Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. dravadravyavijñānīyaḥ

Adhikarana atha dravadravyavij~jAnIyo nAma ShaShTho~adhyAyaH pratij~jA (1) · Śloka 1

अथातो द्रवद्रव्यविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

स्वस्थहितप्रसङ्गेनान्नपानमुच्यते| तत्रान्नपानानां संस्काराद्युपयोगो द्रवे तोयादिके सम्भवति| अथ प्रथमं तोयादीन्युच्यन्ते-अथात इत्यादि|| १||

Adhikarana (1) toyavargaH (2) · Śloka 2

जीवनं तर्पणं ह्र्द्यं ह्लादि बुद्धिप्रबोधनम्| तन्वव्यक्तरसं मृष्टं शीतं शुच्यमृतोपमम्| सूर्योद्धृतप्रभुक्तत्त्वाल्लघु वातकफापहम्| शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित्| गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः| हिताहितत्वे तद्भूयो देशकालावपेक्षते||२||

🔊 Audio coming soon

जलस्य च प्राधान्याद्ग्रे ग्रहणम्| अत आह - जीवनमित्यादि| गङ्गाम्बु जीवनत्वादिगुणयुक्तम्| जीवनं सौम्यधातुवृद्धिकरम्| ओजोवृद्धिकरमित्यन्ये| तर्पणं तृप्तिकृत्| हृदयस्य प्रियं हृद्यम्| ह्लादि आह्लादकरम्| बुद्धेः प्रबोधनं पटुत्वकरम्| तनु स्वच्छम्| अव्यक्तरसं माधुर्यादिनाऽविविक्तम्| मृष्टं स्वादुत्वादिगुणयुक्तम्| शीतं वीर्येण| अग्न्यातपाद्यतप्तमन्योदकेभ्यः स्वभावेन शीततरम्| शुचि पवित्रम्| अमृतोपमं प्राणसन्धारकत्वात्| सूर्येण रविणोद्धृत्य यतो मुक्तमतः क्रियायोगादागतलाघवं च| वातश्लेष्मघ्नं च अन्यपानीयापेक्षया| शीतत्वादिना च पित्तादिविनाशनम्| किम्भूतं गङ्गाम्बु नभसोऽन्तरिक्ष्रात् भ्रष्टं पतितम्| तथा रविचन्द्रवायुभिः पतदेव स्पृष्टम्| एवं स्वरूपमपि गङ्गाम्बु पथ्यत्वेऽपथ्यत्वे च देशं कालं चापेक्षते| एवंविधे देशे च यतः पतितमत एवं गुणं एवं कालेऽपि| देशकालौ च गुणविशेषेण वक्ष्यमाणलक्षणौ||२||

Adhikarana gA~ggasAmudrajalalakShaNe tayoH pEyatvamapeyatva~jca (3) · Śloka 3

येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम्| अक्लिन्नमविवर्णं वा तत्पेयं गाङ्गमन्यथा| सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना||३||

🔊 Audio coming soon

ननु गाङ्गाम्बु न ज्ञायते| कतमत्तदित्यत उच्यते- येनाभिवृष्टमिति| येनाम्बुनाभिवृष्टं सिक्त ममलं निर्मलं शाल्यन्नमक्लिन्नमविवर्णं वा भवति तदम्बु गाङ्गत्वात्पेयम्| वेति समुच्चये| एतद्विपर्ययेण सामुद्रम्| तच्चाश्वयुजं मासं वर्जयित्वा अन्यस्मिन् मासे न पेयम्|| ३||

Adhikarana gA~ggodakasaMgrahaNopAyaH (4) · Śloka 4

खातधौतशिलापृष्ठवस्त्रादिभ्यश्च्युतं जलम्| हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत्||४||

🔊 Audio coming soon

एतच्चाभिवृष्टं प्रथमं खातादिनोपायेन गृह्यते| खाताद् गृहीतम्| धौतशिलापृष्ठाद् गृहीतम्| धौतवस्त्रादिभ्यो वा च्युतम्| हैमे सौवर्णे मृन्मये वा पात्रेऽवस्थितमविकृतम्| तत्सदा पिबेत्| खातो जलग्रहणार्थो भूकुण्डिका|| ४||

Adhikarana BUmiShThamudakam (5) · Śloka 5

तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्||५||

🔊 Audio coming soon

तदभावे च भूमिष्ठं पेयम्| यद्गुणैः स्वच्छत्वादिभिरान्तरिक्षमनुकरेति तत्सदृशं गुणैरित्यर्थः|| ५||

Adhikarana deshavargaBedEna BUtavisheSheNa ca jale rasAH (6) · Śloka 6

श्वेते कषायं तत्स्वादु कृष्णे तिक्तं च पाण्डुरे| नीले कषायमधुरं देशे लवणमूषरे| सक्षारं कपिले मिश्रं मिश्रेऽथाम्बुगुणाधिके| म्धुरं लवणाम्लं तु भवेद्भूमिगुणाधिके| तेजोधिके तिक्तकटु कषायं पवनाधिके| दिव्यानुकारि त्वव्यक्तरसत्वास्त्वगुणाधिके| शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतम्||६||

🔊 Audio coming soon

भूमिष्ठमुक्तं तस्यैव विशेष उच्यते देशविशेषेण| श्वेते मृदि प्रदेशे स्थितमुदकं कषायरसतं याति| एवं कृष्णे मधुरताम्| पाण्डुरे तिक्तताम्| नीले कषायमधुरताम्| ऊषरे च् लावण्यम्| ऊषरो यो दग्धमृदिव प्रदेशः स ऊषरः स्यात् `ऊषरः क्षारमृत्तिका'| कपिले सक्षारमुदकं भवति| सक्षारं क्षारत्वगुणयुक्तं, क्षारो नाम रसविशेषः| क्षारोऽसौम्यः कठिनभाववैपरीत्यकृत्| मिश्रलक्षणे मिश्रगुणः| सर्वश्च भूप्रदेशः पञ्चभूतात्मकः न सर्वत्र भूतसाम्यं भवति| अत उच्यते आप्यभागाधिके देशे मधुरमुदकं भवति| पर्थिवरुणाधिके लवणाम्लम्| तेजोभागाधिके तिक्तकटुकम्| वायुभागाधिके कषायम्| आकाशगुणाधिके चाव्यक्तरसत्वादान्तरिक्षसमगुणम्| भूताधिक्यञ्च विशिष्टमनेनैव मधुरत्वादिना ज्ञायते| `गुणशब्दश्च भागपर्यायः'| संख्याया गुणस्य समाने' इत्यादिना (पा०सू०- ५.२.४७) काशिका| विभागो गुण इति च| यथा अव्यक्तरसत्वम्| मूर्तमहाभूतस्वल्पत्वादिदमपि दिव्यसदृशं शुचौ विस्तीणें कृष्णो श्वेतमृदि च स्थितमर्केण वायुना चाहतम्|| ६||

Adhikarana jalasyAShTau BedAsteShAM guNAshca (7) · Śloka 7

कौपसारसताटाकचौण्डप्रास्त्रवणोद्भिदम्| वापीनदीतोयमिति तत्पुनः स्मृतमष्टधा| सक्षारं पित्तकृत्कौपं दीपनं नातिवातलम्| सारसं स्वादु लघु च ताटाकं गुरु वातलम्| चौण्डं तु पित्तलं दोषहरं प्रास्त्रवणोदकम्| औद्भिदं स्वादु पित्तघ्नं स्वादु वापीजलं लघु| नादेयं वातलं रूक्षं कटुकञ्च तदाऽऽदिशेत्| धन्वानूपमहीध्राणां सामीप्याद् गुरुलाघवम्||७||

🔊 Audio coming soon

तद्भूमिष्ठमधाष्टभिः प्रकारैः स्मृतं कौपत्वादिभिः| कूपे भवं कौपम्| सरसि भवं सारसम्| तथा ताटाकम्| चौण्डं पर्वतादौ पाषाणनिम्नस्थितम्| ताटाकञ्चान्तरिक्षात्पतित्वा भूमौ स्थितम्| प्रास्त्रवणं पर्वतात्स्त्रुतम्| औद्भिदं भूमावुद्भिद्य तत्रैव तिष्ठति| वापी कूपवत्सर्वतः कृतसोपानपंक्तिः| नदी प्रसिद्धा| एतेषां क्रमेण गुणनिदर्शनम्| कौपं क्षारगुणयुक्तं पित्तलं अग्निदीपनमल्पवातलञ्च| सारसं मधुरं लघु च| ताटाकं गुरु वातकरञ्ह्च| चौण्डं पित्तलम्| प्रास्त्रवणं त्रिदोषहरम्| औद्भिदं मधुरं पित्तघ्नम्| वापीजलं मधुरं लघु च| सामान्येन वातलं रूक्षं कटुकं च नादेयम्| कौपादीनां च सप्तानां धन्वादिसामीप्याद् गुरुत्वं लघुत्वञ्च विज्ञेयम्| तेनैतदुक्तं भवति-आनूपे यथोक्तलक्षणे स्थिता कूपादयो गुरवः| धन्वनि जाङ्गले देशे स्थिता आनूपेभ्यो लघवो बहूदकसम्बन्धाभावात्| तेभ्यो जाङ्गलेभ्यः पर्वतस्थानां कूपादीनामतिलघुत्वमुदकानामत्यन्ताभावादित्यत्र चोत्सर्गापवादोपबृंहणकल्पना च स्वबुद्ध्या योज्या|| ७||

Adhikarana pathyA~apathyAshca nadyaH samudrajalaguNAshca (8) · Śloka 8

पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः| पथ्याः समासात्ता नद्यो विपरीतास्ततोऽन्यथा| उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः| हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिताः| कृमिश्लीपदहृत्कण्ठशिरोरोगान्प्रकुर्वते| प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः| उदरश्लीपदातङ्कान् सह्यविन्ध्यभवाः पुनः| कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः| बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत्||८||

