Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

38. śastrakarmavidhiḥ

Adhikarana atha shastrakarmavidhirnAmAShTatriMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः शस्त्रकर्मविधिं नामाध्यायं व्याख़्याख़्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

द्विविधानां व्याधीनां शस्त्रस्योपयोगवत्त्वमुक्तम्| तद्विज्ञानपरिज्ञानार्थमध्यायारम्भः|| १||

Adhikarana shastrakarmaviShayaH (2) · Śloka 2

द्विविधे हि व्याधावुपायापेक्षे निज आगन्तौ वा भेषज- विषयातीते शस्त्रकर्म प्रयुज्यते||२||

🔊 Audio coming soon

द्विविधे व्याधौ निज आगन्तौ च साध्यलक्षणयुक्तेऽप्यौषधविषयत्वमतीते शस्त्रकर्म प्रयुज्यते| तस्य प्रसङ्गो भवतीत्यर्थः||२||

Adhikarana shoPAvasthAyAM cikitsAvisheShaH (3) · Śloka 3

स चामयः प्रायेण श्वयथुपूर्वको भवति| अतः शोफा वस्थस्यैव वातपित्तकफरक्तसंसर्गसन्निपातात्मकतामुप लक्ष्य पाकभयाद्यथास्वमुपवासलेपसेकासृङ्मोक्षकषा यग़ृतपानशोधनानि प्रयुञ्जीत| तथाप्यनुपशाम्यति प्रवि लयनम्| अविलीयमाने चोपनाहनम्||३||

🔊 Audio coming soon

स च शस्त्रकर्मविषय आमयः प्रायेण श्वयथुपूर्वको भवति| प्रायोग्रहणं निजत्वोपलक्षणार्थम्| अतस्तस्यामयस्य वाताद्यन्यतमलक्षणैस्तदात्मकतामुपलक्ष्य पाकरक्षार्थमुपवासाद्यं कुर्यात्| वातादिपारतन्त्र्येवैणेति यथास्वशब्दार्थः| उपवासादिना त्वशाम्यति प्रविलयनं वक्ष्यमाणं कुर्यात्| तेन चाविलीयमान उपनाहनं साधुपाकाय|| ३||

Adhikarana AmashoPalakShaNam (4) · Śloka 4

तत्र शोफस्यामलक्षणमल्पता चाल्पोष्मरुजत्वं त्वक्स वर्णता स्थैर्यं च||४||

🔊 Audio coming soon

अल्पतादि शोफस्यामलक्षणम् ||४||

Adhikarana pacyamAnashoPalakShaNam (5) · Śloka 5

पच्यमानस्तु विवर्णो बस्तिरिवाततः| संरम्भशूलराग- दाहोषारुचितृष्णाज्वरारतिस्पर्शासहत्वानिद्रतासमन्वितो विष्यन्दयति सर्पिः शोषयति प्रदेहं सर्षपकल्कोपलिप्त इव चिमिचिमायते पिपीलिकाभिरिव संसर्प्यते पीड्यत इव पाणिना ग़ट्यत इवाङ्गुल्या ताड्यत इव दण्डेन तुद्यत इव सूचीभिर्भिद्यत इव शक्तिभिश्छिद्यत इव शस्त्रेण दश्यत एव वृश्चिकैर्दह्यत इवाग्निक्षाराभ्यां मथ्यत इवोमुल्केन||५||

🔊 Audio coming soon

विवर्णतादि पच्यमानलक्षणम्| अन्यत्सुबोधम्|| ५||

Adhikarana pakvashoPalakShaNAni (6) · Śloka 6

पक्वे तु गतवेगत्वं प्रम्लानता त्वकिशथिलता बली प्रादुर्भावः पाण्डुता मध्योन्नतताङ्गुल्यवपीडितमुक्ते प्रत्यु न्नमनं बस्ताविवोदकस्य पूयस्य सञ्चरणं कण्डुसंरम्भ शूलाद्युपशमश्च||६||

🔊 Audio coming soon

गतवेगत्वादि पक्वलक्षणम्| सुबोधम्|| ६||

Adhikarana shoPapAke tridoShasambandhaH (7) · Śloka 7

शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात्| रागो रक्ताच्च पाकः स्यादतो दोषैः सशोणितैः||७||

🔊 Audio coming soon

अनिलं विना शूलं न भवति| पित्तमन्तरेण दाहो न स्यात्| कफोदयाद्विना शोफो न स्यात्| शोफः कफादिति वक्तव्य उदयग्रहणं विशेषद्योतनार्थम्| रक्तादृते रक्तं विना रागस्य लौहित्यस्य सम्भवो न| तेन कफाधिकैः सर्वदोषैश्शोणितसहितैः श्वयथुपाकः स्यादिति गम्यते|| ७||

