Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. rōgānutpādanīyaḥ

Adhikarana atha rogAnutpAdanIyo nAma pa~jcamo~adhyAyaH ----------- pratij~jA (1) · Śloka 1

अथातो रोगानुत्पादनीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माऽहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

स्वस्थवृत्तं प्रकृतम्| वेगधारणशीलस्य च स्वास्थ्यासम्भवः| अतो वेगधारणप्रतिषेधेन च रोगानुप्तत्तिः| तामधिकृत्याह आरभ्यते- अथात् इत्यादि|| १||

Adhikarana adhAryA vegAH (2) · Śloka 2

वेगान्न धारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम् निद्राकासश्रमश्चासजृम्भाश्रुच्छर्दिरेतसाम्||२||

🔊 Audio coming soon

वेगानां प्राप्तानां प्रतिषेधात् रोगोत्पत्तिरुच्यते- वेगानित्यादि| वातादीनां प्राप्त उत्सर्गो न प्रतिषेद्धव्यः| वातादिक्रमेणैव उद्देशवन्निर्देशः|| २||

Adhikarana adhovAtanirodhajA vyAdhayaH tatra pratikArashca (3) · Śloka 3

अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः| वातमोओत्रशकृत्सङ्गदृष्ट्यग्निवधहृद्गदाः| स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च| पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||३||

🔊 Audio coming soon

ऊर्ध्वाधोभेदेन द्विविधो वातः| तत्र मूत्रपुरीषसमानयोगक्षेमत्वादधोवातः| प्रथममुच्यते अधोवातस्य गुदवातस्य रोधेन गुल्माद्युत्पत्तिः| उदावर्त अर्शोनिदाने वक्ष्यते| तथा रुग् भवति क्लमश्च| पुनश्च वातादीनामप्रवृत्तिः| दृष्टेरग्नेश्च नाशः|| ३||

Adhikarana viDrodhajA vyAdhayaH (4) · Śloka 4

शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः| ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्| मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः||४||

🔊 Audio coming soon

शकृतः पुरीषस्य रोधेन पिण्डिकोद्वेष्टादयः| उद्वेष्टनमिवोद्वेष्टः,पिण्डिकयोरुद्वेष्टः पिण्डिकोद्वेष्टः| पिण्डिकेति जङ्घाकाण्डस्य पश्चिमे भागे पिण्डाकृति कठिनं मांसम्| तत्र उद्वेष्टनेनेव रुग्भवतीत्यर्थः| सर्वे चेहोक्तरोगा वक्ष्यमाणलक्षणाः| विशा च मार्गस्य निरोधात्प्रतिहतनिवृत्तस्य वायोरूर्ध्वं प्रवृत्तिः| जठरे समन्तात् च्छेदमिव परिकर्तनम्| हृदयस्य च बन्धः| पूर्वोक्ताः वातरोधरोगाश्च||४||

Adhikarana mUtrarodhajavyAdhayaH (5) · Śloka 5

अङ्ग-भङ्गाश्मरी-बस्ति-मेढ्र-वंक्षण-वेदनाः| मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तदौषधम्||५||

🔊 Audio coming soon

मूत्रस्य रोधादङ्गभङ्गादयः| भङ्ग इव स्फोटनमिव भङ्गः अङ्गभङ्गः| बस्त्यादीनां वेदनया सम्बन्धः| पूर्वे च वातशकृद्रोधोक्ता रोगाश्च| तेषां वातादित्रयरोधजातानां रोगाणां फलवर्त्यादि सामान्यमौषधम्||५||

Adhikarana viDrodhottharogacikitsA (6) · Śloka 6

वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च| अन्नं पानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु||६||

🔊 Audio coming soon

वर्तिः तीक्ष्णद्रव्यकृता गुदप्रणिधेया| अवगाहः वातहरद्रव्यसाधिते द्रवे द्रोणीस्थिते मग्नदेहस्यावस्थानम्| बस्तिकर्म मलप्रवृत्तये निरूहयोजना वक्ष्यमाणा (सू०अ०२८)|विड्रोधोत्थेषु विड्भेद्यन्नं पानं विशेषेण||६||

Adhikarana mUtrarodhottheShvavapIDakaghRutam (7) · Śloka 7

मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्| जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्| अवपीडकमेतच्च संज्ञितं..........................||७||

