Adhikarana atha shalyAharaNavidhirnAma saptatriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः शल्याहरणविधिं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
शल्यानां लोहरक्तादीनामाहरण उपाय उक्तो यन्त्रशस्त्राणि| न त्वाहरणविधानमतस्तद्विज्ञानार्थमध्यायारम्भः|| १||
Adhikarana shalyagatiBedAH (2) · Śloka 2
त्रिविधा हि गतिः शल्यानामुर्ध्वमधस्तिर्यक् च|
सा पुनः प्रत्येकमृजुवक्रभेदेन द्विधा||२||
सर्वशल्यानामूर्ध्वादिभेदेन शरीरे त्रिविधा गतिर्गमनम्| तत्रोत्तमाङ्गाभिमुख़ा ऊर्ध्वगतिः| पादाभिमुख़ा त्वधोगतिः| अङ्गपार्श्वगमनं तिर्यग्गतिः| ऋजु कृत्वा यत् प्रवेशनं शल्यस्य सा ऋज्वी गतिः| प्रविष्टस्यान्तःस्वावयवैः कुटिलीभवनं कुटिला गतिः|| २||
Adhikarana sashalyavraNalakShaNam (3) · Śloka 3
तत्र ध्यामं पिटकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्त्राविणं बुद्बुदवदुद्गतं मृदुमांसञ्च व्रणं सशल्यं विद्यात्||३||
तत्र ध्यामत्वादियुक्तं व्रणं सशल्यमन्तश्शल्यं विद्यादिति सम्बन्धः| उद्गतमुद्गतौष्ठमिति सामान्येन सशल्यव्रणलक्षणम्||३||
Adhikarana tvagAdigatashalyalakShaNAni (4) · Śloka 4
विशेषतस्तु त्वग्गते शल्ये विवर्णः शोफो भवत्यायतः कठिनश्च|
मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषः पाकश्च|
पेश्यन्तरस्थे शोफवर्ज्यं मांसप्राप्तवत्|
सिरागते सिराध्मानं शूलञ्च|
स्नावगते स्नावजालावक्षेपणं संरम्भश्चोग्ररुक्|
स्रोतोगते स्रोतसां स्वकर्मगुणहानिः|
धमनीस्थे सफेनं रक्तमीरयन्ननिलः|
सशब्दो निर्गच्छत्यङ्गपीडाहृल्लासश्च|
अस्थिगते विविधा वेदनाः शोफश्च|
सन्धिगतेऽस्थिवच्चेष्टोपरोधश्च|
अस्थिसन्धिगतेऽस्थिपूर्णता सङ्ग़र्षे बलवांश्च||४||
विशेषस्तसु त्वग्गत इत्यादिनोच्यते| शल्यमार्गो येन शल्यं प्रविष्टं तस्यानुपरोहस्तथावस्थानम्| चोषः स्वेदारतिमान् दाहः| पेशीमध्यगते श्वयथुवर्ज्यं मांससदृशं लक्षणम्| अवक्षेपणं सङ्कोचनम्| संरम्भ आवेगः| स्रोतोगते स्रोतसां यानि रक्तादिवहनादीनि कर्माणि गुणाश्च शारीरे वक्ष्यमाणास्तेषां हानिः| हृल्लासो हृदयोत्क्लेशः| सन्धिगतेऽस्थिगतसदृशलक्षणत्वमङ्गप्रसारणादिचेष्टारोधश्च| सन्धयो जानुकूर्परादयः| अस्थिसन्धिर्द्वयोरस्थ्नोर्योगः| बलवान् प्रभूतः| सङ्ग़र्षः आकुलत्वम्|| ४||
Adhikarana koShThagatashalyalakShaNam (5) · Śloka 5
कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनानि च व्रणमुख़ाद्भवन्ति||५||
कोष्ठस्थे शल्ये व्रणमुख़ात् स्थानविशेषेण यथासम्भवं मुत्रादि दर्शनादि भवति|| ५||
Adhikarana marmagatashalyalakShaNam (6) · Śloka 6
मर्मगते मर्मविद्धवत्||६||
मर्मगते मर्मविद्धवत् वक्ष्येत|| ६|
Adhikarana parisrAvataH tvagAdigatashalyalakShaNam (7) · Śloka 7