Adhikarana pAkalakShaNAni (8) · Śloka 8

पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभक्षितः| बलीभिराचितः श्यावः शीर्यमाणतनूरुहः||८||

🔊 Audio coming soon

पाकेऽतिवृत्तेऽतिक्रान्ते सुषिरोऽन्तस्थः शोफदेशः सम्पद्यते| तथा तनुत्वक्| तथा दोषभक्षितः| दोषशब्देनेह पूय उच्यते| तेन भक्षितत्वात् सुषिरत्वं तनुत्वक्त्वं चास्य| तथा वलीभिराचितो व्याप्तः| तथा श्यामवर्णः तथा शीर्यमाणतनूरुहः पतद्रोमा|| ८||

Adhikarana raktapAkalakShaNam (9) · Śloka 9

कफजेषु तु शोफेषु केषुचिद्गम्भीरत्वाद्रक्तमेव विप च्यते| ततश्चास्पष्टं पक्वलिङ्गं भवति| यत्र हि त्वक्सा वर्ण्यं शीतशोफताल्परुजताश्मवच्च ग़नता, न तत्र मोह मुपेयात्तं रक्तपाकमित्याचक्षते||९||

🔊 Audio coming soon

कफजे शोफे गम्भीरं पाकं रक्तं प्राप्नोति| तस्मिंश्च पक्वे पक्वलिङ्गान्यल्पानि भवन्ति त्वक्सावर्ण्यादि च|| ९||

Adhikarana raktapAke dAraNapATanayoH prayogasthAnaBedaH (10) · Śloka 10

अथैनं सम्यक्पक्वमवधार्य भीरुवृद्धबालदुर्बलक्ली बक्षीणगर्भिणीविषार्दितशस्त्रक्षामेषु पाकोद्धतदोषेषु च पिण्डितेषु सन्धिमर्माश्रितेष्वल्पेषु वा शोफेषु तीक्ष्णोष्ण द्रव्यैर्दारणं कुर्वीत| इतरेषु पाटनम्||१०||

🔊 Audio coming soon

अथैनं रक्तपाकाख़्यं शोफं सम्यक् पक्वं विदित्वा भीर्वादिषु च तीक्ष्णोष्णद्रव्यैर्व्रणप्रतिषेधे वक्ष्यमाणैश्चित्रकादिभिर्दारणं कुर्यात्| शस्त्रेण व्यधनं न कुर्यात्| इतरेषु चैतद्विपरीतेषु पाटनं दीर्ग़च्छेदः||१०||

Adhikarana AmapATanadoShAH (11) · Śloka 11

आमपाटने सिरास्नायुव्यापादनं शोणितातिप्रवृत्तिर्वेद नातिवृद्धिरवदरणं क्षतविसर्पो वा स्यात्||११||

🔊 Audio coming soon

सर्वत्रामशोफपाटने सिराव्यापादनादि स्यात्|| ११||

Adhikarana pakvasyApATane doShaH (12) · Śloka 12

तिष्ठन्नन्तः पुनः पूयः सिरास्नाय्वसृगामिषम्| विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः||१२||

🔊 Audio coming soon

पाकेऽतिक्रान्ते अपाटिते च शोफे पूयोऽन्तस्तिष्ठन्| विव्रुद्धः सिरादीन् दहति| यथानलो विवृद्धस्तृणोलपं दहति|| १२||

Adhikarana aj~javaidyanindA (13) · Śloka 13

यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते| श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ||१३||

🔊 Audio coming soon

यश्छिनत्तीत्यादि सुबोधम्|| १३||

Adhikarana shastrakarmaNaH prAgvidhirapavAdashca (14) · Śloka 14

प्राक् शस्त्राद्भोजयेदिष्टं तीक्ष्णं मद्यञ्च पाययेत्| न मूर्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते| अन्यत्र मूढगर्भोदराश्मरीमुखरोगेभ्यः||१४||

