Adhikarana athAbhiShyandapratishShedho nAmaikonaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातोऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उक्तेभ्यः सर्वाक्षिरोगेभ्योऽभिष्यन्दस्य प्राधान्यात्पृथक्चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana pUrvarUpAvasthAyAM cikitsA (2) · Śloka 2
अथ खलु सर्वाक्षिरोगाणां पूर्वरूप एव शिरोविरेककवलधूमोपवासानासेवेतान्यत्र मारुतोद्रेकात्||२||
अथेत्यादिना सामान्येन सर्वक्षिरोगाणामभिष्यन्दाधिमन्थादीनां चिकित्सा| सर्वाक्षिरोगाणां पूर्वरूपदऱ्सन एव शिरोविरेकादिकं कुर्यात्| किं सर्वत्र ? अपि तु मारुतोद्रेकादन्यत्र||२||
Adhikarana vAtAbhiShyandAdhimanthayoshcikitsA - candanAdibiDAlakaH (3) · Śloka 3
सर्वत्र तु चन्दनमरिचपत्रैलास्वर्णगैरिकतगररसाञ्जनलवणयष्ट्याह्वैर्विडालकं कुर्यात्||३||
सर्वत्र चन्दनादिना विडालको बहिर्लेपो हितः| नवतायामञ्जनप्रतिषेधात्||३||
Adhikarana biDAlakAntarANi (4) · Śloka 4
तथा दार्वितुत्थहरीतकीभिर्वातपित्ते|
कफे तु हरीतकीनागररसाञ्जनस्वर्णगैरिकैः|
अपि च कुष्ठमिसिपिप्पलीचन्दनोत्पलैर्विडालको वेदनाघ्नः|
मुस्तागरुचन्दनैः क्षौद्रयुतैः शूलदाहरागघ्नः|
सैन्धवागरुत्रिजातकत्रिकटुकस्वर्णगैरिककुष्ठतगरशैलेयकैः शूलश्वयथुदाहरागनुत्||४||
दार्व्यादिभिर्विडालको वातपित्ते योज्यः| हरीतक्यादिभिः कफे| अपि चेति साधारणसमुच्चयाय| कुष्ठमुस्तासैन्धवादयस्त्रयो विडालकाः सुबोधाः| मिसिः शतपुष्पा|| ४||
Adhikarana netrAvacUrNanAni (5) · Śloka 5
शिग्रुफलमनोह्वाशाबरलोध्रैः क्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतान्तवस्थैर्नयनमवचूर्णयेत्|
श्वेतलोध्रत्वचं बहिर्विलिखितां निम्बपत्रकल्केन प्रदिग्धां पुटपाके विपक्वामर्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्णयवकिरेत्|
एतदवगुण्ठनं शूलदाहाश्रुश्वयथुकण्डूषापाकक्लेदोपदेहहरम्|
तयैव च पोट्टलिकयाऽऽश्च्योतनकालेऽवन्तिसोमाप्लुतयाऽऽश्च्योतयेत्|
पूर्ववद्वा लोध्रवल्कलकल्कमुपस्कृतं तन्मात्रमेव मरिचद्वयेन मनश्शिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पाञ्जनैर्युक्तं प्रकल्पयेत्|
अपि च- आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलात्थाः|
तच्चूर्णं सकृदवचूर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम्||५||
शिग्रुफलादिचूर्णं वस्त्रबद्धं नेत्रावचूर्णनं कुर्यात्| शिग्रुफलेभ्यस्तु तुलयावच्छिन्नेभ्यश्चतुर्गुणा मनश्शिला| ततश्चतुर्गुणः शाबरलोध्र इति क्रमार्थः| लोध्रत्वचो यथोक्तविधिना पक्वाया अर्धपलं चत्वारि मरिचफलानीत्येतच्छ्लक्ष्णचूर्णं वस्त्रेण बद्ध्वाऽक्षिण्यवकिरेत्| अवगुण्ठनमाच्छादनचूर्णमक्ष्णः| तयैव च पोट्टलिकयाऽवन्तिसोमे काञ्जिके आप्लुतया आश्च्योतनकाल इत्यभिनवे काले एष्वेव रोगेष्वाश्च्योतनम्| अथवा लोध्रस्य वल्कलं त्वक् पूर्ववदुपस्कृतं बहिर्लेखनं कृत्वा निम्बपत्रकल्कलेपनादनन्तरं पुटपाकेन स्विन्नम्| तन्मात्रमित्यर्धपलोन्मितम्| मरिचफलद्वयेन मनश्शिलायाश्च पादेनार्धकर्षेण यष्ट्यादिभिश्चाष्टांशकैः प्रत्येकं शाणप्रमाणैर्युक्तम्| पूर्ववदिति चूर्णमवकिरणे आश्च्योतने च प्रकल्पयेत्| अपि चेति समुच्चये| आरण्याः कुलत्था अक्षिभेषजाख्याः पटे बद्धाः छगणरसे गोमयस्य रसे सुस्विन्ना अनु च नखैर्वितुषीकृता ये तेषां चूर्णं निशीथे रात्रौ सकृदेकवारमेवाऽवचूर्णनादवकिरणात् सद्य एव नेत्राणां कोपमभिष्यन्दं विधमति नाशयति||५||
