Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. dinacaryā

Adhikarana atha dinacaryAnAma tRutIyo~adhyAyaH pratij~jA (1) · Śloka 1

अथातो दिनचर्यानामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

अस्मिंन्त्रे आयुषः पालनं प्रकृतं तच्च द्विविधं स्वस्थवृत्तमातुरवृत्तञ्च| मङ्गल्यत्वात् स्वल्पवक्तव्यत्वात् आतुरोपयोगित्वाच्च स्वस्थवृत्तमेवादावुच्यते- अथातो दिनचर्यामित्यादि| प्रतिदिनं कर्त्तव्या चर्या दिनचर्या|| १||

Adhikarana brAhme muhUrta utthAnam (2) · Śloka 2

ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्| रक्षार्थमायुषः स्वस्थः....................||२||

🔊 Audio coming soon

किं तदित्याह- ब्राह्म इति| स्वस्थो नीरोगः| आयुषो यथोपचितस्य रक्षार्थम्| ब्राह्मे मुहूर्ते उत्तिष्ठेत्| मुहूर्तो नाडिकाद्वयम्| ब्रह्मणोऽयं ब्राह्मः| ब्रह्म ज्ञानन्तदर्थमध्ययनाद्यपि ब्रह्म तस्य योग्यो मुहूर्तो ब्राह्मः ब्रह्मयोग्यश्च कालो योगशास्त्रेषु निशायाः पश्चिमो यामो निश्चितः| तेन निशाक्षये निद्रानाशप्रयुक्तत्वादुत्थानस्याप्राप्तसन्ध्यासंसर्गो मुहूर्तोऽभिप्रेतः| सन्ध्यायां स्वप्नप्रतिषेधात्| यद्यपि च ज्योतिश्शास्त्रेषु सूर्योदयात्प्रभृति षड्विंशो मुहूर्त्तो नाडिकाष्टकव्यवहितद्वितीयसूर्योदयो ब्राह्म इत्युच्यते तथापि नासाविहाभिप्रेतः| अन्नस्य जरणकाले जागरणप्रसङ्गात्| तस्मात् सन्ध्यायाः पूर्वो मुहूर्त्तो ब्रह्मोपासनयोग्यत्वात् ब्राह्मः| अभ्यासाद्यपेक्षं तत्पूर्वोऽपि वा| तस्मिन् शय्यात उत्तिष्ठेत्| केचित्तु ज्योतिः शास्त्रविदः विरिञ्चप्रभवं मुहूर्त्तं निशान्तभवमाहुः| किं कुर्वन्नुत्तिष्ठेत् जीर्णाजीर्णं निरूपयन् ह्यस्तनमाहारं मया भुक्तं जीर्णं न वेति विकल्पयन्| एतावता हि कदाचित् स्वप्यादजीर्णीति नोत्तिष्ठेत्| अथवा षड्विंश एव ब्राह्मो मुहूर्त्तः अत्र गृह्यते| जीर्णाजीर्णं निरूपयन्नित्येतच्च दोषपरिहाराय भविष्यति|| २||

Adhikarana shaucavidhiH (3) · Śloka 3

...................जातवेगः समुत्सृजेत्| उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि| वाचं नियम्य प्रयतः संवीताङ्गोऽवगुण्ठितः| प्रवर्तयेत्प्रचलितं न तु यत्नादुदीरयेत्| नामेध्यमार्गमृद्भस्मगोस्थानाकीर्णगोमये| पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे| न नारीपूज्यगोऽर्केन्दुवाय्वन्नाग्निजलं प्रति| न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः| न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्| निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः| अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्| लेपगन्धापहं शौचमनुत्पतितबिन्दुभिः||३||

🔊 Audio coming soon

उत्थितश्च किं कुर्यादित्याह- जातवेग इत्यादि| मूत्रपुरीषमुदङमुख उत्तरां दिशं प्रेक्षमाण उत्सृजेत्त्यजेत्| किम्भूतः? प्राप्तवेगः नोदीरितवेग इति| एतावता हि वातादिनां कोपो भवति| निशि रात्रौ दक्षणदिगभिमुखः मूत्रशकृदुत्सृजेत्| किं कृत्वा मूत्रपुरीषमुत्सृजेत्? वाचं नियम्य कृतमौनः| प्रयतः अनन्यकार्यः| संवीताङ्गः गृहीतपरिधानः| अवगुण्ठितः अनग्नशिराः| स्थानात् प्रचलितं मूत्रशकृत्स्तोकं स्तोकं प्रवर्तयेत् प्रेरयेत्| न त्वतियत्नेनाचलितमेवोदीरयेत्| नामेध्ये अत्यन्ताशुचौ स्थाने| मार्गः रथ्या| तत्रापि नोत्सृजेत्| न मृदि राशीभूतायामपि| न भस्मनि| न गोस्थाने, न आकीर्णे जनसंसदि, न गोमयस्योपरि, न पुरनिकटे, नाग्निनिकटे, न वल्मीकोपरि| मृदा पिपीलिकादिकृतं स्थाण्वाकारं वल्मीकशब्देनोच्यते| नातिरमणीये भूमिभागे, न हललिखिते, न कृताध्वराग्निचये, न वृक्षस्याध उपरि वा| न च नार्याभिमुखं, पूज्यो गुर्वादिः| गवादयः प्रसिद्धाः| न च महीं भूमिमतिरस्कृत्य तृणादिभिरनवच्छाद्य| उत्सृजेदिति सर्वत्रानुवर्तते| यदा तु स्वामिचोरादिभयं, यदा वा शरीराशक्तता तदा कामतो यथेच्छम्| तथा वेगितः प्राप्तमूत्रादिवेगो नान्यकार्यो भवेत्| अन्यकार्यप्रतिषेधप्रसङ्गेन आह- साध्यमपि रोगमजित्वा नान्यकार्यो भवेदिति| उत्सृष्टवेगश्च शौचं योजयेत्कुर्यात्| किम्भूतः कुर्यादत आह- निःशल्यया काष्ठादिशल्यरहितया| अदुष्टया योग्यया मृत्पिण्डया परिमृष्टमलायनः सम्मार्जितगुदः| केन शौचं योजयेदत आह- अभ्युद्धृताभिरद्भिः नदीतटाकादितः कलशपाण्यादिना उद्धृताभिः| न तु कटीमेव नद्यामवगाह्य शौचयेत्| नाशुचिना करेण मृत्सहिताभिरद्भिः| किम्भूतं शौचमित्याह-लेपगन्धापहमिति| लेपगन्धापहं मलायने लेपगन्धौ, लेपश्च गन्धश्च येन नश्यति| एतेन मृदः अपां शौचस्य च मानमुक्तं भवति| अनुत्पतितबिन्दुभिरद्भिः यत उत्पतिता बिन्दवोऽस्पृश्याः|| ३||

Adhikarana AcamanakAlAstadvidhiSca (4) · Śloka 4

स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्च्युतान्| स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने| रथ्यामाक्रम्य चाऽचामेदुपविष्ट उदङ्मुखः| प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्| अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः| नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न पूतिभिः| न फेनबुद्बुदक्षारैर्नैकहस्तार्पितैर्जलैः| नार्द्रैकपाणिर्न्नामेध्यहस्तपादो न श्ब्दवत्||४||