🔊 Audio coming soon

नद्य उच्यन्ते| समासात्संक्षेपतः इदमुच्यते- पश्चिमसमुद्रगाः शीघ्रवाहिन्यो निर्मलपानीयाश्च नद्यः पथ्याः| एतद्विपरीतलक्षणा विपरीता अपथ्याः| हिमवदुद्भूता मलयोद्भूताश्च पाषाणक्षुण्णाः पथ्याः| स्थितास्ता एवापथ्याः क्रिमिश्लीपदादिकराश्च| प्राच्यादिजाता दुर्नामानि कुर्वते| प्राच्या गौडाः| अवन्तयो मालवाः| अपरान्ताः कोङ्कणाः| महेन्द्रजा उदरादिकं कुर्वते| सह्याद्विन्ध्याच्च जाताः कुष्ठादिकं कुर्वते| पारियात्रजास्त्रिदोषहरा बल्याः पौरुषकारिण्यः| पौरुषं वृषत्वम्| समुद्रजलं त्रिदोषकरम्|| ८||

Adhikarana snAnapAnayorvarjyajalaM tatra hetuSca (9) · Śloka 9

कीटाहिमूत्रविट्कोथतृणजालोत्कराविलम्| पङ्कपङ्कजशैवालहठपर्णादिसंस्तृतम्| सूर्येन्दुपवनादृष्टं जुष्टं च क्षुद्रजन्तुभिः| अभिवृष्टं विवर्णञ्च कलुषं स्थूलफेनिलम्| विरसं गन्धवत्तप्तं दन्तग्रह्यतिशैत्यतः| अनार्तवं च यद्दिव्यमार्तवं प्रथमञ्च यत्| लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्| तत्कुर्यात्स्नानपानाभ्यां तृष्णाऽऽध्मानोदरज्वरान्| कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः| तद्वर्जयेदभावे वा तोयस्यान्यस्य शस्यते| घनवस्त्रपरिस्त्रावैः क्षुद्रजन्त्वभिरक्षणम्| व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः| पर्णीमूल-बिसग्रन्थिमुक्ता-कतक-शैवलैः| वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम्| पाटला-करवीरादि-कुसुमैर्गन्ध-नाशनम्||९||

🔊 Audio coming soon

कीटमूत्रादियुक्तं जलं स्नानपानादिना तृष्णादीन् कुर्यात्| कीटादीनां क्रिम्यादीनाम् मूत्रेण, विशा, कोथेन चाविलं मिश्रीभूतम्| कोथो मृतशरीरक्लेदः| तृणसमूहेन चाविलम्| उत्करो गृहादिमार्जनराशिः| पङ्कादिभिश्च संस्तृतं गृहीतप्रस्तारम्| हठो निर्मूलोद्भवस्तृणविशेषः| तथा सूर्यादिभिरदृष्टम्| तथा क्षुद्रजन्तुभिः क्रिमिभिर्जुष्टं सेवितम्| अभिवृष्टं तत्कालपतितान्यवर्षमिश्रीभूतम्| तथा घनम्| तथा स्थूलफेनिलं बृहत्फेनयुक्तम्| विरसं दुर्गन्धि| अतिशीतञ्च| दिव्यम् आन्तरिक्षम् अनार्तवम् अनृतौ पतितम्| ऋतुर्देशविशेषेण नियत एव| वर्षस्य वर्षा एवेति केचित्| ऋतावपि प्रथमपतितं न पेयम्| लूतादिदूषितं च| एतच्च यतस्तृष्णाध्मानादिकान् कुरुते अतो वर्जयेत्| सर्वे चेमे रोगा वक्ष्यमाणलक्षणाः| एतैश्चोपहितमन्यजलालाभे कृतसंस्कारं शस्यते| तमेव च संस्कारं दर्शयति धनवस्त्रपरिस्त्रावणेन क्षुद्रजन्त्वभिरक्षणं कार्यम्| व्यापन्नस्य पैच्छिल्यादियुक्तस्य अग्निना, सूर्येण, तप्तशस्त्रपिण्डमज्जनेन वा तापनं कार्यम्| पर्णीमूलादिना प्रसादनं निर्मलीकरणं कार्यम्| पर्णीमूलमेरकामूलम्| एरका काश्मीरेषु `पित्ती' अन्यत्र दण्डेरकपट्टेरकभेदेन प्रसिद्धा| बिसग्रन्थिना, मुक्ताभिः, कतकफलेन, शैवलेन, वस्त्रस्त्रावेण, गोमेदकेन वा| बिसग्रन्थिस्त्रिपादिका| कतकं प्रसिद्धम्| शैवलं कच्छम्| गोमेदकमङ्कोलकं मणिविशेषश्च| पाटलादिपुश्पैः दुर्गन्धनशनं सम्पादनीयम्|| ९||

Adhikarana jalapAnaniyamAH (10) · Śloka 10

पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे| अजीर्णे क्वथितं चामे पक्वे जीर्णेऽपि नेतरत्| शीते विधिरयं तप्ते त्वजीर्णे शिशिरं त्यजेत्||१०||

🔊 Audio coming soon

सर्वे पानीयमन्यप्रदेशजे पानीयेऽजीर्णे न पानीयं न पेयमिति| तेनैतदुक्तं भवति-विजातीये पानीये पीते तज्जरणान्तं यावद्विजातीयं पानीयं न पेयमिति| यथा कौपे ताटाकं ताटाके कौपमिति| एवं सर्वत्र| तथा आमे अपक्वजले अजीर्णे क्वथितं न पेयम्| तथा पक्वे क्वथिते जीर्णेऽपि इतरदामं न पेयम्| सजातीयमपि पक्वे जेर्णेऽपि यावत्र भुक्तं तावदामं न पेयमित्यर्थः| एष च विधिर्द्वयोरप्यामपक्वयोः शीतयोः| तप्ते त्वजीर्ण एव शीतं त्यजेन्न जीर्णे|| १०||

Adhikarana jalasya prANamayatvaM nAtyantaniShedhaH (11) · Śloka 11

पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्| अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वार्यते| आस्यशोषाङ्गसादाद्या मृत्युर्वा तदलाभतः| नहि तोयाद्विना वृत्तिः स्वस्थ्यस्य व्याधितस्य च||११||

🔊 Audio coming soon

अत्यन्तनिषेधेन न कुत्रचिद्वारि वार्यते| यतः पानीयमाह्लादकत्वात् प्राणिनां प्राणाः विश्वञ्च स्थावरजङ्गमं पानीयमयमेव| यतः स्वस्थस्य व्याधितस्य च तोयाद्विना वर्त्तनं न भवति|| ११||

Adhikarana avasthAvashAjjalavisheShasya hitAhitatvaM jalasyopayogaprakArAshca (12) · Śloka 12

केवलं सौषधं पक्वमाममुष्णं हितञ्च तत्| समीक्ष्य मात्रया युक्तममृतं विषमन्यथा||१२||

🔊 Audio coming soon

अवस्थाविशेषेण च-(१) केवलं (२) सौषधं वा (३) पक्वम् (४) आमं (५) शीतं उष्णं च तद्धितम्| तच्च पानीयं समीक्ष्य विषये मात्रया युक्तममृतम्| विपर्ययेण युक्तं विषम्|| १२||

Adhikarana tRuShyato~apyatijalapAne doShAH (13) · Śloka 13

अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्| प्रयाति पित्तश्लेष्मत्वं ज्वरितस्य विशेषतः| वर्धयत्यामतृण्निद्रातन्द्राध्मानाङ्गगौरवम्| कासाग्निसादहृल्लासप्रसेकश्वासपीनसान्||१३||

🔊 Audio coming soon

अतियोगेन बाहुल्येन तृष्णावतोऽपि प्रयुक्तं सर्वस्य पित्तश्लेष्मतां याति| ज्वरितस्य विशेषतः आमेनाग्नौ बहिष्कृते ज्वरोत्पत्तिः आमस्य च पानीयं तर्पकम् (वर्धकम्)| तस्य च ज्वरितस्यामतृडादीन् वर्धयति| हृल्लासः सप्रसेको हृदयोत्क्लेशः, प्रसेकः स्वतन्त्र एव, तच्च ष्ठीवनम्|| १३||

Adhikarana jalasya laghutvameva (14) · Śloka 14

पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितम्| तस्मादयोगपानेन लाघवान्न वियोजयेत्||१४||

🔊 Audio coming soon

सर्वञ्च जलं मधुरविपाकं यतस्तत्स्पर्शोष्णमपि शीतवीर्यम्| अतः अयोगपानेनातिस्वल्पपानेन लाघवात्स्वल्पत्वान्न वियोजयेत्| स्वल्पत्वं तस्य न चालनीयमित्यर्थः|| १४||

Adhikarana AmaviShTabdhayostRuShNArahitasyApi koShNajalapAnavidhiH (15) · Śloka 15

आमविष्टब्धयोः कोष्णं निष्पिपासोऽप्यपः पिबेत्| यावत्यः क्लेदयन्त्यन्नमतिक्लेदोऽग्निनाशनः| विबद्धः कफवाताभ्यां मुक्तामाशयबन्धनः| पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः||१५||

🔊 Audio coming soon

आमविष्टब्धयोः पिपासारहितोऽप्युपकारायैव ईषदुष्णा अपः पिबेत्| आमं श्लेष्मणोपहतजठरत्वादजीर्णमन्नम्| विष्टब्धमप्येवं वाताजीर्णम्| एतौ द्वावप्यामविष्टब्धौ मात्राशीतीये वक्ष्यमाणलक्षणौ (सू० अ०-११) तयोश्च तावतीः अपः पिबेत् यावत्योऽन्नं क्लेदयितुं समर्थाः| अतिक्लेदेन चाग्निनाशभयात् बह्व्यो न पेयाः| कफवाताभ्यां जठरे विबद्धं निश्चलमपच्यमानमन्नं कोष्णतोयद्रवीकरणान्मुक्तामाशयबन्धनं सत्क्षिप्रमेव पच्यते| मुक्तं बन्धनमामाशये निबन्धनं येन स तथा|| १५||

