Adhikarana athAkShipAkapillapratiShedho nAma viMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथात अक्षिपाकपिल्लप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अभिष्यन्दस्य तदेकयोगक्षेमस्य चाधिमन्थस्य चिकित्सामुक्त्वा अक्षिपाकानां पिल्लानां च साधनं प्रदर्शयितुमध्याय आरम्भ्यते-अथात इत्यादि| पिल्ला उक्तेभ्यः एव वर्त्मादिरोगेभ्यः केचित्| ते चेहैव वक्ष्यन्ते||१||
Adhikarana shuShkAkShipAkacikitsA (2) · Śloka 2
शुष्काक्षिपाके वाताभिष्यन्दविहितं सर्पिः पिबेत्|
कुलीररसक्षीरसिद्धं वा|
दार्वीप्रपौण्डरीकयोः क्वाथ आश्च्योतनमक्षिपाकघ्नम्|
मञ्जिष्ठामधुक्कालानुसारीसारिवालोध्रलाक्षाप्रपौण्डरीकाणामक्षिपाकरक्तराजीघ्नम्|
मृद्वीकाचन्दनकल्कस्तण्डुलाम्बुपरिस्रुतो मधुमानश्रुदाहहरः|
अणुतैलं नस्यम्|
शारिवाविदारीबलामधुकोत्पलद्राक्षाटरूषकजीवकचन्दनैर्जाङ्गलरसक्षीरोपेतं तैलं साधितं नावनात् सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् निहन्ति|
स्निग्धाश्चात्र तर्पणपुटपाकाः|
वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यन्दविधिः|
आदर्शमण्डले घृताक्तकेशान् घृष्ट्वान्तर्धूमं दहेत्सा मषीघृतपिष्टाऽयसभाजनस्थिताऽक्षिपाकमञ्जनादपहरति|
मञ्जिष्ठाफलत्रिककटङ्कटेरीनिष्क्वाथे लोहस्रोतोऽञ्जनचूर्णमापिण्डीभावात् पचेत्|
एतच्चूर्णाञ्जनमभयं दाहोषाकरागाश्रुहरम्|
ताम्ररजस्सैर्यकपुष्पपुण्ड्राह्वमधुककालानुसारीशारिवाः छागेन पयसा पिष्टाः पिण्डाञ्जनम्|
आनूपवसा शुण्ठीसैन्धवचूर्णान्विता स्नेहाञ्जनम्|
एवमप्यशान्तौ मधुकसिद्धः शताह्वाचूर्णयुक्तो घृतमण्डस्तथा पयो वा बस्तिः||२||
वाताभिष्यन्दविहितं सर्पिर्दशमूलादिकं कुलीरमांसरसक्षीराभ्यां सिद्धं वा सर्पिः पिबेत्| दार्व्यादि सुबोधम्| मञ्जिष्ठादीनां क्वाथ आश्च्योतनमिति सम्बध्यते| कालानुसारी कालेयकः| कारण्डक आम्लायनः| सुबोधम्| अणुतैलं नस्यविध्युक्तम्| शारिवादितैलं नावनाद्वातपित्ताधिकान् सर्वानूर्ध्वजत्रुजान् गदान् निहन्ति नाशयति| अत्रेत्यक्षिपाके वातपित्तयोरन्यतरस्योद्रेकाद्धेतोर्यथास्वमुद्रिक्तदोषानतिक्रमेणाभिष्यन्दोक्तो विधिः| आदर्शमण्डले मलिनितकेशमप्यञ्जनम्| सुबोधम्| मञ्जिष्ठादिक्वाथपक्वगुलिका चूर्णीकृताञ्जनं नाम्नाभयं दाहादिहरम्| ताम्रचूर्णादिकं पिण्डाञ्जनं सुबोधम्| सैर्यकस्य सहचरस्य पुष्पमाम्लायनस्येति केचित्| आनूपवसेत्यादि सुबोधम्| तथा पय इति घृतमण्डवन्मधुकसिद्धं शताह्वाचूर्णयुक्तं च||२||
Adhikarana saSoPAlpaSoPayoScikitsA (3) · Śloka 3
सशोफाल्पशोफयोस्तु स्निग्धस्विन्नस्यानु सिरां विध्येत्|
द्राक्षाभयाक्वाथस्त्रिवृत्कल्कवान् सघृतो विरेकः|
विरिक्तस्य यथादोषोदयमास्थापनम्|
ततः पिण्डस्विन्नशिरसः सर्षपतैलेन सैन्धवयुतेन वा सर्पिषा फणिज्जकयुक्तेन वा अणुतैलेन शिरोविरेकः विरिक्तशिरसोऽनुवासनं क्षीरसर्पिषा धूमपानं च|