Adhikarana netre AScyotanam (6) · Śloka 6
अथ दारुहरिद्रापलमुदकार्धप्रस्थेनाष्टांशशेषितं क्वथितं माक्षिकयुक्तमाश्च्योतनं कुर्वीत|
एवं चानुपशमे वाताभिष्यन्दिनमादावेव जाङ्गलरसैर्भोजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन च पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत्|
आश्च्योतनञ्जास्यैरण्डमूलपल्लवैः श्रृतमजाक्षीरं कुर्यात्|
सालपर्णीपृश्निपर्णीद्विबृहतीमधुकोरुपूगैर्वा|
तद्वत्तगरह्रीबेरशार्ङ्गोष्ठोदुम्बरमधुकपिप्पलीबृहतीद्वयैरण्डमूलैर्वा|
अंशुमतीद्वयबृहतीकण्टकारिकाभिर्वा तान्तवावद्धाभिः सुरामद्यधान्याम्लान्यतमाप्लुताभिरानूपमांसाम्लक्वाथेन वा||६||
अथेत्यभिनवत्वे गते हरिद्रेत्यादिनाऽश्च्योतनं सुबोधम्| एवं कृते यद्यक्षिरोगस्योपशमो न भवति तत इदमिदं कुर्यात्| सुबोधम्| दशमूलादिक्वाथेन जीवनीयकल्केन च क्षीरयुतं पुराणसर्पिः सिद्धं वाऽसिद्धमेव वा क्षीरदशमूलादिक्वाथे जीवनीयकल्कयुतं पुराणं घृतं पाययेत्| केचित्त्वितरदिति केवलं पुराणघृतमाहुः| आश्च्योतनमित्यादि सुबोधम्| अथवा सालपर्ण्यादिभिः सिद्धमजाक्षीरमाश्च्योतनं कुर्यादिति सम्बन्धः| उरुपूग एरण्डः| तगरादिभिरेरण्डमूलान्तैस्तद्वदिति श्रृतमजाक्षीरमाश्च्योतनम्| अथवांशुमतीद्वयादिभिस्तान्तवे वस्त्रे अवबुद्धाभिः सुराद्यन्यतमाप्लुताभिराश्च्योतनम्| अथवांशुमतीद्वयादिभिस्तान्तवबद्धाभिरानूपमांसानामम्लानां च दाडिमादीनां क्वाथेनाप्लुताभिराश्च्योतनम्|| ६||
Adhikarana utkArikAsvedaH (7) · Śloka 7
तैरेव च मांसैर्वेशवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगण्डादीन् स्वेदयेत्||७||
अथवा तैरेवेत्यानूपैर्मांसैर्वेशवारीकृतैः कुट्टितैरनु च स्विनैः स्नेहच्तुष्टयुक्तैश्च यवचूर्णलवणाभ्यां प्रगाढामापादितपिण्डीभावामुत्कारिकां कृत्वा ललाटादीन् स्वेदयेत्||७||
Adhikarana nAvanaM nADIsvedaSca (8) · Śloka 8
अथवा रास्नाभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां वाष्पेण|
रास्नादिभिरेव सिद्धं तैलं सर्पिर्वा नावनम्|
एवं विधैरेव नाडीस्वेदं कुर्यात्||८||
अथवा रास्नादीनामजाक्षीरस्विन्नानां वाष्पेण लालाटादीन् स्वेदयेत्| सुबोधम्| एवंविधैरिति रास्नादिसमानगुणैः||८||
Adhikarana mukhAlepaH (9) · Śloka 9
सरलसुरभिघनदेवदारुहिंस्राकरञ्जफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैः सुखोष्णैर्मुखालेपोऽक्षिवेदनास्तम्भप्रसादनः||९||
सरलादिभिर्भृष्टतिलयुक्तैः पश्चाच्च पयसा पिष्टैः सुखोष्णैर्मुखालेपोऽक्षिवेदनादिशमनः||९||
Adhikarana sirAmokShavirekAsthApanAnuvAsanAni (10) · Śloka 10
एवमस्यानुपशान्तरुजः सिरां मोक्षयेत्|
स्नेहस्वेदविष्यन्दं हि वातदुष्टमसृङ्निर्ह्रियमाणं नानिलप्रकोपाय|
पुनश्च स्निग्धाय तिल्वकेन संस्कृतं संयुक्तं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात्|
शुद्धं च वातप्रतिश्यायवदास्थापयेदनुवासयेच्च||१०||
एवमित्यादि सुबोधम्| स्नेहेत्यादि सिरामोक्षहेतुः| पुनरित्यस्रे निर्हृते| तिल्वकं पट्टिकालोध्रम्|| १०||
Adhikarana anuvAsanottaracikitsA (11) · Śloka 11
अथ तिलान् निस्तुषान् बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेदेवं पञ्चाहम्|
तेभ्यस्तैलं गृहीत्वा वराहमेदोयुक्तं बिल्वमूलमधुयष्टिकाकल्केन पयसा च पचेत्|
तेन नस्यं शिरोबस्तिं च कुर्यात्|
सर्वगन्धनिर्यूहेण वा मधुकगर्भं सक्षीरं तैलम्|
स्नेहिकञ्च धूमं पिबेत्||११||