Adhikarana vishiShTAvasthAyAM sarvAmanA jalaniShedhaH saMskRutajalapAnavidhishca (16) · Śloka 16

अनवस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च| नल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत्| तेजसः प्रतिपक्षत्वान्मन्दाग्निर्वर्जयेज्जलम्| सर्वमेव तथा स्यन्दप्लीहविद्रद्धिगुल्मिनः| पाण्डूदरातिसारार्शोग्रहणीशोषशोफिनः| काममल्पमशक्तौ तु पेयमौषधसंस्कृतम्| ऋते शरन्निदाघाभ्याम्पिबेत्स्वस्थोऽपि चाल्पशः||१६||

🔊 Audio coming soon

अनवस्थितदोषस्यानवस्थिताग्नेश्च स्वल्पमप्यामं जलं न पथ्यम्| तद्ध्याममेषां त्रिदोषकरम्| अनवस्थिताः स्वरूपाच्चलिता अनेकरूपाश्च दोषा यस्य स तथाविधः| एवमनवस्थिताग्निरपि| तथा व्याधिभिः क्षीणं बलं यस्य तस्याममुदकं त्रिदोषकरम्| तथा मन्दाग्निः सर्वमेव जलं कौपादिकमामं स्वल्पं, पक्वं बहु च वर्जयेत्| तथाभिष्यन्दाद्यार्तैश्च सर्वमेव जलं वर्जनीयम्| अभिष्यन्दो नाम चक्षूरोगो वक्ष्यमाणः (उ०अ०-१८)| अशक्तौ तु विना जलं प्राणसन्धारणासामर्थ्ये कदाचित् पेयम| तच्च स्वल्पम्| किम्भूतमल्पं पेयम्? आह रोगयोग्यैरौषधैः संस्कृतम्| तथा शरदं निदाघं च वर्जयित्वा अन्यस्मिन् ऋतौ स्वस्थेनापि स्वल्पमेव| एतयोस्तु यथेच्छमेव|| १६||

Adhikarana bhojanasyAdimadhyAnteShu jalapAnam (17) · Śloka 17

भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम्| अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात्कफम्| मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम्||१७||

🔊 Audio coming soon

तच्च जलं भोजनकाले अन्नात्पूर्वं पीतमग्निमान्द्यं कार्श्यं च करोति| सर्वं च भुत्तवा अन्ते पीतं शरीरस्य स्थौल्यमामाशयादुपरि च श्लेष्मवृद्धिं करोति| मध्ये त्वन्नस्य पीतं समाङ्गतां च करोति| सुखेन चान्नं जरयति|| १७||

Adhikarana shItajalaguNAH (18) · Śloka 18

शीतं मदात्ययग्लानिमूर्च्छाच्छर्दिश्रमभ्रमान्| तृष्णोष्णदाहपित्तासृग्वषाणि च निहन्ति तत्||१८||

🔊 Audio coming soon

शीतञ्च तदम्बु मदात्ययादीन् वक्ष्यमाणलक्षणान्निहन्ति नाशयति| उष्णेन कालेन उष्णेनाहारादिना च दाहः उष्णादाहः|| १८||

Adhikarana uShNakvathitashItajalaguNAH (19) · Śloka 19

क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात्| क्वथितं फेनरहितमवेगममलं हितम्| हिध्माऽऽध्मानानिलश्लेषतृट्कासश्वासपीनसे| पार्श्वशूलाममेदःसु सद्यः शुद्धौ नवज्वरे| दीपनं पाचनं कण्ठ्यं लघु बस्तिविशोधनम्| पाषाणरूप्यमृद्धेमजतुतापार्कतापितम्| पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडर्तिजित्| लघ्वरूक्षं क्लमघ्नञ्च तोयं क्वथितशीतलम्| संसर्गे पित्तकफयोः सन्निपाते च शस्यते||१९||

🔊 Audio coming soon

तच्चाम्बु हिध्मादिषु क्वथितं पेयम्| का क्वथनमात्रेत्यत्रोच्यते- देशर्तुगुरुलाघवं विकल्प्य क्षीणचतुर्भागं वा क्षीणत्रिभागं वा क्षीणार्धं वेति त्रिधा| तेनैतदुक्तं भवाति यत् क्वचिद् देशे ऋतौ वा स्वल्पेन गुरुत्वेन युक्तम् उदकं तत्क्वथनेन क्षीणचतुर्भागम्| अधिकगुरौ क्षीणत्रिभागम्| अत्यन्तगुरौ अर्धक्षीनमिति| एतद्विपरीतञ्च लाघवेऽप्येवं व्याख्येयम्| तच्च जलमग्निसंयोगेऽपि आफेनपरिक्षयादामं भवति| फेनरहितं तु क्वथितं भवति| वेगरहितत्वञ्च पक्वलक्षणं निर्मलत्वं च| तच्च पक्वं हिध्मादीनां हितम्| उष्णामुदकं दीपनमामदोषपाचनम्| स्वर्यं लघु बस्तिशोधनञ्च| तप्तैश्च पाषाणादिभिस्तापितं तत्कालोष्णं शीतमेव वा पीतं त्रिदोषघ्नं तृष्णघ्नञ्ह्च| क्वथितशीतलं लघुत्वादियुक्तम्| संसर्गे पित्तश्लेष्मणोः, सन्निपाते च पथ्यम्| उत्तरत्र शीतस्य वातश्लेष्मकोपहेतुत्वेनोक्तेः| वाते वातश्लेष्मणि कफे च न पथ्यम्|| १९||

Adhikarana paryuShitajalaguNAH (20) · Śloka 20

तोयं वह्निगुणभ्रष्टं पाकेऽम्लं सर्वदोषकृत्| भवेत्पर्युषितं तच्च............................||२०||

🔊 Audio coming soon

तच्च क्वथितशीतलं पर्युषितं विगताहोरात्रं सद्वह्निगुणाल्लघुत्वदीपनीयत्वादितः भ्रष्टं रहितं भवति| अम्लविपाकं दोषकरञ्च||२०||

Adhikarana himakarajalaguNAH (21) · Śloka 21

...............................तोयं हिमकरोद्भवम्| अतिशैत्यगुरुस्थैर्यसङ्घातैः कफवातकृत्||२१||

🔊 Audio coming soon

हिमकरस्रुतं तोयमतिशैत्यादिना वातश्लेष्मकृत्|| २१||

Adhikarana candrakAntajalaguNAH (22) · Śloka 22

चन्द्रकन्तभवं रक्षोविषपित्तज्वरापहम्| दृष्टिमेधावपुस्थैर्यकरं स्वादु हिमं लघु||२२||

🔊 Audio coming soon

चन्द्रकान्तमणिस्रुतं रक्षोघ्नत्वादियुक्तम्|| २२||

Adhikarana nArikelodakaguNAH (23) · Śloka 23

नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु| तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम्||२३||

🔊 Audio coming soon

नारिकेलान्तर्जातं स्निग्धत्वादियुक्तम्|| २३||

Adhikarana jalAnAM varAvaratve (24) · Śloka 24

द्वयं वारि वरं वर्षे नादेयमवरं परम्||२४||

🔊 Audio coming soon

वर्गार्थमुपसंहरति-वर्षकाले आन्तरिक्षं जलमत्यन्तपथ्यं नदीगृहीतमपथ्यम्|| २४|| इति तोयवर्गः

Adhikarana (2) kShIravargaH kShIrabhedAH kShIrasAmAnyaguNAH (26) · Śloka 26

गव्यं माहिषमाजं च क्रारभं स्त्रैणमाविकम्| ऐभमैकशफं चेति क्षीरमष्टविधं स्मृतम्||२५|| स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्| वातपित्तहरं वृष्यं स्लेष्मलं गुरु शीतलम्| प्रायः पयो......................................||२६||

🔊 Audio coming soon

तोयान्युक्त्वा क्षीराण्युच्यन्ते- स्वादुपाकरसमित्यादि| सर्वमपि विशेषेण क्षीरजातं मधुररसं मधुरविपाकत्वादियुक्तम् ओजसे हितमोजस्यम्| ओजो नाम धातुसारभूतं वक्ष्यमाणलक्षणम् (सू०अ०-९)| वृष्यत्वेन शुक्राख्यधातुवृद्ध्यतिशयस्त्रीगमनशक्तता चोक्ता| प्रायो बाहुल्येन सर्वमेवंविधं पय इति|| २६||

Adhikarana sagokShIraM kShIrANAM guNAH (27) · Śloka 27

..........ऽत्र गव्यं तु जीवनीयं रसायनम्| क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्| श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः| जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्||२७||

🔊 Audio coming soon

सामान्येन पयोगुणसङ्कीर्तनं कृत्वा गवां विशेषेण क्रियते| तत्र च सामान्योक्तगुणविपरीतो यो विशेषगुणः सोऽपवादो विज्ञेयः| अथ चेत्सदृशः स तस्यैवोपबृंहकः| गव्यन्तु जीवनीयत्वादियुक्तम्| जीवनीयं सौम्यधातुवृद्धिकरम्| रसायनमिव रसायनम्| प्राणसन्धारकत्वात् शस्तरसादिधातुलाभोपायत्वाच्च| उरः क्षतयुक्ताय क्षीणाय च हितम्| क्षीणः क्षीणधातुः| मेधायै बुध्यै हितं मेध्यम्| स्त्रीणाञ्च स्तन्यवृद्धिं करोति| सरं शरीरे नैकत्र तिष्ठति| श्रमादींश्च नाशयेत्|| २७||

Adhikarana mAhiShakShIraguNAH (28) · Śloka 28

हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्||२८||

🔊 Audio coming soon

माहिषं पयोऽत्यग्न्यीनामनिद्राणां च हितम् पथ्यम्| अतिगुरु च| वीर्येण च हिमम्|| २८||

Adhikarana AjakShIraguNAH (29) · Śloka 29

अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु| आजं शोषज्वरश्वासरक्तपित्तातिसारजित्||२९||