🔊 Audio coming soon

प्राक् शस्त्राच्छस्रकर्मणः पूर्वं मूढगर्भादिषु भोजनस्य प्रतिषेधः||१४||

Adhikarana shastrakarmavidhiH (15) · Śloka 15

अथोपहृतयन्त्रशस्त्रक्षाराग्निजाम्बवौष्ठपिचुप्लोतपत्र सूत्रचर्मपट्टमधुस्नेहकषायालेपकल्कसेकोदकुम्भशी तोष्णोदककटाहव्यजनादिव्रणोपयोगि सर्वोपकरणमा श्रितशयनीयमुपस्थितस्थिरस्नेहबलवदवलम्बकपुरुष मिष्टेऽहनि मुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं कृतमङ्गलं भुक्तवन्तमातुरं प्राङ्मुख़मुप वेश्य संवेश्य वा यन्त्रयित्वा प्रत्यङ्मुख़ो वैद्यो मर्मसि रास्नायुसन्ध्यस्थिधमनीः परिहरननुलोमं शस्त्रं निदध्यादा पूयदर्शनात्सकृदेवाहरेच्छस्रमाशु च| महत्स्वपि च पाकेषु द्व्यङ्गुलं शस्त्रपदमुक्तम्| द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वाऽ भिसमीक्ष्य विवृत्ते प्रदेशे वामप्रदशिन्यैषित्वा नाति विवृत्ते गम्भीरमांसले चैषण्या विपरीते करीरादिनाले नातिसंवृते सूकरवालेन||१५||

🔊 Audio coming soon

अथोपहृतयन्त्रादिकं प्राङ्मुख़मातुरं निवेश्य प्रत्यङ्मुख़ः पश्चिमाभिमुख़ो वैद्यः शोफे आपूयदर्शनाच्छस्त्रं निदध्याद्योजयेत्| सकृदाशु च तमाहरेत्| उपहृतानि निकटीकृतानि यन्त्रादीनि यस्य स तथोक्तः| उपस्थिता स्थिरस्नेहबलवन्तश्चावलम्बक पुरुषा आलम्बनपरिचारका यस्य स तथोक्तः| दध्यादिभिरर्चिता विप्रा येन स तथोक्तः| उपवेशनमासने| संवेशनं शयने| अनुलोमं यत एव लोमानि| महत्स्वपि पाकेषु द्व्यङ्गुलं शस्त्रपदं कुर्यात्| यत्रज् च पाकमहत्त्वपेक्षया बहूनि पदानि क्रियन्ते तत्र तानि द्व्यङ्गुलान्तराणि त्र्यङ्गुलान्तराणि वा विदध्यात्| पाके प्रदेशिन्यादिनान्तरमभिसमीक्ष्य|| १५||

Adhikarana vraNakaraNasthAnaM vraNasvarUpa~jca (16) · Śloka 16

यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च| तत्र तत्र व्रणं कुर्यात्सुविभक्तं निराशयम्| आयतञ्च विशालञ्च यथा दोषो न तिष्ठति||१६||

🔊 Audio coming soon

यतो गतां गतिं नाडीं विद्यात्| यत्र चोत्सङ्गस्तत्र व्रणं कुर्यात्| आयतं दीर्ग़म्| विशालं विस्तीर्णम्|| १६||

Adhikarana shastrakarmaNi vaidyaguNAH vaidyAshritAH prashastaguNAH (17) · Śloka 17

शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथुम्| असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते||१७||

🔊 Audio coming soon

इदमिदं शस्त्रकर्मणि शस्यत इत्याह-आतुरस्य वैद्यस्य च शौर्यम्| सर्वा चाशुक्रिया| तीक्ष्णं शस्त्रम्| स्वेदरहितत्वं कम्परहितत्वं चातुरे| वैद्ये च कर्मण्यसम्मोह इति शस्त्रकर्मणि शस्यते| अथवा शौर्यादिकं सर्वं वैद्यस्यैव शस्त्रकर्मणि शस्यते||१७||

Adhikarana tiryakCedaviShayaH (18) · Śloka 18

तत्र भ्रूगण्डललाटाक्षिकूटौष्ठदन्तवेष्टमन्याकण्ठजत्रु कक्ष्याकुल्क्षिवङ्क्षणेषु तिर्यक्छेद इष्टः||१८||

🔊 Audio coming soon

तत्र भ्रूगण्डादीनां तिर्यक्च्छेद उक्तः|| १८||

Adhikarana aviShaye tiryakCede doShAH (19) · Śloka 19

अन्यत्र तु सिरास्नायूपग़ातोऽतिवेदना चिराद्व्रणसंरोहो मांसस्कन्दी च तिर्यक्च्छेदाद्भवन्ति||१९||

🔊 Audio coming soon

अन्यत्र तिर्यक्च्छेदात् सिरोपघातादीनि भवन्ति| मांसस्कन्दी मांसरूढो ग्रन्थिः| सुबोधम्|| १९||