यथायथं चोपदिष्टैः परिस्रावैस्त्वगादिषु शल्यमुपलक्षयेत्||७||
त्वक्परिस्रावणेन त्वक्शल्यम्| मांसपरिस्रावणेन मांसशल्यम्| एवं सर्वं शल्यम्||७||
Adhikarana sUkShmagatishalyalakShaNAni (8) · Śloka 8
सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यविस्पष्टानि भवन्ति||८||
सूक्ष्मशल्येष्वेतान्येव लक्षणान्यपूर्णानि भवन्ति|| ८||
Adhikarana shalyoparohaNam (9) · Śloka 9
शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यन्ते||९||
शुद्धदेहत्वादियुक्तानां शल्यं रोहं याति|| ९||
Adhikarana shalyAnAM punarabAdhanam (10) · Śloka 10
दोषप्रकोपव्यवायव्यायामाभिग़ातेभ्यश्च प्रचलितानि पुनराबाधयन्ति||१०||
पुनर्दोषकोपादाबाधं करोति|| १०||
Adhikarana tvakpranaShTashalyaj~jAnopAyAH (11) · Śloka 11
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयचूर्णमर्दितायां त्वचि यत्र संरम्भो वेदना वा भवति|
यत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते प्रलेपो वा शुष्यति तत्र शल्यं जानीयात्|११|
Adhikarana mAMsapranaShTasya koShThAsthipeshIvivaragatasya ca shalyasya j~jAnopAyAH (11) · Śloka 11
मांसप्रनष्टे स्नेहादिभिः क्रियाभिरातुरमुपपादयेत्कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र संरम्भं वा जनयति तत्र शल्यम्|
एवं कोष्ठास्थिपेशीविवरेष्वपि||११||
त्वगादिनष्टे लक्षणमुक्तम्| प्रदेशविशेषस्तु न ज्ञायते| तद्विज्ञानं त्वक्प्रनष्टेत्यादिनोच्यते| एवं कोष्ठादीनां स्पर्शवेदनास्पर्शासहत्वादिभिः कल्पयेत्|| ११||
Adhikarana sirAsrotodhamanIsnAvapranaShTashalyaj~jAnopAyaH (12) · Śloka 12
सिरास्रोतोधमनीस्नावप्रणष्टे ख़ण्डचक्रमश्वयुक्तं रथमारोप्यातुरं विषमेऽध्वनि शीग़्रं नयेत्|
ततः संरम्भादिभिर्जानीयात्||१२||
सिरादिनष्टे रथमारोप्यातुरं नयेत्| तेन शल्यं जानीयात्| ख़ण्डानि चक्राणि यस्य तत्तथोक्तम्|| १२||
Adhikarana sandhipranaShTashalyaj~jAnopAyaH (13) · Śloka 13
सन्धिप्रणष्टे स्नेहस्वेदोपपन्नं सन्धिं प्रसारणाकुञ्चनबन्धनपीडनैरुपाचरन् पूर्ववदवगच्छेत्|१३|
Adhikarana asthipranaShTashalyaj~jAnopAyaH (13) · Śloka 13
अस्थिप्रणष्टे स्निग्धस्विन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपचरंस्तद्वदुपलक्षयेत्||१३||
स्नेहस्वेदाभिरुपाचरन् पूर्ववत् संरम्भादिभिर्जानीयात्| तद्वदिति पूर्ववत् संरम्भादिभिः|| १३||
Adhikarana marmapranaShTashalyaM mAMsAdibahushalyaj~jAnopAyaH (14) · Śloka 14
मर्मप्रणष्टे त्वनन्यभावान्मांसादिभ्यो मर्मणा मुक्तं परीक्षणं भवति||१४||
मर्मसु मांसाद्याश्रयणात् मांसादिभिरेवोक्तं लक्षयेत्|| १४||
Adhikarana sAmAnyaM shalyapranaShTalakShaNam (15) · Śloka 15
