Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. r̥tucaryā

Adhikarana pratij~jA (1) · Śloka 1

अथात ऋतुचर्यां नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

इह स्वस्थवृत्तं प्रकृतम्| तच्च पूर्वस्मिन्नध्याये ऋतुसाधारण्येनोक्तम्| अतः ऋतुविशेषप्रदर्शनार्थमध्याय आरभ्यते- अथात इत्यादि| पूर्ववत्|| १||

Adhikarana kAlalakShaNam (2) · Śloka 2

कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी यदनुरोधादादित्यादयः खादयश्च महाभूतविशेषास्तथा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्यर्तुरसवीर्यदोषदेहबलव्यापत्सम्पदाञ्च कारणत्वं प्रत्ययतां प्रतिपद्यन्ते||२||

🔊 Audio coming soon

ऋतुः कालविभागः, अत उच्यते- कालो हीति| न विद्यते आदिनिधने प्रारम्भपरिसमाप्ती च यस्य स तथाविधः| यथोपचितकर्मानुसारी सर्वभूतानि च पूर्वदेहोपचितकर्मानुगुण्येनानुसरतीति| उपचितकर्मानुगुण्येन कर्मफलेषु निमित्तकारणतां यातीत्यर्थः| यदनुरोधेन यस्य कालस्यानुरोधेन निर्वाहेणादित्यादित्यादयः आकाशादयश्च पञ्चमहाभूतविशेषाः, तथा-तथा नानाविधैः प्रमाणजातिसंस्थानवर्णादिविशेषैः, परिणमन्तो जन्मवताम्भूतानां जन्मनो मरणस्य च प्रत्ययतां कारणतां, प्रतिपद्यन्ते अङ्गीकुर्वन्ति| एकेनाऽदिशब्देन ग्रहनक्षत्रादीनां ग्रहणम्, द्वितीयेनानलपवनादीनां महाभूतानां तथा ऋतूनां रसादीनाञ्च यथास्वं व्यापदः सम्पदश्च| तत्रादित्यादयः परिणमन्तो यदनुरोधाद्यस्य निर्वाहात्, कारणतां प्रतिपद्यन्ते स कालः| तथाहि त एवादित्यादयः प्रतापादिपरित्यागसङ्ग्रहादिना ऋतुविशेषान् कुर्वन्तः कालानुरोधेन दृश्यन्ते| कालविशेषेण च महाभूतानां केनचित्परिणामेन कालकृत एव| एतेन कालसद्भावे प्रमाणमप्युक्तम्| यतो योऽयं जगत्कारणाभिमतेष्वादित्यखादिषु सदैव परिनिष्ठतात्मस्वतिशयेन कदाचित् कस्यचिद्भावस्याविर्भावो, कदाचित् कस्यचित्तिरोभावो न च तेषामेवादित्यादीनामन्यथाभावः| तत्रावश्यं निमित्तान्तरेण भवितव्यम्| एवमन्यथानुपपत्त्या यत्तन्निमित्तान्तरमिति स कालः इति|| २||

Adhikarana kAlasya dvAdashabhedAH (3) · Śloka 3

स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षभेदेन द्वादशधा विभज्यते||३||

🔊 Audio coming soon

स च कालो मात्रादिर्भिर्भेदैः द्वादशभिः तन्त्रव्यवहारार्थं विभज्यते|| ३||

Adhikarana mAtrAdInAM lakShaNAni (4) · Śloka 4

तत्राक्षिनिमेषो मात्रा| ताः पञ्चदश काष्ठा| ताः त्रिंशत् कला| ताः सदशभागा विंशतिर्नाडिका| नाडिकाद्वयं मुहूर्तश्च| ते तुल्यरात्रिन्दिवे राशिभागे चत्वारः पादोनो यामः| तैश्चतुर्भिः अहोरात्रिश्च| पञ्चदशाहोरात्राः पक्षः| पक्षद्वयं मासः| स शुक्लान्तः| तैर्मार्गशीर्षादिभिर्द्विसङ्ख्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षाशरदाख्याः षडृतवो भवन्ति| तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानञ्च| शेषा दक्षिणायनं विसर्गश्च| तावादानविसर्गौ वर्षम्||४||