Adhikarana shastrAvacAraNottaraM karma (20) · Śloka 20

ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाशवास्य समन्तात् प्रतिपीड्याङ्गुल्या व्रणमपि प्रक्षाल्य कषायेण व्रणात् प्लोतेनाम्भोऽपनीय वेदनारक्षोग़्नैर्गुग्गुल्वगरुसर्जरसवचा गौरसर्षपहिङ्गुलवणनिम्बपत्रैः सग़ृतैर्व्रणं धूपयित्वा यथा स्वमौषधेन मधुग़ृततिलकल्कैश्च दिग्धां वर्तिं प्रणि धाय कल्केन पूरयित्वा नातिभृष्टयवसक्तुभिर्ग़ृता क्तैर्भाजनान्तेऽम्भसा दक्षिणाङ्गुलीभिः सुमृदितैरवच्छाद्य ग़नां कवलिकां दत्वा सव्यदक्षिणान्यतरपार्श्वे ऋजुमना विद्धमसङ्कुचितं मृदुपट्टं निवेश्य बध्नीयात्| वातश्लेष्मोद्भवांस्तत्र द्विस्त्रिर्वा वेष्टयेद्व्रणान्| सकृदेव परिक्षिप्य पित्तरक्ताभिग़ातजान्| शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्| उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् परितो पर्ण शबर्यादिभिरस्य रक्षां कुर्याद्रक्षो ऽभिभवनिषेधार्थम्| तेभ्यश्च बलिमुपहरेत्| धारयेच्च शिरसा| लक्ष्मी गुहामतिगुहां जटिलां ब्रह्मचारिणीम्| वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि| गुग्गुल्वादिभिरेवं शयनासनादि द्विरह्नो धूपयेत्| तथा स्नेहोक्तं दिनचर्योक्तमाचारमनुवर्तेत||२०||

🔊 Audio coming soon

वर्तिर्या अन्तर्व्रणं दीयते| कवलिका या व्रणस्योपरि दीयते| व्रणस्य सव्ये दक्षिणे वा पार्श्वे पट्टं बध्नीयात् ग्रथयेदित्यर्थः| वातकफोद्भवान् व्रणान् द्विस्त्रिवा पट्टेन वेष्टयेत्| पित्तादिजान् सकृदेव| सुबोधमन्यत्|| २०||

Adhikarana vraNitasya visheSharihAryANi (21) · Śloka 21

विशेषतश्च दिवास्वप्नाद् व्रणे शोफकण्डूरागरुक्पूय वृद्धिः| स्त्रीणां तु स्मृतिसंस्पर्शदशनश्चलिते स्रुते| शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात्||२१||

🔊 Audio coming soon

दिवास्वप्नात् व्रणे शोफादिवृद्धिः| असंसर्गेऽपि स्त्रीभिः स्त्रीणां तु स्मृत्यादिनैव शुक्रस्य चलितस्य स्रुतत्वादेव व्यवायजान् मैथुनोद्भवान् रोगान् प्राप्नुयात्|| २१||

Adhikarana pathyAhAraH (22) · Śloka 22

भोजयेच्चैनं यथासात्म्यं समातीतशालिषष्टिकयव गोधूमान्यतमं मुद्गमसूराढकीसतीनयूषजाङ्गलरसोपेतं जीवन्तीसुनिषण्णकतण्डुलीयकवास्तुकवार्ताकपटोल कारवेल्लकबालमूलकशाकयुक्तं दाडिमामलकसैन्ध वसहितं सर्पिःस्निग्धं लघ्वल्पमुष्णोदकोत्तरं च| एवमस्य सम्यगशितं जरामुपैति||२२||

🔊 Audio coming soon

समातीतं संवत्सरोषितं शाल्यादिकं मुद्गाद्यन्यतमरसेनोपेतं जीवन्त्यादिशाकयुक्तं दाडिमादिसहितं स्निग्धत्वादिगुणमुष्णोदकानुपानं च भोजयेत्| सुबोधमन्यत्|| २२||

Adhikarana ajIrNadoShAH navadhAnyAdivargastadvarjana~jca (23) · Śloka 23

अजीर्णादनिलादीनां विभ्रमो बलवान् भवेत्| ततः शोफरुजापाकदाहानाहानवाप्नुयात्| नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशिताम्बुमद्ये क्षुक्षीरपिष्टतिलविकृतिशुष्कशाकपिशितहरितशाकाम्ल लवणकटुकक्षारानूपामिषाणि वर्जयेत्| वर्गोऽयं नवधान्यादिर्वणिनः सर्वदोषकृत्| मद्यं तीक्ष्णोष्णरूक्षाम्लमाशु व्यापादयेद् व्रणम्||२३||

🔊 Audio coming soon

नवधान्यादीन्यवचारितशस्त्रो वर्जयेत्|| २३||

Adhikarana vihArAdi pathya~jca (24) · Śloka 24

बालोशीरैश्च वीज्येत न चैनं परिघट्टयेत्| न तुदेन्न च कण्डूयेच्चेष्टमानश्च पालयेत्| स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रिया| आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति||२४||