शिरोनेत्रं चास्य सुनिषण्णकपत्तूरैरण्डपत्रैः क्षीरांबुस्विन्नैः संस्वेदयेत्|
घृतभृष्टं लोध्रचूर्णं सूक्ष्मवासस्थमुष्णोदकविमृदितमाश्च्योतनम्|
शुष्काक्षिपाकोक्तं च वेदनाघ्नम्||३||
सशोफाख्येऽल्पशोफाख्ये च स्निग्धस्विन्नस्य सतः सिरां विध्येत्| द्राक्षाहरीतकीक्वाथेन त्रिवृत्कल्कघृतयुक्तेन विरिक्तस्य दोषोदयानतिक्रमेणास्थापनम्| तत इत्यास्थापनादनन्तरं पिण्डस्वेदः सूत्रोक्तसेन स्विन्नशिरसः सर्षपतैलेन शिरोविरेकः सर्पिषा वा सैन्धवयुतेनाणुतैलेन वा फणिज्जकचूर्णयुतेन| फणिज्जको मरुवकः| ततः क्षीरसर्पिषाऽनुवासनम्| धूमपानं दोषाद्यपेक्षम्| अस्य चाक्षिपाकवतः शिरोनेत्रं च सुनिषण्णकादिपत्रैः क्षीराम्बुस्विन्नैः स्वेदयेत्| सुनिषण्णकनामानूपे भवति| काश्मीरेषु सुल्येति प्रसिद्धः| पत्तूरो जले भवति नाम्ना मत्स्याक्षकः| घृतभृष्टमित्यादिनाश्च्योतनं सुबोधम्| शुष्काक्षिपाकोक्तं वेदनाघ्नमाश्च्योतनमिति सम्बध्यते| तच्च लोध्रकोरण्डपुष्पकृतः क्वाथः|| ३||
Adhikarana tatra sandhAvAH (4) · Śloka 4
एवमशान्तवेदनं सन्धावैरुपक्रमेत्|
शशशिरःकपालं सैन्धवं कांस्ये स्तन्यघृष्टं सन्धावो वेदनाघ्नः|
तद्वत्ताम्रं च लोहे गोमूत्रघृष्टं घृतधूपितम्|
शिग्रुपल्लवरसश्च ताम्रघृष्टो घृतधूपितः|
शङ्खताम्रे स्तन्येन घृष्टं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नम्|
उदुम्बरफलं लोहे स्तन्यघृष्टं घृताभ्यक्तशमीपत्रधूपितं शूलरागाश्रुघर्षघ्नम्|
दधिसरःपिप्पलीसैन्धवयुक्तस्ताम्रे घृष्टश्शोफघर्षाश्रुवेदनाघ्नः|
मृत्कपालं कांस्ये तिलोदकघृष्टं घृताक्तनिम्बपत्र-धूपितं शोफकण्डूघर्षाश्रुशूलरागघ्नम्|
सन्धावाञ्जितं चाक्षि स्तन्येनानुसिञ्चेत्|
त्रिपरञ्च तैर्न्नाञ्जयेत्||४||
सन्धावैरित्यनन्तरं वक्ष्यमाणैः सन्धावनामभिरञ्जनैश्चोपक्रमेत| शशस्य शिरःकपालं सैन्धवेन सह कांस्यपात्रे स्तन्येन घृष्टं वेदनाघ्नं सन्धावः| लोहपात्रे गोमूत्रघृष्टं ताम्रं घृतधूपितं सन्धावः| शिग्रुपल्लवरसस्ताम्रघृष्टो घृतधूपितश्च सन्धावः| तद्वल्लोहपात्रे घ्रुष्टं ताम्रं घृतधूपितं सन्धावः| उदुम्बरफलमित्यादिना शूलादिघ्नस्सन्धावः| दधिसरादिकः सन्धावः शोफादिहरः| मृन्मयं पक्वकपालं कांस्यभाजने तिलोदकेन घृष्टं घृताक्तनिम्बपत्रधूपितं शोफादिघ्नः सन्धावः| एभ्योऽन्यतमेन सन्धावेनाञ्जितमक्षि स्तन्येन सिञ्चेत्| तैरिति सन्धावैः त्रिस्त्रिभ्यो वारेभ्यः परमूर्ध्वं नेत्रं नाञ्जयेत्|| ४||
Adhikarana athA~jjanAni (5) · Śloka 5
मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानि शम्यामलकपत्रैर्घृताप्लुतैः अनेकशो धूपितानि पिण्डाञ्जनं शोफवेदनाघ्नम्|
तालीसपत्रपिप्पलीलोहरजोऽञ्जनकासीसतगरजातीमुकुलसैन्धवैर्गोमूत्रपिष्टैस्ताम्रमालिप्तं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेव पिष्टैर्गुटिकाः कार्यास्ताः स्तन्यघृष्टाः स्तम्भश्वयथुहर्षघर्षाश्रुकण्डूघ्न्यः|
