Adhikarana atha bAlopacaraNIyo nAma prathamo~adhyAyaH - avataraNikA · Śloka
एवं पञ्चभिः स्थानैस्तन्त्रस्य प्रधानमङ्गकायाख्यं शेषाङ्गव्यापि निर्णीतम्| बालादीनां तु सप्तानां स्तोकव्यक्तशेषत्वात्सर्वेषामेव निर्णयं कर्तुमुत्तराख्यं षष्ठं स्थानमारभ्यते| तत्रापि बाले कायतस्तोकमन्तरं यातोऽतः प्रथममेव बालचिकित्सा वक्तव्या| तत्र प्रथमं बालस्य रोगोद्भवप्रतिषेधोपायप्रदर्शनार्थमध्याय आरभ्यते| ततोऽरक्षया जातानां रोगाणां प्रतीकारदर्नायैव द्वितीयोऽध्यायः|
Adhikarana pratij~jA (1) · Śloka 1
अथातो बालोपचरणीयनामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अथेत्यादि पूर्ववद्व्याख्येयमिति हेत्यादि च| बालोपचरणमधिकृत्य कृतोऽध्यायो बालोपचरणीयः, तं व्याख्यास्यामः|| १||
Adhikarana ulbAdvishodhanam (2) · Śloka 2
अथ खलु जातमात्रमेव बालमुल्बात् सैन्धवसर्पिषा मार्जयेत्||२||
अथेत्यानन्तर्ये| 'खलु' शब्द इदानीमर्थे| जातमात्रं तत्काल एव बालमुल्बात् वेष्टितो जायते येन गर्भः स उल्बस्तस्मात् सैन्धवयुक्तेन सर्पिषा मार्जयेच्छोधयेत्||२||
Adhikarana prANapratyAnayanam (3) · Śloka 3
ततोऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य क्रोशितुमपि रुजानुरूपसमर्थस्यानवस्थिताशेषदेहधातोरसम्भाव्य यौवनाद्यवस्थस्य क्रकचस्पर्शमिव करवसनशयनसंसर्गमन्यमानस्याविकल्पितमङ्गानि विक्षिप्तः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसम्बाधयोनिपुटावपीडितप्राणप्रत्यानयनाय बलातैलेन परिषेकं कुर्यात्|
कर्ण मूले चाश्मनोः सङ्घट्टनम्||३||
ततोऽनन्तरमस्य बालस्यातिसम्बाधेनातिसङ्कटेन योनिपुटेन प्रसूतिकालेऽवपीडितानां प्राणानां प्रत्यानयनाय बलातैलेन शरीरोक्तेन परिषेकं कुर्यात्| किम्भूतस्येत्याह-अतिप्रबलेत्यादि| अतिप्रबलेन मोहज्वरेण परीतानि समन्ताद्व्याप्तानि सर्वगात्राणि यस्य| जन्ममरणयोर्हि मोहज्वरावेशः प्रागुक्तः| तथा प्रसूतिक्लेशरुजानुरूपं तां प्रतिकर्त्तुं क्रोशितुमप्यक्षमस्याशक्तस्य| तथा अनवस्थिता अगृहीतस्वरूपा अशेषा देहधातवो यस्य| धातवो वातादिरसादिमूत्रादयः| तथा असम्भाव्या यौवनाद्यवस्था यस्य| अन्यकरादिसंसर्गञ्च क्रकचस्पर्शमिव मन्यमानस्य| क्रकचं करपत्रम्| तथाविकल्पितं रुजाप्रयुक्तत्वेनैवाङ्गानि विक्षिप्तः| तथान्यजन्मनि मरणमनुभूय प्रसूतिकाले रुजया पुनरिव मरणमनुभवतो लीयमानसंज्ञस्य मूढचेतनस्य| कर्णमूले कर्णसमीपे चास्य बालस्याश्मनोः पाषाणयोः सङ्घट्टनं परस्पराभिघातं कुर्यात्| एतच्च प्रसूतिकालसञ्जातमोहप्रशमार्थम्|| ३||
Adhikarana nishceShTasya prabodhanaM karNe mantroccAraNaM ca (4) · Śloka 4
यदि वाऽचेष्ट एव स्यात्ततः कृष्णकपालिकया शूर्पेण चैनमभिनिष्पुनीयात्|
दक्षिणकर्णमूले च मन्त्रमस्योच्चारयेत् _ अङ्गादङ्गत्सम्भवसि हृदयादभिजायसे|
आत्मा वै पुत्रनामासि स जीव शरदां शतम्|
शतायुः शतवर्षोऽसि दीर्ग़मायुरवाप्नुहि|
नक्षत्राणि दिशो रात्रिरहश्चत्वाभिरक्षतु||४||
अत्रान्तरे च यद्यचेष्ट एव स्यात्ततः कृष्णया धूमकज्जलेन मृदितमध्यया कपालिकया शूर्पेण चाभिनिस्फुरणाय यतेत| यतोऽतिप्रभावात्तं बोधयति| अस्य च बालस्य दक्षिणकर्णमूले अङ्गादङ्गादित्यादि श्लोकद्वयं मन्त्रमुच्चारयेत्| मन्त्रव्याख़्यानस्य यत् प्रयोजनं तत्सुबोधम्|| ४||
Adhikarana nAbhinAlacchedanAdi (5) · Śloka 5
प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्चतुरङ्गुलस्योर्ध्वं क्षोउमसूत्रेण बद्ध्वा तीक्ष्णेन शस्त्रेण वर्धयेत्|
ग्रीवायां चैनमासज्जेत्|
नाभिञ्च कुष्ठतैलेन सेचयेत्||५||
ततः प्रकृतिभूतस्य स्वस्थस्य च नालाभिबन्धनान्राभिनालस्य यत्र जठरे निबन्धनं भवति, तस्माच्चतुरङ्गुलादूर्ध्वं क्षोउमसूत्रेण बद्ध्वा सूत्रबन्धादूर्ध्वं शस्त्रेण नाभिनालस्य वर्धनं छेदनं कुर्यात्| एनमिति छिन्नशिष्टं नाभिनालं बालस्य ग्रीवायां सूत्रेणासज्जयेल्लम्बत्वपरिहाराय| कुष्ठेन युक्तं सिद्धं वा तैलं कुष्ठतैलं तेन नाभिं सेचयेत्|| ५||
Adhikarana snapanam (6) · Śloka 6
ततः क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा सप्ततपनीयरजतनिर्वापणकवोष्णेन कपित्थपत्रकषायेण वा तद्विधेन स्नापयेत्||६||
ततोऽनन्तरं तं बालं क्षीरिवृक्षाणां वटादीनां कषायेण तप्तानां तपनीयरजतानां निर्वापणेन तत्र तापोपशमेनोष्णीकृतेन स्नापयेदिति| अथवा सर्वगन्धद्रव्योदकेन तपनीयादितप्तेन| अथवा कपित्थपत्राणां कषायेण तद्विधेनेति तपनीयादिकवोष्णेन| तपनीयं सुवर्णम्| रजतं रुप्यम्|| ६||
Adhikarana jihvauShThAdishodhanam (7) · Śloka 7