सामान्यलक्षणं तूच्छ्रितहस्तिस्कन्धाश्वमाद्गुरोहणद्रुतयानलङ्ग़नप्लवनव्यायामैर्जृम्भोद्गारकास क्षवथुष्ठीवनहसनप्राणायामैर्मलशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति|
यत्र वा स्वल्पेऽप्यायासे स्वापो गौरवम् ग़ट्टनं शोफो वा स्यात्तत्र शल्यमादिशेत्||१५||
उच्छ्रितहस्तिस्कन्धयानादिसामान्यं शल्यप्रदेशविशेषपरिज्ञानलक्षणम्| प्राणायामः श्वासोच्छ्वासनिरोधः || १५||
Adhikarana shalyaBedAH (16) · Śloka 16
समासतश्चतुर्विधं शल्यं भवति|
वृत्तद्वित्रिचतुरस्रभेदेन|
तददृश्यमानं वृत्तसम्स्थानादनुमिमीत||१६||
तत्र चतुर्विधं शल्यं प्रकीर्तितं वृत्तं द्व्यस्रं त्र्यस्रं चतुरस्रं च| सर्वमदृश्यमानं व्रणाकृत्या कल्पयेत्|| १६||
Adhikarana mahatAM shalyAnAmAharaNopAyau (17) · Śloka 17
सर्वशल्यानां महतामाहरणे द्वावेवोपायौ प्रतिलोमोऽनुलोमश्च|
तत्र प्रतिलोममर्वाचीनमानयेदनुलोमं पराचीनम्|
तिर्यग्गतं यतः सुख़ाहार्यं भवति|
ततश्छित्वाऽपहरेत्||१७||
आहरणे द्वावुपायौ प्रतिलोमोऽनुलोमश्च| तत्र प्रतिलोमं यद्यत एव प्रविष्टं तेनैवानीयते| अनुलोमं यद्यतः प्रविष्टं ततः प्रवेश्य द्वितीयेन ह्नियते| तत्रार्वाचीनं यच्छल्यं तत् प्रतिलोममानयेत्| अर्वाचीनं पूर्वोक्तमूर्ध्वगतिः| तद्यत एव प्रविष्टं तेनैवाहरेत्| यच्छल्यं पराचीनं तदनुलोममानयेत्| यत्राभिमुख़ंतत्रैवानयेदित्यर्थः| पराचीनमधोगतिः| तिर्यग्गतं मांसं च छित्वाऽपहरेत्| कस्मिन् प्रदेश इत्याह-यत एव सुख़ेनाहर्तुं शक्यते||१७||
Adhikarana anirGAtanIyashalyaprakAshaH (18) · Śloka 18
प्रतिलोममनुत्तुण्डितं छेदनीयं पृथुमुख़ं च शल्यं निर्ग़ातयेत्|
तथा कक्ष्यावङ्क्षणोरः परशुकान्तरपतितानि|
नैव चाहरेद्विशल्यग़्नं मर्मप्रणष्टं वाऽशोफवेदनं पाकविरहितम्||१८||
प्रतिलोमं लोमाभिमुख़प्रविष्टण् न निर्ग़ातयेत्| उत्तुण्डितं दृश्यमानमुख़ं तद्विपरीतमनुत्तुण्डितम्| छेदनीयमुख़ं विस्तीर्णमुख़मर्धचन्द्रादि| कक्ष्यादिपतितानि शल्याणि न निर्ग़ातयेत्| विशल्यग़्नं यदा हृतं सत् शून्यं स्रोतः कृत्व मारयति तन्नैवाहरेदिति सम्बन्धः| यच्च मर्मस्थितं शोफादिरहितं तदपि नाहरेत्|| १८||
Adhikarana shalyoddharaNopAyAH (19) · Śloka 19
अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत्|
तदशक्यं यथायथं यन्त्रेण|
तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाऽग्निग़ृतमधुप्रभृतिभिः स्वेदयित्वाऽवदह्य तर्पयित्वा सर्पिर्मधुभ्यां बध्वाऽऽचारिकमादिशेत्|१९|
Adhikarana sirAsnAyulagnashalyoddharaNopAyAH, hRudayapranaShTashalyAharaNopAyAH (19) · Śloka 19
सिरास्नावलग्नं शलाकाग्रणाभिमोच्याहरेत्|
हृदयेऽभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्याहरेद्यथामार्गम्|
दुराहरमन्यतोऽप्येवमाहरेत्||१९||
Adhikarana asthipranaShTashalyAharaNopAyAH (20) · Śloka 20