🔊 Audio coming soon

अन्यच्चेदं कुर्यात्, आचामेत् जलेनोपस्पृशेत्| किं कृत्वाऽऽह- धात्वादिकान् स्पृष्ट्वा| किम्भूतान् शरीराच्चलितान्| धातवः रक्तादयः| मलाः मूत्रशकृत्कर्णमलादयः| अश्रु दृशोर्जलम्| अप्सदृशो मेदसो भागो वसा| तथा च `शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता' इति चरकः| स्नात्वा च आचामेत्| भोक्तुमनाः बुभुक्षुः| भुक्त्वा च, सुप्त्वा च, क्षुत्त्वा च क्षवथुं कृत्वा, सुरार्चने देवार्चनारम्भे, रथ्यामाक्रम्य मार्गं परिभ्रम्य, चकारात्प्रकृतं शौचं कृत्वा| किम्भूतः? पूर्वामुत्तरां वा दिशमीक्षमाणः उपविष्टः| न बहिर्जानु जानुभ्यां बहिः पाणी अकृत्वा| नान्यदृक् आचमनजलादन्यत्र न दृष्टिं कुर्वन्| अजल्पन् कृतमौनः| उत्तरासङ्गी गृहीतोपरिवसनः| कैराचमेत्? जलैः| किम्भूतैः? स्वच्छैः निर्मलैः, अङ्गुष्ठमूलगैः ब्राह्मतीर्थोपवेशिभिः| नोद्धृतैराचामेत्| किं तर्हि? अविच्छिन्नधारया दत्तैः| नानतः न नमिताङ्गः, नोर्ध्वं उत्थितो न| नाग्निपक्वैः, न दुर्गन्धिभिः, न फेनिलैः, नबुद्बुद्भिः, न क्षारैः विरसैः, नाप्येकहस्तदत्तैः| आर्द्रैकपाणिर्नाचामेत्| यावद् द्वावपि पाणी न प्रक्षालितौ| नाशुचिहस्तपादः| जलपाने शब्दं न कुर्वन्|| ४|

Adhikarana dantakAShThAni dantadhAvanavidhiSca (5) · Śloka 5

वटासनार्कखदिरकरञ्जकरवीरजम्| सर्जारिमेदापामार्गमालतीककुभोद्भवम्| कषायतिक्तकतुकं मूलमन्यदपीदृशम्| विज्ञातवॄक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्| कनीन्यग्रसमस्थौल्यंं सुकूर्च्चं द्वादशाङ्गुलम्| प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्| व्याप्य त्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्| शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्||५||

🔊 Audio coming soon

अन्यच्च किं कुर्यात्? कृतशौचो दन्तधावनकाष्ठं भक्षयेत्| किं तत्? वटादिवृक्षाणामन्यतमस्य मूलं यत् कषायादिरससंयुक्तं न त्वन्यरसं वटादिजं मूलं वटादिमूलादन्यदपीदृशं कषायादिरससंयुक्तं मूलं वा काष्ठं वा सर्वं भक्षयेत्| विज्ञातवृक्षं वृक्षा हि मोहनादिनानाशक्तयो दृश्यन्ते| क्षुण्णाग्रमापोथिताग्रम्, ऋजुस्पष्टम्,तथा ग्रन्थिरहितम्, सुभूमिजं श्मशानाद्यजातम्, स्थूलतया च कनीनिकाप्रान्तसमम्, कनीनिका कनिष्ठाङ्गुलिः, सुकूर्च्चं अपरुषकूर्च्चम्, परिमाणेन द्वादशाङ्गुलम्| द्वौ कालौ दन्तमांसं रक्षन् दन्तपवनं भक्षयेत्| दिनारम्भे भोजनान्ते च| यतवाङ्मौनी| ततो दन्तपवनं मलापनुत्यर्थं भक्षयित्वा अनन्तरं शनैः व्याप्यादिक्षौद्रान्वितप्रान्तेन दन्तकाष्ठेन दन्तान् घर्षयेत्| व्याप्यं कुष्ठम्| त्रिवर्गत्रितयं त्रिकटु त्रिफला त्रिजातकं च|| ५||

Adhikarana jihvAnirleKanavidhistadguNAshca (6) · Śloka 6

लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च| तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः| रुचिवैशद्यलघुता न भवन्ति भवन्ति च||६||

🔊 Audio coming soon

अनु पश्चात् तेनैव लेखनयोग्यकृतेन दन्तपवनेन जिह्वां सुखं लिखेत्, जिह्वानिर्लेखनेन लोहादिकृतेन वा जिह्वां सुखं लिखेत्| स्वल्पमपि मांसमबाधमानस्तां लिखेत्| एवं हि दन्तपवनजिह्वानिर्लेखनाभ्यामस्य पुंसो मलादयो जिह्वादिजा न भवन्ति| यथासङ्ख्यं विविक्षिता रुच्यादयो लघुतान्ताश्च भवन्ति|| ६||

Adhikarana dantakAShThavarjyAH (7) · Śloka 7

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती| तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्||७||

🔊 Audio coming soon

तच्च दन्तपवनमजीर्णादियुतः पुरुषो नाद्यात्| वमथुः छर्दिः, श्वासादयो वक्ष्यमाणलक्षणाः| आमयशब्देन रोगपर्यायेण हृदादीनां सम्बन्धः|| ७||

Adhikarana dantadhAvane niShiddhakAShThAni (8) · Śloka 8

नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्| बिल्ववञ्जुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान्| कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून्| पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्| स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्||८||

🔊 Audio coming soon

श्लेष्मातकादिकं दन्तपवनमवश्यमेव नाद्यात्| तथा प्रथमरसत्रययुक्तं, दुर्गन्धिपिच्छिलञ्च, शुष्कं नीरसं, सुषिरमन्तः शून्यम्| श्लेष्मातकादीनां शणान्तानां पर्यायाणि नोच्यन्ते, विशिष्टदेशप्रसिद्धत्वात्| या चात्राकाङ्क्षा सा निघण्टुज्ञानादेव नश्यति|| ८||

Adhikarana palAshAsanAdiShu niShedhaH (9) · Śloka 9

पालाशमासनं दन्तधावनं पादुके त्यजेत्||९||

🔊 Audio coming soon

दन्तधावनप्रसङ्गेनाह- पालाशवृक्षजातम् आसनं, दन्तधावनं, पादुके च त्यजेत्|| ९||

Adhikarana dantadhAvanakramaH (10) · Śloka 10

दन्तान् पूर्वमधो घर्षेत्...................||१०||

🔊 Audio coming soon

दन्तपवने चाधो दन्तान् पूर्वं घर्षेत्|| १०||

Adhikarana akShisi~jcanam (11) · Śloka 11

......................प्रातः सिञ्चेच्च लोचने| तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा||११||

🔊 Audio coming soon

प्रतिदिनं प्रातर्दिनारम्भे अक्षिणी सिञ्चेत्तोयपूर्णमुखः सन्| केन सिञ्चेत्? शीतवारिणा| किं नित्यमेव शीतवारिणा? ग्रीष्मशरदोरेव| अन्यस्मिन् ऋतौ कोष्णवारिणा इत्यर्थाल्लभ्यते|

Adhikarana ma~ggalakRutyam (12) · Śloka 12

प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्| श्रृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम्||१२||