अथानुवासमादनन्तरम्| तिलानित्यादि सुबोधम्| शिरोबस्तिः सूत्रोक्तलक्षणः| अथवा सर्वगन्धद्रव्याणां निर्यूहेण क्वाथेन मधुयष्टीगर्भं सक्षीरं तैलं सिद्धं नस्यं शिरोबस्तिश्च कुर्यादिति सम्बन्धः| स्नेहिको धूमः शोधनादिगणसंग्रहे अगरुगुग्गुल्वादिना सूत्रोक्तः|| ११||
Adhikarana netratarpaNayogAH (12) · Śloka 12
उपशान्तरुजोऽस्य च तर्पणम्|
काश्मर्यमधुककुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत्|
तत्तर्पणनस्याभ्यङ्गेषु विदध्यात्|
कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्|
ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम्|
अथवा पञ्चमूलजीवनीयकुक्कुटमांसैः पयो विपचेत्, ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत्||१२||
ततोऽनन्तरमुपशान्तायां तीव्रायां रुजायां तर्पणं योज्यम्| काश्मर्यादिभिः साधितं पयस्तर्पणादिषु विदध्यात्| काश्मर्यः श्रीपर्णी| उरुपूगः एरण्डः| प्रपौण्डरीकः प्रसिद्धो मध्यदेशे| कृष्णसर्प इत्यादि सुबोधम्| तत इति कृष्णसर्पक्वथितात् क्षीरात्| अथवा पञ्चमूलादिना तर्पणम्| ततः पञ्चमूलादिपाचितात् पयसः|| १२||
Adhikarana puTapAkaH (13) · Śloka 13
पुटपाकं च छागोरभ्रवराहाणामन्यतमस्य यकृत्पिप्पलीसैन्धवमधुघृतोपेतं कुर्यात्||१३||
छागादीनामन्यतमस्य यकृत् पिप्पल्यादियुक्तं पुटपाकं सूत्रोक्तविधानेन नेत्रे कुर्यात्||१३||
Adhikarana prasAdanA~jjanAni (14) · Śloka 14
अञ्जनं चास्य दृक्प्रसादनार्थम्|
कृष्णतिलान् निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च|
तच्चूर्णं सितोपलासमं कृत्वा मधुकार्धभागेन सैन्धवांशेन कृष्णसर्पशिरसश्चान्तर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुलिकां कारयेत्|
गोधासर्पवासायाजमेदसि च सैन्धवपिप्पलीचूर्णं रसाञ्जनं चावपेत्|
एषा मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च|
उद्धृतसरेण गव्येन दध्नाऽम्लेन राजतं भाजनमालिम्पेत्|
नीलीभूतं च तद्विशुष्कं मस्तुना वर्त्तयः कृताः छायाविशोषिता वाताक्षिरोगं जायन्ति|
मागधिकाकण्टकारिकाद्वयमूलत्वङ्मधुकसितासैन्धवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत्|
सप्ताहात्सप्ताहादपनीय पुनस्तथैव पिष्ट्वा लेपयेत्|
सप्तभिः सप्तरात्रैर्गुलिकाः कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तान्ध्यतापाधिमन्थाभिघातहराः||१४||
अस्य चाभिष्यन्दिनो दृक्प्रसादनार्थमञ्जनं च कुर्यात्| किमित्याह| कृष्णतिलानित्यादि सुबोधम्| अंशश्चतुर्थो भागः समशर्करमिश्रात्तिलचूर्णात्| तद्वदेवान्यभागः| एषा गुलिका दृक्प्रसादनाञ्जनम्| गोधादिवसायामाजमेदसि च मिश्रिते सैन्धवादिचूर्णं रसाञ्जनश्च निक्षिपेत्| मासं स्थितैषा रसक्रिया दृष्टेः प्रसादनी रुजाहरा च| उद्धृतसरेणेत्यादिना मागधिकेत्यादिना च राजसताम्रलेपनप्रयोगद्वयं वातजेषु सर्वाक्षिरोगादिषु|| १४||
Adhikarana pratya~jjanam (15) · Śloka 15
प्रत्यञ्ज्नं चात्र स्फटिक्रशङ्खनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वत्तिः||१५||
अत्र च वाताभिष्यन्दे इक्षुरसपिष्टैः स्फटिकादिभिर्वत्तिः प्रत्यञ्जनम्| तीक्ष्णाञ्जने प्रत्युक्ते यन्मृद्वञ्जनं तत्प्रत्यञ्जनसंज्ञम्|| १५||
Adhikarana atideshenAdhimanthacikitsA (16) · Śloka 16
अयमेव च सर्वो विधिरधिमन्थादिष्वपि प्रयोज्यः||१६||
अयमेव च सर्वो वाताभिष्यन्दोक्तो विधिः सर्वेष्वप्यधिमन्थादिषु सर्वगाक्षिरोगेषु प्रयोज्यो वातजेष्वित्यर्थात्|| १६||