🔊 Audio coming soon

अजानां पयः अल्पाम्बुपानादिहेतोर्ल्घु| हेतुकीर्तनमस्यान्यस्या अप्येवं हेतुयुक्ताया जातेः क्षीरलघुत्वज्ञापनार्थम्| एतद्विपरीतायाश्च गुरुत्वं सामर्थ्यलभ्यम्| अजानां तु स्वल्पाम्बुपानादिस्वभावः| अन्यासान्तु देशाद्यपेक्षया| एतच्चाजं शोषाणादिविनाशनम्|| २९||

Adhikarana uShTrIkShIraguNAH (30) · Śloka 30

ईष्द्रुक्षोष्णलवणमौष्ट्रिकं दीपनं लघु| शस्तं वातकफानाहकृमिशोफोदरार्शसाम्||३०||

🔊 Audio coming soon

औष्ट्रमेवौष्ट्रकं क्षीरमीषद्रूक्षमीषत् लवणमीषदुष्णम्| दीपनं लघु च| वातस्लेष्माद्यार्तानाञ्च पथ्यम्|| ३०||

Adhikarana mAnuShakShIraguNAH (31) · Śloka 31

मानुषं वातपित्तासृगभिघाताक्षीरोगजित्| तर्पणाश्च्योतनैर्नस्येरहृद्यं तूष्णमाविकम्||३१||

🔊 Audio coming soon

मानुषं क्षीरं वातेन पित्तेनासृजा अभिघातेन चोत्पन्नानां चक्षूरोगाणां नाशनम्| कथमित्युच्यते-तर्पणेनाश्च्योतनेन नस्येन च| एतानि चास्मिन्नेव स्थाने वक्ष्यमाणलक्षणानि|| ३१||

Adhikarana AvikShIraguNAH (32) · Śloka 32

वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्||३२||

🔊 Audio coming soon

आविकमहृद्यमुष्णवीर्य वातव्याधिविनाशनं हिध्मादिकरञ्च|

Adhikarana hastinIkShIraguNAH (33) · Śloka 33

हस्तिन्याः स्थैर्यकृद्वाढमुष्णं त्वैकशफं लघु||३३||

🔊 Audio coming soon

हस्तिन्याः पयो बाढमतिशयेन शरीरस्थैर्यकृत्|| ३३||

Adhikarana EkashaPakShIraguNAH (34) · Śloka 34

शखावातहरं साम्ललवणं जडताकरम्||३४||

🔊 Audio coming soon

एकशफस्येदमैकशफं पयः उष्णवीर्यं शाखावातहरममधुररसमीशदम्ललवणेन च रसेन युक्तं जाड्यकरं च| एकविभागः खुरो यस्य स एकशफः अश्वगर्दभादिः| शाखा रक्तादयो धातवस्त्वक्च| तत्र स्थितस्य वातस्य नाशनम्| जाड्यं स्तैमित्यम् इति|| ३४||

Adhikarana Ama-shRuta-dhAroShNapayoguNAH (35) · Śloka 35

पयोऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा| विना तु वनितास्तन्यमामेव तु तद्धितम्| भवेद् गरीयोऽतिशृतं धारोष्णममृतोपमम्||३५||

🔊 Audio coming soon

आमपक्वं पयः अभिष्यन्दि गुरु च| अभिष्यन्दि मालिन्येन स्त्रोतसां स्त्रावकं युक्त्या शृतं पयः आमाद्विपरीतं नातिशृतं न स्वल्पश्रृतमिति युक्तिः| अतिशृतञ्चातिगुरु| धारोष्णममृतोपमं पथ्यत्वेन|| ३५||

Adhikarana AhAradivashena kShIrAdInAM lAghavagauravam (36) · Śloka 36

पिण्याकाम्लाशिनीनान्तु गुर्वभिष्यन्दि तद्भृशम्| अचेष्टया च प्रादोषाद् गरीयः स्मृतमौषसम्| व्याख्यातस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि| ह्रत्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत्||३६||

🔊 Audio coming soon

पिण्याकं निष्पीडितरसं तिलादि| अम्लरसं चान्यत्किञ्ह्चिद्याः क्षीरयोनय अश्नन्ति तासां पयोऽतिगुर्वत्यभिष्यन्दि च| प्रदोषे अपराह्णे गृहीतं यत्पयः तदपेक्षया औषसं प्रभातगृहीतमतिगुरु| कुतः? चेष्टारहितत्वात्| यस्मात्प्राणिनां रात्रौ न कदाचिच्चेष्टा भवति| अत औषसं गुरु| दिवा च धावनप्लवनादिकया चेष्टया प्रादोषं लघु| अनया च दिशा चेष्टावत्प्रकृतिष्वपि लघिमा व्याख्यातः| तेनैतदुक्तं-भवति चेष्टास्वभावेषु हरिणादिषु लघु| अचेष्टास्वभावेषु सूकरादिषु गुरु| अतिदेहान्महाभोगशरीरानपेक्ष्य स्वल्पभोगशरीरेषु लघु पयः| न केवलं पयःसु यावन्मांसेषु अपि चेष्टास्वल्पत्वबृंहत्वविशेषेण गुरुलाघवं विज्ञेयम्|

Adhikarana dadhiguNAH (37) · Śloka 37

अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्| मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्| रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे| पीनसे मूत्रकृच्छ्रे च रूक्षं तु ग्रहणीगदे||३७||

🔊 Audio coming soon

दधि त्वम्लविपाकत्वादियुक्तम्| रोचिष्णु साधु रोचते| अरुचौ पथ्यम्| अन्यदप्याहारं रोचयतीत्यर्थः| शीतके शीतपूर्वके विषमज्वरे सन्ततकादौ पथ्यम्| पीनसो नासास्त्रावः| रूक्षन्तूद्धृतसारं ग्रहणीदोषे हितम्|| ३७||

Adhikarana dadhyupayoge niyamAH niyamasya ulla~gghane hAnishca (38) · Śloka 38

नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न| नामुद्गसूपं नाक्षौद्रं नाघृतं नासितोपलम्| न चानामलकं नापि नित्यं नो मन्दमन्यथा| ज्वरासृक्पित्त वीसर्पकुष्ठपाण्ड्वामयप्रदम्||३८||

🔊 Audio coming soon

तच्च दधि रात्रौ न भोज्यम्| एवकारो रात्रावुष्णं चात्यन्तप्रतिषेधाय| वसन्तग्रीष्मशरत्सु न भोज्यं, न च मुद्गसूपादीनामन्यतमेन रहितम्| नापि नित्यं, सातत्येन न भोज्यं, न च मन्दमजातम्| एवं च सति यदि कश्चित् भुङ्क्ते सोऽवश्यं ज्वरादीन् प्राप्नोति|| ३८||

Adhikarana takraguNAH takravarjyAH (39) · Śloka 39

तक्रं लघु कषायाम्लं दीपनं कफवातजित्| शोफोदरार्शो- ग्रहणी- दोष- मूत्र- ग्रहारुचीः| गुल्मप्लीहघृतव्यापद्गरपाण्ड्वामयाञ्जयेत्| नैवं तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले| न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके||३९||

🔊 Audio coming soon

तक्रं दण्डेन मथिताद्दध्नः उद्धृतेऽ वा स्नेहे| तत्तक्रं लघुत्वादियुक्तम्| घृतव्यापत् घृतस्यातिपानादुत्पन्नो रोगः| गरः वक्ष्यमाणलक्षणः(उ०न०अ०-४०)|| ३९||

Adhikarana mastuguNAH (40) · Śloka 40

तद्वन्मस्तु स्त्रोतश्शोधि विष्टम्भजिल्लघु||४०||

🔊 Audio coming soon

तद्वत्तक्रवत् गुणैर्मस्तु विज्ञेयं, मस्तुनः स्त्रोतःशोधकत्वेन विष्टम्भनाशकत्वेन च विशेषः| तक्रस्य स्त्रोतश्शोधकत्वेऽपि मस्तुनोऽतिशयः|| ४०||

Adhikarana navanItaguNAH (41) · Śloka 41

शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतम्| यक्ष्मार्शोऽर्दितपित्तासृग्वातजिद् ग्राहि दीपनम्||४१||

🔊 Audio coming soon

नवोद्धृतं सद्य उद्धृतं नवनीतं, शीतं शीतवीर्यं मधुरं च कषायाम्लत्वेन च युक्तम्| राजयक्ष्मादिनाशनं संग्राहि यद् द्रवान् भावान्पिण्डीकरोति|| ४१||

Adhikarana kShIroddhRutanavanItaguNAH (42) · Śloka 42

क्षीरोद्भवं तु संग्राहि रक्तपित्ताक्षिरोगजित्||४२||

🔊 Audio coming soon

क्षीरोद्भवनवनीतं रक्तपित्ताक्षिरोगं नाशयति संग्राहि च| क्षीरोद्भवं यत् क्षीरमेव मथित्वोत्पादितम्|| ४२||

Adhikarana GRutaguNAH (43) · Śloka 43

शस्तं धीस्मृतिमेधाग्निबलायुः शुक्रचक्षुषाम्| बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्| क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्| वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्| स्नोहानामुत्तमं शीतं वयसःस्थापनं घृतम्| सहस्रवीर्यं विधिभिः शृतं कर्मसहस्रकृत्||४३||

🔊 Audio coming soon

घृतं तु धीप्रभृतीनामग्निग्लपितात्मान्तानां शस्तं हितम्| धीः बुद्धिर्वस्तुग्रहणे शक्तिः| मेधा प्रज्ञा वस्तुविवेकशक्तिः| प्रजाद्यर्थिनाञ्च प्रजा अपत्यं शुक्रस्य सफलताकरमित्यर्थः| वयःस्थापनं जरया विना वयःस्थापयतीति वयःस्थापनम्| सहस्रवीर्यमनेकशक्तिः| तथा विधिभिः विधानैः नानाविधाभिः योजनाभिः| कर्मसहस्रकृत् अनेककार्यकृदित्यर्थः|| ४३||