ततोऽस्य सुपरिलिख़ितनख़या सुप्रक्षालितोपवानया कार्पासपिच्ववगुण्ठितया दक्षिणप्रदेशिन्या जिह्वोउष्ठकण्ठमनुसुख़ं प्रमुज्यात्|
तालुं चोन्नाम्य स्नेहपिचुनोपरिष्टादवगुण्ठयेत्||७||
ततः स्नानादनन्तरमस्य बालस्य सुपरिलिख़ितनख़त्वादियुक्त्या दक्षिणकरप्रदेशिन्या जिह्वोउष्ठकण्ठं साधु सत्रिवेशाय प्रमृज्यात्| सुपरिलिख़ितं पारूष्यादिनाशाय शस्त्रेण कृत्तं नख़ं यस्याः| पूर्वं सुप्रक्षलिता पश्चादुपवनोपशुष्का सुप्रक्षालितोपवाना| कार्पासमयः पिचुः कार्पासख़ण्डः| तेनावगुण्ठितया मार्दवाय वेष्टितया| प्रदेशिन्यङ्गुष्ठात् द्वितीया| तथाविधयैव च तथा तालून्नाम्य स्नेहयुक्तेन कार्पासपिचुनोपरिष्टाच्छिरस्यवगुण्ठयेदाच्छादयेत्|| ७||
Adhikarana medhAjanakaM prAshanam (8) · Śloka 8
ततश्चैन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रम् कुशाग्राभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत्|
तद्वद् ब्राह्मीबलानन्ताशतावर्यन्यतमचूर्णं वा||८||
अनन्तरमैन्द्र्यादीनां कल्कं हरेणुमात्रमानं मधुघृताभ्यां युक्तं कुशाग्रेण दर्भाग्रेण मेधादिजननेन वैदिकेन मन्त्रेणाभिमन्त्रितं सुवर्णविकारेणाश्वत्थपत्रेण करणेन प्राशयेत्तं मेधादिजननम्| एन्द्री इन्द्राणी| ब्राह्मी ब्रह्मसुवर्चला| शङ्खपुष्पी काश्मीरेषु वीरटी| हरेणवः सतीनाः| अश्वत्थपत्राकृतित्वात्सोउवर्णमश्वत्थपत्रम्| तद्वदैन्द्र्यादिकल्कविधिनानेन ब्राह्म्यादीनामन्यतमस्य वा चूर्णं प्राशयेत्| अनन्ता दूर्वा|| ८||
Adhikarana garBodakavAmanam (9) · Śloka 9
ततः सैन्धवोपहितेन सर्पिषा गर्भोदकानि वामयेत्|
तथास्योरः कण्ठविशुद्ध्या लाघवमभिलाषश्च जायते||९||
ततः प्राशादनन्तरमस्मै सैन्धवेन युक्तं सर्पिर्गर्भोदकवमनाय दद्यात्| तयेति वमनेनास्य बालस्योरःकण्ठस्य विशुद्ध्या लाघवादिकं जायते|| ९||
Adhikarana jAtakarma (10) · Śloka 10
अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात्||१०||
अथानन्तरमस्य बालस्य प्राजापत्येन ब्राह्मेण वैदिकेन विधिना जातकर्म कुर्यात्|| १०||
Adhikarana sUtikAyAH stanyAvataraNakAlaH (11) · Śloka 11
अपि च सिराणां हृदयस्थानां विवृतत्वात्प्रसूतितः|
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते||११||
स्त्रीणां सूतानां प्रसूतितः प्रसवात्तृतीये चतुर्थे वाह्नि स्तन्यं प्रवर्तते| यतस्तदा हृदयस्थाः सिराः सर्वा विवृता भवन्तिः, गर्भिण्यास्तु संवृताः| यत एवमतो यावत्स्यन्यं तावदयं क्रमः|| ११||
Adhikarana prathamAdidineShu shishoH prAshanam (12) · Śloka 12
तस्मात्प्रथमेऽहन्यनन्ता मिश्रिते मधुसर्पिषी मन्त्रपूते त्रिकालं प्राशयेत्|
द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च||१२||
प्रथमेऽहन्यनन्तया दूर्वया मिश्रिते मधुसर्पिषी| अनन्तामिश्रणं मेधापुष्ट्यादीञ्जनयेदेवं वैदिकेन मन्त्रेण पूते अहनि त्रीन् कालान् प्राशयेत्| द्वितीयेऽह्नि लक्ष्म्णासिद्धं सर्पिस्त्रिकालम्| तथैव तृतीये||१२||
Adhikarana prathamastanyapAnavidhiH (13) · Śloka 13
ततः प्राङ्निवारितस्तन्यस्य स्वपाणितलसम्मितं सर्पिर्द्विकालं दापयेदनन्तरं च स्तन्यमिष्टितः||१३||
ततोऽनन्तरं चतुर्थे स्तन्यपानात् प्राङ्निवारितस्तन्यस्य यत्नेन रक्षितस्तन्यपानस्य द्विकालं प्रातर्मध्याह्ने च स्वपाणितल् असम्मितं बालस्य करतलमेयं सर्पिर्दापयेत्| अनन्तरं तत्काल एवेष्टतो यथेच्छं स्तन्यं दापयेत्|| १३||
Adhikarana karNapathi snehadAnam (14) · Śloka 14
अहरहश्चास्य श्रोत्रशृङ्गाटकं स्नेहाप्लुतेन प्लोतेन प्रच्छादयेत्||१४||
अस्य च बालस्याहरहः प्रतिदिनं श्रोत्रशृङ्गाटकं कर्णपथं स्नेहाप्लुतेन स्नेहमग्नेन प्लोतेन चैलख़ण्डेन प्रच्छादयेत्|| १४||
Adhikarana saMveshanam (15) · Śloka 15
प्राक्शिरसं चैनं क्षोउमनिचये संवेशयेदुच्छीर्षके चास्याभिमन्त्रितमुदकुम्भं स्थापयेत् द्वारपक्षयोश्च||१५||
क्षौमाणां वस्त्राणां निचये प्राक्शिरसमेनं बालं संवेशयेच्च| संवेशनं शय्यायां स्थापनम्| सुबोधम्| उच्छीर्षकः शय्यायाः शिरोभागः| द्वारपक्षो द्वारपार्श्वः|| १५||
Adhikarana vIjanAdyupacArAH (16) · Śloka 16
आदारीविदारीबदरीख़दिरनिम्बपीलुपरूषकशाख़ाभिरेनं वीजयेत्|
ताभिश्च समन्ततः सूतिकागारं परिVवारयेत्|
सर्षपातसीकणकणिकाश्चान्तर्बहिः प्रकिरेत्|
सायं प्रातश्च बलिम्||१६||
एनं बालमादार्यादीनां शाखाभिर्वीजनं कारयेत्| (नि) आदारी काकहन्ताली तोया खदिरवल्यपि| वीजनं व्यजनवातेन पवनम्| ताभिश्चादार्यादिशाखाभिः सूतिकागारं समन्ततः सर्वतोदिक्कं परिवारयेत्| सूतिकागारस्यान्तर्बहिश्च सर्षपादिकणिका विकिरेद्विक्षिपेत्| सायं प्रातश्च बलिं भूतोपहारमन्तर्बहिः प्रकिरेत्||१६||