Adhikarana vAtAdhimanthe cikitsAviSeShaH (17) · Śloka 17
विशेषतस्त्वधिमन्थे सहचरस्फूर्जातकतकबीजबिल्ववृक्षादनीनिर्यूहेण सपयस्कं सर्पिः सिद्धं पिबेत्|
सर्पिषानुपशमे तैलं वसां मज्जानं पूर्वोक्तविधिवदव्यत्यासेन कुर्यात्|
सर्वथानुपशान्तावुपरि भ्रुवोर्यथोक्तो दाहः||१७||
अधिमन्थे तु विशषत इदं कुर्यात्| किमित्याह - सहचरेत्यादि| स्फूर्जातकस्य बीजम्| वृक्षादनी द्रुमव्याधिः| सर्पिषानोनानुपशमे सहचरादिभिः साधितं तैलाद्यन्यतममनन्तरोक्तविधिवद्व्यत्यासेन पर्यायेण कुर्यात्| दाहः सुबोधः| इति वाताभिष्यन्दे|| १७||
Adhikarana pittAbhiShyandAdhimanthayoshcikitsA - sarpiHpAnam (18) · Śloka 18
पित्ताभिष्यन्दाधिमन्थयोः शर्करावचूर्णितं सर्पिः पानम्|
तिक्तकानान्यतमं वा||१८||
पित्ताभिष्यन्दे पित्ताधिमन्थे च शर्करयाऽवचूर्णितं घृतं पानम्| अथवा चिकित्सितस्थाननिर्दिष्टानां तिक्तकमहातिक्तमहातिक्तगुग्गुलुतिक्तकानामन्यतमं वा पानम्||१८||
Adhikarana AScyotanam (19) · Śloka 19
प्रपौण्डरीकामलकद्विबृहतीदर्भदशमूलशतावरीतालीसपत्रमञ्जिष्ठानीलोत्पलक्वाथः सितास्तन्येनाश्च्योतनम्|
मधुककटङ्कटेरीनिर्यूहो वा|
सक्षौद्रश्चन्दनमधुकलोध्रमञ्जिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहहरः||१९||
प्रपौण्डरीकादीनां क्वाथः सितया स्तन्येन च युक्त आश्च्योतनम्| मधुकादिनिर्यूहो वा सितास्तन्यवानाश्च्योतनम्| कटङ्कटेरी दारुहरिद्रा| चन्दनादीनां वा क्वाथः क्षौद्रेण युक्त आश्च्योतनेन तीव्रशूलदाहहरः||१९||
Adhikarana sekaH (20) · Śloka 20
लोध्रदार्वीमधुकप्रपौण्डरीकान्यापोथ्य नन्तकेन बध्नीयात्|
तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः|
तेनैव च सशर्करस्त्रीस्तन्ये च्छागदुग्धे वा दाहरागघ्नः||२०||
लोध्रादिसेको वेदनाघ्नः सुबोधः| नन्तकं गालनवस्त्रम्| तेनैवेति लोध्रादिसहितेन नन्तकेन सशर्करस्त्रीस्तन्ये छागदुग्धे वाप्लुतेन सेक इति सम्बन्धः||२०||
Adhikarana pariShekAH lepASca (21) · Śloka 21
श्वेतलोध्रं मधुकं च समं घृतेन भर्जयित्वा चूर्णयेत्|
ततः पोट्टलिकावबद्धं स्तन्येन तोयेन या मृदितमाशु शूलदाहरागशोफानपोहति|
चन्दननलिनकुमुदनलादादिभिर्वा क्षीरसंस्कृतैः|
तैश्च शिरोवक्त्रप्रलेपपरिषेकाः||२१||
श्वेतलोध्रादिकमाश्च्योतनमाशु शूलादीनपोहति| सुबोधम्| क्षीरसंस्कृतैश्चन्दनादिभिर्वा सेकः| अत्रादिशब्देन शीतवीर्याणामन्येषां ग्रहणम्| तैरिति क्षीरसंस्कृतैश्चन्दनादिभिः शिरोवक्त्रलेपादिकं च||२१||
Adhikarana sirAvyadhaH (22) · Śloka 22
एवमसिद्धौ सिराव्यधः पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णैर्विरेकः||२२||
एवमित्यादि सुबोधम्| सिराव्यधः सूत्रोक्तप्रकारेण| पुनरित्यस्रे हृते तिक्तकाद्यन्यतमघृतपानेन स्निग्धस्य सतस्त्रिफलादिभिर्विरेकः||२२||
Adhikarana rujAghnama~jjanam (23) · Śloka 23
शङ्खमधुकसैन्धवबृहतीमूलत्वचः पयसाजेन पिष्ट्वा ताम्रपात्रं प्रलेपयेत्|
पुनः सप्ताहादेवं अप्तभिः सप्तरात्रैर्गुलिकाः कुर्यात्|
ताः स्तन्यघृष्टाः पित्तामयेष्वञ्जनाद्रुजमपहरन्ति||२३||
शाङ्खादिभिर्गुलिकाः पित्तामयेषु पित्ताभिष्यन्दादिष्वञ्जनाद्रुजमपहरन्ति||२३||
Adhikarana dAharAgaghnama~jjanam (24) · Śloka 24
सुवर्णगैरिकं निशां दिव्यऽम्भसि स्थितमहः शोषयेत् सप्ताहमेवमेव च शुशीतेन मधुरवर्गकषायेण भावयेदेतच्चूर्णाञ्जनं दाहरागघ्नम्||२४||
सुवर्णगैरिकभावनं सुबोधम्| निशामित्यत्यन्तसंयोगे| दिव्याम्भो गङ्गाजलम्| मधुरवर्गः सूत्रोक्तः| एतच्चूर्णाञ्जनं दाहादिघ्नम्||२४||