Adhikarana purANaGRutaguNAH (44) · Śloka 44

मदापस्मारमूर्च्छायशिरःकर्णाक्षियोनिजान्| पुराणं जयति व्याधीन् व्रणशोधनरोपणम्| पूर्वोक्तांश्चाधिकान्कुर्याद् गुणांस्तदमृतोपमम्||४४||

🔊 Audio coming soon

तच्च घृतं पुराणमतीतबहुकालं मदादीन् व्याधीन् जयति| व्रणानां पैच्छिल्यादिकं शोधयति| व्रणांश्च रोपयति| तच्च पुराणं पूर्वोक्तान् सामान्यघृतोक्तान् गुणानाधिक्येन करोति| अमृतोपमञ्च|| ४४||

Adhikarana GRutamaNDaguNAH (45) · Śloka 45

तद्वच्च घृतमण्डोऽपि रूक्षस्तीक्ष्णस्तनुश्च सः||४५||

🔊 Audio coming soon

घृतमण्डोऽपि घृतगुणानधिकं कुर्यादमृतोपमश्च रूक्षत्वेन तीक्ष्णत्वेन तनुत्वेन चास्य विशेषः| मण्ड उपरिभवः स्वच्छः||४५||

Adhikarana kIlATAdikShIravikAraguNAH (46) · Śloka 46

बल्याः कीलाटकूचीकातक्रपिण्डकमोरटाः| सक्षीरशाकपीयूषा रोचना वह्निसादनाः| शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः||४६||

🔊 Audio coming soon

कीलाटादयः सर्वे क्षीरविकाराः तद्विकृतिविकाराश्च| बलकरा रूच्याः अग्निनाशनाः शुक्रादिकराश्च विष्टम्भिनो गुरवो दोषलाश्च| दोषला अपथ्यत्वेन विकारकारिणः| कीलाटाः तक्रादिकृताः| कूचीकाः क्षीरकीलाटिकाः| मोरटः क्षीरसदृशः कीलाटिकः| पीडन उत्तरापथे प्रसिद्धः| घनवस्त्रबद्धं स्वयं स्रुतद्भागं पिण्डीभूतं तक्रं तक्रपिण्डकः क्षीरशाकं प्रसिद्धं, पीयूषं सद्यःप्रसूतायाः क्षीरकृतम् दधि|| ४६||

Adhikarana dadhighRutAdInAM kShIraguNAtideshaH (47) · Śloka 47

विद्याद्दधिघृतादीनां गुणदोषान् यथा पयः||४७||

🔊 Audio coming soon

दधिघृतानाञ्च पयोगुणानतिक्रमेण गुणान् विद्यात्| तेन एतदुक्तं भवति-यथा स्वादुपाकरसमित्यादिना सामान्येन क्षीरगुणा उक्ताः तद्वत् सामान्येन दध्यादिगुणा अपि| विशेषाकांक्षायां तु दध्यादीनां सत्स्वपि प्रकृतिभूतक्षीरगुणान्वयोऽपि ग्राह्यः|| ४७||

Adhikarana varAvarakShIraghRute (48) · Śloka 48

गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे||४८||

🔊 Audio coming soon

वर्गार्थं निर्धारयति-क्षीरं घृतं च गव्यं श्रेष्ठम्| आविकं निन्दितम्| प्राधान्यात्तु क्षीरघृतयोरेव ग्रहणम्|| ४८|| (३) इक्षुवर्गः

Adhikarana (3) ikShuvargaH ikShurasaguNAH (49) · Śloka 49

इक्षोः रसो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्| वृष्यः शीतः पवनजित् भुक्ते वातप्रकोपनः| रक्तपित्तप्रशमनः स्वादुपाकरसो सरः|४९|

🔊 Audio coming soon

इक्षुरसवर्गो द्रवप्रसङ्गेनोच्यते| इक्षो रसः सरत्वादिगुणयुक्तः, बृंहणो वक्ष्यमाणलक्षणः(सू०अ०-२८) पवनजिद्वातनाशनः| भुक्ते भुक्तमात्रे पीतो वातप्रकोपनः|| ४९||

Adhikarana dantapIDitekShurasaguNAH (49) · Śloka 49

सोऽग्रे सलवणो दन्तपीडितः शर्करासमः||४९||

🔊 Audio coming soon

स च रसः अग्रे इक्षोः प्रान्ते जातः सलवणः ईषत् लवणः दन्तपीडितोऽयन्त्रकालाद्यनुपहतत्वाद् गुणैः शर्करया समः||४९||

Adhikarana yAntrikekShurasaguNAH (50) · Śloka 50

मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्| किञ्चित्कालविधृत्या च विकृतिं याति यान्त्रिकः| विदाही गुरुविष्टम्भी तेनासौ...................||५०||

🔊 Audio coming soon

यस्तु यान्त्रिको यन्त्रपीडितो मूलादिमिश्रपीडनात् मलसङ्कराद्वैकृत्यं प्राप्नोत्यतोऽसौ यान्त्रिको विदाही विष्टम्भकरश्च| जन्तुजग्धः क्रिमिभक्षितः, विदाही सौम्यभावविदहनशीलः| हेतुनिर्देशो हेत्वभावात् कार्याभावप्रतिपादनार्थः| रक्तपित्ते च विशिष्टे विशेषेण विदहनशीलस्यापि प्रयोगो न विरुद्धः|| ५०||

Adhikarana pauNDrakAdInAM guNAH (51) · Śloka 51

.................तत्र पौण्ड्रकः| शैत्यप्रसादमाधुर्यैर्वरस्तमनु वांशिकः| शतपर्वककांतारनैपालाद्यास्ततः क्रमात्| सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः||५१||

🔊 Audio coming soon

तत्र चेक्षुरसेषु मध्ये पौण्ड्रकः शैत्येन प्रसन्नत्वेन माधुर्येण च श्रेष्ठः सर्वेक्षुरसेभ्यः| तमनु वांशिकः शैत्यादिभिः पौण्ड्रकाद्धीनो वांशिक इत्यर्थः| शतपर्वकादयश्च रसाः क्रमादुत्तरोत्तरं शैत्यादिभिर्हीनाः| ते च शतपर्वकादयः ईषत्क्षारत्वेन युक्ताः ईषत्कषायरसा ईषदुष्णवीर्याः किञ्चिद्विदाहिनश्च|| ५१||

Adhikarana phANitaguNAH (52) · Śloka 52

फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनं||५२||

🔊 Audio coming soon

फाणितं क्षुद्रगुडीभूतमिक्षुरसः| तत् गुर्वभिष्यन्दि त्रिदोषसञ्चयकृत्| मूत्रसंशोधनं मूत्रमतिवाहयति|| ५२||

Adhikarana dhautAdiBEdena dhautaguDaguNAH (53) · Śloka 53

नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद्गुडः| प्रभूतकृमिमज्जासृङ्मेदोमांसकफोऽपरः||५३||

🔊 Audio coming soon

गुडः संस्कारवशेन निर्मलः नातिश्लेष्मकर ईषत् श्लेष्मकर इत्यर्थः| तथा मूत्रं शकृच्च सृजति बहिः क्षिपति| तथा अपरः अधौतः प्रभूतान् क्रिम्यादीन् करोतीत्युपचारात् स एवोक्तः|| ५३||

Adhikarana purANanavaguDaguNAH (54) · Śloka 54

हृद्यः पुराणःपथ्यश्च नवः श्लेष्माग्निसादकृत्||५४||

🔊 Audio coming soon

स एव च गुडः पुराणो हृद्यः शरीरस्य च पथ्यः; नवस्तु कफमग्निसादं च करोति|| ५४||

Adhikarana matsyaNDikA-khaNDa-sharkarAguNAH (55) · Śloka 55

वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहा| मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः||५५||

🔊 Audio coming soon

मत्स्यण्डिकादयस्त्रयो वृष्यत्वादियुक्ताः क्रमेण| पूर्वस्मात् उत्तरो वृष्यत्वादिभिरतिशयेन युक्तः| मत्स्यण्डिकागुडा निर्मलाः प्रसिद्धाश्च लोके| ततोऽपि संस्कारेण गुणैश्चाधिकः खण्डः| ततोऽपि सिता शर्करा|| ५५||

Adhikarana yAShaSarkarAdInAM guNAH (56) · Śloka 56

तद्गुणा तिक्तमधुरा कषाया याषशर्करा| त्रिदोषघ्नी सिता काशेक्षुदर्भच्छदसंभवा||५६||

🔊 Audio coming soon

याषशर्करा तु तद्गुणा मत्स्यण्डिकादिगुणा तिक्तमधुरकषायरसा च| याषशर्करा लोके यवाषशर्करेति प्रसिद्धा| केचिद् ब्रुवन्ति-दुरालभारसेन सा क्रियत इति|| ५६||

Adhikarana sarvasharkarAguNAH (57) · Śloka 57

दाहतृट्च्छर्दिमूर्च्छासृक्पित्तघ्न्यः सर्वशर्कराः||५७||

🔊 Audio coming soon

एता अन्याश्च काश्चन सर्वाः शर्कराः दाहादिनाशनाः (च०सू०अ०-२७, २३८-२४२)|| ५७||

Adhikarana sharkarAphANitayorvarAvaratvam (58) · Śloka 58

शर्करेक्षुविकाराणां फाणितं च वरावरे||५८||

🔊 Audio coming soon

वर्गार्थं निर्धारयति| इक्षुविकाराणां मध्ये शर्करा श्रेष्टा| फाणितमश्रेष्ठमिति|| ५८||

Adhikarana madhunaH madhusharkarAyAshca guNAH (59) · Śloka 59

चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्| कुष्ठमेहकृमिच्छर्दिश्वासकासातिसारजित्| व्रणशोधनसन्धानरोपणं वातलं मधु| रूक्षं कशायमधुरं तत्तुल्या मधुशर्करा||५९||