अस्थिविवरप्रणष्टमस्थिविदष्टं वा अवगृह्य पद्भ्यां पुरुषं यन्त्रेणापकर्षेत्|
अशक्यमेवं व बलवद्भिः सुगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यं वारङ्गं प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वाऽन्यतश्च पञ्चाङ्ग्या सुसंयतस्याश्वस्य वक्त्रकटके बध्नीयात्|
अथैनमेवं कशया ताडयेद्यथोन्नमयञ्छिरो वेगेन शल्यमुद्धरति|
दृढां वा वृक्षशाख़ामवनम्य तस्यां पुर्ववद्बध्वोद्धरेत्|
दुर्बलवारङ्गं तु कुशाभिर्बध्वा|
श्वयथुग्रस्तवारङ्गमुत्पीड्य श्वयथुम्||२०||
अस्थिविदष्टमस्थिद्वयमध्यगतम्| विदष्टमिव विदष्टम्| शल्यवारङ्गं प्रतिभुज्य कुटिलीकृत्य यथा रज्वा गृहीतुं युज्यते| अश्वस्य पञ्चाङ्गी मुख़ं ख़ुरचतुष्टयं च ताडयेन्मुख़तस्तथा वेगेन शिर उन्नमयति| पूर्ववदिति बलिभिर्गृहीतस्य वारङ्गं प्रतिभुज्य| एकतो रज्युर्बध्यते अन्यतश्च वृक्षशाख़ायामिति| दुर्बलवारङ्गं यद्रज्ज्वा यन्त्रेण वा आकृष्यमाणं भज्यते तत् कुशाभिरभिवेष्ट्याहरेत्|| २०||
Adhikarana adeshottuNDitashalyAharaNopAyAH (21) · Śloka 21
अदेशोत्तुण्डितमश्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव||२१||
अदेशोत्तुण्डितं यतो निर्हर्त्तुं न युज्यते ततोऽश्मादिप्रहारेण चालयित्व यथामार्गमेवानीयाहरेत्|| २१||
Adhikarana karNayuktashalyAharaNopAyAH (22) · Śloka 22
कर्णवत्तु यन्त्रेण विमृदितकर्णं कृत्वा|
नाडीयन्त्रेण वा बहुमुख़ेन यथास्वमुपसङ्गृह्य शलाकायन्त्रेणाऽन्येन वा पूर्ववदाहरेत्||२२||
दृश्यमुख़ं सकर्णं शल्यं यन्त्रेण विमृदितकर्णं कृत्वाहरेत्| नाडीयन्त्रेण वा बहुमुख़ेनामृतिदकर्णमेव|| २२||
Adhikarana akarNashalyAharaNopAyAH (23) · Śloka 23
अनुलोममकर्णमनल्पव्रणमुख़मयस्कान्तेन||२३||
अनुलोमत्वादियुक्तमयस्कान्तेन|| २३||
Adhikarana pakvAshayagatashalyAharaNopAyaH (24) · Śloka 24
पक्वाशयगतं विरेचनेन||२४||
सुबोधम्|| २४||
Adhikarana vAtaviNmUtragarBashalyAharaNopAyaH (25) · Śloka 25
वातविण्मूत्रगर्भसङ्गं प्रवाहणेन||२५||
अधोवातादिशल्यं प्रवाहणेन निस्ताननादिना|| २५||
Adhikarana duShTavAtAdishalyAharaNopAyAH (26) · Śloka 26
दुष्टवातविषस्तन्यादीन्यास्यविषाणचूषणेन||२६||
दुष्टवातादीनि कर्णादिगतान्यास्यचूषणेन विषाणचूषणेन वा| विषाणं शृङ्गम्|| २६||
Adhikarana kaNThasrotogatashalyAharaNopAyAH (27) · Śloka 27
कण्ठस्रोतोगते तु शल्ये विसंसक्तं सूत्रं कण्ठे प्रवेशयेत्|
अथ तद्गृहीतं विज्ञाय शल्यं सममेव सूत्रं बिसं चाक्षिपेत्|
बिसाभावे मृणालेऽप्ययमेव विधिः|२७|
Adhikarana kaNThAsakte jAtuShAjAtuShashalyAharaNopAyAH (27) · Śloka 27
जातुषे तु कण्ठसक्ते नाडीं प्रवेशयेत्तदा चाग्नितप्तां सूक्ष्ममुख़ीं शलाकामथ तां गृहीतशल्यां शीताभिरद्भिः परिषिच्य स्थिरीभूतामाहरेत्|