Adhikarana rasakriyA (25) · Śloka 25
पञ्चाशद्दार्वीपलानि पालिकानि च शारिवामधुककाकोलीद्विनिशामृद्वीकाकाश्मर्यसुनिषण्णकमञ्जिष्ठालोध्रोशीरचन्दनानि जलद्रोणेऽष्टभागावशेषं पचेत्|
परिस्रुतञ्च पुनरादर्वीलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत्|
रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता||२५||
पञ्चाशद् दार्वीपलानीत्यादिना रसक्रिया व्याख्यासमा| पुनरादर्वीलेपात्पचेदिति सम्बन्धः| सर्वाक्षिरोगेषु पित्तजेषु||२५||
Adhikarana tarpaNaM puTapAkaSca (26) · Śloka 26
काश्मर्यस्वरसपिष्टः सारिवाशर्कराकल्को नस्यमिक्षुरसपिष्टं वा यष्ट्याह्वम्|
क्षतशुक्लोक्तं चात्र तर्पणं पुटपाकश्च||२६||
काश्मर्यस्वरसपिष्ट इत्यादि सुबोधम्| काश्मर्यफलस्य रसः काश्मर्यस्वरसः| क्षतशुक्ले मृगविष्किरपिशितमित्यादिनोक्तं तर्पणं कुक्कुटमुद्धृतान्त्रिमित्यादिनोक्तः| पुटपाकश्चात्र पित्ताभिष्यन्देऽधिमन्थे च हितः| इति पित्ताभिष्यन्दे||२६||
Adhikarana SleShmABiShyandAdhimanthacikitsA viDAlakaH (27) · Śloka 27
श्लेष्माभिष्यन्देऽधिमन्थे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि|
शार्ङ्गेष्ठाकुष्ठतगरमुरुङ्गीव्योषैलादारुभिर्विडालकः||२७||
श्लेष्माभिष्यन्दाधिमन्थयोस्त्र्यहोपवासादिकम्| शार्ङ्गेष्ठाभिर्विडालको बहिर्लेपः मुरुङ्गीमधुस्रवा||२७||
Adhikarana AScyotanam (28) · Śloka 28
तिल्वकबृहतीनिदिग्धकालोध्रारग्वधमूलत्वग्भिर्गोमूत्रक्वथितैराश्च्योतनं शोफोपदेहकण्डूघ्नम्||२८||
गोमूत्रक्वथितैस्तिल्वकादिभिराश्च्योतनं शोफादिघ्नम्||२८||
Adhikarana shophAghnAnyAshcyotanAntarANi (29) · Śloka 29
निम्बपत्रकल्कदिग्धं वा लोध्रमङ्गारस्वेदितं चूर्णितं तान्तवावबद्धमुष्णाम्बुमृदितम्|
तद्वदेवाभयामलकोपकुल्यापाटलीबिल्वमूलशुण्ठीक्वाथो वा||२९||
निम्बेत्यादि सुबोधम्| उष्णाम्बुमृदितमाश्च्योतनं शोफादिघ्नमिति सम्बन्धः| अभयादीनां चूर्णानि तद्वदित्युष्णाम्बुमृदितानि च| शेषं सुबोधम् ||२९||
Adhikarana sekaH (30) · Śloka 30
निम्बपटोलजातिपत्रलोध्रद्वयमहौषधैः खण्डशः कल्पितैर्वस्त्रबद्धैः सक्षौद्रैर्गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मशूलघ्नः||३०||
खण्डशः कल्पितैः कृत्तैः क्षौद्रसहितैर्वस्त्रेण बद्धैः गौडे गुडकृतमद्ये सीधाविक्षुकृतमद्ये वा परिप्लुतैर्निम्बपत्रादिभिः सेकः परं श्लेष्मशूलहरः||३०||
Adhikarana svedaH (31) · Śloka 31
रोहिषपूतीककरञ्जकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिम्बपत्रैर्गोमूत्रक्वथितैः स्वेदः||३१||
रोहिषादिभिर्गोमूत्रक्वथितैः स्वेदः पूर्वगुणः| रोहिषः प्लीहघ्नः| आस्फोतः श्वेतार्कः| एकः पत्रशब्दो बिल्वेन द्वितीयो निम्बेन च सम्बध्यते ||३१||
Adhikarana dhUpanaM sirAvyadhAdi ca (32) · Śloka 32
तथापि शोफघर्षानुबन्धे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नाड्याक्षि धूपयेत्|
लघ्वशितं च द्वितीयेऽह्नि प्रातर्व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत्|
ततः सिराव्यधो विरेकश्च||३२||
तथापीत्यादि| शोफघर्षयोरनुबन्धे सति यवादिभिः सघृतैर्नाड्या करणभूतया अक्ष्णोर्धूपनम्| केवलेनैव वा घृतेनाक्षिधूपनम्| मदनं मधूच्छिष्टम्||३२||
Adhikarana a~jjanAni (33) · Śloka 33
बृहतीत्वक्शुण्ठीताम्रकांस्यरजांसि दधिमस्तुना पिष्ट्वा ताम्रपात्रे प्रलेपयेत्|
तथैव च सप्ताहे|