🔊 Audio coming soon

शर्करायोनिप्रसङ्गेन मधुनोऽपि गुणा उच्यन्ते| मधु मक्षिकं वातलं चक्षुषश्च पथ्यम्| च्छेदि विच्छेदि यत्तैक्ष्णाद्देहे पिण्डितान् भावान् च्छिनत्ति विभजति, तृडादींश्च नाशयति| व्रणानां शोधनं तत् यत् पूयपैच्छिल्यादिप्रेरकम्| सन्धानं तत् यत् द्वौ व्रणोष्ठावेकीकरोति| रोपणं प्रसिद्धम्| तथा मधु रूक्षम्| रसेन च कषायमधुरम्| अस्य च सर्वात्मकस्यापि प्रभावाद्वानुमीयते वातलत्वादियोगः| तत्तुल्या मधुसमा गुणैर्मधुशर्करा|| ५९||

Adhikarana uShNena madhuno virodhaH (60) · Śloka 60

उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्| विषान्वयत्वेनविषपुष्पेभ्योऽपि यतो मधु| कुर्वते ते स्वयं यच्च सविषा भ्रमरादयः||६०||

🔊 Audio coming soon

तच्च मधु उष्णं निहन्ति मारयति| उष्णार्तं च पुरुषं मारयति| अत उच्यते- विषान्वयत्वेन| कुतो विषान्वयत्वं मधुनः अत आह- विषपुष्पेभ्योऽपि यतो मधु कुर्वन्ति तत्कृतः| न केवलमन्यपुष्पेभ्यः इत्यपि शब्दस्यार्थः| यद्यस्माच्च भ्रमरादयः स्वयं शरीरेणैव सविषा मधु कुर्वन्त्यत उष्णादियुक्तं मारयति (सु०सू० ४५-१४४)|| ६०||

Adhikarana madhunaH uShNavirodhasyApavAdaH (61) · Śloka 61

प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते| अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते||६१||

🔊 Audio coming soon

तच्च मधु प्रच्छर्दने वमने निरूहे चोष्णमपि न निवार्यते| यतः अपक्वमाश्वेव प्रयुक्तं निवर्तते पुनरागच्छति|| ६१||

Adhikarana madhuno hitA mAtrA (62) · Śloka 62

गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु| न हि कष्टतमं किञ्चित्तदजीर्णाद्यतो नरम्| उपक्रमविरोधत्वात्सद्यो हन्याद्यथा विषम्||६२||

🔊 Audio coming soon

गुरुत्वादितो हेतोः शरीरे चाल्पं पथ्यम्| तथा च मधुनः अजीर्णादन्यत्कष्टमं न विद्यते| कुतः? यतो विरुद्धोपक्रमत्वाद्विषवन्नरं नाशयति| अजीर्णे ह्युष्णोदकपानादिकं विहितम्| तच्च मधुनो विरुद्धम्| अथ च शीता क्रिया क्रियते| सा ह्यजीर्णेऽप्यपथ्या| अत उपक्रमविरोधः (च०सू०अ०२७-२४८)|

Adhikarana madhuno yogavAhitvam (63) · Śloka 63

नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु| वृष्ययोगैरतो युक्तं वृषतामनुवर्तते||६३||

🔊 Audio coming soon

तच्च मधु नानाद्रव्यस्वरूपत्वादत्यर्थं योगवाहित्वेन युक्तम्| तेनैतदुक्तं भवति-सर्वाः शक्तयः प्रसेवकवत्तत्र स्थिताः केवलं या या शक्तिः संयोगिद्रव्ये शक्तिं सहायभूतामासादयति सा सा तामतिशयेनाभिव्यनक्ति| एतदेव हि योगवाहित्वं यत् स्वगुणापरित्यागेनांशेन सादृश्यात् परस्य च शक्तिपरिपूरणमत एव कारणाद्वृष्ययोगैर्युक्तं मधु वृष्यतां याति| एतावता हि वृष्ययोगस्य तु शक्तिः तेन परिपूरिता भवति|| ६३||

Adhikarana madhuno BedAH teShAM shreShThatvAdi ca (64) · Śloka 64

भ्रामरं पौष्पिकं क्षौद्रं माक्षिकं च यथोत्तरम्| वरं जीर्णं च तेष्वन्त्ये द्वे एव ह्युपयोजयेत्||६४||

🔊 Audio coming soon

भ्रमरादिभिश्च कृतं मधु यथोत्तरं श्रेष्ठम्| यद्यस्मादुत्तरं तत्तस्मात् श्रेष्ठमिति| जीर्णं पुराणं मधु श्रेष्ठम्| तेषु भ्रमरादिषु मध्ये द्वे एवान्त्ये क्षौद्रं माक्षिकञ्च पथ्यत्वादुपयोजयेत्| इति इक्षुवर्गः||६४||

Adhikarana (4) tailavargaH tailasAmAnyaguNAH tilatailaguNAshca (65) · Śloka 65

तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च| त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च| कृशानां बृंहणायालं स्थूलानां कर्शनाय च| बद्धविट्कं कृमिघ्नञ्च संस्कारात्सर्वरोगजित्||६५||

🔊 Audio coming soon

द्रवत्वात्तैलमुच्यते| तैलं स्वयोनिवत्सर्वं तैलं स्वकारण समगुणम्| तत्र तैलेषु मध्ये मुख्यं तिलोद्भवं तीक्ष्णम्| व्यवायि व्याप्तिशीलम्| यद्देहं व्याप्य पाकं याति| त्वग्दोषकृत् पानाभ्यासेन त्वचं दूषयति| यैस्तु त्वग्दोषहरमित्युक्तं तैर्वातादिके अभ्यङ्गेन| अथवा त्वग्दोषं कृन्ततीति त्वग्दोषकृदिति| कृतिच्छेदने (६-प०) इत्यस्य धातोः प्रयोगः| चक्षुषश्चाहितम्, सूक्ष्मस्रोतःप्रवेशि| उष्णवीर्यम्| तिलोद्भवत्वाच्छ्लेष्मकरत्वं प्राप्तमत उच्यते-कफकृन्न चेति| संस्कारवशात् कृशस्य ब्रंहणायालं पर्याप्तम्| स्थूलानां च कर्शनाय| अथवा केवलमपि येनैव हेतुना स्रोतःशोधकत्वादिना कृशानां ब्रंहणाय अलं पर्याप्तम्, तेनैव हेतुना स्थूलानां कर्शनायेति न कश्चिद् विरोधः| अस्यैव च पक्षस्य युक्तत्वं संस्कारात् सर्वरोगजिदिति स्वयं पाठात्| विषं पुरीषं बध्नाति ग्रथयतीति बद्धविट्कम्| संस्कारं प्रतिरोगं विशिष्टमाश्रित्य सर्वरोगजित्|| ६५||

Adhikarana tailaprayogasyetihAsaH (66) · Śloka 66

तैलप्रयोगादजरा निर्विकारा जितश्रमाः| आसन्नतिबला युद्धे दैत्याधिपतयः पुरा||६६||

🔊 Audio coming soon

तैलप्रयोगानितिहासरूपेण कथयति- तैलप्रयोगादित्यादिना| दैत्याधिपतयः पुरो युद्धे अतिबलाः जरादिहरहिताश्च आसन्|| ६६||

Adhikarana eraNDatailaguNAH (67) · Śloka 67

सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु| वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्| रुक्छोफो च कटीगुह्यकोष्ठपृष्ठाश्रयो जयेत्||६७||

🔊 Audio coming soon

एरण्डं तैलं तु ईषत्तिक्तकटुकं, रसेन मधुरं वर्ध्मादीन् जयेत् कट्यादिस्थितौ तु रुक्छोफो नाशयति|| ६७||

Adhikarana rakteraNDatailaguNAH (68) · Śloka 68

तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्वति||६८||

🔊 Audio coming soon

लोहितैरण्डतैलमतिशयेन तैक्ष्ण्यादियुक्तम्|| ६८||

Adhikarana sarShapatailaguNAHumAkusumbhatailaguNAH (69) · Śloka 69

कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्| लघु पित्तास्रकृत्कोठकुण्ठाक्षो व्रणजन्तुजित्| उमाकुऔम्भजञ्चोष्णं त्वग्दोषकफपित्तकृत्||६९||

🔊 Audio coming soon

उमातैलं कुसुम्भतैलं चोष्णवीर्यं त्वग्दोषं करोति पित्तश्लेष्माणौ च|| ६९||

Adhikarana dantyAditailAnAM sAmAnyaguNAH (70) · Śloka 70

दन्तीमूलकरक्षोघ्नकरञ्चारिष्टशिग्रुजम्| सुवर्चलेङ्गुदीपीलुशङ्खिनीनीपसम्भवम्| सरलागुरुदेवह्वशिंशपासारजन्म च| तुवरारु०करोथ्यञ्च तीक्ष्णं कट्वस्रपित्तकृत्| अर्शःकुष्ठक्रिमिश्लेष्मशुक्रमेदोनिलापहम्||७०||

🔊 Audio coming soon

दन्त्यादिजं तैलं तैक्ष्ण्यादिगुणयुक्तम्| रक्षोघ्नं सार्षपम्| सरलादीनां सारशब्देन सम्बन्धः|| ७०||

Adhikarana kara~jcanimbatailaguNAH (71) · Śloka 71

करञ्चनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत्||७१||

🔊 Audio coming soon

करञ्चनिम्बतैलयोस्तु कटुत्वापवादस्तिक्तत्वम्| नात्यन्तोष्णवीर्ये चेमे|| ७१||

Adhikarana saralatailaguNAH (72) · Śloka 72

कषायतिक्तकटुकं सारलं व्रणशोधनम्||७२||

🔊 Audio coming soon

सरलकाष्ठसारजं तैलं कषायादिरसं व्रणशोधनञ्च| अत्र कषायतिक्तत्वं व्रणशोधनत्वं चाधिकम्|| ७२||

Adhikarana tuvarAruShkaratailaguNAH (73) · Śloka 73

भृशोष्णे तीक्ष्णकटुके तुवरारुष्करोद्भवे| विशेषात्क्रिमिकुष्ठघ्ने ततोर्ध्वाधो विरेचने||७३||

