Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

34. yantraśastravidhiḥ

Adhikarana atha yantrashastravidhirnAma catustriMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातो यन्त्रशस्त्रविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

अत्र हि निजागन्तुभेदेन द्विविधस्य रोगस्य चिकित्सा प्रस्तुता | उभयत्रापि च यन्त्रशस्त्रोपयोगात्तन्निर्णयायाध्यायारम्भस्तत्रापि यन्त्रेण दृष्टं गृहीतं वा पश्चाच्छास्त्रेण युज्यत इति प्रथमं यन्त्राणि निर्णीयन्ते-अथात इत्यादि | शल्योपायत्वाद्यन्त्राणामिदमुच्यते || १ ||

Adhikarana ynatraprayojanaM yantrANAmasa~gKyeyatva~jca (2) · Śloka 2

मनःशरीरबाधकराणि शल्यानि| तेषां नानाविधानां शल्यानां नानाप्रदेशनिविष्टानामाहरणेऽभ्युपायो यन्त्राण्यर्शोभगन्दरादिषु| शस्त्रक्षाराग्न्यवचारणे शेषाङ्गरक्षणे च| तथा बस्तिप्रणयनादौ शृङ्गालाबुग़टिकादयो जाम्बबौष्ठादीनि| अन्यान्यपि चानेकरूपाण्यनेककर्माणि स्वस्थातुरोपकरणानि| अतः कर्मवशत्तेषामियत्तावधारणमश्क्यम्||२||

🔊 Audio coming soon

मन इत्यादि | शल्यानि मनसः शरीरस्य चाबाधं कुर्वन्ति | तत्र शल्यानामाकर्षणोपायो नानाविधाकृतिप्रदेशानां यन्त्राणि | निजानामप्यर्शोभगन्दरादीनां शस्त्रादियोजने शेषाङ्गरक्षणे च परमभ्युपायो यन्त्राणीति सम्बन्धः | तथा शृङ्गादीनि च | तेषां तु यन्त्राणां नानाकारत्वान्नानाप्रमाणात्वान्नानाकर्मत्वाच्च सङ्ख़्यालक्षणादीनामियत्तयाऽवधारणं कर्तु न पार्यते | नानाविधा हि बाह्याध्यात्मिकानां भावानां सन्निवेशविशेषाः | न ह्येकोऽन्येन कथञ्चिदपि सादृष्यं यातीत्यतो बहुत्वम् || २ ||

Adhikarana yantrasa~gKyAviShaye matAntaraM svamata~jca (3) · Śloka 3

अन्ये पुनरेकोत्तरं यन्त्रशतमित्याचक्षते| इह पुनः समा सतः षोढा निर्दिश्यन्ते| तद्यथा स्वस्तिकसन्दंशतालनाडीशलाकाख़्यान्यनुयन्त्राणि च||३||

🔊 Audio coming soon

अन्ये पुनराचार्याः एकोत्तरं यन्त्रशतमाचक्षते | इह पुनः संग्रहे समासतः संक्षेपतः स्वस्तिकादिभिः षड्भिः प्रकारैर्यन्त्राण्युच्यन्ते | तेन सर्वाणि यन्त्रणीमं स्वस्तिकादिषट्कं नातिवर्तन्त इत्यर्थः || ३ ||

Adhikarana svastikayantravarNanamupayogasthala~jca (4) · Śloka 4

तत्र स्वस्तिकयन्त्राणि कङ्कसिंहगृध्रकुररादिविविधव्यालमुख़ान्याकारानुगताभिधानानि| प्रायशौ लौहान्यष्टादशाङ्गुलानि| मसूराकारप्रान्तैः कण्ठे कीलरैवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थिविनष्टशल्योद्धरणार्थानि| तेषां सिंहव्याग़्रभुजङ्गमकरादिमुख़ानि दृश्यवारङ्गेषु शल्येषु प्रयोजयेत्| इतरेषु तु यथायोगं व्रणाकारानुरोधेन कङ्ककाककुररादिमुख़ानि||४||

🔊 Audio coming soon

स्वस्तिकमिव स्वस्तिकं दक्षिणस्य बाहोर्वामे गमनं वामस्य दक्षिण इति स्वस्तिकता | तानि च सिंहादिमुख़सादृश्येन बहुविधान्यष्टादशाङ्गुलान्यायामेन कण्ठे यन्त्रग्रन्थौ कीलेन बद्धः | वारङ्गं ग्रहणस्थानम् | इतरेषु इत्यदृश्यवारङ्गेषु एषां शरीरे मग्नत्वाद्वारङ्गं न दृश्यते || ४ ||

Adhikarana sandaMshayantravarnanantadadhikArashca (5) · Śloka 5

सनिबन्धनो निर्निबन्धनश्च षोडशाङ्गुलौ सन्दंशौ द्वौ भवतः| तौ त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते| तथान्यः सन्दंशः षडङ्गुलोऽर्धाङ्गुलविस्तृतो वक्रद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्मव्रणाधिमांसाहरणे||५||