Adhikarana dhUpanaM shAntikarma ca (17) · Śloka 17
व्रणोक्तैश्च गुग्गुल्वादिभिर्धूपं कुर्वीत|
तथा ब्राह्मणोऽथर्ववेदविद्दशाहं शान्तिकर्म कुर्यात्|
मायूरीं महामायूरीमार्यारत्नकेतुधारिणीं चोभयकालं वाचयेत्||१७||
वर्णोक्ता गुग्गुल्वादयः सूत्रस्थाने शस्त्रकर्मविधोउ गुग्गुल्वगुरुसर्जरसवचागोउरसर्षपेत्यादिना पठिताः| सुबोधम्| द्वे विद्ये एका लघुमायूरी सप्तशती| द्वितीया महामायूरी चतुःसहस्री| आर्याशब्दः प्रजावाची| रत्नकेतुनाम्ना विशिष्टा धारिणीति सौगतादीनां या प्रसिद्धा|| १७||
Adhikarana rakShAkarmavisheShaH (18) · Śloka 18
हिङ्गुवचातुरुष्करक्षोघ्नैः पोटलिकामुत्तरदेहल्यामासज्जेत्|
कुमारस्य च सह मात्रा काण्ठे उच्छीर्षके च|
तद्वदार्यापर्णशबरीमार्यापराजितां च गोरोचनाभिलिखिताम्|
द्वारे च देहलीमनुतिर्यङ्मुसलं निधापयेत्|
कणकण्डकतिन्दुकेन्धनाग्निं नक्तं दिवञ्च जागृयात्|
तथानुरक्ताः स्त्रियः सुहृदश्च|
प्रहृष्टजनसम्पूर्णञ्च तद्वेश्म कार्यम्||१८||
पोटलिका प्रसेविका| उत्तरदेहली द्वारशाख़योरुपर्यासक्तं काष्ठम्| कुमारस्य बलस्य कण्ठे उच्छीर्षके च हिङ्ग्वादिपोटलिकामासज्जेत्| तन्मातुश्च तथैवेति सहार्थः| आर्यापर्णशबरीविद्या आर्यापराजिता इति मूलमन्त्रेण गोरोचनया भूर्जादिपत्रलिख़िता तस्य कण्ठे उच्छीर्षके चासज्जेत्| देहलीमनु देहल्यनुसारेण द्वारे तिर्यङ्मुसलं निधापयेत्| देहली द्वारशाख़योराधारकाष्ठम्| यस्य चाग्नेः कणादिकमिन्धनं तमग्निं नक्तन्दिवं च जागृयात् निर्याणाद्रक्षेत्| कणं ख़ण्डतण्डुलाः| कण्डकं तण्डुलक्षोदनचूर्णम्| तथानुरक्ताः स्त्रियो जागृयुः सुहृदश्च| सुबोधम्|| १८||
Adhikarana stanyadAnArhadhAtrIlakShaNam (19) · Śloka 19
अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृतानातुरा जीवद्वत्सा वत्सला दक्षिणा ब्रह्मचारिण्यव्यङ्गा बहुक्षीरा शुक्लाम्बराचारा दीर्घह्रस्वादिदेहदोषाष्टकरहिता अलम्बोर्ध्वचूचुकातिपीनहीनस्तनदोषमुक्ता युक्तचूचुका धात्री स्यात्तस्य एव स्तन्यं पिबेत||१९||
अथ बालस्य सवर्णत्वादियुक्ता धात्री स्यात्| वर्णो ब्राह्मणादिः| मध्यं वयस्तारुण्याद्वर्ध्वम्| दारुवाहिः पठति| तरुणी स्यादवत्सला| क्लेशं न सहते वृद्धा स्तन्यं चास्या न पुष्टिकृदिति| लोलुपा आहारपानगृध्नुः निभृता अव्यग्रा| अनातुरा व्याधिरहिता| वत्सला अपत्यवत्सला| दक्षिणा अनुकूला| ब्रह्मचारिणी निषिद्धपुंसं योगा| अव्यङ्गा सम्पूर्णाङ्गा| आचारस्य शुक्लत्वमनिन्दितत्वम्| अष्टौ देहदोषाः अतिदीरत्वमतिह्रस्वत्वमतिलोमत्वमलोमत्वमतिशुक्लत्वमतिकृष्णत्वमतिकार्श्यमतिस्थूलत्वञ्च| अलम्बचूचुका अनूर्ध्वाभिमुखचूचुका च| अतिपीनहीनाभ्यां स्तनदोषाभ्यां मुक्ता| युक्तं प्रमाणानधिकं चूचुकं यस्याः सा तथोक्ता| चूचुकं स्तनाग्रम्| तस्या यथोक्ताया एव धात्र्याः स्तन्यं पिबेत्| एवकारग्रहणमेतद्गुणमिश्रीभावप्रतिषेधाय|| १९||
Adhikarana shuddhastanyalakShaNam (20) · Śloka 20
तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितञ्च तच्छुद्धमारोग्यबलजननम्||२०||
तच्चेति स्तन्यमुदकपूर्णे पात्रे दुह्यमानमुदकेन सह यदेकतामविभक्तवृत्तित्वं गच्छति| बालामयप्रतिषेधे वक्ष्यमाणोउः स्तन्यदोषैः रहितं तच्छुद्धमारोग्यादिजननं च बोद्धव्यम्|| २०||
Adhikarana dhAtryAH stanadAnavidhiH (21) · Śloka 21
अथ धात्री स्नाताऽनुलिप्ता नित्यमहतवासाः सुमनाः प्रजास्थापनौषधीः शिरसा बिभ्राणा प्राङ्मूखी स्तनं प्राग्दक्षिणं धौतमीषत्परिस्रुतं पाययेत्||२१||
अथेत्यादिना धात्र्याः प्रथमं स्तनपानविधानम्| सुमनाः सुचित्ता प्रजास्थापनीयान्यौषधानि एन्द्रीदूर्वादीनि महाकषायसंग्रहोक्तानि| ईषत्परिस्रुतं स्तोककृष्टस्तन्यं स्तनं बालं धात्री पाययेत्|| २१||
Adhikarana nAnAstanyapAnadoShAH (22) · Śloka 22
नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधा व्यापदो भवन्ति|
अपरिस्रुते चातिस्तन्यपूर्णस्तनपानेनोत्स्नेहनात् कासश्वासज्वरच्छर्दिषां सम्भवः||२२||
नानेत्यादिनानेकस्तन्यपानप्रतिषेधप्रयोजनम्| अतिस्तन्यपूर्णस्तनपानेन बालस्योत्स्नेहनात् कासादिसम्भवः| उत्स्नेहनं तत् स्नेहस्यान्तर्गमनम्|| २२||
Adhikarana stanyanAshahetavaH stanyajananopAyAshca (23) · Śloka 23
रूक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः|
स्तन्यजननानि तु मद्यानि सीधुवर्ज्यान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्चौषधयः क्षीरपानमनायासः सौमनस्यं च||२३||