🔊 Audio coming soon

तुवरारुष्करतैलयोस्तैक्ष्ण्याद्यतिशयः| अर्शःक्रिमिकुष्ठनाशने चातिशयः| ऊर्ध्वाधोविरेचनं वमनविरेचनाभ्यां दोषनिर्हरणम्| तेनाधिके|| ७३||

Adhikarana akShAditailAnAM guNAH (74) · Śloka 74

अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्| त्रपुसैर्वारुकुष्माण्डुश्लेष्मातकप्रियालजम्| वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम्||७४||

🔊 Audio coming soon

अक्षातिमुक्तकादितैलं वातपित्तहरत्वादियुक्तम्| अक्षं बिभितकम्| अतिमुक्तकं माधवीफलम्|| ७४||

Adhikarana shrIparNIkiMshukatailaguNAH (75) · Śloka 75

पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम्||७५||

🔊 Audio coming soon

श्रीपर्णीकिंशुकतैलं पित्तश्लेष्मप्रशमनम्| श्रीपर्णी काश्मरी| किंशुकः पलाशः|| ७५||

Adhikarana taileshu varAvaratvAnirUpaNam (76) · Śloka 76

तिलतैलं वरं तेषु कौसुम्भमवरं परम्||७६||

🔊 Audio coming soon

तेषु च तैलेषु मध्ये तिलतैलं पथ्यत्वेनातिश्रेष्ठम्, तद्विपरीतं कौसुम्भम्|| ७६||

Adhikarana vasAdInAM svarUpaM guNAshca (77) · Śloka 77

वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ| मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव||७७||

🔊 Audio coming soon

स्नेहप्रसङ्गेनेदमप्युच्यते| वसा नाम तनुमेदोरुपं शुद्धमांसस्नेहः| मज्जा च धातु| तौ वातं नाशयतः| बलपित्तकफांश्च कुरुतः| यस्य प्राणिनः सम्बन्धिनौ तन्मांससदृशस्वरूपौ च| मेदोऽपि वसामज्ज्ञोः स्वरूपम्|| ७७||

Adhikarana varAvaravasAH (78) · Śloka 78

बौलूकी शौकरी पाकहंसजा कुक्कुदोद्भवा| वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा| काकमद्गुवसा तद्वत्कारण्डोत्था च निन्दिता||७८||

🔊 Audio coming soon

बुलुक्यादीनां चतुर्णां वसाः स्ववर्गेषु क्रमेण मत्स्यमहामृगाप्चरविष्किरेषु पथ्यत्वेन श्रेष्ठास्तद्वत्स्वर्गेषु मध्ये कुम्भीरादिवसा अश्रेष्ठाः|| ७८||

Adhikarana medaHsu varAvaraBedaH (79) · Śloka 79

शाखादमेदसां च्छागं हास्तिनं च वरावरे||७९||

🔊 Audio coming soon

शाखादानां मध्ये च्छागं मेदः श्रेष्ठम्| ये शाखाः प्रायो भञ्जते ते शाखादाः| न तु भूयिष्ठं तृणादि, स्वभावेनैव| इति तैलवर्गः|

Adhikarana (5) madyavargaH madyasAmAnyaguNAH (80) · Śloka 80

दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्| सस्वादुतिक्तकटुकमम्लपाकरसं सरम्| सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु| नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम्| कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्| वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा||८०||

🔊 Audio coming soon

मद्यमुच्यते-सर्वं मद्यं दीपनादिगुणयुक्तम्| तुष्टिर्मनःपरितोषः| पुष्टिः शरीरपोषः| नष्टनिद्रस्य चातिनिद्रस्य चाहारविशेषाद्वैपरीत्यं करोति, प्रभावाद्वा| एवं कृशस्थूलयोरपि| युक्त्या मात्रादिकया पीतमेवङ्गुणम्| अयुक्त्या विषसदृशम् सा च युक्तिर्मदात्ययचिकित्सते (चि०अ०-९) वक्ष्यमाणा, आचरणं वा|| ८०||

Adhikarana nava-purANamadyaguNAH (81) · Śloka 81

गुरु त्रिदोषजननं नवं जीर्णमतोऽन्यथा||८१||

🔊 Audio coming soon

तत्र सर्वं मद्यं नवमनतीतसंवत्सरं गुरु त्रिदोषकरञ्च| केषाञ्चिज्जातानां कतिपयदिवसपरिवासो नवत्वम्| क्रमेण च तन्नाशः| जीर्णं पुराणमेतद्विपरीतम्|| ८१||

Adhikarana madyapAne visheShaniyamAH (82) · Śloka 82

पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः| नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा||८२||

🔊 Audio coming soon

तच्च मद्यमुष्णोपचारेण न पेयम्| उष्णं वेश्माहारादिकं उपचारो यस्येति| कृतविरेचनेन चाऽऽदोषसामाम्यान्न पेयम्| अतितैक्ष्ण्यमार्दवादियुक्तं च न पेयम्| व्यापन्नं देशकालाद्युपहतम्|| ८२||

Adhikarana surAguNAH (83) · Śloka 83

गुल्मोदरार्शो ग्रहणीशोषहृत् स्नेहनी गुरुः| सुराऽनिलघ्नीः मेदोऽसृक्स्तन्यमूत्रकफावहा||८३||

🔊 Audio coming soon

अनन्तरं मद्यविशेषा उच्यन्ते-सुरा गुल्मादिनाशिनी मेदोरक्तादिकरी च| सुरा पिष्टकृता घना श्वेता|| ८३||

Adhikarana vAruNIguNAH (84) · Śloka 84

तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च| शूलकासवमिश्वासविबन्धाध्मानपीनसान्||८४||

🔊 Audio coming soon

वारिणी नाम सुरा तद्गुणा अनन्तरोक्तसुरासमगुणा| इयं तु लघ्वी तीक्ष्णा च, शूलादींश्च निहन्ति| विबन्धः स्रोतस उपलेपेन दोषादीनामवहनम्|| ८४||

Adhikarana jagalamedakayorguNAH (85) · Śloka 85

शूलप्रवाहाहिकाटोपतृष्णाशोफार्शसां हितः| जगलः पाचनो ग्राहि रूक्षस्तद्वच्च मेदकः||८५||

🔊 Audio coming soon

जगलो वारुण्याः सुरया अधोभागो घनः शोलप्रवाहिकादिहरः| प्रवाहिका निस्तानिका| आटोपो जठरे वायुना निश्चलेन सशब्दं पूरणम्| तथा पाचनः संग्रहणो रूक्षश्च| मेदको नाम जगलस्याधोभागो गुणैर्जगलवद्विज्ञेयः|| ८५||

Adhikarana bakkasaguNAH (86) · Śloka 86

बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः||८६||

🔊 Audio coming soon

बक्कसो नाम पानीयेन मद्यकल्कपीडनेन हृतसारत्वाद्विष्टम्भी त्रिदोषकोपनश्च|| ८६||

Adhikarana baibhItakIsurAguNAH (87) · Śloka 87

नातितीव्रमदा लघ्वी तथ्या बैभीतकी सुरा| व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते||८७||

🔊 Audio coming soon

बिभीतकस्य सुरा अतितीव्रं मदं न जनयति| लघ्वी पथ्या| व्रणादिषु चात्यर्थं न विरुद्धा||८७||

Adhikarana yavasurAyAH guNAH (88) · Śloka 88

विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला||८८||

🔊 Audio coming soon

यवसुरा विष्टम्भकरी गर्वी रूक्षा त्रिदोषकरा च|| ८८||

Adhikarana kauhalImadhUlakasurayorguNAH (89) · Śloka 89

कौहली बृंहणी गौर्वी स्लेष्मलस्तु मधूलकः||८९||

🔊 Audio coming soon

कौहली सुरा बृंहणी गौर्वी च| मधूलकः श्लेष्मकरः| सर्वं मद्यमसञ्जातं मधूलक इति स्मृतः|| ८९||

Adhikarana ariShTaguNAH (90) · Śloka 90

यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः| ग्रहणीपाण्डुकुष्ठार्शःशोषशोफोदरज्वरान्| हन्ति गुल्मकृमिप्लीहः कषायकटुवातलः||९०||

🔊 Audio coming soon

अरिष्टसन्धानमुच्यते| स हि यैर्यैद्रैव्यैः सिद्धस्तेषां गुणाननुगच्छति| सर्वैश्च दीपनत्वादिभिर्मद्यगुणैरधिकः| ग्रहण्यादकांश्च रोगान्नाशयति| कषायकटुरसो वातकरश्च|| ९०||

Adhikarana mArdvIkamadyaguNAH (91) · Śloka 91

मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्| अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम्||९१||

🔊 Audio coming soon

मार्द्वीकं द्राक्षारसं लेखनत्वादियुक्तम्| पित्तमनिलं चान्यमद्यापेक्ष्या स्वल्पं करोति| पाण्ड्वादिनाशनञ्च| योऽतितैक्ष्ण्याच्छ्लेष्मादिकं विलिखिति स लेखनम्|| ९१||

Adhikarana khArjUramadyaguNAH (92) · Śloka 92

अस्मादल्पादन्तरगुणं खार्जूरं वातलं गुरु||९२||

🔊 Audio coming soon

खार्जूरमद्यं मार्दीकगुणैरूनम्| वातलं गुरु च|| ९२||

Adhikarana shArkaramadyaguNAH (93) · Śloka 93

शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघु||९३||

🔊 Audio coming soon

शर्करया कृतं मद्यं सुरभित्वादियुक्तम्|| ९३||

Adhikarana gauDamadyaguNAH,shIdhuguNAH (95) · Śloka 95

सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः||९४|| वातपित्तकरः शीधुः स्नेहश्लेष्मविकारहा| मेदःशोफोदरार्शोघ्नस्तत्र पक्वारसो वरः||९५||