🔊 Audio coming soon

इदञ्चानन्तरं कुर्यात् देवान् वृद्धांश्च प्रणम्य मङ्गलाष्टशतं शुभं श्रृण्वन् सौवर्णभाण्डस्थं घृतमवाङ्मुखः पश्येत्, मङ्गलाष्टशतं दूतादिविज्ञानीये (शा०अ०-१२) वक्ष्यते|| १२||

Adhikarana sauvIrA~jjanavidhistadguNAshca (13) · Śloka 13

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्| लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने| व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी||१३||

🔊 Audio coming soon

ततः सौवीरमञ्जनमक्षिभ्यां हितं नित्यं भजेत्| तेन चाञ्जनेन लोचने नेत्रे, मनोज्ञे दर्शनीये भवतः| सूक्ष्मञ्च रूपं पश्यतः| व्यक्तत्रिवर्णत्वाच्च निर्मले, रक्तशुक्लकृष्णं वर्णत्रयम्| सुस्निग्धानि सुघनानि च पक्ष्माणि ययोस्ते तथाविधे|| १३||

Adhikarana rasA~jjanavidhiH (14) · Śloka 14

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्| योजयेत्सप्तरात्रेऽस्मात् स्रावणार्थं रसाञ्जनम्||१४||

🔊 Audio coming soon

तथा सप्तरात्रान्तरेण चक्षुषः श्लेष्मस्रावणार्थं रसाञ्जनं योजयेत्| कुतः? यतश्चक्षुस्तेजोमयं, चक्षुषस्तेजोमयव्यपदेशो भूयसा| यतः पञ्चभूतात्मकमिन्द्रियं तस्य च वातादितो विशेषाच्छ्लेष्मणो विपरीतत्वाद्भयमिति|| १४||

Adhikarana nasyagaNDUShadhAraNAdiguNAH (15) · Śloka 15

अणुतैलं ततो नस्यन्ततो गण्डूषधारणम्| घनोन्नतप्रसन्नत्वक् स्कन्धग्रीवास्यवक्षसः| सुस्निग्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः| निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः| ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः| न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्| खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः| अरोचकास्यवैरस्यमलपूतिप्रसेकजित्| सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्||१५||

🔊 Audio coming soon

अनन्तरं वक्ष्यमाणमणुतैलं नस्यं योज्यम्| अनन्तरं गण्डूषधारणम्| नस्यशीलिन एव भवन्ति घनोन्नतप्रसन्नाः त्वगादयः येषां ते तथाविधाः| घनत्वादिभिस्त्वगादीनां यथासम्भवं सम्बन्धः| प्रसन्नत्वचः उन्नतस्कन्धाः, घनग्रीवाः, प्रसन्नमुखाः, घनवक्षसः, सुगन्धास्याः, मधुरस्वराः, वलीपलितव्यङ्गरहिताश्च| वल्यस्त्वक्सङ्कोचः, व्यङ्गानि मुखे श्यावानि मण्डलानि| स्नेहगण्डूषधारणादोष्ठफुटनादयो न भवन्ति| पारुष्यमोष्ठयोरेव, तथा आस्यशोषः, दन्तरोगः, स्वरहानिश्च| तथा अरोचकादिनाशकामेन खदिराद्यम्बुकवलग्रहः कार्यः| तथा वक्त्रलाघवकामेन उष्णोदकगण्डूषः| कवलगण्डूषयोर्भेदो गण्डूषादिविधौ वक्ष्यते| प्रसेकः आस्यस्रावः|| १५||

Adhikarana prAyogikadhUmapAnAdi (16) · Śloka 16

प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्| धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः||१६||

🔊 Audio coming soon

अनन्तरं वक्ष्यमाणलक्षणं प्रायोगिकं धूमं गन्धमाल्यादि चाऽऽचरेत्| आदिशब्देन वासः प्रभृतीनां ग्रहणम्| धूमपस्य किं भवति? जत्रारक्षकसन्ध्यभिधानस्य, ऊर्ध्वमुपरि शिरसि वातकफजा रोगा न भवन्ति|| १६||

Adhikarana a~jjanAdikrame yuktiH (17) · Śloka 17

अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्| धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्||१७||

🔊 Audio coming soon

नन्वञ्जनादीनामेवम्भूतः क्रमः किमर्थमाश्रित इत्याह- अञ्जनो-त्क्लेशितमित्यादि|| १७||

Adhikarana gandhamAlyAdidhAraNaguNAH (18) · Śloka 18

गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्||१८||

🔊 Audio coming soon

गन्धमाल्यादिकमुपयुज्यमानं वृष्यमलक्ष्मीघ्नं कान्तिकरं च भवति|| १८||

Adhikarana jIrNavastradhAraNAdiniShedhaH (19) · Śloka 19

वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्| माल्यं न लम्बं न बहिर्न रक्तं जलजादृते| नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ||१९||

🔊 Audio coming soon

अन्यच्चेदमिदं कुर्यात्| जीर्णं जीर्णप्रायं वासः परिधानं न धारयेत्| मलिनं रक्तमुल्बणञ्च, उन्नद्धम् (उल्बणम्) उद्भटं माल्यं पुष्पं, लम्बं स्रग्दामादि, न धारयेत्| न बहिः राजमार्गे दृश्यमानं वा| जलजं वर्जयित्वा रक्तमन्यन्माल्यं न धारयेत्| प्रसङ्गेनाह- अन्येन विधृतं वस्त्रं न धारयेत् पुष्पमुपानहौ चर्मपादुके तथा|| १९||

Adhikarana tAmbUlasevanataddhAraNaguNAH (20) · Śloka 20

रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्| जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह| ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्| रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम्| विषमूर्च्छामदार्त्तानामपथ्यं शोषिणां च तत्| पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे| द्विपत्रमेकं पूगं च सचूर्णखदिरं च तत्||२०||

🔊 Audio coming soon

रूच्यादिकमिच्छन् वक्त्रेण जात्यादिभिः सह पूगफलान्वितं ताम्बूलीनां नागलतानां किसलयं पल्लवं धारयेत्| रक्तपित्ताद्युपहतस्य शोषिणश्च तत्सेवनमपथ्यम्| रूक्षेण हेतुनोत्कुपितानि चक्षूंषि येषां ते रूक्षोत्कुपितचक्षुषः, तेषामथवा रूक्षाणामुत्कुपितचक्षुषाञ्च सुबोधम्|| २०||

Adhikarana dhanopArjanam (21) · Śloka 21

उत्तिष्ठेत ततोऽत्यर्थमर्थेष्वर्थानुबन्धिषु| निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्| कृषिं वणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्| लोकद्वयाविरुद्धाञ्च धनार्थी संश्रयेत्क्रियाम्||२१||

🔊 Audio coming soon

ततोऽनन्तरमर्थानुबन्धिषु धनहेतुषु कार्येष्वत्यर्थमुत्तिष्ठेत यत्नाच्चेष्टेत| यस्माद्दीर्घमप्यायुरसन्निहितसाधनं दारिद्र्ययुक्तं निन्दितं गर्हितम्| तथा धनार्थी कृष्यादिकमारभेत| अन्याञ्च क्रियां धनलाभहेतुकीमुभयलोकाविरुद्धां सतीमाश्रयेत्|| २१||