रूक्षान्नपानादिना स्त्रियाः स्तन्यनाशो भवति| मद्यादीनि स्तन्य जननानि भवन्ति| सुबोधम्|| २३||
Adhikarana pAnAnarhastanyaM stanyAnarhabAlAvasthA ca (24) · Śloka 24
न तु क्षुधितशोकार्तश्रान्तक्रुद्धप्रदुष्टधातुगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधञ्च बालमिति||२४||
क्षुधितादीनां सप्तानां सम्बन्धि स्तन्यं न पाययेत्| यस्य च बालस्य महामन्त्रप्रयुक्तमौषधं न जीर्णं तं निर्दोषमपि स्तन्यं न पाययेत्|| २४||
Adhikarana ShaShThInishAyAM visheShakRutyam (25) · Śloka 25
भवति चात्र- षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः|
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम्||२५||
यद्यपि सर्वं दशाहं रक्षादिकमुक्तं तथापि विशेषेण षष्ठीं निशां तस्य बालस्य बान्धवाः कृतरक्षाबलिक्रियाः परमं च हर्षं दधतो जागृयुः|| २५||
Adhikarana nAmakaraNam (26) · Śloka 26
दशमे द्वादशे वाह्नि गोत्राचारैः शुभैः शुभे|
सूता स्नानोत्सवं कुर्यात्पिताऽपत्यस्य नाम च|
दिने शततमे वाख्यां पूर्णे संवत्सरेऽथवा|
विभ्रतोऽङ्गैर्मनोह्वालरोचनागुरुचन्दनम्|
पूज्यं त्रिपुरुषानूकमादौ घोषवदक्षरम्|
अवृद्धं कृतमूष्मान्तमनरातिप्रतिष्ठितम्|
नक्षत्रदेवतायुक्तं तदेव तु न केवलम्|
मङ्गल्यमन्तरन्तस्थं न दुष्टं न च तद्धितम्|
पुंसो विसर्जनीयान्तं समवर्णं स्त्रियाः पुनः|
विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमम्|
सुखोद्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्||२६||
ततो दशमे द्वादशे वाऽहनि शुभे प्रशस्ते शुभैः स्वगोत्राचारैः सूता आत्मनः स्नानोत्सवं कुर्यात्| तदैव च पिता अपत्यस्य नाम कुर्यात्| अथवा जन्मदिनाच्छततमे दिने आख्यं नाम कुर्यात्| पूर्णे वा संवत्सरे आख्यां कुर्यात्| किम्भूतस्य बालस्येत्याह- मनो-ह्लादितिलकानङ्गैर्विभ्रतो धारयतः| अलं हरितालम्| किम्भूतं नाम इत्याह-पूज्यमित्यादि| पूज्यमुत्कृष्टत्वं प्रसिद्ध्या| त्रिपुरुषानूकं पितृपितामहप्रपितामहानुकारिकम्| अत ऊर्ध्वं स्वकुल्यानामपि नाम न कार्यम्| तथाविधं च नाम कुर्याद्यस्मिन्नाम्नि आदोउ घोषवदक्षरं वर्णो विद्यते| तत्र वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारोउ, यमोउ, तृतीयचतुर्थोउ, नासिक्याश्चसंवृतकण्ठा नादानुप्रदाना घोषवन्तश्च| वर्गाणां तृतीया गजडदबाः चतुर्था घझढधभाः अन्तःस्थाः यरलवाः अनुस्वारो नामायोगवाहः अनुक्ता एवेहायोगवाहाः यथा विसर्जनीयजिह्वामूलीयादयः तृतीयश्चतुर्थश्च यमः यमा उच्चारण एवोपलभ्यन्ते यथा यज्ञशब्दे नासिकाविशेषः इह नित्यनासिक्या ड-ञ-ण-न-माः| घोषवत्वमेवैषां वर्णगुणानामस्माकमुपयोगि| अवृद्धं यस्मिन् नाम्न्यादिवर्णे वृद्धिसंज्ञा न विद्यते| वृद्धिरिति संज्ञा आकारैकारोउकाराणाम्| कृतमिति कृत्प्रत्ययान्तम्| कृदतिङिति तिङ्वर्जितः प्रत्ययः कृत्संज्ञो भवति| तिबादयो महिङन्तास्तिङः| ऊष्मान्तं यस्मिन् नाम्न्यूष्माक्षरमन्ते विद्यते| ऊष्माणः शषसहाः| यच्च बालकुल्यानामरातिना प्रतिष्ठितन्न भवति| बालस्य नक्षत्रदेवतायुक्तम्| नक्षत्राणां देवता भवन्ति| तद्यथा-अश्विन्या अश्विनोउ| भरण्या यमः| कृत्तिकानामग्निः| रोहिण्याः प्रजापतिः| मृगशिरसां मृगाङ्कः| आर्द्राया रुद्रः| पुनर्वसूनामदितिः| पुष्यस्य बृहस्पतिः| आश्लेषायाः सर्पाः| मघानां पितरः| पूर्वफल्गुनीनां भगः| उत्तरफल्गुनीनामर्यमा| हस्तस्य मैत्रः| चित्रायास्त्वष्टा| स्वात्या वायुः| विशाखाया इन्द्राग्नी| अनुराधायाः मैत्रः| ज्येष्ठाया इन्द्रः| मूलस्य निरृतिः| पूर्वाषाढाया आपः| उत्तराषाढाया विश्वेदेवाः| श्रवणस्य विष्णुः| धनिष्ठाया वसवः| शतभिषजो वरुणः| पूर्वाभाद्रपदानामजैकपात्| उत्तराभाद्रपदानामहिर्बुध्निः| रेवत्याः पूषा| एता नक्षत्रदेवता यादृश्यस्ताभिर्युक्तं नाम कारयेत्| तदेवेति| न केवलं तदेव पूर्वोक्तलक्षणमेव किन्तु मङ्गल्यत्वादिविशिष्टमपि| अन्तर्मध्ये अन्तःस्था यरलवा यस्मिंस्तत्| न दुष्टमिति| दुष्टं नाम न कुर्यात्| न च तद्धितमिति| तद्धितं तद्धिताधिकारविहितप्रत्ययान्तम्| तच्च नामाक्षरं विसर्जनीयान्तं च पुंसो विधेयम्| समाक्षरं यस्य नाम्नः समसङ्ख्यान्यक्षराणि भवन्ति| स्त्रियाः पुनर्नाम तत् कुर्याद् यद् विषमाक्षरं विषमसङ्ख्यान्यक्षराणि विद्यन्ते यस्मिंस्तदेवम्| अक्रूरं सुस्पष्टार्थं मनोरमञ्च| सुखोद्यं यदानायसेन वक्तुं शक्यते| दीर्घो वर्णसंयोग अन्ते यस्य| आशीर्वादस्याभिधानं विद्यते यस्मिन् तत्| यस्मिन्नभ्युच्चार्यमाणे आशीर्वादः कृतो भवति|| २६||