🔊 Audio coming soon

शीधुर्वातपित्तकरः| स्नेहविकारान् श्लेष्मविकारांश्च नाशयति| शीधुरपक्वेक्षुरसकृतः पक्वेक्षुरसकृतश्च| तत्र शीधुषु मध्ये पक्वरसो मेदःप्रभृतीनां नाशनः श्रेष्ठश्च|| ९५||

Adhikarana madhvAsavAdInAM guNAH (96) · Śloka 96

छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्| सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णोऽनिलावहः| मैरेयो मधुरो वृष्यः सरः सन्तर्पणो गुरुः| धातक्यभिषुतो जीर्णो रूक्षो रोचनदीपनः| द्राक्षासवो मधुसमः परमं स तु दीपनः| मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः||९६||

🔊 Audio coming soon

मध्वासवो माधवको नाम मद्यविशेषः| च्छेदी तीक्ष्णो मेहादिघ्नश्च| सुरासवो नामोत्कटमदः| मधुरस्तीक्ष्णो वातघ्नश्च| मैरेयो मधुरत्वादियुक्तः| मैरेयः कोद्रवैः सह जायते| धातक्यासुतो जीर्णः पुराणः रूक्षो रुच्यः अग्निदीपनश्च न त्वेवं नवः| द्राक्षासमो मधुसमो माक्षिकसमः| अयं चात्यर्थदीपनः| मृद्वीकेक्षुरसाभ्यां कृतसन्धानासवः गुणैर्मार्द्वीकसमः|| ९६||

Adhikarana AsavasAmAnyaguNAH (97) · Śloka 97

समासादासवो हृद्यो वातलः स्वौषधानुगः||९७||

🔊 Audio coming soon

समासात्संक्षेपः आसवगुणा उच्यन्ते- यो कश्चिदासवः स सर्वो हृद्यो वातलः स्वौषधगुणश्च| आसवो यो द्रवेण शुष्कमासुत्य क्रियते|| ९७||

Adhikarana madyayonayaH (98) · Śloka 98

द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः| मद्याकरा यदेभ्योऽन्यत्तन्मद्यप्रतिरूपकम्| गुणैर्यथोल्बणैर्विद्यान्मद्यमाकरसङ्करात्||९८||

🔊 Audio coming soon

द्राक्षादयः पञ्चोत्तमा मद्याकरा मद्ययोनयः| एतद्वर्जितमन्यन्मद्यप्रतिरूपकम्| आकसङ्कराच्च मद्यं गुणैर्दीपनत्वादिभिर्यथोल्बणं विद्यात्| उल्बणस्य गुणाननुवर्तत इत्यर्थः तेनैतदुक्तं भवति-द्विमद्याकरमिश्रीभावजातं मद्यमुल्बणेनाधिकेनाकरद्रव्येण समानगुणम्| यो ह्याकरसंयोगेऽधिके भवति तद्गुणं मद्यमित्यर्थः|| ९८||

Adhikarana shuktaguNAH (99) · Śloka 99

रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमन्| विदाही भृशतीक्ष्णोष्णं हृद्यं रुचिकरं सरम्| दीपनं शिशिरस्पर्शं पाण्डुदृक्क्रिमिनाशनम्||९९||

🔊 Audio coming soon

शुक्तं रक्तपित्तकफानुत्क्लेदयति| वातं चानुलोमयति| विदाहित्वादिगुणयुक्तं च|| ९९||

Adhikarana guDashuktAdInAmuttarottaraM laghutvam (100) · Śloka 100

गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्||१००||

🔊 Audio coming soon

गुडादिशुक्तानां यथोत्तरं लघुत्वं विज्ञेयम्| गुडकृताच्छुक्तादिक्षुशुक्तं लघु| इक्षुशुक्तादन्यन्मद्यशुक्तं लघु| सर्वमद्यशुक्ताञ्चमार्द्वीकशुक्तं लघु| अन्ये तु ब्रवते-गुडमद्यशुक्तादिक्षुमद्यशुक्तं लघु| इक्षुमद्यशुक्तान्मार्द्वीकमद्यशुक्तमिति| पूर्वस्तो पक्षो युक्त इति निर्णीतः| तथाधातकीगुडतोयादिकारणं मद्यशुक्तयोरित्युक्तम्|

Adhikarana kandamUlAdyAsutaguNAH (101) · Śloka 101

कन्दमूलफलाद्यांश्च तद्वद्विद्यात्तदासुतम्||१०१||

🔊 Audio coming soon

कन्दादिकं च तदासुतं गुडशुक्ताद्यासुतं तद्वद्विद्यात्| आसवनशुक्तसमानगुणं जानीयादित्यर्थः|| १०१||

Adhikarana shANDAkIguNAH (102) · Śloka 102

शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु||१०२||

🔊 Audio coming soon

शाण्डाकी च शकान्यासुत्य क्रियते या सा चान्यच्चाप्यनुक्तमासुतमासवनशिक्तगुणम्| कालेनाम्लं सद्रुच्चं लघु च कालाम्लं नाम|| १०२||

Adhikarana dhAnyAmlaguNAH (103) · Śloka 103

धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्| श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्| शस्तमास्थापने हृद्यं लघु वातकफापहम्||१०३||

🔊 Audio coming soon

धन्याम्लं काञ्जिकं मेदित्वादियुक्तम्| उष्णवीर्यम्| स्वभावेनैव स्पर्शशीतलम्| व्यायामादिना तान्तत्वं श्रमः| निव्यायामादेव तान्तत्वं क्लमः| आस्थापनं वातनाशाय नेत्रेण द्रवस्य गुदप्रणिधानम्|| १०३||

Adhikarana sauvIrakAmlatuShodakAmlayorguNAH (104) · Śloka 104

एभिरेव गुणैर्युक्ते सौवीरकतुषोदके| क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे| ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते||१०४||

🔊 Audio coming soon

सौवीरकतुषोदके धान्याम्लगुणयुक्ते| क्रिम्यादिनाशने च| सौवीरकतुषोदके क्रमेणानुपूर्व्या वितुषैः सतुषैश्च यवैर्विद्यात्| तेनैतदुक्तं भवति| सौवीरकं यन्निस्तुषैर्यवैः क्रियते| तुषोदकं यस्ततुषैः क्रियते| इति मद्यवर्गः|| १०४||

Adhikarana (6) mUtravargaH gavAdimUtrasAmAnyaguNAH gomUtrasya prAdhAnya~jca (105) · Śloka 105

मूत्रं गोजाविमहिषीगजाश्वेष्ट्रखरोद्भवम्| पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु| क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान्| गुल्मारुचिविश्वित्रकुष्ठार्शांसि जयेल्लघु| विरेकास्थापनालेपस्वेदादिषु च पूजितम्| दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम्||१०५||

🔊 Audio coming soon

द्रवत्वात्तीक्ष्णत्वादेश्च प्रसङ्गेन च मूत्राण्यप्युच्यन्ते| गवादीनां मूत्रं पित्तलत्वदिगुणयुक्तम्| कृम्यादींश्च जयेत्| लघु च| रसे कटु| लवणमनुरसं स्वल्पं यस्य तत्तथाविधम्| विरेकादिषु च शस्यते| दीपनत्वादिगुणं च| मूत्रेषु मध्ये गोमूत्रमुत्तमं प्रधानम् (च०सू०-१/८२-१०४)|| १०५||

Adhikarana CAgagajavAjimUtraguNAH (106) · Śloka 106

श्वासकासहरं छागं पूरणात् कर्णशूलजित्| दद्यात्क्षारे किलासे च गजवाजिसमुद्भवम्||१०६||

🔊 Audio coming soon

छागमूत्रं कासश्वासहरम्| कर्णपूरणेन च कर्णशूलजित्|दन्तितुरगमूत्रे किलासे श्वित्रे उपयोगार्थं दद्यात्| क्षीरे च पच्यमाने (किलासम्-नि०अ०-१५)|| १०६||

Adhikarana rAsabhamUtraguNAH (107) · Śloka 107

हन्त्युन्मादमपस्मारं क्रिमीन्मेहञ्च रासभम्||१०७||

🔊 Audio coming soon

रासभं मूत्रम् उन्मादादीन् हन्ति|| १०७||

Adhikarana gavAdishakRudguNAH,mRugAdInAM shakRudguNAH (108) · Śloka 108

कषायतिक्तमेतेषां हिध्माश्वसहरं शकृत्| मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत्| प्रसहानामपस्मारमुन्मादञ्च नियच्छति| महामृगसमुद्भूतं कुष्ठहृज्जलचारिणाम्| नेत्ररोगहरं पित्तं प्रवृद्धञ्च नियच्छति||१०८||

🔊 Audio coming soon

एतेषामनन्तरोक्तानां मूत्रप्राणिनां शकृत्पुरीषं रसेन कषायातिक्तम्| हिध्माश्वासहरञ्च| अन्यत् सुबोधम्|| १०८||

Adhikarana gavAdipittarocanayorguNAH (109) · Śloka 109

पित्तं तिक्तं विषहरं रोचना कफवातजित्| तिक्ता पामाहरा..........................||१०९||

🔊 Audio coming soon

एतेषामेव पित्तं जाठरमुपयुक्तं तिक्तरसं विषहरं च| एतेषामेव रोचना नाभिप्रदेशभवा वातश्लेष्मविनाशिनी तिक्तरसा पामाहरा च|| १०९||

Adhikarana mAnuShamUtraguNAH (110) · Śloka 110

........................ मूत्रं मानुषं तु विषापहम्||११०||

🔊 Audio coming soon

मानुषं तु मूत्रं विषघ्नम्| इति मूत्रवर्गः|| ११०||

Adhikarana upasaMhAraH (6) · Śloka 6

तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्| इति द्रव्यैकदेशोऽयं यथास्थूलमुदाहृतः||१११|| इतिश्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इत्यनन्तरोक्तेन प्रकारेण तोयादिवर्गैः प्रधानानतिक्रमेण द्रावाणामेकदेश उदाहृतः|| १११|| इतिश्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने षष्ठोऽध्यायः||६||