🔊 Audio coming soon

सनिबन्धनः कीलबद्धः | अनिबन्धनः अस्पष्टबाहुरङ्गुलीभ्यामिव पुरुषः प्रयत्नेन गृह्णाति | अर्धाङ्गुलविस्तृतो बाह्वोः स्पष्टबाह्वोः सङ्गमेऽङ्गुष्ठाङ्गुलिसमागमाकृतिः || ५ ||

Adhikarana mucuTIvarNanamadhikArashca (6) · Śloka 6

तद्वच्च मुचुटी| सा तु ऋजुश्लक्ष्णा सूक्ष्मदन्तर्जुर्द्विभुजा मूले रुचकनद्धा वलयपीडनाच्छिन्नार्मशेषगम्भीरव्रणाधिमांसाहरणे||६||

🔊 Audio coming soon

तद्वच्च मुचुटी | तस्य मुचुट्या दन्ता अन्तर्बाह्वग्रे भवन्ति | तस्यां रुचकं वलयो यथा यथा मूलादग्रं गच्छति तथा तथा तद् बाहू संयोजयति || ६ ||

Adhikarana tAlayantravarNanantadadhikArashca (7) · Śloka 7

तालयन्त्रे अपि द्वे द्वादशाङ्गुले मत्स्यगलतालकवदेकतालकद्वितालके कर्णनाडीशल्याहरणार्थे||७||

🔊 Audio coming soon

तालयन्त्रे द्वे | तयोरेक एकपार्श्वतालकः, अन्य उभयपार्श्वतालकः || ७ ||

Adhikarana nADIyantrANi tadadhikArashca (8) · Śloka 8

नाडीयन्त्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजनान्यनेकतोमुख़ान्येकतोमुख़ानि च भवन्ति| स्रोतोगतशल्यदर्शनार्थमाहरणार्थं क्रियासौकर्यार्थमाचूषणार्थञ्चेति| तानि स्रोतोद्वारपरिणाहानि यथायोगप्रदीर्ग़ाणि च कुर्यात्||८||

🔊 Audio coming soon

नाडीयन्त्राण्युच्यन्ते-नाडीयन्त्राणीति | सुषिराण्यन्तः सावकाशानि वेणुनालादिवत् | सुबोधम् | कानिचिदनेकतोमुख़ानि कानिचिदेकतोमुख़ानि | तानीति नाडीयन्त्राणि | परिणाहो वर्तुलत्वम् || ८ ||

Adhikarana katicidvishiShTanADIyantrANi (9) · Śloka 9

कण्ठशल्यदर्शनार्थं नाडीं दशङ्गुलायतां पञ्चाङ्गुलपरिणाहां द्विकर्णस्य तु वारङ्गस्य संग्रहार्थं त्रिच्छिद्रमुख़ां नाडीं तत्प्रमणतः कुर्यात्| तथा चतुष्कर्णस्य पञ्चच्छिद्रमुख़ाम्| शल्यनिर्ग़ातिनीं तु पद्मकर्णिकाकारशीर्षां द्वादशाङ्गुलां त्र्यङ्गुलसुषिराम्||९||

🔊 Audio coming soon

कण्ठस्यान्तर्गतशल्यावलोकनार्थं दशाङ्गुलादिगुणां नाडीं कुर्यात् | पञ्चमुख़ायास्त्रिमुख़ायाश्च नाड्या मुख़ानां मूलमेकं विशति | तत्र मध्यमं मुख़ं वारङ्गग्रहणे शेषाणि तत्कर्णानाम् | निर्ग़ातिन्या सुषिरे भागे निर्ग़ात्य शल्यं प्रविष्टं मुख़ेन निर्गच्छति || ९ ||

Adhikarana arshoyantrantadadhikArashca (10) · Śloka 10

अर्शोयन्त्रं त्रिविधम्| ताम्रायोहैमं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं हस्ततलायतमेकं पञ्चाङ्गुलानि परिणाहेन पुंसां षडङ्गुलानि स्त्रीणाम्| द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि| तथा हि सुख़ेन दर्शनं शस्त्रक्षाराग्न्यनतिक्रमश्च| छिद्रं तु त्र्यङ्गुलायतमङ्गुष्ठोदरविस्तारम्| यदङ्गुलमवशिष्टं तस्याधोऽर्धाङ्गुलमुपरि तथार्धाङ्गुलोच्छ्रितोद्दृत्तकर्णिकम्| तृतीयं तु तादृषमेव शम्याख़्यं पार्श्वच्छिद्ररहितं पीडनार्थम्| भगन्दरे तु छिद्रादूर्ध्वमोष्ठमपनीय कुर्वीत| तद्वच्च ग़्राणार्शोऽर्बुदयन्त्रं नाड्याकारं द्व्यङ्गुलायतमेकच्छिद्रं प्रदेशिनीपरीणाहम्||१०||

