाठाविडङ्गभद्रदारुत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालचूर्णम्-असृक्स्त्रावणाय| असृक्स्थापनाय च लोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकरसाञ्जनशाल्मलीशङ्ख़यवगोधूममाषचूर्णम्| वटाश्वत्थाश्वकर्णपलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिन्दुकत्वगङ्कुरनिर्यास-श्रीवेष्टकमृत्कपालमृणालाञ्जनचूर्णम्| क्षौममषीलाक्षासमुद्रफेनचूर्णं वा| तथान्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणम्| सज्जोपकरणे हि वैद्यो न मोहमाप्नोति||१०||

🔊 Audio coming soon

तत्र सिराव्यधे प्राक् प्रथममेव शयनादिकमुपकल्पयेत्| असृक्स्रावणाय च तगरादीनां यथालाभम् चूर्णमुपकल्पयेत्| अतिप्रवृत्तस्य च रक्तस्य स्थापनाय स्तम्भनाय लोध्रादीनां चूर्णमतिस्रुतरयतव्याध्युपकरणं च| सुबोधमन्यत्|| १०||

Adhikarana sirAvyadhavidhiH (11) · Śloka 11

अथ कृतस्वस्त्ययनमातुरं व्याधिबलसात्म्याद्यवेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्व मुहूर्तमात्रमाश्वासितं पूर्वा~ह्णेऽपराह्णे वाङ्गारतापोष्णबाष्पान्यतरेण स्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत्| केशान्ते च प्लोतचर्मवल्कलपट्टान्यतमेन बध्नीयात्| ततश्चायतेन वस्त्राङ्गष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्ये निपीडयेद्दन्तैश्च दन्तान्| गण्डौ चाध्मापयेत्| पुरुषश्चैनं पृष्ठतो वस्त्रकृकाटिकान्तरन्यस्तवामप्रदेशिनीको नातिगाढं ग्रीवायां परिक्षिप्य वेष्टयन् वस्त्रं प्राणानबाधमानो यन्त्रयेदित्येषोऽन्तर्मुख़वर्ज्यानां सिराणां व्यधने यन्त्रविधिः| ततश्चास्य वैद्योऽङ्गुष्ठनिष्टब्धया मध्यमाङ्गुल्या सिरां ताडयेत्| उत्थिताञ्च स्पन्दमानां स्पर्शदां वाभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदण्डां कृत्वा सिरामध्ये न्यस्य लक्षयित्वा च तथैव च मध्यमाङ्गुल्या ताडयेदङ्गुष्ठोदरेण वा पीडयेत्| गूढबहलत्वक् प्रतिच्छान्नायामङ्गुष्ठपीडानादुन्नमनमुपलक्षयेत्| उत्कसनेन क्रोधसंरम्भेण चापूर्यन्ते सिराः||११||

🔊 Audio coming soon

अथेत्यादि सुबोधम्| प्रत्यादित्यमादित्याभिमुख़मित्यर्थः| यथास्वमिति दक्षिणेन मुष्टिना दक्षिणां मन्याम्| वामेन च वामाम्| अन्यश्च पुरुष एनमातुरं पृष्ठत आतुरग्रीवायां वस्त्रंपरिवेष्ट्य आतुरकृकाटिकाया वस्त्रस्य च मध्ये आत्मीयां प्रदेशिनीमङ्गुलिं कृत्वा यन्त्रयेदिति सम्बन्धः| न त्वेवमन्तर्मुख़सिराणामन्तर्मुख़ं जिह्वादन्तादि| स्पर्शनं ददातीति चेतयतीति स्पर्शदा| उत्कसनं कण्ठं निष्पीड्य कसनम्|| ११||