🔊 Audio coming soon

सुबोधम्| विंशतिः कलाः कलाया दशभागसहिताः नाडिका| नाडिकाद्वयशब्देनोच्यते मुहूर्तः| ते च मुहूर्ताश्चत्वारः मुहूर्तचतुर्भागेन हीनाः यामः| यत्र रात्रेर्दिव(स)स्य च साम्यं तत्रैवम्| अन्यत्र तु वृद्धहानी स्वबुद्ध्योह्ये| मार्गशीर्षादिमासद्वयक्रमेण हेमन्ताद्याख्याः षड् ऋतवो भवन्ति| तेषु षडृतुषु मध्ये त्रयः शिशिरवसन्तग्रीष्मा रवेस्तिग्मांशोरुदगयनमुदीचीप्रस्थानमादानञ्च तदुच्यते| शेषास्त्रयो रवेर्दक्षिणायनं विसर्गश्चोत्यते| तौ वर्षम्|

Adhikarana AdAnakAlaH (5) · Śloka 5

तयोरादामाग्नेयम्| तस्मिन् खलु कालस्वभावमार्गपरिगृहीतोऽत्यर्थोष्णागभस्तिजालमण्डलोऽर्कः तत्सम्पर्काद्वायवश्च तीव्ररूक्षाः सोमजं गुणमुपशोषयन्तो जगतः स्नेहमाददाना ऋतुक्रमेणोपजनितरौक्ष्या रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयन्तो नृणां दौर्बल्यमावहन्ति||५||

🔊 Audio coming soon

तयोश्चाऽदानविसर्गयोरादानमाद्नेयम्| तदा हि भावारम्भकस्याग्नेर्बलमवश्यं भवतीत्यर्थः| तस्मिन्नित्यादि आदानकालस्वभावेनोत्तरमार्गगमनेन चात्यर्थमुष्णकिरणसमूहव्याप्तमण्डलो भगवानंशुमाली तत्सम्बन्धेन च वायवोऽत्यन्तरूक्षाः सोमजं गुणमब्भागमुपशोषयन्तो जगतः स्थावरजङ्गमस्य, ऋतुक्रमेण दिनानुदिनं स्नेहं गृह्णाना दत्तरौक्ष्याश्च अतिरौक्ष्येण युक्तान् तिक्तकषायकटुकान् रसानभिवर्धयन्तो नृणां मनुष्यजातीनां, दौर्बल्यं हीनबलतां कुर्वन्ति|| ५||

Adhikarana visargakAlaH (6) · Śloka 6

विसर्गस्तु सौम्यः| तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगेऽर्के शशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेन्द्रसलिलप्रशान्तसन्तापे जगत्यरूक्षाः रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति||६||

🔊 Audio coming soon

एताद्विपर्ययत्वाद्विसर्गस्य| सुबोधम्|| ६||

Adhikarana RutusharIrabalasvarUpam (7) · Śloka 7

भवति चात्र- हेमन्ते शिशिरे चाग्र्यं विसर्गादानयोर्बलम्| शरद्वसन्तयोर्मध्यं हीनं वर्षानिदाघयोः||७||

🔊 Audio coming soon

भवति चात्रेति पद्यारम्भे तन्त्ररीतिः| विसर्गादानयोर्मध्ये हेमन्ते शिशिरे च पुरुषाणां बलाधिकता भवति| हेमन्ते विसर्गस्य परप्रकर्षाधिरोहात्| शिशिरे त्वादानेनाव्याप्तत्वात्| शरद्वसन्तयोरादानविसर्गयोर्मध्यवान्मध्यबलता| ग्रीष्मे आदानस्य परप्रकर्षाधिरोहात्, वर्षासु च विसर्गेणाव्याप्तत्वाद्धीनबलत्वम्|| ७||