🔊 Audio coming soon

बालैरुशीरेण च व्रणे व्यजनकर्म कुर्यात्| चेष्टमानः क्रियासु व्रणं पालयेत्|| २४||

Adhikarana punarvraNaprakShAlanAdikarmakAlaH dvitIyadivase mokShaNAddoShAH (25) · Śloka 25

पुनश्च तृतीयेऽहनि प्रक्षालनादि पूर्ववत् व्रणकर्म कुर्यात्| द्वितीये दिवसे मोक्षणाद्विग्रथितो व्रणश्चिरादुपरोहत्युग्ररु जश्च भवति||२५||

🔊 Audio coming soon

द्वितीये दिवसे मुक्तो व्रणश्चिराद्रोहति|| २५||

Adhikarana vikeshikauShadhadoShAdi (26) · Śloka 26

न च विकेशिकामौषधं वातिस्निग्धरूक्षमतिश्लथ मतिगाढमश्लक्ष्णं दुर्न्यस्तं वा दद्यात्| अतिस्नेहात् क्लेदः| अतिरौक्ष्य़ाच्छेदो वेदना च| अतिश्लथत्वाद परिशुद्धिः| गाढतया संरम्भ अश्लक्ष्णत्वाद्दुर्न्यासाच्च व्रणवर्त्मोपग़र्षणम्||२६||

🔊 Audio coming soon

न च व्रणे विकेशिकामतिस्निग्धत्वादियुक्तां दद्यात् नाप्यौषधम्| विकेशिका अन्तर्वर्तिः| किमिति न दद्यादित्याह-अतिस्नेहादित्यादि| सुबोधम्|| २६||

Adhikarana vikeshikAguNAH (27) · Śloka 27

अवश्यं साशये व्रणे विकेशिकां दद्यात्| सपूतिमांसं सोत्स्सर्गम्| सगतिं पूयगर्भिणम्| व्रणं शोधयते शीग़्रं स्थिता ह्यन्तर्विकेशिकाः||२७||

🔊 Audio coming soon

साशयेऽन्तर्विस्तीर्णे व्रणे विशेषाद्विकेशिकां दद्यात्| किं विकेशिकया भवतीत्याह-सपूतीत्यादि| सुबोधम्|| २७||

Adhikarana IShatpakvashoPapATane upacAraH (28) · Śloka 28

व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्| भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः||२८||

🔊 Audio coming soon

व्यम्लमीषत्पक्वं शोफमज्ञानात्पाटितं नातिव्रणविरोधिभिः पाचनादिभिः समुपाचरेत्|| २८||

Adhikarana sIvanavidhiH (29) · Śloka 29

यस्तु सीव्यो व्रणस्तत्र चलास्थिशल्यपांसुतृणरोमशुष्क रक्तादीनपोह्य विच्छिन्नं प्रविलम्बितं मांसं सम्ध्यस्थीनि च यथास्थानं सम्यक् स्थापयित्वा स्थिते रक्ते यथार्हं सूच्योपहृतेन स्नायुसूत्रवालान्यतमेन सीव्येत्| शणा श्मन्तकमुर्वातसीनां वा वल्कैः||२९||

🔊 Audio coming soon

यस्तु व्रणः सीवनमपेक्षते तत्र चलास्थ्यादीनपोह्य विच्छिन्नप्रलम्ब्यादि यथास्थानं निवेश्य रक्ते स्थिते रुद्धे सीव्येत्| स्नाय्वाद्यन्यतमेन|| २९||

Adhikarana caturvidhasIvanaprakArAH (30) · Śloka 30

सीवनविकल्पास्तु समासेन चत्वारः| तद्यथा गोष्फ णिकातुन्नसीवनवेल्लितकरज्जुग्रन्थिबन्धनमिति| तेषां नामभिरेवाकृतिविभागः| प्रहारवशाच्चोपयोगः|३०|

🔊 Audio coming soon

Adhikarana sIvanavidhiH sIvanottarakarma (30) · Śloka 30

न चातिसन्निकृष्टां विप्रकृष्टामत्यल्पबहुग्राहिणीं वा सूचीं पातयेत्| एवं सम्यक्स्यूतमवेक्ष्य मग़ुग़ृतयुक्तैरञ्जनमधुकनिम्ब लोध्रप्रियङ्गुसल्लकीफलक्षौममषीचूर्णैरवकिर्य पुर्व वद्वन्धादि योजयेत्||३०||