🔊 Audio coming soon

अत्शोयन्त्रं त्रिप्रकारमेकमेकपार्श्वच्छिद्रं द्वितीयमुभयपार्श्वच्छिद्रं तृतीयं छिद्ररहितमिति | सर्वं परिणाहे पञ्चाङ्गुलमायामे चतुरङ्गुलं छिद्रस्योपर्यधश्च शिष्टेऽर्धे ऊर्ध्वे अर्धाङ्गुले कर्णिकाद्वययुक्तं भगन्दरे अर्शोयन्त्रस्योष्ठरहितत्वम् || १० ||

Adhikarana a~ggulitrANakamupayogashca (11) · Śloka 11

तथाङ्गुलीत्राणकमङ्गुलीप्रवेशितं किञ्चित्स्थूलवृत्तौष्ठमूर्ध्वाधश्छिद्रं गोस्तनाकृति चतुरङ्गुलन्दान्तं शार्ङ्गं वार्क्षं वा| तदृढेन सूत्रेण मणिबन्धप्रतिबद्धमास्यविस्रावणे योज्यम्|११|

🔊 Audio coming soon

अङ्गुलीत्राणकमङ्गुल्यां प्रविष्टमङ्गुलीमुख़ं नावृणोतीत्युभयच्छिद्रम् || ११ ||

Adhikarana yonivraNadarshanayantram (11) · Śloka 11

योनिव्रणदर्शने यन्त्रं षोडशाङ्गुलम्| मध्ये सुषिरं चतुर्भित्तं चतुश्शलाकं सञ्चारिण्या मुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्त्रं मूले शलाकाक्रमणादुर्ध्वविकासि च||११||

🔊 Audio coming soon

Adhikarana nADIvraNaprakShAlanABya~jjanayantre (12) · Śloka 12

नाडीव्रणप्रक्षालनाभ्यञ्जनयन्त्रे षडङ्गुले बस्तियन्त्राकारे मुख़तोऽकर्णिके मूलमुख़योरङ्गुष्ठकलायप्रवेशस्त्रोतसी|१२|

🔊 Audio coming soon

Adhikarana dakodare nADIyantravisheShaH (12) · Śloka 12

दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीम् व युञ्ज्यात्|१२|

🔊 Audio coming soon

Adhikarana snehabastyAdiShu yathAsvaM yantroprayogaH (12) · Śloka 12

स्नेहबस्त्युत्तरबस्तिप्रधमनधूममूत्रवृद्धिनिरुद्धमणिप्रभृतिषु यथास्वमेव यन्त्राण्युक्तानि||१२||

🔊 Audio coming soon

चतुर्भित्तं चतुश्शकलं शकलानां मूले मुद्रा तस्याः कोणेषु चतस्रश्शलाकाः मूले चान्तर्वक्राः कारयेत् | यथा मुकुलोत्पलमुख़ं यन्त्रं भवति | पिच्छं पक्षिणां पश्चिमा पक्षसंहतिः | निरुद्धमणिर्गुह्यरोगेशु वक्ष्यते || १२ ||

Adhikarana shRu~ggayantramupayogas (13) · Śloka 13

शृङ्गन्तु ह्रस्वमध्यदीर्घमष्टादशद्वादशाङ्गुलायतं त्र्यङ्गुलप्रवेशमुकमग्रे सर्षपोपमच्छिद्रं तनुचर्मनद्धं चूचुकाकारं मुखञ्च| तद्वातविषरक्ताम्बुदुष्टस्तन्यचूषणार्थ|१३|

🔊 Audio coming soon

Adhikarana alAbuyantramupayogashca (13) · Śloka 13

श्लेष्मरक्ताचूषणार्थस्त्वलाबुः| स द्वादशाङ्गुलदीर्ग़ोऽष्टादशाङ्गुलपरिणाहस्त्रिचतुरङ्गुलवृत्तसमुच्छ्रितमुख़ः परिवेष्टितदीप्तकुशबल्वजपिचुगर्भश्च प्रयोज्यः|१३|

🔊 Audio coming soon

Adhikarana ghaTIyantramupayogashca (13) · Śloka 13

तद्वदेव च मानकर्माभ्यां ग़टी| सा तु गुल्मोन्नमनविलयनार्थं च||१३||

🔊 Audio coming soon

चर्मनद्धं चूचुकाकारं चाग्रे | चूचुकं स्तनाग्रं स्त्रियाः | प्रदीप्तानि कुशादीनि गर्भे यस्य तत्तथोक्तम् || १३ ||