Adhikarana hemantartulakShaNam (8) · Śloka 8

धूमधूम्रा रजोमन्दास्तुषाराविलमण्डलाः| दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः| लोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्ज्वलाः| दृप्ता गजाजमहिषवाजिवायससूकराः| हिमानीपटलच्छन्नाः लीनमीनविहङ्गमाः| नद्यः सवाष्पाः सोष्माणः कूपापश्च हिमागमे||८||

🔊 Audio coming soon

शिशिरे हेमन्तविधेरतिदेशाय लाघवविकल्पात् आदानक्रमभङ्गेनादौ हेमन्त उच्यते| त्रिविधो हि ऋतुः मासस्वरूपेण राशिस्वरूपेण स्वलक्षणस्वरूपेण च| तत्र मासस्वरूपं द्विसङ्ख्यैर्मार्गशीर्षादिभिरित्यादिनोक्तम्| राशिस्वरूपं लोके प्रसिद्धं यथा धनुधर्मकरौ हेमन्त इत्यादि| धूमधूम्रेत्यादिना स्वरूपलक्षणमुच्यते- प्रयोजनञ्च विद्यते ऋतुस्वलक्षणोक्तेर्हीनयोगादिचतुष्टयजं यज्ज्ञानम्| धूमवत् धूम्रेण मलिनेन मन्दाः अपटवः दिशः आदित्यश्च| तथा तुषारेणाऽविलानि मण्डलानि यासां ता दिशस्तथोक्ताः, आदित्यश्च तुषारविलमण्डलः| उत्तर उत्तरीयो वायुः शैत्येन रोमहर्षणः| लिध्रादयश्च तदा कुसुमैः उज्ज्वला भवन्ति| गजादयश्च दृप्ताः सदर्पाः| नद्यश्च हिमानीपटलेन च्छान्नाः स्थगिताः, मीनाः विहङ्गमाश्च दीनाः निःसञ्चाराः यासु तास्तथोक्ताः तथा सवाष्पाः| तथा कूपापः सोष्माणो भवन्ति|| ८||

Adhikarana hemante caryA (9) · Śloka 9

देहोष्माणो विशन्तोऽथ शीते शीतानिलाहता| जठरे पिण्ड्तोष्माणं प्रबलं कुर्वतेऽनलम्| विसर्गे बलिनां प्रायः स्वभावादिगुरुक्षमम्| बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये| अनिन्धनोऽन्यथा सीदेदत्युदीर्णतयाऽथवा| धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत्| तेजः सहचरः कुप्येच्छीतः शीते विशेषतः||९||

🔊 Audio coming soon

तथा शीते काले हेमन्तशिशिरयोः, पुरुषाणां देहोष्माणः स्वभावादिगुरुक्षमं प्रबलमनलं कुर्वते| किम्भूतानाम्? विसर्गत्वाद्बलवताम्| किम्भूता देहोष्माणः? बहिः क्रुद्धेन बलवता च शीतेन वायुना आहता पुनरन्तरे प्रविशन्तः| किम्भूतमग्निम्? पिण्डितोष्माणं प्रविष्टैर्देहोष्मभिर्मिश्रीभूतमित्यर्थः| स्वभावादिगुरुक्षमं तज्जरयितुं शक्नोतीत्यर्थः| स्वभावगुरुः द्रव्यस्वरूपेणैव गुरुः, यथा माषादि| आदिग्रहणेन मात्रासंयोगसंस्कारपरिणामानां ग्रहणम्| तस्याग्नेर्युक्तये समवाहनाय बृंहणान्यन्नपानानि योजयेत्| यद्येवं न क्रियते ततो बाह्याग्निरिव निरिन्धनः सीदेत् नाशं प्राप्नुयात्| अत्युदीर्णतया वा धातूनपि पचेत्| तेषां धातूनां क्षयान्मरुद्वायुस्तेजोमिश्रितः कुप्येत्|| ९||