सप्तसप्ताहे च गते वर्त्तयः कार्या|
मरिचहरिद्राभयाञ्जनैर्वा जलपिष्टा वर्त्तिः|
त्रिकटुकत्रिफलाविडङ्गसारहरिद्राभिर्वा|
हरीतकी तुत्थं च समभागं तुत्थादष्टांशेन मरिचमेषा वर्त्तिः कुमारी सर्वश्लेष्माक्षिरोगघ्नी|
विडङ्गचूर्णो वा वारुण्या भावितः शङ्खो बीजपूररएन मधुकं त्रिफलारसेन पृथगैकध्यं वा चूर्णाञ्जनं वा पिण्डो वा पोथकीबहलकफोत्क्लेशाभिष्यन्दानपहरति|
स्वर्णगैरिकसैन्धवमनःशिलालाक्षानतकरञ्जिकासुरशङ्खव्योषतालीसकुष्ठकलिङ्गक- देवदारुनलदजातीमुकुलरसाञ्जनैः सुरामण्डपिष्टैर्वर्त्तिः सर्वश्लेष्माक्षिरोगविकारहरा|
पुष्पकासीसचूर्णं ताम्रसमुद्रे सुरसपत्रस्वरसेन सप्ताहं भावयेत्|
तच्चूर्णाञ्जनं वर्त्मोपचयपक्ष्मशातघ्नम्|
सैन्धवव्योषवराविडङ्गलोध्रप्रपौण्डरीकमधुकतुत्थकतार्क्ष्यशैलताम्रचूर्णैः छागपयःपिष्टैर्मार्कवस्वरसपरिपीतैर्वर्त्तिः काण्डचित्राख्या सर्वाक्षिरोगान् जयति|
कण्ड्वां मनश्शिलासैन्धश्वोतमरिचैर्मातुलुङ्गरसपिष्टैर्वर्त्तिः|
सशोफायां नागरदेवदारुसैन्धवजातिक्षारकैः सुरामण्डपिष्टैः|
नक्तमाललशुनशिग्रुशिग्रुकबीजैर्वा रसक्रिया||३३||
बृहतीत्यादि सुबोधम्| तथैवेति ताम्रपत्रे सप्ताहे बृहत्यादिरुपर्युपरि लेपः| एवं सप्तसप्ताहे सप्तालेपा भवन्ति| सुबोधम्| हरीतकी तुत्थसमा| तुत्थस्याष्टभागेन मरिचम्| एषा वर्त्तिः कुमारी नाम्ना| विडङ्गशङ्खमधुकानि वारुणीबीजपूररसत्रिफलारसैर्भावितानि दोषाद्यपेक्षया प्रत्येकं वा एकध्यं वा चूर्णाञ्जनं वा पिण्डाञ्जनं वा योज्यानि पोथक्यादिके| स्वर्णगैरिकादिभिर्वर्त्तिः स्लेष्माक्षिरोगहरा| करञ्जिका करञ्जः| नलदं मांसी| रसाञ्जनं तार्क्ष्यम्| पुष्पकासीसशष्देन धातुकासीसभ्रान्तिनिवृत्तिः ताम्रसमुद्गं सताम्रपिधानं ताम्रभाजनम्| सैन्धवादिना काण्डचित्राख्या वर्त्तिः| मार्कवस्वरसो भृङ्गरसः तेन परिपीतैर्भावितैः| मनश्शिलादिभिः कण्ड्वां वर्त्तिः| अशोपायां कण्ड्वां नागरादिभिः सुरामण्डपिष्टैर्वर्त्तिः| श्वेतमरिचं शिग्रुबीजम्| तत्रैव नक्तमालादिभी रसक्रिया सूत्रोक्तलक्षणा| शिग्रुशोभाञ्जनं हरीतकं च| शिग्रुकं रक्तशोभाञ्जनम्|| ३३||
Adhikarana tarpaNaM puTapAkaSca (34) · Śloka 34
तर्पणञ्च यकृदाजमगरुप्रियङ्गुनलददेवदारुयुतं पयसि क्वाथयेत्तस्मिन् शीते खजमथिते यन्नवनीतं तदेभिरेवौषधैर्विपक्वम्|
पुटपाकश्च कुष्ठतगरदार्वीसर्वगन्धैराजेन यकृता सह पिष्टैर्मधुघृतयुतैः||३४||
तर्पणं च भवेत्| किमित्याह-यकृदित्यादि| आजं यकृदगर्वादियुतं क्षीरे क्वाथयेत्| तस्मात् क्षीरात् खजमथिताद् यन्नवनीतमुत्पद्यते तदेतैरेवागर्वादिभिर्विपक्वं तर्पणम्| कुष्ठादिभिर्नेत्रे पुटपाकः| इति श्लेष्मणि||३४||
Adhikarana raktajAbhiShyandAdhimanthayoshcikitsA - pittajacikitsAtideshaH (35) · Śloka 35
रक्तजं पुनरभिष्यन्दमधिमन्थं च पित्तवदुपक्रमेत्|
स्तन्येक्षुरसशर्करोदकान्यतमेन वाश्च्योतयेत्|
पुनः पुनश्चास्य रुधिरमवसेचयेत् सिराव्यधेन जलौकोभिश्च|
तीव्रवेदनायां महतीं घृतमात्रां पाययेत्||३५||
रक्तजे पित्तवत्| तथा स्तन्याद्यन्यतममाश्च्योतनम्| अस्येति रक्तेनाभिष्यन्दिनोऽधिमन्थिनो वा| सुबोधम् ||३५||
Adhikarana guTikA~jjanam (36) · Śloka 36
आढकोकुर्यटपाटलीश्रीपर्णीविदुलार्जुनबृहतीचम्पकमालतीमूलानि खर्जूररसपिष्टानि गुटिकाञ्जनम्||३६||
आढकीमूलादिना खर्जूररसपिष्टेन गुटिकाञ्जनम्| तुवरी आढकी| कुर्यटस्तरुणिः| विदुलो वेतसः||३६||
Adhikarana pratya~jjanam (37) · Śloka 37
केशैर्जलाद्रैः कांस्यमुद्घर्षयेत्|