Adhikarana shalAkAyantrANyeShaNAdiShu (14) · Śloka 14

शलाकायन्त्राण्यपि नानाकृतीनि नानार्थानि यथायोगं दैर्ग़्यपरिणाहानि च भवन्ति| तेषामेषणकर्मणी द्वे गण्डूपदमुख़े| स्रोतोगतशल्याहरणार्थेऽष्टाङ्गुलनवाङ्गुले द्वे मसूरदलमुख़े| षट् शङ्कवः| तेषां व्यहनक्रियौ द्वादशशोडशाङ्गुलौ द्वावहिफणामुख़ौ| तथा चालनार्थे दशद्वादशाङ्गुलौ शरपुङ्ख़मुख़ौ| आहरणार्थे बडिशमुख़ौ| तथा गर्भशङ्कः शङ्कुतुल्योऽष्टादशाङ्गुलः प्रणताग्रो मूढगर्भाहरणे| तथा सर्पफणावदेवाग्रावक्रं तदाख़्यमश्मर्याहरणार्थम्| तथा दन्तनिर्ग़ातनं चतुरङ्गुलं शरपुङ्ख़मुख़ं स्थूलवृत्तप्रान्तम्||१४||

🔊 Audio coming soon

एषणं मार्गपर्येषणं कर्म ययोः शलाकायन्त्रयोस्ते तथोक्ते | व्यूहनं विपरीतस्थानां मांसादीनां सम्यग्रचनम् | चालनाय शरपुङ्ख़मुख़ौ आहरणाय वडिशमुख़ौ || १४ ||

Adhikarana kArpAsoShNIShashalAkAdi pramArjanAdiShu (15) · Śloka 15

षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्रमार्जनक्रियासु| तेषामपि दूरासन्नग़्राणव्रणोपयोगीनि षट् सप्ताङ्गुले द्वे| पायौ दशद्वादशाङ्गुले कर्णशोधनं स्रुवमुख़मश्वत्थपत्राग्रम्| तथा क्षाराग्निकर्मार्थे जाम्बवोष्ठानि द्वादशाष्टाङ्गुलानि क्रमाद्व्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि||१५||

🔊 Audio coming soon

दूरे ग़्राणव्रणे सप्ताङ्गुलः | आसन्ने ग़्राणव्रणे षडङ्गुलः ||१५||

Adhikarana sthUlashalAkAdi AntravRuddhyAdiShu (16) · Śloka 16

शालाकाश्च स्थूलसूक्ष्मदीर्ग़ह्र्स्वमध्याः| आन्त्रवृद्धौ त्वर्धेन्दुवक्रा मध्योर्ध्वनिर्गतशलाकाः दहने नासार्शोऽर्बुदयोः कोलास्थिदलमात्रमुख़ा वेल्लितौष्ठा| क्षारविषौषधप्राणिधानाय च दर्व्यस्तिस्रोऽष्टाङ्गुला दर्व्याकाराः कनिष्ठिकानामिकामध्यमाङ्गुलिनख़परिमाणनिम्नमुख़ास्तथाञ्जलिसंस्थानाः| उत्तरबस्त्यञ्जनादिषु यथायथमेवोपदिष्टानि||१६||

🔊 Audio coming soon

इन्दुवक्रायां वक्रादन्यस्मिन् पार्श्वे दण्डो विधेयः | वेल्लन्तौ चलावोष्ठौ यस्याः सा तथोक्त || १६ ||

Adhikarana anuyantrANi (17) · Śloka 17

अनुयन्त्राण्ययस्कान्तरज्जुचर्मान्त्रवस्त्राश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तमुकशाका-नख़बालाश्वकालपाकहर्षभयानि| एतानि देहे सर्वस्मिन् देहस्यावयवेऽपि वा| सन्धौ कोष्ठधमन्यां च यथायोगं प्रयोजयेत्||१७||

🔊 Audio coming soon

अयस्कान्तादीन्यनुयन्त्राणि यथायोगं देहे योजयेदिति सम्बन्धः ||१७||

Adhikarana yantrakarmANi (18) · Śloka 18

यन्त्रकर्माणि तु निर्ग़ातनपूरणबन्धनव्यहनपरिवर्त्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यथनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणर्जुकरणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि बाहुल्येन चतुर्विंशतिर्भवन्ति||१८||

🔊 Audio coming soon

यन्त्राणां यथासम्भवं निर्ग़ातनादीनि कर्माणि विदध्यात् | अन्यमुख़स्य स्वमूलसम्मुख़ीकरणं परिवर्त्तनम् | विवरणं प्रकाशनम् | विकर्षणमन्यमार्गनयनम् || १८ ||

Adhikarana ka~gkamuKayantrasya shreShThatA (19) · Śloka 19

निवर्त्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्| यन्त्रेष्वतः कङ्कमुख़ं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च||१९||

🔊 Audio coming soon

सर्वयन्त्रेषु मध्ये कङ्कमुख़ं प्रधानं कुत इत्याह-विवर्त्तत इत्यादि | अवगाहते साधु प्रविशति | ग्राह्यं शल्यं गृह्णाति | यद्यस्मात् सर्वेष्वपि स्थानेषु विकारं न दर्शयत्यतः कङ्कमुख़ं प्रधानम् || १९ ||