Adhikarana niShkramaNavidhiH (22) · Śloka 22

मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः| पाणिनालभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्| सातपत्रपदत्राणो विचरेद्युगमात्रदृक्| निशि चात्ययिके कार्ये दण्डी मौली सहायवान्| प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरोऽहनि||२२||

🔊 Audio coming soon

तथा मुक्तवेग उत्सृष्टमूत्रपुरीषादिवेगश्च अध्वगमनादिकम्| तथा रत्नादिकमालभ्य सपूजं संस्पृश्य, कार्यार्थं निष्क्रामेत्| निर्गतश्च छत्रपादत्राणसंयुक्तो युगमात्रदृग्विचरेत्| युगो हस्तद्वयम्, अन्ये हस्तचतुष्टयं युगमाहुः, तन्मात्रमग्रतः पश्यन् कृमिस्थाण्वादिभयात्| निशि रात्रावात्ययिके अतिप्रयोजनवति कार्ये, दण्डी मौली सहायवांश्च विचरेत्| अर्थबलादुक्तम् अनात्ययिके कार्ये नैव विचरेन्निशीति| मौली वेष्टितशिराः| तथा रात्रौ शिरः पिधाय पर्यटेत् परिभ्रमेदिति|| २२||

Adhikarana caityAdisthAnAnatikramaH (23) · Śloka 23

चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्| नाक्रामेच्छर्करालोष्ठबलिस्नानभुवो न च||२३||

🔊 Audio coming soon

चैत्यादीनां छायां नाक्रामेत पादाभ्यां न ल~ग़्ग़येत्| चैत्यः प्रसिद्धः, पूज्यो गुर्वादिः, अशस्तममङ्गल्यं वस्तु, तथा भस्मादिकमपि| तथा शर्करादिकमपि| शर्करा शिलाचूर्णं बलिर्भूतोपहारः, स्नानभूः यत्र कश्चित् स्नातः|| २३||

Adhikarana madhyAhnAdau catuShpathAdi sevananiShedhaH (24) · Śloka 24

मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्| न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम्| सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न||२४||

🔊 Audio coming soon

तथा मध्याह्नादिषु कालेषु चतुष्पथं न सेवेत| तथा शर्वर्यां सर्वस्यामपि रात्रौ, वृक्षादिकं न सेवेत| चत्वरं त्रिपथमाहुः, ग्रामाद्बहिरवताराश्रयमन्ये, ग्रामीणसमाजस्थानमित्यन्ये, यस्तु लोके चत्वर इति प्रसिद्धः| सूनाटव्यादिकं दिवाऽपि न सेवेत| सूनाटवी वधारण्यम्|| २४||

Adhikarana shavahu~gkArAdInAM pratiShedhAdi (25) · Śloka 25

न हुङ्कुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च| नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्| चतुष्पथं नमस्कुर्यात्प्रज्ञातांश्च वनस्पतीन्| न व्यालव्याधिताशस्तैर्नादान्तक्षुत्पिपासितैः| न च्छिन्नपुच्छैर्नैकाक्षैर्गोपृष्ठेन च न व्रजेत्| नातिप्रगेऽतिसायं वा न नभोमध्यगे रवौ| नासन्निहितपानीयो नातितूर्णं न सन्ततम्| न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह| दद्याद्वर्त्मार्तवृद्धस्त्रीभारिचक्रद्विजन्मने| स्नानभोजनपानानि वाहेभ्यो नाचरेत्पुरः| नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्| नारोहेद्विषमं शैलं नावं संशयितां तरुम्| निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्| न वार्यमाणः प्रविशेन्नाद्वारेण न चाऽसने| स्वयम् तिष्ठेत्परगृहे युक्तनिद्रं न बोधयेत्| नाऽचरेत्पाणिवाक्पाददृङ्मेढ्रोदरचापलम्||२५||

🔊 Audio coming soon

शवं न हुङ्कुर्यात् मृतशरीरं हुङ्कारेण न तर्जयेत्| पूज्यादीनि चापसव्यं वामं परित्यज्य न गच्छेत्| इतराणि तद्विपरीतानि दक्षिणं त्यक्त्वा न गच्छेत्| चतुष्पथं प्रज्ञातान् प्रसिद्धांश्च वनस्पतीन् वृक्षान् नमस्कुर्यात्| व्यालादिभिश्च वाहैर्न व्रजेत्| व्यालः दुष्टः, क्षुद्रः, अतिपूर्वाह्णादिकाले च न व्रजेत्| असन्निहितपानीयः अगृहीतपानीयः, तूर्णं वेगेन, न संततं बहुकालमपि तु विश्रम्यैव गन्तव्यमित्यभिप्रायः, शत्रुणा सह न व्रजेत्, अविदितैरविज्ञातस्वरूपैः सह न व्रजेत्, एकाकी न व्रजेत्, अधार्मिकैश्च सह| तथा आर्तादिभ्यो वर्त्म दद्यात् मार्गं त्यजेत्| भारी भारवाहकः, चक्री गन्त्र्यादिः| वाहेभ्यः पुरा स्नानादिकं नाऽऽचरेत्| पूर्वं स्ववाहानश्वादीन् स्नापयेत् भोजयेत् पाययेच्च पश्चात्स्वयम् स्नायात् भुञ्जीत चेत्यर्थः| बाहुभ्यां च नदीं न तरेत्| अग्निस्कन्धाभिमुखो न गच्छेत्| अग्निस्कन्धो महानग्निराशिः| विषममतिनिम्नोन्नतप्रदेशं, शैलं पर्वतं नाऽरोहेत्| संशयितामविज्ञातस्वरूपां नावं, वृक्षञ्च सर्वं नाऽऽरोहेत्| द्रुमाद्वृक्षात्, लोष्टेन, फलेन वा फलं न पातयेत्| परगृहे वार्यमाणः प्रतिषिध्यमानप्रवेशो न प्रविशेत्| अप्रसिद्धेन मार्गेण न प्रविशेत्| प्रविष्टश्च अदत्ते आसने न स्वयं तिष्ठेत् नोपविशेत्| युक्ता अविरुद्धा निद्रा यस्य तं न बोधयेत्| पाण्यादिचापलं च नाऽऽचरेत्| हस्तचापलं वाद्यानुकरणादि, पादचापलमप्येवंप्रकारमेव, वाक्चापलं यत्किञ्चनवादित्वं, दृक्चापलं परयुवत्यादिदर्शनं, मेढ्रचापलमप्रासङ्गिकानुचितयोषिद्गमनादि, उदरचापलं भोजनगृघ्नुता|| २५||

Adhikarana keSAdivardhane niyamAH (26) · Śloka 26

त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत्| न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत्||२६||

🔊 Audio coming soon

पक्षस्य मध्ये त्रीन् वारान् केशादीन् कर्तयेत्, स्वहस्तेन दन्तैर्वा न कर्तयेत्| कर्तयित्वा च स्नानमाचरेत्|| २६||

Adhikarana abhya~ggavidhiH (27) · Śloka 27

अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः| यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्||२७||

