Adhikarana athAbhiShyandapratishShedho nAmaikonaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातोऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana athAbhiShyandapratishShedho nAmaikonaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातोऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana pUrvarUpAvasthAyAM cikitsA (2) · Śloka 2
अथ खलु सर्वाक्षिरोगाणां पूर्वरूप एव शिरोविरेककवलधूमोपवासानासेवेतान्यत्र मारुतोद्रेकात्||२||
🔊 Audio coming soon
Adhikarana vAtAbhiShyandAdhimanthayoshcikitsA - candanAdibiDAlakaH (3) · Śloka 3
सर्वत्र तु चन्दनमरिचपत्रैलास्वर्णगैरिकतगररसाञ्जनलवणयष्ट्याह्वैर्विडालकं कुर्यात्||३||
🔊 Audio coming soon
Adhikarana biDAlakAntarANi (4) · Śloka 4
तथा दार्वितुत्थहरीतकीभिर्वातपित्ते| कफे तु हरीतकीनागररसाञ्जनस्वर्णगैरिकैः| अपि च कुष्ठमिसिपिप्पलीचन्दनोत्पलैर्विडालको वेदनाघ्नः| मुस्तागरुचन्दनैः क्षौद्रयुतैः शूलदाहरागघ्नः| सैन्धवागरुत्रिजातकत्रिकटुकस्वर्णगैरिककुष्ठतगरशैलेयकैः शूलश्वयथुदाहरागनुत्||४||
🔊 Audio coming soon
Adhikarana netrAvacUrNanAni (5) · Śloka 5
शिग्रुफलमनोह्वाशाबरलोध्रैः क्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतान्तवस्थैर्नयनमवचूर्णयेत्| श्वेतलोध्रत्वचं बहिर्विलिखितां निम्बपत्रकल्केन प्रदिग्धां पुटपाके विपक्वामर्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्णयवकिरेत्| एतदवगुण्ठनं शूलदाहाश्रुश्वयथुकण्डूषापाकक्लेदोपदेहहरम्| तयैव च पोट्टलिकयाऽऽश्च्योतनकालेऽवन्तिसोमाप्लुतयाऽऽश्च्योतयेत्| पूर्ववद्वा लोध्रवल्कलकल्कमुपस्कृतं तन्मात्रमेव मरिचद्वयेन मनश्शिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पाञ्जनैर्युक्तं प्रकल्पयेत्| अपि च- आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलात्थाः| तच्चूर्णं सकृदवचूर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम्||५||
🔊 Audio coming soon
Adhikarana netre AScyotanam (6) · Śloka 6
अथ दारुहरिद्रापलमुदकार्धप्रस्थेनाष्टांशशेषितं क्वथितं माक्षिकयुक्तमाश्च्योतनं कुर्वीत| एवं चानुपशमे वाताभिष्यन्दिनमादावेव जाङ्गलरसैर्भोजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन च पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत्| आश्च्योतनञ्जास्यैरण्डमूलपल्लवैः श्रृतमजाक्षीरं कुर्यात्| सालपर्णीपृश्निपर्णीद्विबृहतीमधुकोरुपूगैर्वा| तद्वत्तगरह्रीबेरशार्ङ्गोष्ठोदुम्बरमधुकपिप्पलीबृहतीद्वयैरण्डमूलैर्वा| अंशुमतीद्वयबृहतीकण्टकारिकाभिर्वा तान्तवावद्धाभिः सुरामद्यधान्याम्लान्यतमाप्लुताभिरानूपमांसाम्लक्वाथेन वा||६||
🔊 Audio coming soon
Adhikarana utkArikAsvedaH (7) · Śloka 7
तैरेव च मांसैर्वेशवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगण्डादीन् स्वेदयेत्||७||
🔊 Audio coming soon
Adhikarana nAvanaM nADIsvedaSca (8) · Śloka 8
अथवा रास्नाभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां वाष्पेण| रास्नादिभिरेव सिद्धं तैलं सर्पिर्वा नावनम्| एवं विधैरेव नाडीस्वेदं कुर्यात्||८||
🔊 Audio coming soon
Adhikarana mukhAlepaH (9) · Śloka 9