🔊 Audio coming soon

गोष्फणिकादयश्चत्वारः सीवनविकल्पाः| यः काकपदाकृतिर्व्रणः स चतुर्भिः कोणैः सीव्येत्| तत् गोष्फणिका नाम सीवनम्| यत्रातिनिकटौ द्वौ व्रणावनेककालैरेकमेकेन सूत्रेण जीर्णमिव वस्त्रं तुद्यते तत्तुन्नसीवनं नाम सीवनम्| वेल्लितकं यद् व्रणोष्ठौ वेष्ट-यन्निव सीव्यते| रज्जुग्रन्थिरेकवारं सूत्रयोजनम्| एषाञ्च प्रहारविशेषमाश्रित्य क्वचित् कस्यचिदुपयोगः| नातिसन्निकृष्टैः पदैर्नातिविप्रकृष्टैश्च सूचीं पातयेत्| या च व्रणेऽतिप्रवेशान्न बहु गृह्णाति नात्यल्पम्| सुबोधम्|| ३०||

Adhikarana asIvyA vraNAH (31) · Śloka 31

असीव्या वंक्षणवक्षःकक्षादिषु प्रचलेष्वल्पमांसेषु च वायुनिर्वमिणोऽन्तर्लोहितशल्या विषाग्निक्षारकृताश्च व्रणाः||३१||

🔊 Audio coming soon

वङ्क्षणादिस्था व्रणा वायुनिर्वामित्वादियुक्ताश्च न सीव्याः||३१||

Adhikarana sIvyavraNAH (32) · Śloka 32

सीव्यास्तु मेदस्समुत्थिता भिन्नलिख़िताः कफग्रन्थिरल्प पालिकाः कर्णः सद्योव्रणाश्च| शिरोललाटाक्षिकूट कर्णनासागण्डौष्ठकृकाटिकाबाहूदरस्फिक्पायुप्रजनन मुष्कादिष्वचलेषु मांसवस्तु च प्रदेशेषु||३२||

🔊 Audio coming soon

सीव्यास्तु मेदस्समुत्थादयः| सुबोधम्|| ३२||

Adhikarana pa~jcadashabandhAsteShAmupayogasthAnAni ca (33) · Śloka 33

कोशदामोत्सङ्गस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थ विकायमकख़ट्वाचीनविबन्धवितानगोष्फणाः पञ्चाङ्गी चेति पञ्चदश बन्धविशेषाः| तेषां नामभिरेवाकृतयः प्रायेण व्याख़्याताः| तत्र कोशमङ्गुलीपर्वसु विदध्यात्| दाम सम्बाधेऽङ्गे| उत्सङ्ग विलम्बिनि| स्वस्तिकं सन्धि कूर्चभ्रूस्तनान्तरकुक्ष्यक्षिकपोलकर्णेषु| अनुवेल्लितं शाख़ासु| मुत्तोलीं ग्रीवामेढ्रयोः| मण्डलं व्रुत्तेऽङ्गे| स्थविकामङ्गुष्ठाङ्गमेढ्राग्रामूत्रवृद्धिषु| यमकं यमलव्र णयोः| ख़ट्वां हनुशङ्ख़गण्डेषु| चीनमपाङ्गयोः| विब न्धमुदरोरुपृष्ठेषु| वितानं मूर्धादौ पृथुलेऽङ्गे| गोष्फणं नासौष्ठचिबुकसन्धिषु| पञ्चाङ्गी जत्रूर्ध्वमिति| यो यस्मिन् प्रदेशे सुनिविष्टो भवति तं तस्मिन् कुर्वीत| न तु व्रण स्योपरि न चाबाधकरो यथा स्यात्||३३||

🔊 Audio coming soon

कोशादयः पञ्चदश बन्धाः| एषां स्वैरेव नामभिरेवाकृतयो व्याख़्याताः| प्रायोग्रहणमसाकल्यार्थम्| तत्र कोशः कोशाकारः कीटस्येव| सोऽङ्गुलिपर्वसु सम्बाधेऽवयवसङ्कटेऽङ्गे| दामाकृति दाम| उत्सङ्गमुत्सङ्गमिव विलम्बिनि बाह्वादौ कण्ठादिलम्बमानम्| स्वस्तिकाकृति स्वस्तिकं यदूर्ध्वं दक्षिणादेत्यधो वामं याति पुनः परिवृत्याधो दक्षिणादूर्ध्वं वामं तत्सन्ध्यादिषु योज्यम्| कूर्चो नाम मर्म| अनुवेल्लितं यद्दीर्ग़ं कृत्वा वेष्टनम्| मुत्तोलीव मुत्तोली तृणमयः फलाधारः| मण्डलमिव वृत्तं मण्डलं तद्वृत्तेऽङ्गे स्तनादौ| स्थविकेव स्थविका लम्बमानं ताम्बूलकरकम्| यमकं यदेकस्मिन् पट्टके द्विव्रणबन्धे मध्यं दैर्ग़्येण विच्छिद्यापनीयते स्वेदाद्यभावाय| ख़ट्वा चतुर्बहुपट्टम्| चीनं स्तोकविस्तीर्णा आयता पट्टिका| वितानमिव वितानम्| गोष्फण इव गोष्फणा कृषीवलानां पक्षिवारणाय भ्राम्यत्पाषाणधारणम्| पञ्चाङ्गी यस्मिन् पटे चत्वारो बाहवः एका चोर्ध्वे पट्टिका|| ३३||