Adhikarana vishiShTasirAvyadhanArthaM yantraNAdinirdeshaH (12) · Śloka 12

अङ्गुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुख़ेनोपनासिकां विध्येत्| उन्नमितविदष्टाग्रजिह्वस्याधोजिह्वायाः| विवृतास्यस्य तालुनि दन्तमूले च| ग्रीवासिरासु स्तनयोरुपरि यन्त्रयेत्| उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः| बाहुभ्यामवलम्बमानस्य पार्श्वयोः| उन्नतमेढ्रस्य मेढ्रे| श्रोणिपृष्ठस्कन्धेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य| विश्वाचीगृध्रस्योरनाकुञ्चिते कूर्परे जानुनि वा सुख़ोपविष्टस्य गूढाङ्गुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशस्योपरि चतुरङ्गुले प्लोताद्यन्यतमेन च बध्वा हस्तसिराम्| एवमेकपादं सुसंस्थितं स्थापयित्वाऽन्यपादमीषत्सङ्कुचितं तस्योपरि निधाय जानुसन्धेरधो हस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां विध्येत्| तत्र तत्र च तैस्तेरुपायैर्विकल्प्य यन्त्रयेत्||१२||

🔊 Audio coming soon

जिह्वा विदष्टा ऊर्ध्वमुत्क्षिप्यान्तर्ग्रहणेन गले नीता| बाहुभ्यामवलम्बमानस्योर्ध्वबाहोर्वृक्षशाख़ादावेवं हि पार्श्वसिरा स्फुटीभवति| तत्र तत्र तासु तासु च सिरासु यन्त्रणं स्वबुद्ध्या परिकल्पयेत्|| १२||

Adhikarana sthAnavisheSheNa shastravisheShaH shAstrapAtanamaryAdA ca (13) · Śloka 13

तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुख़ेन| अतोऽन्यथार्धयवमात्रं व्रीहिमात्रं वा अस्थ्नामुपरि कुठारिकयार्धयवमात्रम्| सर्वत्र चानुत्तनावगाढमृज्वसङ्कीर्णं मर्माद्यनुपग़ातिसिरामध्ये शस्त्रमाशु पातयेत्||१३||

🔊 Audio coming soon

तत्र मांसलेष्वित्यादिना प्रदेशविशेषेण शस्त्रविशेषाणामुपयोगं दर्शयति| सुबोधम्| दुःख़ं धार्यते दुःख़ेन रोद्धुं शक्यत इत्यर्थः|| १३||

Adhikarana samyagviddhalakShaNam (14) · Śloka 14

एकप्रहाराभिहता धारया या स्रवेदसृक्| मुहूर्तरुद्धा तिष्ठेच्च सम्यग्विद्धेति तां विदुः|१४|

🔊 Audio coming soon

Adhikarana alpadurviddhAtividdhalakShaNAni (14) · Śloka 14

अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः| सशब्दमतिविद्धा तु स्रवेद् दुःख़ेन धार्यते|१४|

🔊 Audio coming soon

Adhikarana samyagviddhAnAmapyavahanakAraNAni tatropAyAshca (14) · Śloka 14

सम्यग्विद्धानामपि च सिराणावहनकारणानि मूर्च्छां भयं यन्त्रशैथिल्यमतिगाढत्वमत्याशितता क्षामत्वं कुण्ठशस्त्रव्यधो मूत्रितोच्चारितत्वं दुःस्विन्नता कफावृतव्रणद्वारता चेति| अथाप्रवृत्तिकारणं अथास्वमुपलक्ष्य प्रतिकुर्यात्| तगरादिचूर्णेन च तैललवणप्रगाढेन सिरामुख़मवचूर्णयेत्| पृष्ठमध्ये चातुरं पीडयेत्| एवं साधु वहति|१४|

🔊 Audio coming soon

Adhikarana samyakpravRutte upacArAH (14) · Śloka 14

सम्यक्प्रवृत्ते कफानिलोपशमनरक्ताच्छेदनार्थमुष्णलवणतैलबिन्दुभिः सिरामुख़ं सिञ्चेत्|१४|

🔊 Audio coming soon

Adhikarana duShTaraktameva sravecCuddhantu svayaM tiShThet (14) · Śloka 14

अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका| सम्यक् स्रुत्वा स्वयं तिष्ठेच्छुद्धन्तदिति नाहरेत्|१४|