Adhikarana bAlasyAyuHparIkShaNam (27) · Śloka 27
ततः प्रकृतिभेदोक्तरूपैरायुः परीक्षणम्|
प्रागुदक्शिरसः कुर्याद्बालस्य ज्ञानवान्भिषक्||२७||
ततोनाम्नोऽनन्तरं प्रकृतिभेदाध्यायोक्तै रूपैर्लक्षणैरायुषो मानस्य परीक्षणं कुर्याद्यस्तु ज्ञानवान् वैद्यः स बालस्य प्रागुदक्शिरसः||२७||
Adhikarana prashastaM veshma upakaraNAni ca (28) · Śloka 28
प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि|
निर्वातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितम्|
निर्मत्कुणाखुमशकमतमस्कं च शस्यते|
शुचिधौतोपवानानि निर्वलीनि मृदूनि च|
शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च||२८||
स तु इदमिदं कुर्यात्किमित्याह- प्रशस्तवास्तुत्वादियुक्तं शरणं वेश्म कुर्यात्| उपकरणं यत्किञ्चिदौपयिकं तत्सर्वं सज्जं यत्र| निर्वातमेवैकदेशे एकदेशे प्रवातम्| वृद्धस्त्रीभिर्वृद्धवैद्यैश्च सेवितम्| शुच्यादिगुणानि च शय्यादीनि कुर्यात्| उपवानमुपशुष्कम्| वलयः सङ्कोचाः| आस्तरणं शय्याच्छादनपटः| तानि शय्यादीनि रक्ष्घ्नैः सर्षपवचादिभिर्धूपितानि शस्यन्ते|| २८||
Adhikarana dhUpanam (29) · Śloka 29
काकोऽविशस्तः शस्तश्च धूपने त्रिवृतान्वितः|
वचाज्यकुष्ठश्रीवेष्टसर्षपैर्धूपयेत् सदा||२९||
अविशस्तोऽहिंसितः स्वयं मृतः काकस्त्रिवृतान्वितः सत्रिवृतः स धूपने शस्यते| सदा च वचादिभिर्धूपयेत्|| २९||
Adhikarana bodhanAdau sAvadhAnatA (30) · Śloka 30
बोधयेत्सहसा सुप्तं नो न चैनं समुत्क्षिपेत्|
तथा ह्यस्य समुत्त्रासो वेगरोधश्च जायते||३०||
एनं च बालं सुप्तं सहसा न बोधयेत्| न चैनं सुप्तं शय्यातः समुत्क्षिपेत्| तथाहि सहसा बोधनेनोत्क्षेपेण चास्य बालस्य वेगरोध उत्त्रासश्च जायते|| ३०||
Adhikarana lAlApanodanopAyaH (31) · Śloka 31
माक्षिकामलकव्योषबृहतीमूलसैन्धवैः|
लालोपनोदरुच्यर्थं मुख़मन्तःपरामृशेत्||३१||
माक्षिकादिभिर्लिप्तयाङ्गुल्यान्तर्मुख़ं बालस्य परामृशेत्| तथा हि लालापनुत्ती रुचिश्च भवति|| ३१||
Adhikarana maNyAdidhAraNam (32) · Śloka 32
जीवत्ख़ड्गादिशृङ्गेषु समासक्ताञ्छुभान् मणीन्|
धारयेद् दश चैन्द्र्यादीञ्जीवकर्षभकावपि|
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीम्|
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषान्सततं वचाम्||३२||
जीवतः खड्गादेर्गृहीतं यच्छृङ्गं तत्रासक्ता निबद्धा ये शुभामणयः तान् बालं धारयेत्| ऐन्द्र्यादींश्च दश धारयेत्| तथा जीवकर्षभकावपि| ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्या सुमेधा कन्या शिवाऽरिष्टा वाट्यपुष्पी विष्वक्सेनेति दश| हस्तादिकेन विशेषात् सततं वचां धारयेत्| आयुरित्यादि वचाशेषणम|| ३२||
Adhikarana stanyadoShodBavAH gadAH (33) · Śloka 33
स्तन्यदोषाद्गदास्तस्य यथोक्तं तत् पिबेद्यतः|
पीनाऽतिकन्धरास्तम्भं कुर्यादूर्ध्वाक्षमूर्ध्वगः|
उच्छ्वासरोधाल्लम्बोऽतिस्तनो जीवितसंशयम्|
न गर्भिण्याः पिबेत्स्तन्यं पारिगर्भिककृद्धि तत्||३३||
स च बालोऽनन्तरोक्तगुणमेव सदा स्तन्यं पिबेद्यतः स्तन्यदोषात् गदा भवन्ति| अतिपीनः स्तनो यः प्रतिषिद्धः स कन्धरास्तम्भं बालस्य कुर्यात्| ऊर्ध्वगतचूकुकः स्तनो बालमूर्ध्वाक्षं कुर्यात्| अतिलम्बस्तन उच्छ्वासरोधात् जीवितसंशयं कुर्यात्| गर्भिण्याः स्तन्यं पारिगर्भिकं करोति| पारिगर्भिकं गर्भिणीस्तन्यपानजं बालामये वक्ष्यते|| ३३||
Adhikarana stanyABAve upAyaH (34) · Śloka 34
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्|
मूलैः सिद्धं बृहत्याद्यैः स्थिराभ्यां वा सितायुतम्||३४||
स्तन्याभावे स्त्रीस्तन्याभावे तद्गुणमिति पूर्वोक्तस्य स्त्रीस्तन्यस्य सर्वैराकारादिभिर्गुणैः सदृशम्| तच्च गव्यं छागं वा बृहत्याद्यैर्मूलैर्लघुना पञ्चमूलेन सिद्धम्| स्थिराभ्यां वा सिद्धमुभयमपि सितायुतम्|| ३४||
Adhikarana sUtikAgArAnniShkramaNavidhiH (35) · Śloka 35
चतुर्थे सूतिकागारादग्निस्कन्दपुरोगमान्|
मासे निष्क्रामयेद्देवान् नमस्कर्त्तु स्वलंकृताम्||३५||
तञ्च बालं जन्मनश्चतुर्थे मासे सूतिकागारात् स्वलंकृतं निष्क्रामयेदग्निस्कन्दपुरोगमान् देवान् नमस्कर्तुम्| करोति किर्याकर्मापेक्षया| कर्मणि द्वितीया|| ३५||
Adhikarana dharaNyAmupaveshanantatra mantrashca (36) · Śloka 36
पञ्चमे मासि पुण्येऽह्नि धरण्यामुपवेशयेत्|
द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशम्|
धरण्यशेषभूतानां माता त्वमसि कामधुक्|
अजरा चाप्रमेया च सर्वभूतनमस्कृता|
चराचराणां लोकानां प्रतिष्ठास्यव्ययासि च|