🔊 Audio coming soon

अथानन्तरमनन्तरोक्तप्रकारेण कालमतिवाह्य उत्पन्नान्नपानेच्छोऽभ्यङ्गमाचरेत्| केनेत्याह-तैलैः| किम्भूतैः? वातघ्नैः सुगन्धिभिश्च ऋत्वनतिक्रमेण संस्पर्शसुखकरैश्च उष्णकाले शीतैः, शीतकाले चोष्णैरित्यर्थः|| २७||

Adhikarana abhya~ggaguNAH (28) · Śloka 28

अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत्| दग्धभग्नक्षतरुजा क्लमश्रमजरापहः| रथाक्षचर्मघटद्भवत्यभ्यङ्गतो गुणाः| स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रयम्| त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः| शिरः श्रवणपादेषु तं विशेषेण शीलयेत्||२८||

🔊 Audio coming soon

अभ्यङ्गगुणानाह-अभ्यङ्गेति| दग्धादित्रयस्य ऱ्रुजया सम्बन्धः| क्षतः शस्त्रादिना| तथा रथाक्षादिवदभ्यङ्गाद्गुणा भवन्ति, रथाक्षं चक्रनाभिः, तस्य चर्मघटयोश्च यथाऽभ्यङ्गेन श्लक्ष्णत्वं, यथा मार्दवं, यथा च दार्ढ्यं, तथा शरीरस्यापि| यथा च रथाक्षस्य स्नेहस्पर्शनमात्रेण, चर्मनो मर्दनेन, घटस्य स्नेहसंस्कारेणेति| यतश्च परमत्यर्थं त्वच्यश्चाभ्यङ्गः, तस्मादभ्यङ्गमाचरेत्| कथमित्याह-स्पर्शनमिति| स्पर्शनं त्वगाश्रितम्| स्पर्शने चावश्यं वायुना भवितव्यम्| अतो वाताऽऽबाधभयादित्यर्थः| शिरः प्रभ्रुतिषु तमभ्यङ्गं विशेषेणशीलयेत्|| २८||

Adhikarana mUrdhni tailakAraNaguNAH (29) · Śloka 29

स केश्यः शीलितो मूर्ध्नि कपालेन्द्रियतर्पणः||२९||

🔊 Audio coming soon

किमर्थमित्याह-सोऽभ्यङ्गः मूर्ध्नि शिरसि, शीलितः केश्यो केशेभ्यो हितः, कपालस्येन्द्रियाणाञ्च तर्पणः तृप्तिकरः|| २९||

Adhikarana karNapUraNaguNAH (30) · Śloka 30

हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम्||३०||

🔊 Audio coming soon

स्नेहेन कर्णपूरणं हनुमन्यादिशूलघ्नम्|| ३०||

Adhikarana pAdAbhya~gge guNAH (31) · Śloka 31

पादाभ्यङ्गस्तु तत्स्थैर्यनिद्रादृष्टिप्रसादकृत्| पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्||३१||

🔊 Audio coming soon

पादादिषु तमभ्यङ्गं विशेषेण शीलयेत्| पादाभ्यङ्गस्तु तत्स्थैर्यादिकृत् पादसुप्त्यादिघ्नश्च| सुप्तिरिव सुप्तिः अभिघाताद्यचैतन्यम्|| ३१||

Adhikarana aBya~ggavarjyAH (32) · Śloka 32

वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||३२||

🔊 Audio coming soon

सर्वोऽभ्यङ्गः कफग्रस्तादिभिर्वर्ज्यः न सेव्यः| कफग्रस्तः श्लेष्मरोगार्त्तः| ग्रस्तग्रहणमतिशयोपलक्षणार्थम्| कृतसंशुद्धिः वमनविरेचनादिभिरचिरकालनिःसृतदोषः|| ३२||

Adhikarana vyAyAmaH (33) · Śloka 33

शरीरायासजननं कर्म व्यायाम उच्यते||३३||

🔊 Audio coming soon

अनन्तरं व्यायामं शीलयेत्| क उच्यते व्यायामः? आह- शरीरेति| येन कर्मणा क्रियमाणेन शरीरमायस्यते तद्व्यायामशब्देन वाच्यम्| तेनैतदुक्तं भवति- कस्यचिच्चंक्रमणमेव व्यायामः, कस्यचिदन्यदधिकमिति|| ३३||

Adhikarana vyAyAmaguNAH (34) · Śloka 34

लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः| विभक्तघनगात्रत्त्वं व्यायामादुपजायते||३४||

🔊 Audio coming soon

तेन कृतेन किं भवतीत्याह- लाघवमित्यादि| लाघवं देहस्य लघुत्वम्| अन्यत् सुबोधम्|| ३४||

Adhikarana vyAyAmavarjyAH (35) · Śloka 35

वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्||३५||

🔊 Audio coming soon

वातपित्तरोगार्तो बालो वृद्धश्च व्यायामं त्यजेत्|| ३५||

Adhikarana vyAyAmavidhiH (36) · Śloka 36

अर्द्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः| शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा| तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||३६||

🔊 Audio coming soon

स च व्यायामो बलवद्भिः पुरुषैः शीतकाले हेमन्तशिशिरयोः वसन्ते च स्निग्धान्नभोजिभिः सद्भिरर्द्धशक्त्या (सु०चि०२४/४७) निषेवणीयः यावच्छक्यं ततोऽर्द्धमिति| अन्यस्मिन्पुनः ऋतौ स्वल्पमेव| तञ्च व्यायामं कृत्वा यथासुखं देहं मर्दयेत्सर्वम्|| ३६||

Adhikarana ativyAyAmadoShAH (37) · Śloka 37

तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः| अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते||३७||

🔊 Audio coming soon

यथोक्तप्रमाणातिक्रमादतिव्यायामेन कासादिरोगोत्पत्तिः|

Adhikarana vyAyAmajAgarAdInAmatisevananiShedhaH (38) · Śloka 38

गजं सिंह इवाकर्षन् भजन्नति विनश्यति||३८||

🔊 Audio coming soon

प्रसङ्गेनाह- व्यायामादीनां साहसमतिसेवां भजन् पुरुषो विनश्यति| यथा सिंहो विक्रमवानतिस्वल्पबलः महाबलं दन्तिनमाकर्षयन् स्वयमेव विनश्यति|| ३८||

Adhikarana udvarttanaguNAH (39) · Śloka 39

उद्वर्त्तनं कफहरं मेदसः प्रविलायनम्| स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||३९||

🔊 Audio coming soon

अनन्तरं कषायद्रव्यैरुद्वर्तनं कुर्यात्| तद्गुणानाह- कफहरमित्यादि|| ३९||

Adhikarana shItajalasnAnaguNAH (40) · Śloka 40

दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्| कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित्||४०||

🔊 Audio coming soon

तदनु स्नानमाचरेत्| तच्चाग्न्युदीरणत्वादियुक्तं कण्ड्वादिघ्नञ्च|| ४०||

Adhikarana uShNAmbupariShekaguNAH (41) · Śloka 41

उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः| तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम्||४१||

🔊 Audio coming soon

उष्णाम्बुनेत्यादि सुबोधम्|| ४१||

Adhikarana snAnaniyamAH (42) · Śloka 42

नाऽनाप्लुत्य शिरः स्नायान्न जलेऽल्पे न शीतले| स्नानोदकावतरणस्वप्नान्नग्नो न चाचारेत्| पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिणि| नात्मानमीक्षेत जले न तटस्थो जलाशयम्| न प्रतिस्फालयेदम्बु पाणिना चरणेन वा| स्नात्वा न मृज्याद्गात्राणि धुनुयान्न शिरोरुहान्||४२||