सरलसुरभिघनदेवदारुहिंस्राकरञ्जफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैः सुखोष्णैर्मुखालेपोऽक्षिवेदनास्तम्भप्रसादनः||९||
🔊 Audio coming soon
Adhikarana sirAmokShavirekAsthApanAnuvAsanAni (10) · Śloka 10
एवमस्यानुपशान्तरुजः सिरां मोक्षयेत्| स्नेहस्वेदविष्यन्दं हि वातदुष्टमसृङ्निर्ह्रियमाणं नानिलप्रकोपाय| पुनश्च स्निग्धाय तिल्वकेन संस्कृतं संयुक्तं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात्| शुद्धं च वातप्रतिश्यायवदास्थापयेदनुवासयेच्च||१०||
🔊 Audio coming soon
Adhikarana anuvAsanottaracikitsA (11) · Śloka 11
अथ तिलान् निस्तुषान् बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेदेवं पञ्चाहम्| तेभ्यस्तैलं गृहीत्वा वराहमेदोयुक्तं बिल्वमूलमधुयष्टिकाकल्केन पयसा च पचेत्| तेन नस्यं शिरोबस्तिं च कुर्यात्| सर्वगन्धनिर्यूहेण वा मधुकगर्भं सक्षीरं तैलम्| स्नेहिकञ्च धूमं पिबेत्||११||
🔊 Audio coming soon
Adhikarana netratarpaNayogAH (12) · Śloka 12
उपशान्तरुजोऽस्य च तर्पणम्| काश्मर्यमधुककुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत्| तत्तर्पणनस्याभ्यङ्गेषु विदध्यात्| कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्| ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम्| अथवा पञ्चमूलजीवनीयकुक्कुटमांसैः पयो विपचेत्, ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत्||१२||
🔊 Audio coming soon
Adhikarana puTapAkaH (13) · Śloka 13
पुटपाकं च छागोरभ्रवराहाणामन्यतमस्य यकृत्पिप्पलीसैन्धवमधुघृतोपेतं कुर्यात्||१३||
🔊 Audio coming soon
Adhikarana prasAdanA~jjanAni (14) · Śloka 14
अञ्जनं चास्य दृक्प्रसादनार्थम्| कृष्णतिलान् निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च| तच्चूर्णं सितोपलासमं कृत्वा मधुकार्धभागेन सैन्धवांशेन कृष्णसर्पशिरसश्चान्तर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुलिकां कारयेत्| गोधासर्पवासायाजमेदसि च सैन्धवपिप्पलीचूर्णं रसाञ्जनं चावपेत्| एषा मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च| उद्धृतसरेण गव्येन दध्नाऽम्लेन राजतं भाजनमालिम्पेत्| नीलीभूतं च तद्विशुष्कं मस्तुना वर्त्तयः कृताः छायाविशोषिता वाताक्षिरोगं जायन्ति| मागधिकाकण्टकारिकाद्वयमूलत्वङ्मधुकसितासैन्धवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत्| सप्ताहात्सप्ताहादपनीय पुनस्तथैव पिष्ट्वा लेपयेत्| सप्तभिः सप्तरात्रैर्गुलिकाः कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तान्ध्यतापाधिमन्थाभिघातहराः||१४||
🔊 Audio coming soon
Adhikarana pratya~jjanam (15) · Śloka 15
प्रत्यञ्ज्नं चात्र स्फटिक्रशङ्खनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वत्तिः||१५||
🔊 Audio coming soon
Adhikarana atideshenAdhimanthacikitsA (16) · Śloka 16
अयमेव च सर्वो विधिरधिमन्थादिष्वपि प्रयोज्यः||१६||
🔊 Audio coming soon
Adhikarana vAtAdhimanthe cikitsAviSeShaH (17) · Śloka 17
विशेषतस्त्वधिमन्थे सहचरस्फूर्जातकतकबीजबिल्ववृक्षादनीनिर्यूहेण सपयस्कं सर्पिः सिद्धं पिबेत्| सर्पिषानुपशमे तैलं वसां मज्जानं पूर्वोक्तविधिवदव्यत्यासेन कुर्यात्| सर्वथानुपशान्तावुपरि भ्रुवोर्यथोक्तो दाहः||१७||