कुमारं पाहि मातेव ब्रह्मा तदनुमन्यताम्|
स्वाहेति मन्त्रेणानेन प्रत्यहं च ततः परम्|
साश्रयं सावलम्बं च कट्यादीन् मर्दयेदनु||३६||
ततः पञ्चमे मासे पुण्येऽहनि बालं धरण्यामुपवेशयेत्| किष्कुद्वयमात्रलिप्तायां धरण्यां धरणीत्यादिना स्वाहान्तेन मन्त्रेण करणभूतेन चतुर्दिशं बलिं दत्वोपवेशयेत्| किष्कुहस्तो न वितस्तिः| पाठविप्रतिपत्तिनिवृत्तये मन्त्रव्याख़्यानम्| हे धरणि! अशेषाणां भूतानां त्वमसि कामधुङ्माता| कामं दुह्यत इति कामधुक्| न जीर्यत इत्यजरा त्वमसि| तथा प्रमातुमशक्याप्रमेया| सर्वैश्च भूतैर्नमस्कृता| चरा भूता जङ्गमाः अचरा स्थावरास्तेषां सर्वेषां त्वमसि प्रतिष्ठा| न व्येति नाना न गच्छतीत्यव्यया निर्विकारा चैनं कुमारं पाहि| यथा माता पुत्रं पाति| तच्च कुमारपालनं भवत्या ब्रह्मानुमन्यताम्| एवं प्रथममुपवेशयेत्| ततः परं प्रत्यहं साश्रयं सावलम्बं चोपवेशयेत्| आश्रय आसनम्| अवलम्बं पातरक्षणम्| उपवेशनादनु च बालस्य कट्यूरुजान्वादीन् मर्दयेत्|| ३६||
Adhikarana annaprAshanam (37) · Śloka 37
षष्ठेऽन्नप्राशनं मासि क्रमात्तच्च प्रयोजयेत्|
चिरान्निषेवमाणोऽन्नं बालो नातुर्यमश्नुते|
भजेद्यथा यथा चान्नं स्तन्यं त्याज्यं तथा तथा||३७||
षष्ठे मास्यन्नप्राशनं कुर्यात्| तच्च क्रमेण स्तोकाभ्यासेन प्रयोजयेत्| क्रमादित्यत्रैव हेतुः चिरादित्यादि| स च बालो यथा यथा वृद्ध्याऽन्नं भजेत्तथा तथाऽपचयेन स्तन्यं त्यजेत्|| ३७||
Adhikarana karNavyadhavidhiH savistaraH (38) · Śloka 38
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि|
कर्णौ हिमागमे विद्ध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्|
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः|
दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना|
मध्यतः कर्णपीठस्य किद्दिगण्डाशयं प्रति|
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते|
घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते|
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्|
नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः|
कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः|
सशोफदाहसंरम्भमन्यास्तम्भापतानकाः|
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्|
स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः|
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्|
आमतैलेन सिञ्चेच्च बहलां तद्वदारया|
विद्ध्येत्पालीं हितभुजः सञ्चार्याथ स्थवीयसी|
वर्तिस्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः|
स्वेदितोद्वर्तितं कर्णमभ्यक्तं बृंहणैः पुनः|
नाजीर्णे न मलोद्रेके न चात्युष्णेऽपि वर्धयेत्|
सदा च युञ्ज्यादभ्यङ्गान् कर्णपालीगदोदितान्|
पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे|
कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत्|
भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः|
नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः|
जिह्वसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः|
जाते महति संरम्भे वर्तिमाश्वपनीय तत्|
यवैरण्डजटायष्टीमञ्जिष्ठाज्यैः प्रलेपयेत्|
सुरूढं च पुनर्विद्धयेत्त्वरया तु विवर्धनात्|
छिद्येत पाली शुद्धस्य शुद्धास्त्रां सन्दधीत ताम्|
कर्णामयनिषेधोक्तसन्धानविधिना भिषक्||३८||
ततः षष्ठाद्यन्यतमे मासे बालस्य नीरुजस्य सतो हिमागमे शीतकालेऽहनि धात्र्यङ्कस्थस्य सान्त्वयन् भिषक्कर्णौ विद्ध्येत्| कुमारस्य प्राक् पूर्वं दक्षिणं कर्ण विद्ध्येत्ततो वामम्| योषितः प्रग्वामं विद्ध्येत्ततो दक्षिणम्| यश्च विद्ध्येत्स दक्षिणेन पाणिना सूचीं दधाद्विद्ध्येत्| अन्येन वामेन पालीं दधत्| पाली कर्णशुष्कुली| कस्मिन् प्रदेशे कर्ण विद्ध्येदत आह-मध्यत इत्यादि| कर्णपीठस्य कर्णाधोभागस्य मध्यतो मध्ये किञ्चिच्च गण्डाशयमनुसरन् दैवकृते छिद्रे विद्ध्येत्| जरायुमात्रेत्यादि| दैवकृतच्छिद्रविशेषणं तत्परिज्ञानहेतुः| जरायुः सूतशल्कः| तन्मात्रेण तनुना छन्ने रविरश्मिभिरवभासिते आलोकिते तस्मिन्नलक्तकरसेन यावकेनाङ्किते चिह्निते विद्ध्येत्| सूच्यभिघातेन च सकृदेकेनैव वारेण विद्ध्येत् ऋजु च लाघवाच्च| दैवच्छिद्रादूर्ध्वमुपरि| पार्श्वत अधश्च न विद्ध्येत्| कुत इत्याह-सिरा इत्यादि| ऊर्ध्वं कालिका नाम सिरा स्थिता| पार्श्वतो मर्मरी| अधो रक्ता| एताः शब्दानुगतार्थाः| तासां व्याधाद्रागाद्युद्भवः| तेषां च रागादीनां यथास्वं