🔊 Audio coming soon

शिरस्यनाप्लुते असिक्ते न स्नायात्| जले नद्यादिस्थे स्वल्पे शीतले च न स्नायात्| नग्नः अगृहीतपरिधानः, स्नानमुदकावतरणं च नाऽऽचरेत्| तथा स्वप्नं च नग्नो नाचरेत्| परवारिणि अन्यकृते तटाकादौ पञ्च पिण्डाननुद्धृत्य न स्नायात्| पञ्चभिः पिण्डैरुद्धृतैरात्मनैव स्नानार्थं जलाशयः कृतो भवति| दर्पणवदात्मानं जले नेक्षेत| तटस्थः कूलस्थो, जलाशयं कूपादिकं नेक्षेत| पाणिना पादेन वा जलं न प्रतिस्फालयेन्नाभिहन्यात्| स्नात्वा च पाण्यादिनाऽङ्गानि न परिमार्जयेत्| केशांश्च स्नात्वा न धुनुयात्|| ४२||

Adhikarana snAnAntaravastradhAraNaniyamAH (43) · Śloka 43

निवसीतार्द्र एवाऽशु सोष्णीषे धौतवाससी| न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्||४३||

🔊 Audio coming soon

आर्द्र एव धौतोष्णीषं धौतवाससी च निवसीत परिदध्यात्| उष्णीषः शिरः पट्टकम्| स्नात्वा च स्नानकालधृतं वासो न स्पृशेत्| तैलं वसां च स्नात्वा न स्पृशेत्|| ४३||

Adhikarana punarvastradhAraNaniyamAH (44) · Śloka 44

वासोऽन्यदन्यच्छयने निर्गमे देवतार्चने||४४||

🔊 Audio coming soon

शयनाद्यवसरे अन्यदन्यद्वासः परिवर्तयेत्| निर्गमे देवतार्चने चान्यदन्यद्वासो निवसीत|| ४४||

Adhikarana snAne varjyAH (45) · Śloka 45

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु| आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||४५||

🔊 Audio coming soon

अर्दिताद्यार्तानां स्नानं गर्हितं निन्द्यम्| आध्मानं वायुना जठरापूरणं, पीनसो नासास्रावः||४५||

Adhikarana bhojanavidhiH (46) · Śloka 46

अन्नपानविधानेन भुञ्जीतान्नं विनाऽत्ययात्| अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः| पाकं सजलमेकान्ते यथासुखमिति ब्रुवन्| प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्नाऽन्नमात्मने||४६||

🔊 Audio coming soon

ततोऽनन्तरमन्नपानविधानेनान्नं भुञ्जीत| अत्यये तु यथेच्छमेव| प्राप्तमाहारमभिनन्द्य प्रसन्नात्मा प्रसन्नहृदयः, हुत्वा चाग्निमुखे, शक्तितश्च दत्वा कृपणादिभ्यो यथाशक्ति दत्त्वा, सर्वं भूतग्राममुद्दिश्य, एकान्ते पाकं सर्वमाहार्यं सोदकं यथासुखमिति मन्त्रपदमिव ब्रुवन् दद्यात्| दानादिव्यवच्छेदेनात्मार्थमन्नं न पाचयेत्|| ४६||

Adhikarana niShiddhAnnam (47) · Śloka 47

नाऽन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनाम्| स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणाम्| गणारिगणिकासत्रधूर्तान्नापणिकञ्च न||४७||

🔊 Audio coming soon

मुमूर्षुप्रभृतीनामन्नं नाद्यात्| गणान्नं बह्वायत्तमन्नं नाद्यात्| आपणिको वणिक्|| ४७||

Adhikarana utsa~gge BakShaNaniShedhaH (48) · Śloka 48

नोत्सङ्गे भक्षयेद्भक्ष्याञ्जलं नाञ्जलिना पिबेत्| सर्वञ्च तिलसम्बद्धं नाऽद्यादस्तमिते रवौ| न भुक्तमात्र आयस्येन्न निषिद्धं भजेत्सुखम्||४८||

🔊 Audio coming soon

उत्सङ्गे गृहीत्वा भक्ष्यान्नं न भक्षयेत्| अञ्जलिना पाणिसम्पुटेन जलं न पिबेत्| रवौ दिनकृति, अस्तमिते तिलसम्बद्धं सर्वं भक्ष्यं नाद्यात्| भोजनादुत्थितः शरीरायासं न कुर्यात्| स्मृत्यादिप्रतिषिद्धं सुखं न सेवेत|| ४८||

Adhikarana madhyAhnacaryA (49) · Śloka 49

धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः| मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्||४९||

🔊 Audio coming soon

दिनस्य च मध्यमिष्टैः शिष्टैश्च सहायैर्युतः कथाभिर्गमयेत्| किम्भूताभिः? धर्मप्रधानाभिः, मध्यार्थाभिः, अर्थबलात् स्वल्पकायाभिः| एवं त्रिगुणात्मभिः त्रिगुणो धर्मादीनां स्थानवृद्धिक्षयलक्षणः|| ४९||

Adhikarana sadvRuttam (50) · Śloka 50

न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः| कलिवैररुचिर्न स्याद्धीरः सम्पद्विपत्तिषु| श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली| क्षान्तिमान्दक्षिणो दक्षः सुसमीक्षितकार्यकृत्| ह्रीमान्धीमान्महोत्साहः संविभागी प्रियातिथिः| अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः| दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः| अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः| आश्वासकारी भीतानां क्रुद्धानामनुनायकः| पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः| वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्| आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्| सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्| धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः| नाऽत्मानमवजानीयान्न स्तूयान्न च पीडयेत्| न हीनानवमन्येत वृत्तार्थाङ्गबलश्रुतैः| नारुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नोपतापवान्| हेतावीर्ष्येन्न तु फले पापं पापेऽपि नाचरेत्| परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत्| अन्यत्र पुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः| नृत्यवादित्रगीतादि नोल्बणामाचरेत्क्रियाम्| प्रसिद्धकेशवाग्वेशशमसान्त्वपरायणः| ऊर्ध्वे नाभेः शरीरस्य स्पृशेन्नाऽधरवाससा| न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्| नाऽसंवृतमुखो हास्यक्षवोद्गारविजृम्भणम्| पाणिद्वयेन युगपत्कण्डूयेन्नात्मनः शिरः| वहेन्न भारं शिरसा युगपच्चाग्निवारिणी| नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्| कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम्| नाऽकार्ये न च कार्येऽपि मुखाङ्गनखवादनम्| पादं पादेन नाक्रामेन्न कण्डूयेन्न शौचयेत्| ना कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत्| अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्| नाऽसमिद्धमुपासीत हुताशं नैव चाशुचिः| नाऽनुवातं न विवृते न क्लान्तो नाऽन्यमानसः| धमेन्नास्येन न स्कन्देन्नाऽधः कुर्यान्न पादतः| सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च| नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्| उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्| उपरक्तं च भास्वान्तं वाससा वा तिरोहितम्| नान्यदप्यतितेजस्वि क्रुद्धस्य च गुरोर्मुखम्| स्त्रीं न स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम्| न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने| शयीत नैकशयने न चाश्नीयात्तया सह| तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्| नोच्छिष्टस्तारकाराहुतुहिनांशुदिवाकरान्| पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेच्छिरः| पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्| अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च| नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति| तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत्| नात्मनो जन्मलग्नर्क्षघनसारं गृहे मलम्| प्रकाशयेन्नावमानं न च निःस्नेहतां प्रभोः| पुरोवातातपरजस्तुषारपरुषानिलान्| अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्| सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम्| कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः| हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः| सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्| आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम्| तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्| मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्||५०||