अबद्धास्थिसहकारमांसं विगतत्वचं समताम्रचूर्णमीषत्सैन्धवोपेतं गव्येन दध्ना पिष्ट्वा ताम्रमालेपयेत्|
शुष्कं शुष्कं तथैव च पिष्ट्वा पुनर्लेपयेत्|
एतत्सप्तभिः सप्ताहैः पिण्डाञ्जनं कृतं सर्वाक्षिकाश्रुघर्षशोफरागवर्त्मोपचयघ्नम्|
अश्मन्तकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रिया सशोफाल्पशोफपूयालसान् नाशयति|
इत्थमपि शोफानुवृत्तौ पुनरस्रावसेकः शिरोविरेकश्च||५||
अथानन्तरमञ्जनानि भवन्ति| मधुकादिना पिण्डाञ्जनं शोफादिघ्नं भवति| तालीसपत्रादिना गुटिकाः स्तम्भादिघ्न्यः तद्वदेवेति गोमूत्रेण| अञ्जनकाले स्तन्येन गुपिकोद्घर्षणम्| सहकारमाम्रफलमबद्धास्थ्यतिबालम्| तस्य सहकारस्य मांसं त्वचोऽन्तर्भागम्| सप्ताहेन सप्ताहेनोपर्युपरि लेपः| अश्मन्तकादिना रसक्रिया| अश्मन्तक इन्द्रकः| सुबोधम्|| ५||
Adhikarana amloShitacikitsA (6) · Śloka 6
अम्लोषितं पित्ताभिष्यन्दवदुपाचरेत्|
पिल्ललसाधनं चेक्षेत||६||
अम्लोषिते पित्ताभिष्यन्दवदुपचारः| पिल्लसाधनं चात्रैव वक्ष्यमाणमीक्षेताम्लोषितोपचारणाय| इत्युक्ता अक्षिपाकाः||६||
Adhikarana pillarogANAM sa~gkhyAnam (7) · Śloka 7
पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाक्यकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकाल्पशोफाम्लोषिता वातवर्ज्याश्च स्यन्दाधिमन्था इत्यष्टादश दीर्घकालानुबन्धिनो रोगाः पिल्लसंज्ञाः||७||
पित्तोत्क्लिष्टवर्त्म, कफोत्क्लिष्टवर्त्म, रक्तोत्क्लिष्टवर्त्म, निचयोत्क्लिष्टवर्त्म, पोथकीबिसाख्यो बिसवर्त्म, कुकूणकः, पक्ष्मोपरोधः, पूयालसः, शुष्काक्षिपाकः, अल्पशोफः, अम्लोषितः, वातवर्ज्याः स्यन्दाश्चाधिमन्थाश्च पित्तस्यन्दः, कफस्यन्दः, रक्तस्यन्दः, पिताधिमन्थः कफाधिमन्थः, रक्ताधिमन्थश्च इत्यष्टादश रोगा दीर्घकालानुवर्त्तिनः सन्तः पिल्लसंज्ञां लभन्ते||७||
Adhikarana pillAnAM pratyekaSaH cikitsA (8) · Śloka 8
एषां क्रिया यथास्वमुपदिष्टैव पुनश्च पिल्ली भूतानां सामान्येनोपदिश्यते||८||
एषां पिल्लसंज्ञितानां पित्तोत्क्लिष्टवर्त्मादीनां क्रिया चिकित्सा यथास्वमध्यायेषूक्तैव||८||
Adhikarana pillasAmAnyacikitsA (9) · Śloka 9
अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत्|
कृतक्रमस्य सिराव्यधस्ततो विरेकः|
कृतविरेकस्य वर्त्मनी लिखेत्|
सकृल्लेखनादशुद्धौ पुनर्लेखयेज्जलौकोभिश्च ग्राहयेत्|
प्रियङ्गुलोध्रपद्मकेसरचन्दनमधुककल्केन समाक्षिकेण बिडालकः|
तुवरिकाफलत्रिकरोचनाक्वाथेन मधुमता सायं प्रातः सदा प्रक्षालनमञ्जनान्ते च कषायवृक्षपल्लवकषायेण|
तैरेव च पत्रैरुष्णप्रियतायाम्न्तरान्तरा स्वेदः|
तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्लपिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्षाणामपि पिल्लानां परममाश्च्योतनम्|
अञ्जनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन च वर्त्तिः|