Adhikarana hemantacaryA (10) · Śloka 10

अतो हिमे भजेत्स्निग्धान्स्वाद्वम्ललवणान्रसान्| बिलेशयौदकानूप्रसहानां भृतानि च| मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च| माषेक्षुक्षीरविकृतिवसातैलनवौदनान्| व्यायामोद्वर्तनाभ्यङ्गस्वेदधूमाञ्जनातपान्| सुखोदकं शौचविधौ भूमिगर्भगृहाणि च| साङ्गारयानां शय्याञ्च कुथकम्बलसंस्कृताम्| कुङ्कुमेनानुलिप्ताङ्गो गुरुणाऽगरुणापि वा| लघूष्णैः प्रावृतः स्वप्यात्काले धूपाधिवासितः| पीनाङ्गनासंसर्गनिवारितहितमानिलः||१०||

🔊 Audio coming soon

शीतकाले तस्मात्स्निग्धमधुरादीन् रसान् भजेत्तस्य मरुतः कोपरक्षार्थम्| स्निग्धानिति घृतादिसंस्कृतान्| अन्यत् सुबोधम्| बिलेशयादेर्मांसानि भृतानि यत्नपुष्टस्य प्राणिनः सम्बन्धीनि, तथा गुडोत्थानि पिष्टोत्थानि च नवानि मद्यानि| गुडोत्थानि यानि गुडेन प्रधानेन क्रियन्ते, न त्विक्षुरसेन, पिष्टं शालिपिष्टम्| अङ्गारयानमग्निशकटिका| कुथं कार्पासादिपूर्णम्| गुरुणा अगुरुणा बहुना अगरुसारेण, कुङ्कुमेन वा दिग्धः उपलिप्ताङ्गः, लघूष्णैश्चर्मकौशेयादिभिः प्रावृतः सन्नुचिते काले स्वप्यात्| उपचितशरीरकामिनीवपुः सम्बन्धपरिहृतशीतपवनः सन्|| १०||

Adhikarana shishirartulakShaNantatra caryAtideshashca (11) · Śloka 11

शिशिरे शीतमधिकं मेघमारुतवर्षजम्| रौक्ष्यमादानजं तस्मात्कार्यः पूर्वोऽधिकं विधिः||११||

🔊 Audio coming soon

शिशिरे हेमन्तस्वरूपाधिक्यात् हेमन्तविधिरेवाधिकाः कार्यः| यतः शिशिरे बहिः शीतेनात्यन्तं रुध्यन्ते देहोष्माणः| आदानत्वाच्च रौक्ष्यं जायते|| ११||

Adhikarana vasantartulakShaNam (12) · Śloka 12

वसन्ते दक्षिणो वायुराताम्रकिरणो रविः| नवप्रवालत्वक्पत्राः पादपाः ककुभोऽमलाः| किंशुकाशोकचूतादिवनराजिविराजिताः| कोकिलालिकुलालापकलकोलाहलाकुलाः||१२||

🔊 Audio coming soon

वसन्तेत्यादिना वसन्तस्वरूपलक्षणं वर्णयति| वसन्ते वायुर्दाक्षिणात्यो भवति, रविश्चैष लोहितदीधितिः| नवाः प्रवालादयो येषु पादपेषु ते तथोक्ताः| प्रवालं अभिनवोद्भिन्नं किसलयम्| ककुभो दिशो निर्मलाः| तथा किंशुकादिभिः या वनराजयः ताभिः विराजिताः ककुभो भवन्ति तथा कोकिलानामलिकुलानां भ्रमरसन्ततीनां च आलापैर्यः कलो मधुरः कोलाहलस्तेनाऽकुलाः|| १२||