Adhikarana shastrANi ShaDviMshatiH (20) · Śloka 20

शस्त्राणि तु षड्विंशतिर्भवन्ति| तद्यथा दन्तलेख़नमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्त्तरीसर्पवक्त्रकरपत्रकुशापत्राटीमुख़ान्तर्मुख़शरारीमुख़त्रिकूर्चकुठारिकाव्रीहिमुख़शलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चख़र्जषिणीबडिशनख़शस्त्राणि चेति| प्रायश्च तानि षडङ्गुलानि सुध्मतावर्तितायोग़टितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुख़ाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्धचतुर्थभागफलानि| तानि व्याधिदेशवशात् प्रयुञ्जीत| तेषां नामभिरेवाकृतयः प्रायेण यन्त्रवद्व्याख़्याताः||२०||

🔊 Audio coming soon

दन्तलेख़नानि षड्विंशतिः शस्त्राणि भवन्ति | आवर्तितं पिण्डीकृत्य पक्वमयः | स्वप्रमाणादर्धचतुर्थफलानि सार्धत्रिभागानीत्यर्थः | व्याधिवशाद्देशवशाच्च प्रयुञ्जीत देहदेशो बाह्वादिः ||२०||

Adhikarana shastrmaNAmupayogasthAnam (21) · Śloka 21

तत्र त्र्यमाद्यं लेख़ने| वृद्धिपत्रादीनि त्रीणि पाटने| चत्वारि भेदने| मण्डलाग्रादीन्यष्टौ छेदने| कुशपत्रादीनि पञ्च प्रच्छाने| कुठारिकादीनि षट् व्यधने| तेषामाराव्रीहिमुख़े भेदने छेदने च| सूच्यः सीवने| सूचीकूर्चः कुट्टने| ख़जो मथने| एषिण्येषणे भेदने च| बडिशो ग्रहणे| नख़शस्त्रमुद्धरणे| छेद्यभेद्यलेख़्यप्रच्छानेषु च| इति द्वादशविधे शस्त्रकर्मण्युपयोगः||२१||

🔊 Audio coming soon

तत्राद्यं त्रयं दन्तलेख़नमण्डलाग्रवृद्धिपत्राणि लेख़ने | लेख़नं लेख़ाभिर्विलिख़नम् | वृद्धिपत्रोत्पलपत्राध्यर्धधाराणि पाटने | वृद्धिपत्रोत्पलपत्राध्यर्धधारामुद्रिकाख़्यानि चत्वारि भेदने | मण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्राण्यष्टौ छेदने | कुशपत्राटीमुख़ान्तर्मुख़शरारीमुख़त्रिकूर्चानि पञ्च प्रच्छाने | कुठारिकाव्रीहिमुख़शलाकावेतसपत्राराकर्णव्यधनसूच्यः षड् व्यधने ताडन इत्यर्थः | तेषामेव मध्याद् व्रीहिमुख़ाकारसूचीनां निर्धारणम् | छेद्यादिषु नख़शस्त्रमिति सम्बन्धः | इति सर्वेषां शस्त्राणां द्वादशविधे कर्मण्युपयोगः || २१ ||

Adhikarana dantaleKanashastramupayogashca (22) · Śloka 22

विशेषतस्तु दन्तलेख़नं सुप्रबन्धवच्चतुरस्रमेकधारं दन्तशर्करालेख़ने||२२||

🔊 Audio coming soon

चतुरस्रस्यैकस्यां दिशि धारायन्द्रप्रबन्धाकृतिः || २२ ||

Adhikarana maNDalAgrashastramupayogashca (23) · Śloka 23

मण्डलाग्रं, प्रदेशिन्यन्तर्नख़विस्तृतफलं तत्लेख़नच्छेदनयोर्वर्त्मरोगोत्सन्नदन्तमांसदुर्निविष्टव्रणगलशुण्डिकादिषु प्रयोज्यम्||२३||

🔊 Audio coming soon

अन्तर्मुख़ं मांसनिकटं तदाकृति फलं यस्य तत्तथोक्तम् | तल्लेख़नादिषु प्रयोज्यमिति सम्बन्धः || २३ ||

Adhikarana dvividhaM vRuddhipatramupayogashca (24) · Śloka 24

वृद्धिपत्रं क्षुराकारं तत्तून्नते गम्भीरे वा श्वयथावृजुसूच्यग्रमिष्टम्| विपरीते तु पृष्ठतोऽवनतधारम्||२४||

🔊 Audio coming soon

वृद्धिपत्रमुन्नते वा गम्भीरे वा शोफे अग्रे स्पष्टं सूक्ष्मं च | विपरीते ऊर्ध्ववक्त्रम् || २४ ||