Adhikarana bandhasyAvAntaraBedAH doShAnusAraM gADhAdibandhaviBAgaH (34) · Śloka 34

बन्धस्त्वष्टोऽनिले दुष्टे दष्टे भग्ने व्रणेषु च| तत्रान्त्ययोर्द्विधा बन्धः सव्यदक्षिणभेदतः| त्रिविधस्त्वेव सर्वत्र गाढश्लथसमत्वतः| कफवाते ग़नो ग़ाढः पित्तरक्ते तनुःश्लथः| वातपित्ते समो बन्धः कफपित्तव्रणेषु च||३४||

🔊 Audio coming soon

ननु चैषां को विषय इत्याह-बन्धस्त्वित्यादि| अनिले वायौ दुष्टे विनैव व्रणेन बन्ध इष्टः| तथा सर्पादिदश्टे दंशादूर्ध्वं विषसङ्क्रामरक्षणायैव बन्धः| तथा दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले| तथा न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः| भग्ने चाङ्गे बन्धो विनैव व्रणेन| तथा व्रणेषु च| तत्र बन्धः सव्यदक्षिणभेदेन द्विविधः| कदाचिद्वामपार्श्वेन कदाचिद्दक्षिणेन| किं सर्वत्रैव दुष्टवातादावयं नियमं? अन्त्ययोरेव भग्ने व्रणे च| दुष्टवातादीनामनियमः| सर्वत्र बन्धप्रसङ्गे गाढादिभेदेन त्रिविधो बन्धः| गाढशिथिलौ प्रसिद्धौ| समस्त्वनतिगाढशिथिलः| सुबोधम्||३४||

Adhikarana sthAnadoShakAlavisheShAnusAraM gADhabandhanAdiniyamAH (35) · Śloka 35

तथा स्फिक्कक्ष्यावङ्क्षणोरुशिरस्सु गाढं बध्नीयात्| शाख़ावदनकण्ठकर्णमेढ्रमुष्कपृष्ठपार्श्वोदरोरस्सु समम्| अक्ष्णोः सन्धिषु च शिथिलम्| वातश्लेष्मजेषु शिथिल स्थाने समम्| समस्थाने गाढम्| गाढस्थाने गाढतरम्| तथा शीतवसन्तयोस्त्र्यहात्| पित्तरक्तेषु तु गाढस्थाने समम्| समस्थाने शिथिलम्| शिथिलस्थाने नैव| तथा शरद्ग्रीष्मयोः सायं प्रातः स्यात्|३५|

🔊 Audio coming soon

Adhikarana abadhyamAnavraNadoShAH (35) · Śloka 35

अबध्यमानः पुनर्दंशमशकतृणकाष्ठपांसुशीतवातात पादिसम्पर्काद्विविधोपद्रवोपद्रुतो दुष्टव्रणतामुपैति| स्नेह श्चात्र न चिरं तिष्ठति| भेषजमाचिराच्छुष्यति| कृच्छ्रेण रोहति| रूढे च वैवर्ण्यं भवति||३५||

🔊 Audio coming soon

शिथिलस्थाने नेत्रादौ वातव्रणं श्लेष्मव्रणं च समं बध्नीयात्| समस्थाने शाख़ादौ वातश्लेष्मव्रणौ गाढं बध्नीयात्| गाढस्थाने स्फिगादौ वातश्लेष्मव्रणौ गाढतरं बध्नीयात्| तथा शीते वसन्ते च त्र्यहात् त्र्यहात् बध्नीयात्| गाढस्थाने स्फिगादौ पित्तरक्तव्रणौ समं बध्नीयात्| समस्थाने शाख़ादौ पित्तरक्तव्रणौ शिथिलं बध्नीयात्| शिथिलस्थाने नेत्रादौ पित्तरक्तव्रणौ नैव बध्नीयात्| रक्तपित्तयोः शरद्ग्रीष्मयोश्च सायम्प्रातरुभयकालं बन्धः| यत्र तु बन्ध उक्तस्तत्र दुष्टताप्रादुर्भावो भवति दुष्टव्रणतां यातीत्यर्थः| तत्र च स्नेहादिलक्षणम्|| ३५||