Adhikarana vasante caryA (13) · Śloka 13

शिशिरे समुचितः श्लेष्मा दिनकृद्भाभिरीरितः| तदा प्रबोधमानोऽग्निं रोगान् प्रकुरुते बहून्| अतोऽस्मिंस्तीक्ष्णवमनधूमगण्डूषनावनम्| व्यायामोद्वर्तनक्षौद्रयवगोधूमजाङ्गलान्| सेवेत सुहृद्युद्यानयुवतीश्च मनोरमाः| स्नातः स्वलङ्कृतः स्रग्वी चन्दनागरुरूषितः| विचित्रामत्रविन्यस्तान् सहकारोत्पलाङ्कितान्| निर्गदांश्चासवारिष्टशीधुमार्द्वीकमाधवान्| क्वथितं मुस्तशुण्ठ्यम्बुसाराम्भः क्षौद्रवारि वा| गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्||१३||

🔊 Audio coming soon

पूर्वं शिशिरे मधुरस्निग्धादिना आहारेण श्लेष्मा सञ्चितोऽतिशयेन स्त्यानत्वान्न कुपितः, सम्प्रति दिनकृत् प्रभाभिर्विलायितो द्रवस्वरूपत्वाद्विपरीतस्याग्नेर्बाधां करोति| तद्बाधया चानेकरोगोत्पत्तिः| अतः कारणाच्छ्लेष्मनाशनार्थं तीक्ष्णवमनादिकं सेवेत| अन्यत् सुबोधम्| चन्दनागरुभ्यां रूषितः उपलिप्तः आसवादीन् निर्गदान् देशकालाद्यनुपहतान्| साराम्भः असनख़दिरचन्दनादिसारसंस्कृताम्भः| तदा गुर्वादींस्त्यजेत्|| १३||

Adhikarana grIShmartulakShaNam (14) · Śloka 14

ग्रीष्मेऽतसीपुष्पनिभस्तीक्ष्णांशुर्दावदीपिताः| दिशो ज्वलन्ति भूमिश्च मारुतो नैऋतो सुखः| प्रवातातपसंस्वेदैर्जन्तवो ज्वरिता इवा| तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः| दिवाकरकराङ्गारनिकरक्षपिताम्भसः| प्रवृद्धरोधसो नद्यश्छायाहीना महीरुहाः| विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः||१४||

🔊 Audio coming soon

ग्रीष्मेत्यादिना ग्रीष्मस्वरूपस्य लक्षणं दर्शयति| ग्रीष्मे तीक्ष्णांशुः सूर्योऽतसीपुष्पनिभः, आनील इव| दावो वनाग्निः| नैऋतो वायुः दक्षिणपश्चिमदिशोरन्तरः| तदा हि पवनादिभिर्जन्तवो ज्वरिता इव भवन्ति| तथा नद्यस्तापार्तत्वादिर्विशिष्टैर्मातङ्गादिभिः कलुषीकृताः, दिवाकरकरा एवाङ्गारास्तेषां निकरेण क्षपितमम्भो यासां तास्तथोक्ताः, तथा प्रवृद्धानि रोधांसि तदानीं स्वल्पोदकत्वात् तास्तथा| महीरुहा वृक्षाः च्छायाहीनत्वादिगुणयुक्ताः||१४||

Adhikarana grIShmacaryA (15) · Śloka 15

आदत्ते जगतस्तेजस्तदाऽदित्यो भृशं यतः| व्यायामातपकट्वम्ललवणोष्णं त्यजेदतः| मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबहुवारि वा| अन्यथा शोफशैथिल्यदाहमोहान्करोति तत्| नवमृद्भाजनस्थानि हृद्यानि सुरभीणि च| पानकानि समन्थानि सिताढ्यानि हिमानि च| स्वादु शीतं द्रवं चान्नं जाङ्गलान्मृगपक्षिणः| शालिक्षीरघृतद्राक्षानालिकेराम्बु शर्कराः| तालवृन्तानिलान्हारान्स्रजः सकमलोत्पलाः| तन्वीर्मृणालवलयाः कान्ताश्चन्दनरूषिताः| सरांसि वापीः सरितः काननानि हिमानि च| सुरभीणि निषेवेत वासांसि सुलघूनि च| निष्पतद्यन्त्रसलिले स्वप्याद्धारागृहे दिवा| रात्रौ चाऽकाशतलके सुगन्धिकुसुमास्तृते| कर्पूरचन्दनार्द्राङ्को विरलानङ्गसङ्गमः||१५||