तान् कांस्यमलदिग्धानन्तर्धूमं दग्ध्वा तद् भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे च छागे पञ्चाहं भावयेत्|
एतच्चूर्णं स्रोतोऽजतुल्यं प्रत्यञ्जनम्||३७||
केशैरित्यादि| कांस्यमलदिग्धान् प्रघर्षणात्| तान् मलिनकेशान्| सुबोधम्| स्रोतोजं तत्संज्ञमञ्जनम्||३७||
Adhikarana snehA~jjanam (38) · Śloka 38
कृष्णसर्पं पयसि क्वाथयेत्ततः पूतशीतमथितात् स्नेहमुपोषिताय कृकवाकवे दद्यात्|
तस्य यत्पुरीषं तत्स्नेहाञ्जनम्||३८||
कृष्णसर्पमित्यादि| कृकवाकुः कुक्कुटः| उपोषितः कृतोपवासः||३८||
Adhikarana dRukprasAdanA~jjanam (39) · Śloka 39
कृष्णसर्पमुखमनसर्पिषोः पूर्णैं दर्भवेष्टितं मृदवलिप्तमधोमुखं गोमयेनाग्निना दग्ध्वा ततोऽञ्जनमादाय पत्रनलदनीलोत्पलतुल्यं चूर्णीकृतं परं दृक्प्रसादजननमञ्जनम्||३९||
कृष्णसर्पमुखस्याधोमुखत्वं पच्यमानेऽञ्जने स्नेहविस्रावाय| शेषं सुबोधम्||३९||
Adhikarana nasyam (40) · Śloka 40
घृतमण्डश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धोक्तैः सिद्धो नस्यमिति||४०||
शर्करादिभिर्युक्तः सिद्धो घृतमण्डश्च नस्यम् ||४०||
Adhikarana sAdhAraNopadeSaH (41-19) · Śloka 19
भवति चात्र सर्वेऽक्षिरोगा यत्प्रायो जायन्ते स्यन्दपूर्वकाः|
यतश्च रक्तं सन्दूष्य तानतस्त्वरया जयेत्|
सर्वोर्ध्वजत्रुगस्रोतस्यन्दनात् स्यन्द उच्यते|
तत्स्थानां तद्वदङ्गानामधिमन्थोऽतिमन्थनात्|
वातेऽक्षिसेकस्सैरण्डबृहतीमधुशिग्रुणा|
सिद्धेन पञ्जमूलेन ससितैः पित्तरक्तयोः|
दार्वीलाक्षोत्पलद्राक्षामञ्जिष्ठामधुकद्वयैः|
श्लेष्मणि त्रिफलाशुण्ठीनिम्बलोध्राटरूषकैः|
समस्तैस्सन्निपातोत्थे कुर्यात्स्यन्देऽक्षिसेचनम्|
तुत्थव्योषाभयालोध्रयष्ट्याह्वैःस्ताम्रसंस्थितैः|
धान्याम्लपिष्टैः सेकोऽयं सर्वाभिष्यन्दरुक्प्रणुत्|
तद्वत्तुथाभयालोध्रयष्टीमधुरसाञ्जनैः|
शताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिशूलजित्|
पुष्पाञ्जनसिताक्षौद्रैस्ताम्रसंस्थैस्तिलाम्भसा|
सेचनं हन्ति रुग्रागदाहश्वयथुघर्षणम्|
द्विनिशात्रिफलामुस्तैः प्रमादादुग्धकल्कितैः|
सेकः सशर्कराक्षौद्रैरभिघातरुजापहः|
निषिक्तं तुत्थकं वारान् गोर्जले पञ्चवंशतिम्|
स्तन्ये वा छागदुग्धे वा सद्यः कोपे तदञ्जनम्|
बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः|
पुटान्तैर्बादराग्नीद्धैर्दृगुत्कोपघ्नमञ्जनम्|
बृहत्यैरण्डमूलत्वक् शिग्रुमूलैः ससैन्धवैः|
वर्त्तिराजपयःपिष्टैस्सर्ववाताक्षिरोगजित्|
सुमनः क्षारकाः शङ्खस्त्रिफला मधुकं बला|
पित्तरक्तापहा वर्त्तिः पिष्टा दिव्येन वारिणा|
सैन्धवं त्रिफला व्योषं शङ्खनाभिस्समुद्रजः|
फेनः शैलेयकं सर्जो वर्त्तिः श्लेष्माक्षिरोगजित्|
शङ्खविद्रुमवैडूर्यलोहिताक्षप्लवास्थिभिः|
स्रोतोजश्वेतमरिचैर्वर्त्तिः सर्वाक्षिरोगजित्|
पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम्|
घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया|
शस्ता सर्वाक्षिरोगेषु काचार्मपटलेषु च|
रसाञ्जनं श्रृङ्गवेरमभया तुत्थकं शुभम्|
यथोत्तरं द्विगुणितैस्तैर्वर्त्तिरपराजिता|
ऋते वातादभिष्यन्दात्तिमिराणि कुकूणकम्|
पोथकीपिटकाः पिल्लानर्माणि च नियच्छति|
ताम्रे मस्तु समुद्घृष्टं तुत्थकं श्यावतां गतम्|
सर्वाभिष्यान्दशुक्लार्मसिराजालजिदञ्जनम्|
मरिचवरलवणभागो भागौ द्वौ कर्णसमुद्रफेनाभ्याम्|
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित्|
मरिचामलकजलोद्भव- तुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः|