Adhikarana a~ggulishastrakamupayogashca (25) · Śloka 25

अङ्गुलिशस्त्रकं मुद्रिकानिर्गतमुख़ं वृद्धिपत्रमण्डलाग्राध्यर्धधारान्यतमतुल्यार्धाङ्गुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणर्पणवृत्तमुद्रिकं दृढसूत्रप्रतिबन्धं कण्ठरोगेषु प्रयुज्यते||२५||

🔊 Audio coming soon

अङ्गुलिशस्त्रस्यार्धाङ्गुला धारा आकृत्या वृद्धिपत्राद्यन्यतमसदृशफालादूर्ध्वं तत्र मुद्रिका कार्या तां चाङ्गुल्यां प्रवेश्य कार्यं क्रियते || २५ ||

Adhikarana kartarishastramupayogashca (26) · Śloka 26

कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्था|२६|

🔊 Audio coming soon

Adhikarana sarpavaktrashastramupayogashca (26) · Śloka 26

सर्पवक्त्रं वक्रमर्धाङ्गुलफलं ग़्राणकर्णार्शोऽर्बुदच्छेदनार्थम्|२६|

🔊 Audio coming soon

Adhikarana karapatrashastramupayogashca (26) · Śloka 26

करपत्रशस्त्रं दशाङ्गुलं द्व्यङ्गुलविस्तारं सूक्ष्मदन्तं ख़रधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थम्|२६|

🔊 Audio coming soon

Adhikarana kushapatrATImuKe shastre ,antarmuKashastram (26) · Śloka 26

कुशपत्राटीमुख़े द्व्यङ्गुलफले| अन्तर्मुख़मर्धचन्द्राकारमध्यर्धाङ्गुलफलम्||२६||

🔊 Audio coming soon

कर्तर्यास्तॄतीयभागे पाशो ग्रहणस्थानं कार्यम् | सा च प्रसिद्धा ||२६||

Adhikarana kuThArikAshastramupayogashca (27) · Śloka 27

कुठारिका पृथुदण्डा गोदन्ताकारा अर्धाङ्गुलफलास्थ्याश्रितसिराव्यधार्था|२७|

🔊 Audio coming soon

Adhikarana vrIhimuKashastramupayogashca (27) · Śloka 27

व्रीहिमुख़मध्यर्धाङ्गुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च|२७|

🔊 Audio coming soon

Adhikarana li~gganAshavyadhArthaM shalAkA (27) · Śloka 27

शलाकोभयतोमुख़ी कुरबकमुकुलाग्रा ताम्रमयी लिङ्गनाशव्यधनार्था||२७||

🔊 Audio coming soon

कुठारिका कुठाराकारा गोदन्तफला कुरबकस्य मुकुलमानने त्र्यस्रं भवति || २७ ||

Adhikarana ArAshastramupayogashca (28) · Śloka 28

आरा चतुरस्रार्धाङ्गुलवृत्तमुख़ा तावत्प्रवेशा बहलकर्णपालीव्यधार्था पक्वामशोफसन्देहभेदनार्था च|२८|

🔊 Audio coming soon

Adhikarana karNavyadhanashastram (28) · Śloka 28

कर्णव्यधनं त्र्यङ्गुलायतमङ्गुलसुषिरं ग़नं वा यूथिकामुकुलाग्रम्||२८||

🔊 Audio coming soon

आरा दैर्ग़्याच्चतुरङ्गुला मुख़े अर्धाङ्गुलावृत्ता च शोफस्य पक्वत्वसन्देहे भेदनार्था | कर्णव्यधनं सुषिरभागे भेर्याकृतिः ||२८||

Adhikarana sUcIshastram (29) · Śloka 29

सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः| तत्र मांसलेष्ववकाशेषु त्र्यङ्गुला त्र्यस्रा| सन्ध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यङ्गुला वृत्ता| पक्वामाशययोर्मर्मसु च सार्धद्व्यङ्गुला धनुर्वक्रा व्रीहिमुख़ा च||२९||

🔊 Audio coming soon

निगूढः पाशो यस्य पाशस्य पार्श्वयोर्मग्नं सूत्रं न दृश्यते | धनुर्वक्राभ्यधिकं न प्रविशति प्रविशत्येव द्वितीयेन व्रणोष्ठेनागच्छति || २९ ||

Adhikarana sUcIkUrcashastramupayogashca (30) · Śloka 30

सूचीकूर्चो वृत्तैकमूलोऽग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्ठश्वित्रव्यङ्गेलुप्तसुप्तादिषु|३०|

🔊 Audio coming soon

Adhikarana Kajashastramupayogashca (30) · Śloka 30

ख़जस्त्वर्धाङ्गुलायताष्टकण्टकमुख़स्ताम्रो लौहो वा नासाभ्यन्तरगतः शोणितमोक्षणार्थः|३०|