हरीतक्याढकीश्चाष्टगुणेऽम्भस्यष्टभागावशेषं क्वाथयेत्|
पुनश्च परिस्राव्यादर्वीप्रलोपाद्रसक्रियेयं पिल्लाक्षिरोपणी|
पलाशशाखास्वरसे क्वाथ्यमाने बृहत्युशीररजो दद्यात्|
तद् घनीभूतं शीतमञ्जनम्|
सुरसारसपिष्टैर्वा वचालदेवदारुभिः|
गोपित्तपिष्टाभ्यां वा व्योषरसाञ्जनाभ्याम्|
हरितालसौवीरकाञ्जनसमांशं वा ताम्रचूर्णमञ्जनम्|
परिपेलवकासीसहरिद्राद्वयसर्षपप्रियङ्गुतगरपिप्पलीकल्केन ताम्रभाजनमन्तर्लेपयित्वा सौवीरककुम्भेऽधोमुखं सप्ताहं वासयेत् ततो गुटिकाश्चूर्णं वा कुर्यात्|
तुत्थगैरिकचूर्णं छगलीपयःपिष्टं गुटिका प्रत्यञ्जनम्|
चूर्ण एव वा दिव्योदकभावितः|
स एव वा तदाप्लुतो नेत्राश्च्योतनमिति|
भवति चात्र- वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्|
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्||९||
पिल्लीभूतानां तु दीर्घकालानुवर्त्तिनां सामान्येन क्रिया साधारणी चिकित्सोच्यते| अथेत्यादि सुबोधम्| वमनादनुकृतक्रमस्य विहितपेयादिक्रमस्य सिराव्यधः| प्रियङ्ग्वादिना बिडालको बहिर्लेपः| तुवरिकादिक्वाथेन माक्षिकवता सायं प्रातश्च प्रक्षालनम्| अञ्जनान्ते च कषायवृक्षाणामनन्तरोक्तानां तुवरिकादीनां पल्लवकषायेण प्रक्षालनम्| उष्णप्रियतायामुष्णाभिलाषे तैरेव कषायवृक्षपत्रैरन्तरान्तरा कदाचित् स्वेदः| तुत्थकपालमित्यादि सुबोधम्| तत्पलैरिति धान्याम्लपलैः| अस्य च पिल्लाक्षिरोगिण आम्रादिकल्केन वर्त्तिरञ्जनम्| हरीतक्यादिना रसक्रिया सुबोधा| पलाशेत्यादिना लोहोऽञ्जनम्| वचादिभिः, सुरसाया रसेन पिष्टैरञ्जनम्| सुरसा पूर्वा| गोः पित्तेन पिष्टाभ्यां व्योषरसाञ्जनाभ्यां वाञ्जनम्| हरितालादिकं भागस्ताम्रं भाग इति चूर्णाञ्जनम्| परिपेलवादिना गुटिकाथवा चूर्णाञ्जनम्| सौवीरकं सतुषयवजातं काञ्जिकम्| तुत्थादिकं प्रत्यञ्जनम्| अथवैष तुत्थगैरिकयोश्चूर्णो दिव्योदकभावितोऽञ्जनम्| स एव वा दिव्योदकभावितुत्थादिचूर्णो दिव्योदकेनाप्लुत आश्च्योतनम्| बहुशो वर्त्मावलेखादिकं पिल्लरोगेणातुरो भजेत्||९||
Adhikarana pUyAlase viSeShaH (10) · Śloka 10
पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया||१०||
पूयालसे तु पिल्लीभूते अशान्ते सर्वक्रियाणामन्तेऽवसाने शलाकया दाहो विधेयः||१०||
Adhikarana netrarogANAmuktAnAM sa~gkhyAnam (11) · Śloka 11
चतुर्नवतिरित्यक्ष्णोर्हेतुलक्षणसाधनैः|
परस्परमसङ्कीर्णाः कार्त्स्न्येन गदिता गदा||११||