🔊 Audio coming soon

मूत्ररोधजेषु तु विशेषेण भोजनपूर्वं घृतपानं जीर्णान्तिकं च घृतं प्रशस्यते| जीर्णान्तिकं यद्ध्यस्तनेऽन्ने जीर्णे युज्यते, उत्तमया मात्रया, अहोरात्रजरणलक्षणया इति प्राग्भक्तस्नेहयोजना जीर्णान्तिकस्नेहजोजना च| उभयमवपीडकमुच्यते| तेन प्रदेशेष्ववपीडकशब्देन इदं योजनाद्वयं विज्ञेयम्||७||

Adhikarana udgArasya rodhajavyAdhayastatra cikitsAsUtram (8) · Śloka 8

..................................धारणात्पुनः| उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः| आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्||८||

🔊 Audio coming soon

पुनः शब्दः सामान्यनिर्दिष्टवातप्रकारोक्तशिष्टोद्गाराख्यवातपरामर्शाय| उद्गारस्य पुनर्धारणादरुच्यादयः| उरो वक्षः, हृदयं तस्याधस्तयोर्विबन्धः अन्तस्तम्भ इव| वायुना कुपितेन नाभेरधः सशूलमापूर आध्मानः| एतेषु रोगेषु चिकित्सितस्थाने वक्ष्यमाणा (अ०-६) हिध्माचिकित्सा कार्या||८||

Adhikarana kShutirodhajavyAdhayastatra cikitsA ca (9) · Śloka 9

शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः| तीक्ष्णधूमाञ्जनाघ्राणनामनार्कविलोकनैः| प्रवर्तयेत्क्षुतिं सक्तां स्वेदाभ्यङ्गौ च शीलयेत्| योज्यं वातघ्नमन्नं च घृतं चौत्तरभक्तिकम्||९||

🔊 Audio coming soon

क्षुतेः क्षवथो रोधात् शिरोर्त्यादिरोगोत्पत्तिः, इन्द्रियाणां दर्शनादीनामशक्तत्वं स्वविषयग्रहणे दौर्बल्यम्| अत्र तीक्ष्णधूमादिभिः सक्तामप्रवर्तमानां क्षुतिं प्रवर्तयेत्; तीक्ष्णो धूमो वक्ष्यमाणलक्षणः (सू०अ०-२५) भोजनस्य पश्चात्कालिकमेव घृतं योज्यम्||९||

Adhikarana tRuShNAnirodhajavyAdhayastatra cikitsA ca (10) · Śloka 10

शोषाङ्गसाद-बाधिर्य-सम्मोह- भ्रम-हृद्गदाः| तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः||१०||

🔊 Audio coming soon

तृष्णाया निग्रहाद्रोधात् शोषाद्युद्भवः| बाधिर्यमश्रुतिः| मोह एव सम्मोहः| तत्र तृड्रोधे सर्वो विधिः स्नानान्नपानादिकः शीतः कार्यः||१०||

Adhikarana kShunnirodhajavyAdhayastatra cikitsA ca (11) · Śloka 11

अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः| तत्र योज्यं लघु स्निग्धमुष्णमल्पञ्च भोजनम्||११||

🔊 Audio coming soon

क्षुधो वेगरोधादङ्गाद्युत्पत्तिः| तत्र च लघु शाल्यादि स्निग्धमुष्णमल्पं च भोजनं विधेयम्||११||

Adhikarana nidrArodhajavyAdhayastatra cikitsA ca (12) · Śloka 12

निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः| अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च||१२||

🔊 Audio coming soon

निद्रवेगधारणान्मोहशिरोगौरवादयः| तत्र स्वप्नः संवाहनानि च योज्यानि| संवाहनं स्वल्पमर्दनम्||१२||

Adhikarana kAsarodhajavyAdhayastatra cikitsAtideSaH (13) · Śloka 13

कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः| शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः||१३||

🔊 Audio coming soon

कासस्य वेगरोधात् कासवृद्ध्याद्युत्पत्तिः| तत्र कासचिकित्सितविहितो (चि० अ०-४) विधिः कार्यः||१३||

Adhikarana SramaSvAsarodhajavyAdhayastatra cikitsA ca (14) · Śloka 14

गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्| हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः||१४||

🔊 Audio coming soon

अध्वव्यायामादिसाहसेन सद्यः उत्पन्नः श्वासः श्रमश्वासः, तद्वेगरोधात् गुल्माद्युत्पत्तिः| तत्र विश्रमणं वातघ्नी च क्रिया हिता||१४||

Adhikarana jRumbhArodhajavyAdhayastatra cikitsA ca (15) · Śloka 15

जृम्भयाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः||१५||

🔊 Audio coming soon

जृम्भावेगरोधात् क्षुतिवद्रोगोत्पत्तिः तत्र वातघ्नी हिता| जृम्भा समुखविकासो गात्रविनामः||१५||