🔊 Audio coming soon
Adhikarana pittAbhiShyandAdhimanthayoshcikitsA - sarpiHpAnam (18) · Śloka 18
पित्ताभिष्यन्दाधिमन्थयोः शर्करावचूर्णितं सर्पिः पानम्| तिक्तकानान्यतमं वा||१८||
🔊 Audio coming soon
Adhikarana AScyotanam (19) · Śloka 19
प्रपौण्डरीकामलकद्विबृहतीदर्भदशमूलशतावरीतालीसपत्रमञ्जिष्ठानीलोत्पलक्वाथः सितास्तन्येनाश्च्योतनम्| मधुककटङ्कटेरीनिर्यूहो वा| सक्षौद्रश्चन्दनमधुकलोध्रमञ्जिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहहरः||१९||
🔊 Audio coming soon
Adhikarana sekaH (20) · Śloka 20
लोध्रदार्वीमधुकप्रपौण्डरीकान्यापोथ्य नन्तकेन बध्नीयात्| तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः| तेनैव च सशर्करस्त्रीस्तन्ये च्छागदुग्धे वा दाहरागघ्नः||२०||
🔊 Audio coming soon
Adhikarana pariShekAH lepASca (21) · Śloka 21
श्वेतलोध्रं मधुकं च समं घृतेन भर्जयित्वा चूर्णयेत्| ततः पोट्टलिकावबद्धं स्तन्येन तोयेन या मृदितमाशु शूलदाहरागशोफानपोहति| चन्दननलिनकुमुदनलादादिभिर्वा क्षीरसंस्कृतैः| तैश्च शिरोवक्त्रप्रलेपपरिषेकाः||२१||
🔊 Audio coming soon
Adhikarana sirAvyadhaH (22) · Śloka 22
एवमसिद्धौ सिराव्यधः पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णैर्विरेकः||२२||
🔊 Audio coming soon
Adhikarana rujAghnama~jjanam (23) · Śloka 23
शङ्खमधुकसैन्धवबृहतीमूलत्वचः पयसाजेन पिष्ट्वा ताम्रपात्रं प्रलेपयेत्| पुनः सप्ताहादेवं अप्तभिः सप्तरात्रैर्गुलिकाः कुर्यात्| ताः स्तन्यघृष्टाः पित्तामयेष्वञ्जनाद्रुजमपहरन्ति||२३||
🔊 Audio coming soon
Adhikarana dAharAgaghnama~jjanam (24) · Śloka 24
सुवर्णगैरिकं निशां दिव्यऽम्भसि स्थितमहः शोषयेत् सप्ताहमेवमेव च शुशीतेन मधुरवर्गकषायेण भावयेदेतच्चूर्णाञ्जनं दाहरागघ्नम्||२४||
🔊 Audio coming soon
Adhikarana rasakriyA (25) · Śloka 25
पञ्चाशद्दार्वीपलानि पालिकानि च शारिवामधुककाकोलीद्विनिशामृद्वीकाकाश्मर्यसुनिषण्णकमञ्जिष्ठालोध्रोशीरचन्दनानि जलद्रोणेऽष्टभागावशेषं पचेत्| परिस्रुतञ्च पुनरादर्वीलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत्| रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता||२५||
🔊 Audio coming soon
Adhikarana tarpaNaM puTapAkaSca (26) · Śloka 26
काश्मर्यस्वरसपिष्टः सारिवाशर्कराकल्को नस्यमिक्षुरसपिष्टं वा यष्ट्याह्वम्| क्षतशुक्लोक्तं चात्र तर्पणं पुटपाकश्च||२६||
🔊 Audio coming soon
Adhikarana SleShmABiShyandAdhimanthacikitsA viDAlakaH (27) · Śloka 27
श्लेष्माभिष्यन्देऽधिमन्थे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि| शार्ङ्गेष्ठाकुष्ठतगरमुरुङ्गीव्योषैलादारुभिर्विडालकः||२७||
🔊 Audio coming soon
Adhikarana AScyotanam (28) · Śloka 28
तिल्वकबृहतीनिदिग्धकालोध्रारग्वधमूलत्वग्भिर्गोमूत्रक्वथितैराश्च्योतनं शोफोपदेहकण्डूघ्नम्||२८||
🔊 Audio coming soon
Adhikarana shophAghnAnyAshcyotanAntarANi (29) · Śloka 29
निम्बपत्रकल्कदिग्धं वा लोध्रमङ्गारस्वेदितं चूर्णितं तान्तवावबद्धमुष्णाम्बुमृदितम्| तद्वदेवाभयामलकोपकुल्यापाटलीबिल्वमूलशुण्ठीक्वाथो वा||२९||
🔊 Audio coming soon
Adhikarana sekaH (30) · Śloka 30