अजातुषेऽप्येवमेव प्रतप्तां जतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकाम्|२७|
Adhikarana kaNThasaktakaNTakashalyAharaNopAyAH (27) · Śloka 27
मत्स्यकण्टकमन्यद्वा तादृगस्थिशल्यं कण्ठलग्नं सूत्रेण सूत्रप्लोतेन वा वेष्टितयाऽङ्गुल्याऽपहरेत्|
अथवा केशोण्डुकं दृढदीर्ग़सूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च|
वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत्|
मृदुना वा दन्तधावनकूर्च्चेनापहरेत्|
परतो व प्रणदेत्|
वालोण्डुके विलग्ने तद्वत्कण्टकम्|
क्षतकण्ठश्च त्रिफलाचूर्णं मधुग़ृतसितोपेतमनुकण्ठयन् लिह्यात्||२७||
कण्ठस्रोतोगत इत्यादि सुबोधम्| मृणालं बिसाङ्कुरम्| वमतश्च यदि केशोण्डुकं सज्जति ततो गृहीतशल्यं ज्ञात्वा ज़टित्याकर्षयेत्| परतः अतः प्रणुदेत् बालोण्डुकम्| बालोण्डुके कण्ठलग्ने कण्टकं तद्वद् द्रवेण सूत्रबद्धं पाययेद्वामयेदाकर्षेच्च| क्षतकण्ठस्त्रिफलाचूर्णं लिह्यादनुकण्ठयन् कण्ठे अवलेहस्य सङ्गं कुर्वन् न तु त्वरया|| २७||
Adhikarana apshalyAharaNopAyAH (28) · Śloka 28
अपां पूर्णं पुरुषमवाक्शिरसमवपीडयेद्धुनुयाद्वामयेच्च भस्मराशौ व निख़न्यादामुख़ात्|
अन्यथा ह्युन्मार्गगामिभिरद्भिराध्मानकासश्वासपीनसेन्द्रियोपग़ातज्वरादयः श्लेष्मविकारा मृत्युश्च|
तत्र यथास्वं कफे प्रतिकुर्यात्|२८|
Adhikarana grAsashalyapraveshanopAyaH (28) · Śloka 28
ग्रासशल्यमम्बुना प्रवेशयेत्स्कन्धे वा मुष्टिनाभिहन्यात्|२८|
Adhikarana kaNThasthashleShmAdishalyanirharaNopAyaH (28) · Śloka 28
कण्ठस्थं श्लेष्माणमन्नलवं वा प्रधमनोत्कासनापकसनैर्विधमेत्||२८||
अपां पूर्णं नद्यादिपतने| आमुख़ात्| मुख़वर्ज्यम्| आध्मानादिषु यथास्वमात्मीयं श्लेष्मणि चिकित्सा कार्या| उत्कसनं बहिरीरणम्| अपकसनमन्तरीरणम्|| २८||
Adhikarana netrashalyAharaNopAyAH (29) · Śloka 29
सूक्ष्ममक्षिशल्यं लेख़नप्रधमनवालजलवस्त्रजिह्वाभिरपनयेत्|
तथा निर्भुज्य वर्त्म वर्त्मगतमपनीय चोष्णाम्बुबाष्पस्वेदं समधुमधुकक्वाथेन सर्पिषा च परिषेकं कुर्यात्|
स्वयमपि च शल्यमश्रुक्षवथुकासोद्गारमूत्रपुरीषानिलैर्नयनादिभ्योङ्गावयवेभ्यः पतति||२९||
वर्त्मगतं वर्त्माक्षिपुटं निर्भुज्य परिवर्त्याहरेत्| नयननासादिषु शल्यं क्षवथ्वादिभिः क्रियमाणैः स्वयं पतति|| २९||
Adhikarana karNagatakITashalyAharaNopAyAH (30) · Śloka 30
कीटे कर्णस्रोतःप्रविष्टे तोदो गौरवं भरभरायमाणं च भवति स्पन्दमाने चाप्यधिकं वेदना|
तत्र सलवणेनाम्बुना मधुकयुक्तेन मद्येन वा सुख़ोष्णेन पूरणम्|
निर्गते च कीटे तदुत्सर्जनम्|
तत्रैव तु मृते पाककोथक्लेदा भवन्ति|
तेषु कर्णस्रावोक्तं कुर्यात्प्रतिनाहोक्तञ्च|
तोयपूर्णं कर्णं हस्तोन्मथितेन तैलाम्बुना पूरयेत्|
पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वाऽऽचूषयेत्||३०||
कीट इत्यादि सुबोधम्| निर्गते कीटे तदुत्सर्जनं लवणाम्ब्वादिना सह त्यागः| प्रतीनाहो नासारोगविशेषः| कर्णस्रावश्च कर्नरोगे वक्ष्यमाणः|| ३०||
Adhikarana dehe vilIyamAnAni shalyAni (31) · Śloka 31
भवन्ति चात्र श्लोकाः- जातुषं हेमरूप्यादिधातुजं च चिरस्थितम्|
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते|३१|
Adhikarana dehe avilIyamAnAni shalyAni (31) · Śloka 31
विषाणवेणुदार्वस्थिदन्तवालोपलानि तु|
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च|
विषाणवेण्वयस्तालदारुशल्यं चिरादपि|
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी||३१||
भवन्ति चात्रेति तन्त्ररीतिः| जातुषादिशल्यं देहे चिरस्थितं सत् देहोष्मणा विलीयते| विषाणादि देहस्थं न शीर्यते| न विलीयत इत्यर्थः| ततोऽपि निर्धार्यते| विषाणवेण्वादि चिरादपि न विशीर्यते| तद्विषाणादि शल्यं निर्भुज्यते कुटिलो भवति| शीग़्रञ्च पलासृजी मांसरक्ते पचति|| ३१||
Adhikarana avagADhashalyAharaNopAyAH (32) · Śloka 32
शल्ये मांसावगाढे चेत्स देशो न विदह्यते|
ततस्तं मर्दनस्वेदशुद्धिकर्शनबृंहणैः|
तीक्ष्णोपनाहपानान्नग़नशस्त्रपदाङ्कनैः|
पाचयित्वा हरेच्छल्यं पाटनैषणपीडनैः||३२||
मांससक्ते शल्ये यदि शल्यप्रदेशो न विदह्यते पाकाभिमुख़ो न भवति| ततो मर्दनादिभिः पाचयैत्व पाटनादिभिरपहरेत्||३२||
Adhikarana upasaMhAraH (33) · Śloka 33
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्|
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत्||३३||
शल्यानां बहुरूपतामवेक्ष्य देहप्रदेशानां बहुरूपतां यन्त्राणां च रूपतामवेक्ष्य तैस्तैर्यथोक्तैरुपायैः शल्यमेवंविधमिति विद्यादाहरेच्च|| ३३||
Adhikarana niHshalyavraNalakShaNam (34) · Śloka 34
व्रणे प्रशान्ते प्रान्तेषु नातिस्पर्शासहिष्णुषु|
अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्|३४|
व्रणेषु प्रसन्नत्वादियुक्तेषु निश्शल्यतां शल्यरहितत्वमादिशेत्|| ३४||
Adhikarana kAya eva shalyam (34-35) · Śloka 35
काय एव परं शल्यं निजदोषमलाविलः|
शल्ये शल्यं शराद्यं तु विशेषात्तेन चिन्त्यते||३४||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने शल्याहरणविधिर्नाम सप्तत्रिंशोऽध्यायः||३५||
सर्वस्य चात्मीय एव कायः परं शल्यं जन्मसहस्नेष्वाबाधकत्वात्| किम्भूतः काय आह-निजदोषमलाविलः| शल्यं हि मलाविलं भवति| काये तु य एव निजा दोषा रागादयो वातादयश्च तदेव मलम्| तत्र काये शल्ये यद्यच्च शराद्यं शल्यं तच्छल्ये शल्यं क्षते क्षारस्तेन विशेषात् चिन्त्यते चर्च्यत इति|| ३५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने सप्तत्रिंशोऽध्यायः