षण्माक्षिक इति योग- स्तिमिरार्मक्लेदकाचकण्डूघ्नः|
पिप्पलीं सतरोत्पलपत्रा वर्त्तयेत्समधुकां सहरिद्राम्|
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः||४१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे अभिष्यन्दप्रतिषेधो नामैकोनविंशोऽध्यायः||१९||
यद्यस्माद्ये केचनाऽक्षिरोगास्ते सर्वे प्रायः स्यन्दपूर्वका अभिष्यन्दपूर्वका जायन्ते| यतश्च ते स्यन्दा रक्तं क्षिप्रकारि सन्दूष्य जायन्ते अतस्तान् स्यन्दांस्त्वरया जयेत्| स च रोगस्सर्वेषामूर्ध्वजत्रुगतानां स्रोतसां स्यन्दनात् स्रावणात् स्यन्द इत्युच्यते| तद्वदेव तत्स्थानां जत्रूर्ध्वस्थानामङ्गानां मन्थनादधिमन्थ इत्युच्यते| वातेऽधिके स्यन्दाख्येऽक्षिरोगे सिद्धेन क्वथितेन पञ्चमूलेनैरण्डादियुतेनाक्षिसेकः| पित्तरक्तयोः ससितैर्दार्व्यादिभिः परिषेकः| मधुकद्वयं मधुयष्टी मधुकं च| त्रिफलादिभिः श्लेष्मणि सेकः| सन्निपातोत्थे स्यन्दे समस्तैर्वातपित्तकफौषधैः सेचनं कुर्यात्| तुत्थादिभिः सेकः सुबोधः| तत्थाभयादिभिस्तद्वदिति ताम्रस्थितैर्द्धान्याम्लपिष्टैश्च शताह्वाया अर्धांशः समुदायात्| पुष्पाञ्जनादिकं ताम्रस्थं तिलपिष्टोदकयुक्तं सेकेन रुगादीन् हन्ति| पुष्पाञ्जनं रीतिपुष्पम्| द्विवनिशादिसेकः सुबोधः| तुत्थकचूर्णं मूत्रेण वा गोः स्तन्येन वा छागदुग्धेन वा पञ्च-विंशतिवारान् निषिक्तं सद्यः कोपेऽञ्जनं दृगुत्कोपघ्नम्| समैः पुटस्यान्तर्बादरेणाग्निनेद्धैर्दग्धैर्बदरीदलाभिः कृतमञ्जनं दृगुत्कोपघ्नम्| उत्कोपोऽभिष्यन्दः| आजेन पयसा क्षीरेण पिष्टैः सैन्धवसहितैर्बृहत्यादिभिः कृता वर्त्तिः सर्वान् वातजानक्षिरोगान् जयति| सुमनःक्षारकादिभिर्दिव्येन वारिणा पिष्टा वर्त्तिः पित्तरक्तापहा भवति| सुमनःक्षारकाः सुमनःकलिकाः| सैन्धवादिभिः कृता वर्त्तिः श्लेष्माक्षिरोगजित् श्लेष्माभिष्यन्दाधिमन्थादिशमनी| अत्रानुक्तद्रवत्वा पूर्वोक्तेन दिव्याम्बुना पिष्टैरेभिः कृतेत्यर्थः| उभयोर्वाक्ययोर्मध्यस्थं पदं युक्तिवशादुभयत्रापि सम्बध्यते| शङ्खादिभिः श्वेतमरिचाम्न्तैः कृता वर्त्तिः सन्निपाताक्षिरोगजित्| अत्राप्यनुक्तद्रवत्वात् दिव्येन वारिणा पिष्टैरिति बोद्धव्यम्| अस्थिशब्दो लोहिताक्षप्लवाभ्यां सम्बध्यते| लोहिताक्षः सारसविशेषः|प्लवो वाडिम्बः| पिप्पल्यादिना रसक्रिया सर्वाक्षिविकारनाशनी भवति| कृष्णसर्पवसादिभी रसक्रिया सर्वाक्षिरोगादिषु शस्ता प्रशस्ता| कृष्णसर्पो दर्वीकरविशेषः| रसाञ्जनादिभिश्चतुभिर्यथोत्तरं द्विगुणितैरपराजिताख्या वर्त्तिः| रसाञ्जनाद् द्विगुणितं श्रृङ्गवेरम्| ततो द्विगुणा अभया| ततस्तुत्थलमिति यथोत्तरार्थः| एषाऽपराजिताख्या वर्त्तिर्वातवर्जितान् सर्वानभिष्यन्दांस्तिमिरादिकं च नियच्छति नाशयति| मस्तुना ताम्रपात्रे समन्तादुद्घृष्टं तेन चोद्घर्षणेन श्यावतां गतां तुत्थकं सर्वाभिष्यन्दजिदञ्जनम्| मरिचसैन्धवाभ्यामंको भागः| पिप्पलीसमुद्रफेनाभ्यां द्वौ भागौ| नव भागाः सौवीरस्य| एतत् चित्रायां नक्षत्रे चूर्णितं कफामयजिदञ्जनम्| मरिचादिभिः क्रमवृद्धैः षण्माक्षिकनामा योगो नानाप्रयोगस्तिमिरादीन् हन्ति| ताप्यधातुर्वट्टमाक्षिकम्| मरिचस्यैको भागः| आमलकानां द्वौ| फेनस्य त्रयः| तुत्थस्य चत्वारोऽञ्जनस्य पञ्च| ताप्यधातोः षडिति क्रमवृद्धार्थः| पिप्पली तगरादिना सह वर्त्तयेद्वर्त्तित्वमापादयेत्| एतया पिप्पल्या तेन सततमञ्जयितव्यं यो गरुडसमं चक्षुरिच्छतीति|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकोनविंशोऽध्यायः