निम्बपटोलजातिपत्रलोध्रद्वयमहौषधैः खण्डशः कल्पितैर्वस्त्रबद्धैः सक्षौद्रैर्गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मशूलघ्नः||३०||
🔊 Audio coming soon
Adhikarana svedaH (31) · Śloka 31
रोहिषपूतीककरञ्जकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिम्बपत्रैर्गोमूत्रक्वथितैः स्वेदः||३१||
🔊 Audio coming soon
Adhikarana dhUpanaM sirAvyadhAdi ca (32) · Śloka 32
तथापि शोफघर्षानुबन्धे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नाड्याक्षि धूपयेत्| लघ्वशितं च द्वितीयेऽह्नि प्रातर्व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत्| ततः सिराव्यधो विरेकश्च||३२||
🔊 Audio coming soon
Adhikarana a~jjanAni (33) · Śloka 33
बृहतीत्वक्शुण्ठीताम्रकांस्यरजांसि दधिमस्तुना पिष्ट्वा ताम्रपात्रे प्रलेपयेत्| तथैव च सप्ताहे| सप्तसप्ताहे च गते वर्त्तयः कार्या| मरिचहरिद्राभयाञ्जनैर्वा जलपिष्टा वर्त्तिः| त्रिकटुकत्रिफलाविडङ्गसारहरिद्राभिर्वा| हरीतकी तुत्थं च समभागं तुत्थादष्टांशेन मरिचमेषा वर्त्तिः कुमारी सर्वश्लेष्माक्षिरोगघ्नी| विडङ्गचूर्णो वा वारुण्या भावितः शङ्खो बीजपूररएन मधुकं त्रिफलारसेन पृथगैकध्यं वा चूर्णाञ्जनं वा पिण्डो वा पोथकीबहलकफोत्क्लेशाभिष्यन्दानपहरति| स्वर्णगैरिकसैन्धवमनःशिलालाक्षानतकरञ्जिकासुरशङ्खव्योषतालीसकुष्ठकलिङ्गक- देवदारुनलदजातीमुकुलरसाञ्जनैः सुरामण्डपिष्टैर्वर्त्तिः सर्वश्लेष्माक्षिरोगविकारहरा| पुष्पकासीसचूर्णं ताम्रसमुद्रे सुरसपत्रस्वरसेन सप्ताहं भावयेत्| तच्चूर्णाञ्जनं वर्त्मोपचयपक्ष्मशातघ्नम्| सैन्धवव्योषवराविडङ्गलोध्रप्रपौण्डरीकमधुकतुत्थकतार्क्ष्यशैलताम्रचूर्णैः छागपयःपिष्टैर्मार्कवस्वरसपरिपीतैर्वर्त्तिः काण्डचित्राख्या सर्वाक्षिरोगान् जयति| कण्ड्वां मनश्शिलासैन्धश्वोतमरिचैर्मातुलुङ्गरसपिष्टैर्वर्त्तिः| सशोफायां नागरदेवदारुसैन्धवजातिक्षारकैः सुरामण्डपिष्टैः| नक्तमाललशुनशिग्रुशिग्रुकबीजैर्वा रसक्रिया||३३||
🔊 Audio coming soon
Adhikarana tarpaNaM puTapAkaSca (34) · Śloka 34
तर्पणञ्च यकृदाजमगरुप्रियङ्गुनलददेवदारुयुतं पयसि क्वाथयेत्तस्मिन् शीते खजमथिते यन्नवनीतं तदेभिरेवौषधैर्विपक्वम्| पुटपाकश्च कुष्ठतगरदार्वीसर्वगन्धैराजेन यकृता सह पिष्टैर्मधुघृतयुतैः||३४||
🔊 Audio coming soon
Adhikarana raktajAbhiShyandAdhimanthayoshcikitsA - pittajacikitsAtideshaH (35) · Śloka 35
रक्तजं पुनरभिष्यन्दमधिमन्थं च पित्तवदुपक्रमेत्| स्तन्येक्षुरसशर्करोदकान्यतमेन वाश्च्योतयेत्| पुनः पुनश्चास्य रुधिरमवसेचयेत् सिराव्यधेन जलौकोभिश्च| तीव्रवेदनायां महतीं घृतमात्रां पाययेत्||३५||
🔊 Audio coming soon
Adhikarana guTikA~jjanam (36) · Śloka 36
आढकोकुर्यटपाटलीश्रीपर्णीविदुलार्जुनबृहतीचम्पकमालतीमूलानि खर्जूररसपिष्टानि गुटिकाञ्जनम्||३६||
🔊 Audio coming soon
Adhikarana pratya~jjanam (37) · Śloka 37
केशैर्जलाद्रैः कांस्यमुद्घर्षयेत्| तान् कांस्यमलदिग्धानन्तर्धूमं दग्ध्वा तद् भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे च छागे पञ्चाहं भावयेत्| एतच्चूर्णं स्रोतोऽजतुल्यं प्रत्यञ्जनम्||३७||
🔊 Audio coming soon
Adhikarana snehA~jjanam (38) · Śloka 38