रोगं विभज्य भेदैर्विकल्प्याशु चिकित्सितं कुर्यात्| स्थानव्यधात् पुनः रुधिरादीनामसम्भवः| व्यधादनन्तरं सूच्यनुस्यूतं मूलभागे लग्नं स्नेहेनाक्तं सूत्रं कर्णे निधापयेत्| अनु च कर्णमामतैलेन सिञ्चेदिति सामान्यम्| विशेष उच्यते| बहलां पालीं घनां तद्वत्सूचीव्यधनप्रकारेणास्या विद्ध्यद्धितभुजः सतो बालस्य| एवमुभयथा वेधः| द्विविधेऽपि वेधेत्र्यहात् कर्णे स्थवीयसी वर्त्तिः सञ्चार्या| तत ऊर्ध्वं विगतशल्यक्षतं कर्णच्छिद्रं शनैः शनैर्वर्धयेत्| तञ्च कर्णं स्वेदितोद्वर्तितं सन्तं वर्धयेत्| उद्वर्तनेन स्नेहप्रयोग उक्तः| पुनश्चोद्वर्तनात् बृंहणैः स्नेहैरभ्यक्तं सन्तं वर्धयेत्| अजीर्णे तं न वर्धयेद्वर्धनाय क्रियां न कुर्यात्| मलोद्रेके दोषोद्रेके सति न वर्धयेत्| अत्युष्णे देशे काले वा न वर्धयेत्| तस्मिंश्च कर्णे वक्ष्यमाणैः कर्णपालीव्याध्युक्तस्नेहैरभ्यङ्गं कुर्यात्| पुष्टीत्याद्यभ्यङ्गविशेषणम्| इत्यनेन प्रकारेण संवर्धिते दृढे च सति कलधौतेन सुवर्णेनावबद्धानि रत्नानि निक्षिपेत्| स्त्रीणां यदि कर्णो न वर्धते ततोऽन्तरपाङ्गतः पालीं भिन्द्यात् पुनर्वर्धयेत्| अपाङ्गयोर्बाह्या कृकाटिका ततो नैव पालीं भिन्द्यात्| ततो बाह्यपालिच्छेदाद् ध्रुवा स्थिरा व्यापदः स्युः| जिह्वसूचीव्यधादिना महति संरम्भे कोपे जाते आशु वर्तिमपनीय यवादिभिः प्रलेपयेत्| तज्जिह्वसूचीविद्धं लेपेन च सुरूढं पुनर्विध्येत्| त्वरया विवर्धनात् कदाचित् पाली छिद्येत| तां छिन्नां पाली शुद्धस्य कृतशोधनस्य शुद्धास्त्रां स्रावितदुष्टरक्तां सन्दधीत| कथमित्याह-कर्णामयनिषेधाध्यायोक्तेन सन्धानविधिना भिषक् सन्दधीत|| ३८||
Adhikarana varShaparyantAH niShedhavisheShAH (39) · Śloka 39
वर्षं स्ववसतेर्बाह्यं कुमारस्य न दर्शयेत्|
दीपमातपमग्निं च रूपमन्यच्च भासुरम्||३९||
वर्षमित्यादि सुबोधम्| दीपादिकमपि न दर्शयेत्|| ३९||
Adhikarana stanAdapanayanam (40) · Śloka 40
अथैतं जातदशनं क्रमशोऽपनयेत् स्तनात्|
पूर्वोक्तं योजयेत् क्षीरमन्नञ्च लघु बृंहणम्||४०||
अथ वर्षादनन्तरं जातदशनं बालं क्रमशः स्तनादपनयेत्| क्षीरं च पूर्वोक्तमिहैव पञ्चमूलशृतं यदुक्तं तद्योजयेदन्नं लघु बृंहणं च || ४०||
Adhikarana stanAdapanayanopAyAH (41) · Śloka 41
कुर्यादपस्तनं स्नेहसंक्रान्त्या स्तनलेपनैः|
बीभत्सैर्या वकासेककृत्रिमक्षतदर्शनैः||४१||
अत्रे च प्रयुज्यमानेऽपस्तनं कुर्यात्| केनेत्याह-स्तने स्नेहसंक्रान्त्या तथा लेपनैर्बीभत्सैस्तथा यावकासेकेनालक्तसेकेन स्तने रक्तबुद्धिजनकेन कृत्रिमाणां च सिन्दूरादिकृतानां स्तने क्षतानां व्रणानां दर्शनेन च|| ४१||
Adhikarana apastanyasya modakAH (42) · Śloka 42
प्रियालमज्जमधुकमधुलाजसितोपलैः|
अपस्तन्यस्य संयोज्यः प्रीणनो मोदकः शिशोः|
दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः|
संग्राही धातकीपुष्पशर्करालाजतर्पणैः||४२||
अचिरादपस्तन्यस्य बालस्य प्रियालमज्जादिभिः मोदकः प्रीणनः संयोज्यः| तथा बालबिल्वादिभिः दीपनः| धातकीपुष्पादिभिः संग्रहणः|| ४२||
Adhikarana tIvrabuBukShAnivRuttAvupAyaH (43) · Śloka 43
बुभुक्षा चेत् प्रबलतामपस्तन्यस्य गच्छति|
अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकम्||४३||
अपस्तन्यस्य च यदि बुभुक्षा प्रबलतां गच्छति, ततोऽस्यात्यग्निविधानं पारिगर्भिकं च हितम्| पारिगर्भिको नाम रोगो बालस्य मातुर्गर्भिण्याः स्तन्यं पिबतोऽप्यपिबतोऽपि बालामयप्रतिषेधे वक्ष्यते|| ४३||
Adhikarana kumAradhAraH (44) · Śloka 44
अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः|
कुमारधारः कर्त्तव्यस्तत्राद्यो बालचित्तवित्|
अधार्मिकं दुराचारः स्थूलो विकटगामिनम्|
करोति लोलुपो बालं घस्मरत्वेन रोगिणम्||४४||
अभियुक्तत्वादियुक्तः पुमान् कुमारधारः कार्यः| सुबोधम्| स च घस्मरत्वेनादनशीलत्वेन हेतुना रोगिणं बालं करोति|| ४४||
Adhikarana kumAraBeShajAni (45) · Śloka 45
रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः|
अन्यत्रात्ययिकाद्व्याधेविरेकं सुतरां त्यजेत्||४५||
अस्य च बालस्य सर्वान् रोगान् सौम्यैरेव भेषजैर्जयेद्विषादकवर्जितैः| कुष्ठादिष्वपि व्याधिषु विषादकं तीक्ष्णं परिहरेदित्यर्थः| बालस्य विरेकं सुतरां त्यजेत्| एतत्किं सर्वत्र, नेत्याह| आत्ययिकान् कुष्ठादिव्यधेरन्यत्र| आत्ययिके तु व्याधौ विरेचनं योज्यमेव| बालस्य च तीक्ष्णं विरेकं परिहरेदित्यर्थः|| ४५||
Adhikarana vitrAsananiShedhaH (46) · Śloka 46
त्रासयेन्नाविधेयं च त्रस्तं गृह्णन्ति हि ग्रहाः|