🔊 Audio coming soon

यतः आदित्योऽतिशयेन तेज आदत्ते| तेजः शुक्लान्तानां धातूनां स्नेहः (सारः)| अतो व्यायामादींस्त्यजेत्| अन्यत् सुबोधम्| सुबहुवारि यस्मिन् मद्ये तत्तथोक्तम्| मन्थः प्रभूतोदकाः सक्तवः| तालवृन्तमुत्क्षेपकम्| निष्पतद्यन्त्रवाहि जलं यस्मिन् धारागृहे तत्तथोक्तमाकाशतलकं शरणपृष्ठकम्|| १५||

Adhikarana varShartulakShaNam (16) · Śloka 16

वर्षासु वारुणो वायुः सर्वसस्यसमुद्गमः| भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः| दीर्घिकानववार्यौघमग्नसोपानपङ्क्तयः| वारिधाराभृशाघातविकासितसरोरुहाः| सरितः सागराकारा भूरव्यक्तजलस्थला| मन्द्रस्तनितजीमूतशिखिदर्दुरनादिता| इन्द्रगोपधनुःखण्डविद्युदुद्योतदीपिता| परितः श्यामलतृणा सिलिन्ध्रकुटजोज्ज्वला||१६||

🔊 Audio coming soon

वर्षास्वित्यादिना तस्यैव स्वरूपलक्षणमुच्यते| तदा वरुणदिक्को वायुर्वहति सर्वसस्यानां समुद्रमहेतुः| तथा भिन्नेन्द्रनीलेन तुल्यैः नीलत्वैरभ्रवृन्दैर्मन्दमपटु आविलमाकुलञ्च नभो भवति| भेदे हीन्द्रनीलोऽतिशयनीलवान् भवति| नवेन वार्यौघेन मग्नाः स्थगिताः सोपानपङ्क्तयो यासु दीर्घिकासु पुष्करिणीषु ताः तथोक्ताः| तथा ता एव मेघवारिधाराभिर्योऽसौ भृशमत्यर्थमाघातस्तेन विकासितसरोरुहाः| नद्यश्च समुद्रसदृशाः| भूश्च बहुलजलप्लावितत्वादव्यक्तजलस्थला भूतपूर्वस्य जलस्य व्यक्तदेशो न ज्ञायत इत्यर्थः| तथा मन्द्रस्तनिता मधुरशब्दाः ये जीमूता मेघाः शिखिनो मयूराः दर्दुरा मण्डूकाः तैर्नादिता कृतशब्दा भूर्भवति| तथा इन्द्रगोपैर्भास्वरैः कृमिविशेषैर्धनुःखण्डेन चैन्द्रेण विद्युद्भिश्च य उद्योतः प्रकाशः, तेन दीपिता प्रकटा भूः भवति| तथा परितः समन्तात् श्यामलानि तृणानि यस्या सा तथोक्ता| तथा सिलिन्ध्रैः कुटजैश्च पुष्पविशेषैरुज्ज्वला|| १६||

Adhikarana varShAcaryA (17) · Śloka 17

तदाऽऽदानाबले देहे मन्देऽग्नौ बाधिते पुनः| वृष्टिभूवाष्पतोयाम्लपाकदुष्टश्चलादिभिः| बस्तिकर्म निषेवेत कृतसंशोधनक्रमः| पुराणशालिगोधूमयवान्यूषरसैः कृतैः| निगदं मदिरारिष्टमार्द्वीकं स्वल्पमम्बु वा| दिव्यं क्वथितकूपोत्थं चौण्डं सारसमेव वा| वृष्टिवाताकुले त्वह्नि भोजनं क्लेदवातजित्| परिशुष्कं लघु स्निग्धमुष्णाम्ललवणं भजेत्| प्रायोऽन्नपानं सक्षौद्रं संस्कृतं च घनोदये| असरीसृपभूवाष्पशीतमारुतशीकरम्| साग्नियानञ्च भवनं निर्दंशमशकोन्दुरम्| प्रघर्षोद्वर्तनस्नानधूमगन्धागरुप्रियः| यायात्करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः| नदीजलोदमन्थाहः स्वप्नातिद्रवमैथुनम्| तुषारपादचरणव्यायामार्ककरांस्त्यजेत्||१७||