Adhikarana aSrurodhajavyAdhayastatra parihAraSca (16) · Śloka 16

पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः| सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः||१६||

🔊 Audio coming soon

बाष्पस्याश्रुणो वेगरोधात्पीनसाद्युत्पत्तिः| पीनसो नासास्रावः| अक्ष्यादीनां रुजया सम्बन्धः| तत्र स्वप्नादिकं चिकित्सा|| १६||

Adhikarana vamernigrahajavyAdhayastatra cikitsA ca (17) · Śloka 17

विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः| सकासश्वासहृल्लासव्यङ्गश्वयथवो वमेः| गण्डूषधूमानाहारं रूक्षं भुक्त्वा तदुद्वमः| व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्| सक्षारलवणं तैलमभ्यङ्गार्थे च शस्यते||१७||

🔊 Audio coming soon

वमेः छर्दिषः वेगधारणाद्विसर्पाद्युत्पत्तिः| कोठः श्यावानि मण्डलानि| तत्र गण्डूषादिका चिकित्सा रूक्षं चान्नं भुक्त्वा उद्वमेत्| स्निग्धस्य कफोत्क्लेशकरत्वात्| एतावता हि प्राणो वायुः स्वमार्गं गृह्णाति| क्षारलवणाभ्यां युक्तं तैलमभ्यङ्गे च योजयेत्|| १७||

Adhikarana shukravegarodhajavyAdhayastatra cikitsA ca (18) · Śloka 18

शुक्रान्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः| हृद्व्यथामूत्रसङ्गाङ्गभङ्गवर्ध्माश्मषण्डताः| ताम्रचूडसुराशालिबस्त्यभ्यङ्गावगाहनम्| बस्तिशुद्धिकरैः सिद्धम्भजेत्क्षीरं प्रियाः स्त्रियः| तत्र सेवेत ....................................||१८||

🔊 Audio coming soon

शुक्रवेगरोधात् शुक्रस्रावाद्युत्पत्तिः| षण्डता स्त्रीगमनाशक्तता| तत्र च ताम्रचूडादिका चिकित्सा| ताम्रचूडः कुक्कुटः| बस्तिशुद्धिकरैः त्रपुसप्रभृतिभिः सिद्धिं क्षीरं भजेत्| प्रियाश्च युवतीः||१८||

Adhikarana vegarodhiShu cikitsAnarhAH (19) · Śloka 19

............................सर्वं च वर्जयेद्वेगधारिणम्| विड्वामिनं परिक्लिष्टं क्षीणं तृट्शूलपीडितम्||१९||

🔊 Audio coming soon

न च सर्वस्मिन् वेगरोधिनि चिकित्सा कार्या|| १९||

Adhikarana vegodIraNadhAraNaM sarvarogahetuH (20) · Śloka 20

रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः||२०||

🔊 Audio coming soon

वेगधारणे दोषानुक्त्वा उदीरणे रोगानाह - रोगा इत्यादि| यद्येवं धारणग्रहणं न कर्तव्यमुदीरणेन सर्वरोगोत्पत्तेः| उदीरणेनापि धारणे| निर्दिष्टानामेव रोगाणामुत्पत्तिः प्रसज्यते तन्निवृत्त्यर्थं धारणग्रहणार्थम्|| २०||

Adhikarana vegodIraNadhAraNajanyarogeShu cikitsAsUtram (21) · Śloka 21

निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान्प्रति| ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति| अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्||२१||

🔊 Audio coming soon

यदि धारणोदीरणाभ्यां सर्वे रोगाः प्रजायन्ते अतो वातादिरोधेन गुल्मादिवचनमनर्थकरमित्याह- निर्दिष्टमित्यादि| तत्र तयोर्वेगधारणोदीरणयोर्मध्ये वेगधारणाच्चिरकालभाविनः सप्रत्यवाया रोगा भवन्ति| उदीरणान्न तथा| तेन भूयिष्ठं ये सम्भवन्ति तान्प्रति चिकित्सितं निर्दिष्टमित्यर्थः| अस्माद्वेगधारणादितरेभ्यः पवन एव कुप्यति यत्तस्मादनुलोमनमस्य हितम्|| २१||

Adhikarana malavishodhanArthamupadeshaH (22) · Śloka 22

पायुमेहनमुष्केषु शूलं शोषा हृदि व्यथा| तेषु तेषु विकारेषु यथास्वं च चिकित्सितम्| क्रमादपामपि मणौ पङ्कोऽवश्यं भवत्यतः| उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति||२२||