इत्यनन्तरोक्तैरध्यायैरक्ष्णोर्गदाश्चतुर्नवतिः परस्परमसङ्कीर्णाः हेत्वादिभिः कार्त्स्न्येन निश्शेषतया गदिता उक्ताः| ते च कृच्छ्रोन्मील, निमेष, वातहत, कुम्भीका, पित्तोत्क्लिष्ट, पक्ष्मशात, पोथकी, कफोत्क्लिष्ट, लगण, उत्सङ्ग, रक्तोत्क्लिष्टा, अर्शो, अञ्जननामिका, बिसवर्त्म, उत्क्लिष्टवर्त्म, श्याववर्त्म, श्लिष्टवर्त्म, सिकतावर्त्म, कर्दम, बहल, कुकूणक, पक्ष्मोपरोध, अलजी, अर्बुद, जलास्रव, कफास्रव, उपनाह, रक्तास्रव, पर्वणी, पूयालस, अलजी, कृमिग्रन्थि, शुक्तिका, शुक्लार्म, बलासग्रथित, पिष्टक, सिरोत्पात, सिराहर्ष, सिराजात, शोणितार्म, अर्जुन, प्रस्तार्यर्म, स्नावार्म, अधिमांसार्म, सिरासंस, क्षतशुल्क, शुद्धशुल्क, अजका, सिराशुल्क, तीव्रवेदन, वाततिमिर, वातकाच, वातलिङ्गनाश, पित्ततिमिर, पित्तकाच, पित्तलिङ्गनाश, गम्भीरा, ह्रस्वा, पित्तविदग्धा, कफतिमिर, कफकाच, कफलिङ्गनाश, रक्ततिमिर, रक्तकाच, रक्तलिङ्गनाश, संसर्गतिमिर, संसर्गकाच, संसर्गलिङ्गनाश, सन्निपाततिमिर, सन्निपातकाच, सन्निपातलिङ्गनाश, नकुलान्ध, दोषान्ध, ऊष्णविदग्धा, अम्लविदग्धा, धूमर, अपसर्गिकलिङ्गनाश, वाताभिष्यन्द, वाताधिमन्थ, हताधिमन्थ, अन्यतोवात, वातपर्यय, पित्ताभिष्यन्द, पित्ताधिमन्थ, कफभिष्यन्द, कफाधिमन्थ, रक्ताभिष्यन्द, रक्ताधिमन्थ, शुष्काक्षिपाक, सशोफ, अल्पशोफ, अक्षिपाक, अत्यय, अम्लोषिता इत्यख्याभिरुक्ताः|| ११||
Adhikarana svasthe~api pathyApathyanirdeSaH (12) · Śloka 12
सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः|
पुराणयवगोधूमशालिषष्टिककोद्रवान्|
मुद्गादीन् कफपित्तघ्नान् भूरिसर्पिः परिप्लुतान्|
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्|
सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्|
आतपत्रं पदत्राणं विधिवद्दोषशोधनम्|
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च|
क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्|
विदाहविष्टम्भकरं यच्चेहाहारभेषजम्||१२||
यस्तु नयनप्रियः स सर्वदा षट्स्वप्यृतुषु स्वस्थोप्यपिशब्दादक्षिरोगवानपि पुराणयवादिकं सेवेत| एवंविधं च शाकं कफपित्तघ्नं भूरिसर्पिः परिप्लुतं च सेवेत| वेगसंरोधादिकं वर्जयेत्| यच्चेहादिकं विदाहकरं विष्टम्भकरं च तदपि वर्ज्जयेत्||१२||
Adhikarana pAdaSirayornetrasambandhaH (13-20) · Śloka 20
द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे|
ता भ्रङ्क्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान्नयनं नयन्ति|
मलोष्णसङ्घट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः|
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि||१३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे अक्षिपाकपिल्लप्रतिषेधो नाम विंशोऽध्यायः||२०||
प्रत्येकं पादमध्ये द्वे सिरे पृथुसन्निवेशे विस्तीर्णरूपे न तु वर्तुले ये सिरे ते नेत्रे बहुधा गते| ताः पादयोश्चतस्रः सिराः पादप्रयुक्तान् भ्रङ्क्षणादीन् नेत्रं नयन्ति| भ्रङ्क्षणामभ्यङ्गः| ताश्च मलादिभिर्दुष्टा नयनानि सर्वेषां दूषयन्ति| यत एवमतो हेतोरुपानदादीनि दृष्टिहितानि सदा भजेत्| उपनाहौ पादुके| धावनं प्रक्षालनम्|| १३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे विंशोऽध्यायः