🔊 Audio coming soon

तदा वर्षास्वादनत्वादबलत्वेनाग्निमान्द्यम्| पुनश्च वृष्ट्यादिदुष्टैर्वातादिभिरात्यर्थं बाधिते अग्नौ तदुपकाराय बस्तिकर्मादिकं निषेवेत| किम्भूत इत्याह- कृतसंशोधनक्रमः| यथोक्तौ वमनविरेकौ कृतौ येन स तथोक्तः| कृता यूषादयः स्नेहशुण्ठ्यादियुक्ताः दिव्याम्बु क्वथितं पिबेत्| चौण्डं यत्पर्वते शिलाकूपिकाभवम्| वृष्ट्या वातेन चाऽकुले वृष्टिवातभूयिष्ठं, संस्कृतं कालयोग्यैर्द्रव्यैः| सरीसृपाः सर्पवृश्चिकादयः|| १७||

Adhikarana sharadRutulakShaNam (18) · Śloka 18

शरदि व्योम शुभ्राभ्रं किञ्चित्पङ्काङ्किता मही| प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी| विक्षिप्ततीक्ष्णकिरणो मेद्यौघविगमाद्रविः| बभ्रुवर्णोऽतिविमलाः क्रौञ्चमालाकुला दिशः| कमलान्तरसंलीनमीनहंसांसघट्टनैः| तरङ्गभङ्गतुङ्गानि सरांसि विमलानि च||१८||

🔊 Audio coming soon

शरदि व्योमेत्यादिना शरत्स्वरूपं वर्णयति- प्रकाशाः काशाः सप्ताह्वपुष्पं कुमुदानि च यस्यां भुवि सा तथोक्ता| तथा मेघौघविगमाद्धेतोः रविर्विक्षिप्ततीक्ष्णकिरणो बभ्रुवर्णश्च भवति| बभ्रुः कपिलः| तथा कमलानामन्तरे ये संलीना मीना हंसाश्च तेषां सङ्घट्टनैर्ये तरङ्गभङ्गास्तैस्तुङ्गानि उन्नतानि यानि सरांसि तानि तथोक्तानि|| १८||

Adhikarana sharadi caryA (19) · Śloka 19

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः| तप्तानां सञ्चितं पूर्वं तदा पित्तं प्रकुप्यति| शस्तं तिक्तहविःपानं विरेकोऽस्रस्रुतिः सदा| शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकम्| शालिषष्टिकगोधूमयवमुद्गसितामधु| पटोलामलकं द्राक्षा जाङ्गलं क्षुद्वतां भृशम्| दिवा दिवाकरकरैर्निशाकरकरैर्निशि| सन्तप्तं ह्लादितं तोयमगस्त्येनाविषीकृतम्| निर्मलं शुचि कालेन पक्वं पानेऽमृतोपमम्| हंसौघपक्षविक्षेपभ्रमरपङ्क्तिषु| सुसरोरुहसेव्यासु सरसीषु प्लवेत् च| लघुशुद्धाम्बरः स्रग्वी शीतोशीरविलेपनः| सेवेत चन्द्रकिरणान्प्रदोषे सौधमाश्रितः| तृप्तिदध्यातपक्षारवसातैलपुरोनिलान्| तीक्ष्णमद्यदिवास्वप्नतुषारांश्च विवर्जयेत्||१९||