🔊 Audio coming soon

एवं स्वास्थ्यसंवाहनरोगोत्पत्तिरक्षणप्रसङ्गेनेदमप्युच्यते- क्रमादित्यादि| यथा निर्मलेऽपि मणावलिञ्जरे स्थितानां स्वभावनिर्मलानामप्यपां क्रमात्कालपरिवासात् पङ्कोऽवश्यं भवति तथा ऋतुचर्याया अनुष्ठातुरपि देहे दोषसञ्चयः; अतो हेतोर्यथाकालमुक्तशोधनकालानतिक्रमेण मलानां दोषाणां शोधनं प्रति सेवार्थमुत्तिष्ठेत चेष्टेत|| २२||

Adhikarana upekShitairmalaiH sambhAvyAH rogAH svasthasyApi saMshodhanam (23) · Śloka 23

चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः| प्रायशः सुचिरेणापि भेषजद्वेषिणो गदान्| अतिस्थौल्याग्निसदनमेहकुष्ठहृतौजसः| स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपाण्डुताः| आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान्| तृप्तिप्रमीलकात्वस्यग्रहण्यर्शोभगन्दरान्| प्लीहाविद्रधिवीसर्पमदसंन्यासपीनसान्| च्छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम्| कण्ठामयान्मूर्धरुजं प्रणाशं बुद्धिनिद्रयोः| तेजोवर्णबलानां च तृप्यतो बृंहणैरपि| उचितैरपि चाहारैर्यस्मादस्य वहन्ति न| दोषोपलिप्तवदना रसं रसवहाः सिराः| वमनादीनतो युञ्ज्यात्स्वस्थस्यैव यथाविधि||२३||

🔊 Audio coming soon

हि यस्मात्भेषजं वमनादि ये द्विषन्ति न सेवन्ते तेषां दोषाश्च यावस्थामुपारूढा उपेक्षिताश्च सुचिरेणापि रोगान्कुर्वते यथासम्भवमति स्थौल्यादीन्| हृतौजः शब्दः पुँल्लिङ्गः सन्निपातज्वरपर्यायः| `सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्' अक्षविभ्रंशः इन्द्रियविनाशः| अलसकदण्डकौ वक्ष्यमाणलक्षणौ (सू०अ०११)| तृप्तिः अभुक्तेऽपि भुक्ताभिमानिता| प्रमीलकं स्तैमित्यम्| अम्लपित्तस्यापरनामेत्यन्ये पठन्ति ; यथा- पच्यमानं विदाह्यन्नं रक्तादीन् कोपयेद्यदा| पित्तं च कोपयेदाशु कफस्थानानिलेरितम्||१|| तदा भवति हृच्छूलमुखवैरस्यसादनम्| लवणं तिक्तमम्लं च सततं च्छर्दयत्यपि||२|| दाहोऽतिनिद्रा विट्सङ्गो वैवर्न्यं कार्श्यमेव च | अरोचको ह्युत्सुकिता प्रसेकः श्लेष्मणस्तथा||३|| स्युर्यत्रैनाति लिङ्गानि निर्दिशेत्तत्प्रमीलकम्| पर्यायादम्लपित्तं च तथा पित्तविषूचिका||४|| इति| उचितैः सात्म्यैर्बृंहणैरपि चाहारैः तृप्तिं यातस्तेजसो वर्णस्य बलस्य च नाशः| यस्माद्दोषोपलिप्तमुखा रसवहाः सिरा रसं न वहन्ति| तदर्थं वमनादीनुपक्रमान् योजयेत् स्वस्थस्यैव| न तु रोगविशेषान्तरत्वेन||२३||

Adhikarana saMSodhanasyaiva prAdhAnyam---------------saMSodhanottaracikitsAkramaH (25) · Śloka 25

दोषाः कदाचित्कुप्यन्ति जिता लङ्ह्घनपाचनैः| ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः||२४|| यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्| रसयनानि सिद्धानि वृष्ययोगांश्च कालवित्||२५||

🔊 Audio coming soon

अन्यत् सुबोधम्||२५||

Adhikarana kShapite bRuMhaNakramaH (26) · Śloka 26

भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्| शालिषष्टिकगोधूममांसक्षीरघृतादिभिः| हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः| साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः| तथा स लभते शर्म सर्वपावकपाटवम्| धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः||२६||