🔊 Audio coming soon

Adhikarana raktasrAvasamaye mUrcCAyAM pratikAraH (14) · Śloka 14

यस्य तु स्रवति रक्ते मूर्च्छा जायते तस्य विमुच्य यन्त्रं शीतसलिलऱ्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुख़ेन वचसा समाश्वासयन्नुपशमय्य मूर्च्छां पुनः स्रावयेत्| पुनमूर्च्छत्यपरेद्युस्त्र्यहेऽपि वा||१४||

🔊 Audio coming soon

सम्यग्विद्धा अपि सिरा मूर्च्छादिभिः कारणै रक्तं न वहति| मूत्रतोच्चारितत्वं मूत्रोच्छारितवेगप्राप्तिः| सुबोधमन्यत्|| १४||

Adhikarana rudhirAvasecanapramANam (15) · Śloka 15

परमं तु रुधिरावसेचनप्रमाणं प्रस्थः| अतोऽन्यथा व्याधिदेहर्तुबलमपेक्षेत||१५||

🔊 Audio coming soon

केचित् पठन्ति- वमने च विरेके च तथा शोणितमोक्षणे| सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः|| इति| व्याध्यादिबलापेक्षया स्तोकं बहु वा रक्तं स्रावयेत्|| १५||

Adhikarana srutaraktasya varNAdiBedaiH parIkShaNaM vAtAdiduShTaraktalakShaNa~jca (16) · Śloka 16

तत्र फेनिलमरुणं श्यावमच्छं रूक्षमस्कन्दि कषायानुरसं लोहगन्धि वेगस्रावि शीतञ्च रक्तं वातात्| गृहधूमाञ्जनोदककृष्णं पीतं हरितं विस्रं मत्स्यगन्धि कटुत्वान्मक्षिकाऽनिष्टमौष्ण्यादस्कन्दि सचन्द्रकं गोमूत्राभं च पित्तात्| कोविदारपुष्पगैरिकोदकपाण्डुशीतं स्निग्धं स्कन्दि ग़नं पिच्छिलं तन्तुमदब्रणद्वारावसादि लवणरसं वसागन्धि च कफात्| द्वन्द्वसङ्कीर्णं संसर्गात्| कंसनीलमाविलं दुर्गन्धञ्च सन्निपातात्| शुद्धमुक्तं प्राक्||१६||

🔊 Audio coming soon

तत्र वातदुष्टं रक्तं फेनिलत्वादियुक्तं भवति| अस्कन्दि न तु स्त्यानीभवति| पित्तदुष्टं गृहधूमादिवर्णादियुक्तं भवति| तदप्यौष्ण्यादस्कन्दि| कफदुष्टं कोविदारपुष्पपाण्डुत्वादिना युक्तं भवति| एवं मिश्रणादिना लक्षणेन द्वाभ्यां त्रिभिर्वा दुष्टं विद्यात्| सन्निपातेन तु कंसनीलत्वादिविशेषः| शुद्धं प्रागस्मिन्नेवाध्याय उक्तम्|| १६||

Adhikarana raktasrAvaNottaravidhiH (17) · Śloka 17

ततः स्रुतरक्तस्य व्यधमनुलोममङ्गुष्ठेनोपरुध्य शनैः शनैर्यन्त्रमपनीयाश्वासयेत्| सतैलं च प्लोतं सिरामुख़े दत्वा बध्नीयात्| संवेशयेच्चैनम्||१७||

🔊 Audio coming soon

प्लोतं चैलख़ण्डम्|| १७||

Adhikarana atiShThati rakte upacArAH (19) · Śloka 19

अतिष्ठति तु रक्ते सिरामुख़ं सन्धातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्याङ्गुल्यग्रेण पीडयेत्| शाल्मल्युपोदकां पिच्छां वा व्रणमुख़े दत्वा गाढं बध्नीयात्| मधूच्छिष्टप्रलिप्तं वा पट्टम्| शीताम्बुनावसिञ्चेत्| शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत्| पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य सिरां विद्ध्वा रुधिरमामं ग़ृतभृष्टं वा पानं दद्यात्| तेनैव वा दर्भपादमृदितेनानुवासयेत्| स्निग्धैश्च यूषरसैर्भोजयेत्| व्यधादनन्तरं वा पुनस्तामेव सिरां विध्येत्| सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्| सङ्कोचयिउतं वा सिरामुख़ं तप्तशलाकया दहेत्| न च क्षणमप्युपेक्षेत| क्षीणरक्तस्य हि वायुर्मर्मण्युपसंगृह्य मूर्च्छासंज्ञानाशशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मा-पाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति मरणं वा|१९|