🔊 Audio coming soon

Adhikarana dvividhameShaNIshastramupayogashca (30) · Śloka 30

एषण्या द्वे सुश्लक्ष्णस्पर्शे तयोरेकाष्टाङ्गुला गतिकोथशल्यस्राववत्सु व्रणेषु सुषिरान्वेषणे| अन्या सूची संस्थाना क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगन्दरगतीनां च भेदने|३०|

🔊 Audio coming soon

Adhikarana baDishashastramupayogashca (30) · Śloka 30

बडिशोऽत्यवनतमुख़ः सूचीतीक्ष्णाग्रो ग्रहणे गलशुण्डिकार्मादेः|३०|

🔊 Audio coming soon

Adhikarana naKashastramupayogashca (30) · Śloka 30

नख़शस्त्रमष्टाङ्गुलमेकतोऽश्वकर्णमुख़मन्यतो वत्सदन्तमुख़ं सूक्ष्मशल्योद्धतौ||३०||

🔊 Audio coming soon

सूचीकूर्चः कुष्ठादिषु योज्यः | सुबोधमन्यत् || ३० ||

Adhikarana anushastrANi (31) · Śloka 31

अनुशस्त्रणि तु जलौकः क्षाराग्निसूर्यकान्तकाचस्फटिककुरुविन्दनख़शाकशेफालिकादिख़रपत्रसमुद्रफेनशुष्कगोमयादीनि|३१|

🔊 Audio coming soon

Adhikarana svabuddhyA yantrashastrakalpanam (31) · Śloka 31

स्वबुद्ध्या च विकल्प्य विविधानि यन्त्रशस्त्राणि तत्कर्माणि चोपकल्पयेत्|३१|

🔊 Audio coming soon

Adhikarana hastasya yantrashastreShu prAdhAnyam (31) · Śloka 31

हस्त एव चात्र प्रधानतममस्तदधीनत्वाद्यन्त्रशस्त्राणाम्||३१||

🔊 Audio coming soon

अशस्त्राण्येव शस्त्रकार्यं कुर्वन्तीत्यनुशस्त्राणि || ३१ ||

Adhikarana yantrashastradoShAH apavAdashca (32) · Śloka 32

तत्र दीर्ग़ह्रस्वस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौ यन्त्रदोषाः| अत्राद्याः पञ्च कुण्ठख़ण्डख़रधाराश्चेत्यष्टावेव शस्त्रदोषाः| अन्यत्र करपत्रात्||३२||

🔊 Audio coming soon

दीर्ग़ादयोऽष्टौ यन्त्रदोषाः | एकतो गृह्णात्यन्यत नेति विषमग्राही ग्राह्यं न गृह्णात्येवेत्यग्राहि | शिथिलता शिथिलग्रहणम् | अत्राद्याः पञ्च दीर्ग़ह्रस्वस्थूलतनुवक्राः कुण्ठतादयस्त्रय इत्यष्टौ शस्त्रदोषाः | करपत्रस्य हि ख़ण्डत्वं च ख़रधारत्वं स्वभावः ||३२||

Adhikarana shastrakarmavisheSheNa pAyanAvisheShaH (33) · Śloka 33

तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु उदकेन मांसच्छेदनेशु| तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत||३३||

🔊 Audio coming soon

पाययितमिति द्रवेण तैक्ष्ण्यकरणे शिल्पिनां भाषा | शेषं सुबोधम् || ३३ ||

Adhikarana dhArApramANam (34) · Śloka 34

धारा पुनः छेदनानां मासूरी लेख़नानामर्धमासूरी| व्यधनानां विस्रावणानां च कैशिकी||३४||

🔊 Audio coming soon

धारा पुनर्मासूर्या सूर्यपर्यन्ताकाराः | अर्धमासूरिका पाटितमसूरिकादलधारासदृशा | कैशिकी बालाकृतिः || ३४ ||

Adhikarana vividhaShashastragrahaNaprakAraH (35) · Śloka 35

तेषां छेदनभेदनलेख़नानां वृन्तसाधारणे भागे प्रदेशिनीमध्यमाङ्गुष्ठैः सुसमाहितो गृह्णीयात्| वृन्ताग्रे विस्रावणानि प्रदेशिन्यङ्गुष्ठाङ्गुलीभ्याम्| हस्ततलप्रच्छादितवृन्ताग्रं व्रीहिमुख़ं मुख़े| मूलेष्वाहरणार्थानि| पाशस्योपरि मध्ये लग़ुसन्देशं कर्तरीं च| शेषाण्यपि यथायोगं क्रियासौकर्येण||३५||

🔊 Audio coming soon

तेषामित्यादिना कर्मकाले भिषक्करग्रहणे सन्निवेशः | वृन्तसाधारणं मुख़वारङ्गसन्धिः | प्रदेशिनी तर्जनी | विस्रावणानि वृन्ताग्रे मूलप्रान्ते नातिमूल इति यावत् | हस्ततलेन प्रच्छादित वृन्ताग्रं तत्तथोक्तम् | वृन्तमूलं तस्याग्रं मध्यनिकटम् || ३५ ||