🔊 Audio coming soon

लोकद्विष्टैः राजद्विष्टैः सह सङ्गतिं न कुर्यात्, नास्तिकैश्च| अदृष्टं नास्तीति बोद्धारो नास्तिकाः| कलहं वैरं न रोचयेत्| सम्पत्स्वापत्सु च धैर्यवलम्बेत्| शास्त्रश्रवणादन्यत्राशनादिके सन्तुष्टः श्रुते त्वसन्तुष्टः| उपनतादधिकेनाऽऽकांक्षा असन्तोषः| तत्रैव च श्रुते शेषविषये कुतूहलवान्| सर्वभूतेषु क्षान्तिमत्वादियुक्तो भवेत्| दक्षिणः पक्षपाती| अन्यत्सुबोधम्| पूज्यांश्च पूजयेत्| अत आह- वित्तेत्यादि| (१) धनवान् पूज्यः, (२) अतोऽधिकं बन्धुः, (३) अतोऽधिकमधिकवयाः, (४) ततोऽधिकं विद्यावान्, (५) ततोऽधिकं शीलवान् पूज्य इति यथोत्तरार्थः| यो यस्मादुत्तरः स तस्मात्पूज्य इति| आत्मद्रोहादियुक्तमत्यन्तं कृपया सत्पथयोजनादिना, परमनुकम्पेत| सर्वस्य च धर्म्यादिकं वाक्यं वदेत्| धर्मादनपेतं धर्म्यमर्थादनपेतमर्थ्यं, प्रियं श्रोतुः, तथ्यं सत्यं, मितं स्वल्पं, पथ्यं हितानुबन्धि| आत्मनः शरीरस्यावज्ञां न कुर्यात्| न चात्मानं स्तूयात्| न च पीडयेत्| वृत्तादिहीनानामवमानो न विधेयः| अरुन्तुदो मर्मस्पृक्| उपतापः परनिर्बन्धः| हेतौ सेवादिके ईर्ष्येत्| ईर्ष्या नाम यत् परस्य भूतं तत्कथं मम नेति बुद्धिः| न तु तत्फले अर्थादिके, फलार्थिना हि तत्कारणे प्रयतितव्यमित्यर्थः| पापशीलेऽप्यभद्रं नाऽऽचरेत्| परस्य च दण्डं नोद्यच्छेत्| क्रुद्धश्च सन् परस्य एनं दण्डं न पातयेत्| पुत्रं शासनार्हं शिष्यं च अन्यत्र वर्जयित्वा| अशासनार्हयोस्तयोरपि न निपातयेत्| हिताशयः तद्धितकामः| नृत्यादिक्रियामुल्बणामतिमात्रं नाऽऽचरेत्| देशकालादप्रसिद्धान् केशादीन् न धारयेत्| नाभेरुपरि शरीरमधः कायवाससा न स्पृशेत्| कृतव्यवायश्च शीघ्रं शौचमाचरेत्| अस्थगितास्यो हास्यादिकं नाऽचरेत्| हस्तद्वयेन युगपच्छिरो न कण्डूयेत्| अन्यत्सुबोधम्| निष्प्रयोजनं विलेखनादिकं नाचरेत्| आस्यादिवादनं सर्वथैव न कुर्यात्| पादेन पादं नाऽक्रामेत्| न च शौचयेत्| तौ पादौ कांस्यमये भाजने कृत्वा न शौचयेत्| नखादीन् निर्मलान् दध्याद्धारयेत्| मुखेन हुताशनमग्निं न धमेत् मुखवातेन नोदीरयेदित्यर्थः| न स्कन्देत् न विकिरेत् शयनासनादिष्वधो न कुर्यात्| उद्यदाद्यवस्थास्थितं सूर्यं नेक्षेत| उपरक्तोराहुराच्छादितः| अन्यदप्यतितेजोयुक्तं नेक्षेत| गुरोः क्रुद्धस्य मुखं नेक्षेत| स्रवन्तीं मूत्रायमाणां स्त्रियं नेक्षेत| उदक्यां रजस्वलामपि नेक्षेत| अन्यपुरुषमिथुनीभूताञ्च नेक्षेत| भोजनादिकां क्रियां कुर्वन्तीं दुरासने चोपविष्टां स्वपत्नीं नेक्षेत| न च स्वभार्यया सहैकशयने शयीत| तया सह नाश्नीयात्| ईर्ष्यां चाकुर्वन् स्वगृहिणीं रक्षेत्| स्वैरिणीं च स्त्रियं स्वगृहे नाधिवासयेत्, भर्तारं जीवन्तं परित्यज्य स्वेच्छया गृहान्निर्गता स्वैरिणी| उच्छिष्टः अप्रयतः, तारकादीन्न पश्येत्| यानादिकञ्च न कुर्यात्| पाययन्तीं वत्सं, चरन्तीं भक्षयन्तीं सस्यादि, गामन्यस्मै न दर्शयेत्| अर्केंदुपरिवेषादिकं चान्यस्मै न दर्शयेत्| परिवेषो मण्डलम्, देवार्चन प्रसंगे अन्यत्कर्म न कुर्वीत| वर्षति पतति पानीये, न धावेत्| पक्षस्य तिथिं न ब्रूयात्, अद्यामावास्येति न कस्मैचित्कथयेदित्यर्थः| पक्षस्य मध्ये सर्वां तिथिं न ब्रूयादिति केचित्, ते पक्षशब्दस्य प्रयोजनं प्रष्टव्याः| आत्मनश्च जन्मलग्ननक्षत्रादिकं न कथयेत्| गृहे मलं गृहदोषं, आत्मन्यवमानं प्रभोः निःस्नेहताञ्च न लोके प्रकाशयेत्| पुरोवातादीनां त्यजेदित्युत्तरेण सम्बन्धः| हस्ताद्युत्क्षेपेण प्रायेण जनो वदति तत्प्रतिषिद्धम्| हीनातिसेवाञ्च त्यजेत्| आरोग्यादीनां स्थिरज्ञानं विश्वासः, तं `अहमरोगः' 'अहं गृहीतविद्यः' इत्यादिकं त्यजेदुपेक्षया नाशभयात्||५०||

Adhikarana vAsAyogyaM gRuham (51) · Śloka 51

नैकाहमप्यधिवसेद्वास्तुतच्छास्त्रगर्हितम्||५१||

🔊 Audio coming soon

एकाहमपि वास्तुविद्यागर्हितं गृहं नाधिवसेत्||५१||

Adhikarana vAsAyogyadeSaH (52) · Śloka 52

न देश व्याधिबहुलं नावैद्यं नाप्यनायकम्| नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्||५२||