🔊 Audio coming soon

रक्ते अतिष्ठिति अरुध्यति पूर्वोक्तैश्चूर्णैस्तगरादिभिः| शाल्मल्युपोदकयोरन्तःपिच्छैव पिच्छा भवति| मधूच्छिष्टं सिक्थकम्| रक्तस्कन्दनाय स्त्यानत्वाय शीतादिभिरुपचरेत्| अथवातिस्रुतरक्तस्य एणादिकस्य रुधिरमामं तत्कालस्रुतं पानाय दद्यात्| पद्मकादिक्वाथमिक्षुरसं क्षीरं वा| व्यधादनन्तरं व्यधनस्य पश्चिमे भागे पुनर्व्यधयेत्| सुबोधमन्यत्|| १९||

Adhikarana raktasrAvaNAnantaraM yuktyA bRuMhaNaM deyam (19) · Śloka 19

प्राणः प्राणभृतां रक्तं तत्क्षयात्क्षीयतेऽनलः| वर्धते चानिलस्तस्माद्युक्त्या बृंहणमाचरेत्|१९|

🔊 Audio coming soon

Adhikarana punarvyadhananiyamAH (19) · Śloka 19

अशुद्धन्तु रक्तमपराह्णेऽन्येद्युर्वा पुनः स्रावयेत्| ततोऽपि शेषं सर्वथा वाप्यविस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत्| मासमात्रं वा स्नेहादिभिरुपचर्य पुनर्विध्येत्|१९|

🔊 Audio coming soon

Adhikarana vyadhavyApatpratikAraH (19) · Śloka 19

दुर्व्यधातिव्यधकुटिततिर्यग्व्यधादेर्व्यधदोषाद् व्यापदो याः स्युस्ताः यथास्वं साधयेदिति||१९||

🔊 Audio coming soon

अन्येद्युर्द्वितीयेऽह्नि| ततोऽपि पुनर्विस्रावितादपि शीतैः सेकादिभिः प्रसादयेत्| अविस्राव्यरक्तस्य गर्भिण्यादेरेवमेव प्रसादयेत्| अशुद्धे रक्ते मासमात्रेण पुनस्सिरां विध्येत्| व्यधदोषाच्च व्याधीनां स्वं स्वं चिकित्सितं योज्यम्|| १९||

Adhikarana pathyapAlanamaryAdA (20) · Śloka 20

भवति चात्र- उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्| दोषाः प्रदुष्टा रुधिरं प्रपन्नास्ताविद्धताहारविहारभाक् स्यात्||२०||

🔊 Audio coming soon

भवति चात्रेति तन्त्ररीतिः| दोषा वातादयो यन्त्रपीडनेन स्वमार्गेभ्य उन्मार्गं गताः पुनर्यावत् स्वं स्थानं न यान्ति तावद्धिताहारविहारभाक् स्यादिति सम्बन्धः|| २०||

Adhikarana pathyanirdeshaH (21) · Śloka 21

नातयुष्णशीतं लग़ु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थैतासृगग्निर्विशेषादिति रक्षितव्यः||२१||

🔊 Audio coming soon

रक्तेऽपनीते नात्युष्णत्वादियुक्तमन्नपानं हितम्| ततस्तस्मिन् काले रक्षितव्यः पुरुषो यतस्तदा शरीरमनवस्थितासृगनवस्थितोऽग्निश्च भवति|| २१||

Adhikarana vishuddharaktapuruShalakShaNam (3) · Śloka 3

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्| सुख़ान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने सिराव्यधविधिर्नाम षट्त्रिंशोऽध्यायः||३||

🔊 Audio coming soon

विशुद्धरक्तं पुरुषमाचार्याः प्रसन्नवर्णत्वादियुक्तं वदन्ति| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने षट्त्रिंशोऽध्यायः