🔊 Audio coming soon

बहुषो भेषजप्रयोगात्क्षपिते शरीरे आहारैरेव बृंहणं क्रमात् स्वल्पं पुष्टिकरं सर्वं पथ्यम्| किम्भूतैराहारैः? शाल्यादिभिर्हृद्येन दीपनेन चौषधेन संयोगाद्रुचिप्रदैरग्निबलप्रदैश्च| सर्वपावकानां जाठरस्य (अग्नेः) धात्वग्नीनाञ्च पटुत्वम्||२६||

Adhikarana Agantavo rogAH (27) · Śloka 27

ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः| कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः||२७||

🔊 Audio coming soon

निजरोगोत्पत्तिकारणपरिहारप्रसङ्गेनागन्तवो रोगाः तत्परिहाराश्चोच्यन्ते- ये भूतेत्यादि| भूतादिसम्भवा रोगा रागादयश्चागन्तवो व्याधयः| आगन्तुत्वं वक्ष्यमाणलक्षणम्||२७||

Adhikarana nijagantuvikArANAmanutpattyai utpannAnA~jca SAntaye vidhiH (28) · Śloka 28

त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्| अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्| भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक्| अनुत्पत्त्यै समासेन विधिरेष प्रदर्शितः| निजागन्तुविकाराणामुत्पन्नानां च शान्तये||२८||

🔊 Audio coming soon

तेषामागन्तूनामनुत्पत्त्यै विधिः प्रज्ञापराधत्यागादिः| प्रज्ञापराधः दिनचर्याद्युक्तविध्यतिक्रमः| देशादिविज्ञानेन विषयस्थं मनः स्पष्टतां याति| एवमभिजनोहम्|तत्र चेदमुचितमिदमनुचितम्| एवमहमर्थवानेवमहं शूरः| इदमस्मिन्देशे काले चोचितमिदं नेति बहुविधं परिकल्पनं देशकालात्मविज्ञानम्| भूतग्रहादीनामस्पर्शने य उपायो भूतविद्यायां निर्दिष्टः| तथा च तेषु भूतेषु केचित्स्पृशन्तोऽधितिष्ठन्ति| केचिज्जिघृक्षन्ते| इत्येवमाद्युक्तमिति| द्विविधो रोगोत्पत्त्यभावाय उत्पन्नानां च रोगाणां नाशाय विधिः प्रदर्शितः(उ०अ०-७-१०)||२८||

Adhikarana doShANAM SodhanakAlaH (29) · Śloka 29

शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोतु रोगानृतुजान्न जातु||२९||

🔊 Audio coming soon

दोषाणां हि शोधनमुक्तम्, तस्य तु काल उच्यते- शीतोद्भवमित्यादि| इति साधारणेषु कालेषु दोषानतिवाहयन् ऋतुजान् रोगान्न कदाचित्प्राप्नोति| अतिशीतादिकालेषु अयोगादिशङ्का||२९||

Adhikarana jitendriyaM nAnupatanti rogAH (5) · Śloka 5

स्वास्थ्यसंवर्धकं वृत्तम् नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः| दाता समः सत्यपरः क्षमावान् आप्तोपसेवी च भवत्यरोगः| अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु| तत्कालयुक्तं यदि नास्ति दैवम्| कालोऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुखानुबन्धि| सत्त्वं विधेयं विशदा च बुद्धिः भवन्ति धीरस्य सदा सुखाय||३०|| इति वैद्यपतिसिह्मगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने रोगानुत्पादनीयो नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

नित्यं हिताहारेत्यादि सुबोधम्| तथा यः पुरुषार्थेष्वलभ्येष्वपरिच्छिन्न लाभेषु वस्तुष्वनारब्धयत्नः उपायवत्सु शक्यमानेषु कृतप्रयत्नः जितेन्द्रियश्च तं रोगा नानुपतन्ति तत्कालयुक्ताद्विना दैVवात्| दैवे पूर्वकृते कर्मणि दुष्टे तत्कालं फलवत्यवश्यमेव रोगोत्पत्तिः| कालोऽनुकूलः हीनातिमिथ्यायोगवर्जितः अर्थलाभादिफलप्रदश्च| विषयाः श्ब्दादयः मनोज्ञाः प्रियाः| क्रियाश्च प्रधानाः| कर्म चोभयलोकसुखानुबन्धि| सत्त्वं मनः| विधेयमपरवशम्| विशदा निर्मला बुद्धिः| एतानि धैर्ययुक्तस्य सुखाय कल्पन्ते||३०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने पञ्चमोऽध्यायः||५||