Adhikarana nishAtanI , dhArAsaMsthApanam (36) · Śloka 36

निशातनी तु तेषां सुश्लक्ष्णा शिला माषमुद्गप्रभा| धारासंस्थापनं च शाल्मलीफलकम्||३६||

🔊 Audio coming soon

निशातनी तैक्ष्ण्याय ग़र्षणशिला | धारासंस्थापनं येन धारा स्पष्टमृद्वीव क्रियते || ३६ ||

Adhikarana vaidyasya yogyAkaraNAvashyakatA (37) · Śloka 37

न चाधिगतशास्त्रोऽप्यकृतयोग्यः सुबहुशो वाप्यदृष्टकर्मा शस्त्रकर्मणि प्रवर्त्तेत| सिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य| तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु कुर्यात्| तथा ग़टपार्श्वस्रोतस्यम्भोभिः पूर्णेन नेत्रेण बस्तिपीडनयोग्यां मृदुमांसख़ण्डेष्वग्निक्षारावचरणयोग्याम्| पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम्||३७||

🔊 Audio coming soon

न चाधिगतशास्त्रोऽप्यकृतयोग्यः कर्मणि प्रवर्तेतेति सम्बन्धः | न कृता योग्या कर्मशिशिक्षाभ्यासो येनासावकृतयोग्यः | तस्मात् सरोमचर्मादीनामाहरणादियोग्यां कुर्यादिति सम्बन्धः | तत्र सरोमे चर्मणि ग़र्षणयोग्याम् | पुष्पफले भेदनयोग्याम् | अलाबुत्रपुसयोः पाटनयोग्याम् | भेदनाहरणयोग्यं च | उदकपूर्णदृतौ स्रावणयोग्याम् | पङ्कपूर्णदृतौ सीवनादियोग्यां च | दृतिर्भस्त्रा | बस्तिर्मूत्राधारः | तत्र सीवनादि | वर्ध्मे आहरणं कृन्तनं च | मांसपेश्यां सीवनं तक्षणं च | उत्पलनालादिष्वेषणादीनि यथार्हार्थः सुबोधम् || ३७ ||

Adhikarana vaidyaH mRutashIrasyA~ggapratya~ggAnAM pratyakShadarshanaM kuryAt (38) · Śloka 38

अपि च-युक्तकारी भिषग्बुभूषुः पुरुषं सम्पुर्णगात्रमविषहतमदीर्ग़व्याधिपीडितं निष्कृष्टदृष्टान्त्रमावहन्त्यामापगायां मुञ्जबल्बजवेष्टितं पञ्चरस्थमप्रकाशे देशे कोथयेत्| तं सम्यक्प्रकुथितं चोद्धृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैः शनैरवग़ृष्य त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गसिरास्नाय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत्||३८||

🔊 Audio coming soon

अपि चेति समुच्चये | युक्तकारी भवितुमिच्चुर्भिषगिव कुर्यात् | किमित्याह-पुरुषमित्यादि | सम्पूर्णगात्रं मृतं पुरुषं जले क्लेदितं प्रक्षाल्य तत्र स्नाय्वादीनाचर्यैरुपदर्शितेनागमेन चक्षुषा चोपलक्षयेत् ||३८||

Adhikarana shAstradarshanaM pratyakShadarshana~jca j~jAnavardhanAya (39) · Śloka 39

इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत्| समागतं तदुभयं भूयो ज्ञानं विवर्धयेत्||३९||

🔊 Audio coming soon

यतः शास्त्रदृष्टं प्रत्यक्षदृष्टं चोभयं समागतं मिश्रीभूतं भूयोऽत्यर्थं ज्ञानवृद्धिं करोति || ३९ ||

Adhikarana shastrakoshaH (40-41) · Śloka 41

स्यान्नवाङ्गुलविस्तारः सुग़नो द्वादशाङ्गुलः| क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः| विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः| शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः||४०|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम चतुर्स्त्रिंशोऽध्यायः||४१||

🔊 Audio coming soon

स्यादित्यादिना शस्त्रकोशविधानम् | नवाङ्गुलविस्तारादियुक्तः शस्त्रकोशः स्यात् | सुग़नो निबिडः | द्वादशाङ्गुलो दैर्ग़्येण तथा क्षौमादिजः | विन्यस्तपाशौ विविधनिहितपाशः | सुस्यूतः पुटानां भेदो सीवने कृते यथा न भवति | तथा सान्तरिति अन्तरान्तरा रोमभिः सह संसीव्य तस्मिन् रोमपुञ्जे शस्त्रस्थितिः कार्येति | तथा शलाकया पिहितं स्थगितमास्यं यस्य स एवम् | सुसञ्चयः शस्त्रैः परिपूर्ण इति || ४० || इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह व्याख़्यायां शशिलेख़ायां सूत्रस्थाने चतुस्त्रिंशोऽध्यायः