🔊 Audio coming soon

व्याधिबहुलादिकं देशञ्च| उपसृष्टं नोपसर्गं मारकादिना|

Adhikarana vAsayogyapuram (53) · Śloka 53

वसेत्प्राज्याम्बुभैषज्यसमित्पुष्पतृणेन्धने| सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे||५३||

🔊 Audio coming soon

प्रभूताम्ब्वादिके पुरे वसेत्|| ५३||

Adhikarana punaH saddharmavRuttam (54) · Śloka 54

नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः| आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च| दश कर्मपथान् रक्षञ्जयन्नभ्यन्तरानरीन्| हिंसास्तेयान्यथाकामं पैशून्यं परुषानृतम्| सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्| पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्| परोपघातक्रियया वर्जयेदर्जनं श्रियः| अर्थानां धर्मलब्धानामदातापि ह्यसम्भवात्| स्वर्गापवर्ग विभवानयत्नेनाधितिष्ठति||५४||

🔊 Audio coming soon

गुणवन्नरादीनां चाजुगुप्सकोऽद्वेष्टा| दश कर्मपथान् रक्षन्नभ्यन्तरानरीन् रागादीञ्जयन् त्रिवर्गं साधयेत्| दश कर्मपथाः- कायवाङ्मानसाः| तत्र कायिकास्त्रयः- (१) प्राणातिपातः, (२) परद्रव्यापहारः, (३) अगम्यागमनमिति| वाचिकं चतुर्विधं- (४) असत्यवचनम्, (५) परेषां भेदकृद्वचनम्, (६) परुषवचनम्, (७) असम्बद्धप्रलापश्च| मानसं त्रिविधं- (८) अभिध्या, (९) व्यापादः (१०) मिथ्यादृष्टिश्च| परस्वस्यान्यायेन स्पृहा अभिध्या| व्यापादः सत्त्वविद्वेषः| दृग्विपर्ययः शास्त्रदृष्टिवैपरीत्यम्, नास्तिकत्वमिति यावत्| परोपघातेन श्रिय अर्जनं वर्जयेत्| यो ह्यर्थो दानाद्यर्थमुपयुज्यते सोऽधर्मेणार्जितो यदि दत्तो निष्फल एव| वरं धर्मपरस्य साधुधनासम्भवाददानम्| एतदेवाह- अर्थानामित्यादि| धर्मलब्धानामर्थामसम्भवाददातापि स्वर्गादीनयत्नेनाधितिष्ठति|| ५४||

Adhikarana rAtriBojanAdi (55) · Śloka 55

सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः| शास्तारमनुसंस्मृत्य स्वचर्याञ्चाथ संविशेत्||५५||

🔊 Audio coming soon

अथ सायाह्ने पुनर्भोजनं कृत्वा समाहितमनाः शास्तारं महेश्वरादिकं संस्मृत्य स्वचर्याञ्च शरीरस्थितिं विकल्प्य शय्यायां संविशेत्| संवेशनं निषदनाध्यासनम्|| ५५||

Adhikarana shayanAsanavidhiH (56) · Śloka 56

देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः| युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्| जानुतुल्यं मृदु शुभं सेवेत शयनासनम्| प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति| पूर्वापरदिशोभागे धर्ममेवानुचिन्तयन्||५६||

🔊 Audio coming soon

शुच्यादौ देशे शयनमासनञ्च सेवेत| आकीर्णं बहुजनाध्यासितं, युक्तोपधानं दर्शनीयशिरोगण्डिकं, जानुतुल्यमुच्चतया, प्राचीं दक्षिणां वा दिशं प्रति कृतशिराः| गुरून् प्रति च पादावकुर्वाणः| वेश्मनः पूर्वे अपरे वा दिग्भागे शयनासनं सेवेत|| ५६||

Adhikarana puruShaH svasthavRuttaparo Bavet (57) · Śloka 57

आददीत सदा देहादित्थं सारमसारतः| बिभ्यत्प्रतिक्षणं मृत्योरयथातथचेष्टितात्| आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः| सुखमायुर्हितं चोक्तं विपरीतं विपर्यये||५७||

🔊 Audio coming soon

इत्थमनेनानन्तरोक्तप्रकारेण सारं गृह्णीयादसारात् देहात्| `एतदेव हि तत्सारं देहे यत्साधुशीलता'| किं कुर्वन्नाह- अयथातथचेष्टितादनियताचारिणो मृत्योः प्रतिक्षणं बिभ्यत् भयमाकलयन् मम कदाचिन्मृत्युरापतिष्यतीति| यच्चायुर्जीवितं तदारोग्यादियुक्तस्य हितं सुखञ्च साधुभिरुक्तम्| एतद्विपरीते विपरीतसुखमहितञ्च|| ५७||

Adhikarana nRupasevAprakAraH (58) · Śloka 58

सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि| अदूषयन्मनस्तस्माद्भक्तिमांस्तदुपाचरेत्||५८||

🔊 Audio coming soon

तथा सकलतेजोनिधानं राजशब्दवाच्यम्| मनसा शुद्धेन भक्त्या चोपचरेत् सेवेत|| ५८||

Adhikarana nRupasannidhAne varjanIyam (59) · Śloka 59

पर्यस्तिकोपाश्रयकोपहास विवादनिष्ठीवनजृम्भणानि| सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टा स्तत्सन्निधाने परिवर्जयेत्तु||५९||

🔊 Audio coming soon

तत्सन्निधाने च पर्यस्तिकादीनि वर्जयेत्| पर्यस्तिका वस्त्रादिना स्वपृष्ठजानुपरिवेष्टनम्| उपविष्टस्य उपाश्रयो भित्यादिके शरीरसंक्रमणम्|| ५९||

Adhikarana anyadapi hitaM seveta (60) · Śloka 60

सत्त्वाद्यवस्था विविधाश्च तास्ताः सम्यक्समीक्ष्यात्महितं विदध्यात्| अन्योऽपि यः कश्चिदिहाऽस्ति मार्गो हितोपदेशेषु भजेत तं च||६०||

🔊 Audio coming soon

सत्त्वरजस्तमसां नानाविधानवस्थाविशेषान् परीक्ष्यात्महितं करणीयम्| दुस्तरा हि धर्मप्रतिबन्धका रजस्तमोविकाराः| तथा मनुबुद्धादिप्रणीतेषु हितोपदेशशास्त्रेषु यः मार्गः अस्ति तमपि सेवेत|| ६०||

Adhikarana svasthavRuttAnusaraNaPalam (3) · Śloka 3

इति चरितमुपेतः सर्वजीवोपजीव्यं प्रथितपृथुगुणौघो रक्षितो देवताभिः| समधिकशतजीवी निर्वृतः पुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदेऽपि तुष्टिम्||६१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दिनचर्यानाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

इति सर्वभूतोपजीव्यं चरितं प्राप्तः पुरुषः तथा प्रख्यातविस्तीर्णगुणसमूहः देवताभी रक्षितः परिपूर्णसंवत्सरशतजीवी च देहनाशेऽपि तुष्टिमपवर्गाख्यां व्रजति गच्छति| किम्भूतः? सुगतौ सुवर्त्मनि, निम्नः मग्नः|| ६१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया-मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने तृतीयोऽध्यायः||३||