कृष्णसर्पं पयसि क्वाथयेत्ततः पूतशीतमथितात् स्नेहमुपोषिताय कृकवाकवे दद्यात्| तस्य यत्पुरीषं तत्स्नेहाञ्जनम्||३८||
🔊 Audio coming soon
Adhikarana dRukprasAdanA~jjanam (39) · Śloka 39
कृष्णसर्पमुखमनसर्पिषोः पूर्णैं दर्भवेष्टितं मृदवलिप्तमधोमुखं गोमयेनाग्निना दग्ध्वा ततोऽञ्जनमादाय पत्रनलदनीलोत्पलतुल्यं चूर्णीकृतं परं दृक्प्रसादजननमञ्जनम्||३९||
🔊 Audio coming soon
Adhikarana nasyam (40) · Śloka 40
घृतमण्डश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धोक्तैः सिद्धो नस्यमिति||४०||
🔊 Audio coming soon
Adhikarana sAdhAraNopadeSaH (41-19) · Śloka 19
भवति चात्र सर्वेऽक्षिरोगा यत्प्रायो जायन्ते स्यन्दपूर्वकाः| यतश्च रक्तं सन्दूष्य तानतस्त्वरया जयेत्| सर्वोर्ध्वजत्रुगस्रोतस्यन्दनात् स्यन्द उच्यते| तत्स्थानां तद्वदङ्गानामधिमन्थोऽतिमन्थनात्| वातेऽक्षिसेकस्सैरण्डबृहतीमधुशिग्रुणा| सिद्धेन पञ्जमूलेन ससितैः पित्तरक्तयोः| दार्वीलाक्षोत्पलद्राक्षामञ्जिष्ठामधुकद्वयैः| श्लेष्मणि त्रिफलाशुण्ठीनिम्बलोध्राटरूषकैः| समस्तैस्सन्निपातोत्थे कुर्यात्स्यन्देऽक्षिसेचनम्| तुत्थव्योषाभयालोध्रयष्ट्याह्वैःस्ताम्रसंस्थितैः| धान्याम्लपिष्टैः सेकोऽयं सर्वाभिष्यन्दरुक्प्रणुत्| तद्वत्तुथाभयालोध्रयष्टीमधुरसाञ्जनैः| शताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिशूलजित्| पुष्पाञ्जनसिताक्षौद्रैस्ताम्रसंस्थैस्तिलाम्भसा| सेचनं हन्ति रुग्रागदाहश्वयथुघर्षणम्| द्विनिशात्रिफलामुस्तैः प्रमादादुग्धकल्कितैः| सेकः सशर्कराक्षौद्रैरभिघातरुजापहः| निषिक्तं तुत्थकं वारान् गोर्जले पञ्चवंशतिम्| स्तन्ये वा छागदुग्धे वा सद्यः कोपे तदञ्जनम्| बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः| पुटान्तैर्बादराग्नीद्धैर्दृगुत्कोपघ्नमञ्जनम्| बृहत्यैरण्डमूलत्वक् शिग्रुमूलैः ससैन्धवैः| वर्त्तिराजपयःपिष्टैस्सर्ववाताक्षिरोगजित्| सुमनः क्षारकाः शङ्खस्त्रिफला मधुकं बला| पित्तरक्तापहा वर्त्तिः पिष्टा दिव्येन वारिणा| सैन्धवं त्रिफला व्योषं शङ्खनाभिस्समुद्रजः| फेनः शैलेयकं सर्जो वर्त्तिः श्लेष्माक्षिरोगजित्| शङ्खविद्रुमवैडूर्यलोहिताक्षप्लवास्थिभिः| स्रोतोजश्वेतमरिचैर्वर्त्तिः सर्वाक्षिरोगजित्| पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम्| घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया| शस्ता सर्वाक्षिरोगेषु काचार्मपटलेषु च| रसाञ्जनं श्रृङ्गवेरमभया तुत्थकं शुभम्| यथोत्तरं द्विगुणितैस्तैर्वर्त्तिरपराजिता| ऋते वातादभिष्यन्दात्तिमिराणि कुकूणकम्| पोथकीपिटकाः पिल्लानर्माणि च नियच्छति| ताम्रे मस्तु समुद्घृष्टं तुत्थकं श्यावतां गतम्| सर्वाभिष्यान्दशुक्लार्मसिराजालजिदञ्जनम्| मरिचवरलवणभागो भागौ द्वौ कर्णसमुद्रफेनाभ्याम्| सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित्| मरिचामलकजलोद्भव- तुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः| षण्माक्षिक इति योग- स्तिमिरार्मक्लेदकाचकण्डूघ्नः| पिप्पलीं सतरोत्पलपत्रा वर्त्तयेत्समधुकां सहरिद्राम्| एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः||४१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे अभिष्यन्दप्रतिषेधो नामैकोनविंशोऽध्यायः||१९||
🔊 Audio coming soon