Adhikarana bandhaprashaMsA (36) · Śloka 36

अपि च - चूर्णितं मथितं भग्नं विश्लिष्टमथ पाटितम्| अस्थिस्नायुसिरांच्छिन्नमाशु बन्धेन रोहति| उत्थानशयनाद्यासु सर्वेहासु न पीड्यते| उद्द्ऱृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्| समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति||३६||

🔊 Audio coming soon

अपि चेति समुच्चये| चूर्णिमथितत्वादियुक्तोऽपि व्रणो बन्धेन शीघ्रं रोहति| उद्दृत्तौष्ठत्वादियुक्तो व्रणः शीघ्रं शुध्यति रोहति च||३६||

Adhikarana vraNasya patrairAcCAdanam (37) · Śloka 37

श्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्| प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्त्तु च| अजीर्णातरुणाच्छिद्रैः समन्तात्सुनिवेशितैः| धौतैरकर्कशैः क्षीरीभूर्जार्जुनकदम्बजैः||३७||

🔊 Audio coming soon

स्थिरत्वादियुक्तानां व्रणानामुपरि दत्तमौषधं दोषानुरूपैः ऋत्वनुरूपैश्च पत्रैः प्रच्छाद्यम्| किम्भूतैः पत्रैरित्याह-अजीर्णेत्यादि| न जीर्णैर्नापि तरुणैः|| ३७||

Adhikarana abandhyavraNAH (38) · Śloka 38

कुष्ठिनामग्निदग्धानां पिटकामधुमेहिनाम्| कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः| मांसपाके न बद्ध्व्या गुदपाके च दारुणे| शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः||३८||

🔊 Audio coming soon

कुष्ठिनामग्निदग्धादीनाञ्च ये व्रणास्ते न बन्धनीयाः| कुष्ठिनामग्निदग्धादीनां च तद्धेतुक एव व्रणे बन्धप्रतिषेधः|| ३८||

Adhikarana sakrimivraNacikitsA (39) · Śloka 39

अरक्षया व्रणे यस्मिन्मक्षिका निक्षिपेत्क्रिमीन्| ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्| सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे| सप्तपूणकरञ्जार्कनिम्बराजादनत्वचः| गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः| प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्||३९||

🔊 Audio coming soon

तथा यस्य पुरुषस्यारक्षया व्रणे मक्षिकाः क्रिर्मीन्निक्षिपन्ति तस्य ते क्रिमयो व्रणमांसं भक्षयन्तो रुजादीन् कुर्वन्ति| तत्र सुरसादिगणो धावने पूरणे च योज्यः|| ३९||

Adhikarana vraNaM sAntardoShaN na rohayet (40) · Śloka 40

उत्पद्यमानासु च तासु तास्ववस्थासु दोषादीनपेक्ष्य यथा स्वमुपक्रमैरुपक्रमेत्| न चैनं त्वरमाणः सान्तर्दोष मुपसंरोहयेत्| स ह्यल्पेनाप्यवचारेणान्तरुत्सङ्गं कृत्वा भूयो विकुरुते| तस्मात्सुशुद्धं रोपयेत्||४०||

🔊 Audio coming soon

तथा नानाविधास्ववस्थासु व्रणे यथायोगं चिकित्सां कुर्यात्| एनं च व्रणं वैद्यः शोधितं रोपयेन्न त्वशुद्धम्| पुनः कोपभयात्||४०||

Adhikarana vraNe rUDhe~api pathyamaryAdA (41) · Śloka 41

रूढेऽप्यजीर्णव्यायामव्यवायादीन्विवर्जयेत्| मासान्षट् सप्त वा नृणां विधिरेषः प्रशस्यते||४१||

🔊 Audio coming soon

सम्यग्रूढेऽपि षट् सप्त मासानजीर्णादीन् वर्जयेत्|| ४१||

Adhikarana upasaMhAraH (42-43) · Śloka 43

इतीदं व्रणमाश्रित्य दिङ्मात्रमुपदर्शितम्| उत्तरे विस्तरस्तस्य वक्ष्यते साधनं प्रति||४२|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने शस्त्रकर्मविधिर्नामाष्टत्रिंशोऽध्यायः||४३||

🔊 Audio coming soon

व्रणमुद्दिश्य इदं दिङ्मात्रं दर्शितम्| विस्तरस्तु उत्तरस्थाने वक्ष्यते|| ३८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने अष्टत्रिंशोऽध्यायः