🔊 Audio coming soon

वर्षास्वम्लाविपाकजलमद्यादिभिः पित्तं सञ्चितं कालस्य शैत्यादिकुपितमादित्यकिरणसन्तापेन शरदि कुप्यति| अतिस्तिक्तघृतपानादिकं पित्तजयाय सेवेत, तिक्तं नाम घृतं वक्ष्यते (चि०अ०-२१); अन्ये तु महातिक्तपञ्चतिक्तादि सर्वं तिक्तद्रव्यसिद्धमिच्छन्ति| अन्यत् सुबोधम्|| १९||

Adhikarana sarvartuShu ShaDsopayogakramaH (20) · Śloka 20

नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||२०||

🔊 Audio coming soon

नित्यं सर्वेष्वृतुषु सर्वरसाभ्यासः| ये च रसा यस्मिन् ऋतावुक्ताः तत्राधिक्येन सेव्या इति|| २०||

Adhikarana RutusandhiH caryAkramashca (21) · Śloka 21

ऋत्वोरन्तादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्| असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्||२१||

🔊 Audio coming soon

गच्छत ऋतोरन्तसप्ताह आगच्छत ऋतोरादिसप्ताहः इति दिवसाश्चतुर्दश ऋतुसन्धिशब्दवाच्याः तस्मिंश्च ऋतुसन्धौ गच्छतस्तु विधिः क्रमेण त्याज्यः| तथैव क्रमेण वर्त्तमानस्य विधिः सेव्यः सेवनीयः| क्रमश्च `पादेनापथ्यमभ्यस्तम्' (सू०अ०-९) इत्यादिना वक्ष्यते| अन्यथा झटिति विधित्यागोपादाने कुर्वतोऽसात्म्यत्वाद्रोगोत्पत्तिः|| २१||

Adhikarana samyagrogamukteShveva RutuShvayaM vidhiH (22) · Śloka 22

ऋतुष्वेवंविधेष्वेष विधिः स्वास्थ्ये च देहिनाम्| निर्दिश्यतेऽन्यरूपेषु विरुद्धज्ञनिको विधिः||२२||

🔊 Audio coming soon

एवंविधेष्वृतुषु यथोक्तकालस्वरूपलक्षणेष्वेवायं यथोक्तविधिः| अनेन च विधिनैवंविधेष्वेव स्वास्थ्यम्| अन्यरूपेषु तु विरुद्धविज्ञानप्रसङ्गे निर्देक्ष्यते (सू०अ०-९)|| २२||

Adhikarana RutoH lakShaNatrayaM sUtra~jca (4) · Śloka 4

मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम्| यथोत्तरं भजेच्चर्यां तत्र तस्य बलादिति||२३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने ऋतुचर्यानाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

अस्य च ऋतोर्मासादिस्वरूपेण यल्लक्षणत्रयं प्रसिद्धं तत्र यथोत्तरं चर्यां सेवेत यथोत्तरस्यैव बलवत्त्वात्| तेनैतदुक्तं भवति- यो यस्यर्तोर्विधिरुक्तः स तन्मासप्रारम्भ एव सति राशिस्वरूपाभ्यां रहितस्य स्वल्पं योज्यः| अथ चेत् कदाचिद् राशिरपि प्राप्तो न तु यथोक्तस्वलक्षणस्तत्र स एव विधिः किञ्चित्परिपूरणीयः| यत्र तु मासे राशिः स्वरूपलक्षणञ्च परिपूर्णं तत्र विधिरपि परिपूर्ण एव| तथा यत्रापि मासेन विना राशिः प्राप्तः न तु स्वरूपलक्षणं, तत्र मध्यो विधिः| मासस्वरूपलक्षणयोरन्तरत्वाद्राशेर्बलवत्त्वम्| यत्र मासराशिभ्यां विनैव पूर्णं स्वरूपलक्षणं, तत्र पूर्णो विधिः| स्वरूपलक्षणस्य सर्वबलत्त्वादिति|| २३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने चतुर्थोऽध्यायः||४||