वस्त्रपातात्परस्पर्शात्पालयेल्लङ्ग़नाच्च तम्||४६||
अविधेयं च बालं त्रासयेन्नापि तु सोउम्येन विधेयं कुर्यात्| यतस्तं बालं स्कन्दादयो ग्रहा गृह्णन्ति| वस्त्रपातादिकाच्च वैद्यो बालं पालयेत्| वस्त्रपातो मुख़ादिषु वस्त्रपतनम्|| ४६||
Adhikarana krIDABUmiH ramaNakAni ca (47) · Śloka 47
क्रीडाभूमिः समा कार्या निश्शस्त्रोपलशर्करा|
वेल्लोषणकणाम्भोभिः सिक्ता निम्बोदकेन वा|
जातुषं घोषविच्चित्रमत्रांस रमणं बृहत्|
अतीक्ष्णाग्रं गवाश्वादिमङ्गल्यमथ वा फलम्||४७||
बालस्य क्रीडाभूमिर्निम्नोन्नतरहिता शस्त्रादिविवर्जिता च कार्या| सुबोधम्|| ४७||
Adhikarana vidyAdhyApanAdi (48) · Śloka 48
शक्तिमन्तं यथावर्णं विद्यामध्यापयेत्ततः|
अनुशिष्यात्सदा चैनं धर्माय विनयाय च|
यथा नेन्द्रियदुष्टाश्वैर्ह्नियते यौवनागमे||४८||
ततोऽनन्तरं विद्याग्रहणशक्तिमन्तं बालं विद्यामध्यापयेत्| एनं च बालं धर्मार्थं विनयार्थं च सदाऽनुशिष्याच्छिक्षयेत्| तथा चानुशिष्याद् यथा दुष्टैरविधेयैरिन्द्रियैरेवाश्वैर्यौवनागमे न ह्रियते न परतन्त्रीक्रियते|| ४८||
Adhikarana bAlasya dainandinakRutyAni (49) · Śloka 49
अभ्यङ्गोद्वर्तनं स्नानं प्रत्यहं च समाचरेत्|
सहदेवास्थिराकौन्तीकुमुदोत्पलचन्दनैः|
बृहतीफलतक्कारीसर्षपाकुष्ठसैन्धवैः|
अश्वगन्धाबलैरण्डतिलापामार्गतण्डुलैः|
सात्मगुप्ताफलैस्तैलं साजक्षीरं विपाचितम्|
रक्षोघ्नः पुष्तिदोऽभ्यङ्गस्तद्वदुद्वर्तनं च तैः|
दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः|
मूर्वामूलद्विरजनीयवैश्चोद्वर्तनं हितम्|
कुलत्थचूर्णमेकं वा वाजिगन्धारजोऽपि वा|
स्नाने सर्वौषधीकल्को जीवनीयाम्बु चेष्यते||४९||
बालस्य चाभ्यङ्गादिकं प्रत्यहं समाचरेत्| सहदेवादिभिरजाक्षीरयुक्तं तैलं पाचितं रक्षोघ्नत्वादिगुणोऽभ्यङ्गो भवति| सहदेवा बला| स्थिरा सालपर्णी| कौन्ती हरेणुका| बृहत्याः फलं तथोक्तम्| तैः सहदेवादिदभिरुद्वर्तनं तद्वदिति रक्षोघ्नं पुष्टिकृच्च| किम्भूतैः सहदेवादिदभिरुद्वर्तनमित्याह-दधिमाक्षिकयुक्तैस्त्रिगुणीकृतचिक्कसैश्च| ईषत् भृष्टानां यवानां चूर्णं चिक्कसम्| मूर्वादिभिर्द्वितीयमुद्वर्तनम्| अथवैकं केवलमेव कुलत्थचूर्णमुद्वर्तनम्| वाजिगन्धाया अश्वगन्धाया रजश्चूर्णंवा केवलम्| बालस्य च स्नाने प्रसिद्धानां सर्वौषधीनां कल्क इष्यते जीवनीयशृतं जलं च|| ४९||
Adhikarana BaktatvanusAraM bAlacaryAvisheShaH (50) · Śloka 50
आरग्वधादिनिर्यूहे शृतं शीतवसन्तयोः|
वत्सकादिप्रतीवापं कुमारं प्राशयेद् घृतम्|
ग्रीष्मे वातातपस्वेदैर्बालः क्लाम्यत्यतो हिमम्|
प्रातरेव पिबेद् दुग्धं जीवनीयगणैः शृतम्|
सिताघृताढ्यान् सक्तूंश्च लिह्यान्न त्वेव पीतकम्|
नात्यम्बुपायी लिह्याद्वा घृतसात्म्यो घृतं शृतम्|
काकोलीशर्करामेदातुगायष्ट्याह्वजीवकैः|
कुटन्नटेन मूर्धानं लिप्पेदन्यश्च शीतलैः|
रास्नासरलवर्षाभूहिङ्गुसैन्धवदारुभिः|
सर्पिर्विदार्यादिजले साधितं लेहयेच्छिशुम्|
प्रपण्डरीकं मधुकं सूप्यपर्ण्यौ दुरालभा|
प्रियालमज्जाकाकोलीविदारीकट्फलामृताः|
द्राक्षाजशृङ्गी दुग्धीका क्षीरशुक्ला हयाह्वया|
शृङ्गीमधुककुसुममेदर्षभकजीवकम्|
एभिः क्षीरघृतं सिद्धं लिह्याद्बालो घनात्यये||५०||
शीतवसन्तयोश्चारग्वधादिगणक्वाथे वत्सकादिप्रतीवापं घृतं शृतं पाययेत्| ग्रीष्मे च वातादिभिर्बालो यतः क्लाम्यत्यतो जीवनीयगणैः शृतं दुग्धं प्रातरेव पिबेत्| सितया घृतेन चाढ्यान् सक्तून् लिह्यात्| पीतकं न त्वेव पिबेदिति सम्बध्यते| पीतको मन्थः| अथवा ग्रीष्मे यो ऋतसात्म्यो बालः सोऽत्यम्बुपानं परिहरन् काकोल्यादिभिर्जीवकान्तैः शृतं घृतं लिह्यात्| बालस्य च मूर्धानं ग्रीष्मे कुटन्नटेन प्लवेन लिम्पेत्| अन्यैश्च शीतलैश्चन्दनादिभिः | विदार्यादिभिः क्वाथे रास्नादिभिर्घृतं साधितं शिशुं लेहयेत्| सरलं पीडाख्यम्| वर्षाभूः पुनर्नवा| क्षीरोद्भवं घृतं प्रपौण्डरीदकादिभिः सिद्धं घनात्यये| शरदि बालो लिह्यात्| दुग्धिका क्षीरिका| क्षीरशुक्ला क्षीरकाकोली| हयाह्वया अश्वगन्धा|| ५०||
Adhikarana brAhmyAdighRutam (51) · Śloka 51
ब्राह्मीसिद्धार्थकवचाशारिवाकुष्ठसैन्धवैः|
सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम्|
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्||५१||
ब्राह्म्यादिभिः कणान्तैः साधितंघृतं पीतं बालस्य वागादिकृत् भवत्यायुष्यादिगुणञ्च|| ५१||
Adhikarana sArasvataghRutam (52) · Śloka 52
त्रिफला लक्ष्मणानन्ता समङ्गा सारिवा वचा|
ब्राह्मी पाठा द्विबृहती द्विस्थिरा द्विपुनर्नवम्|
सहदेवा रवेर्वल्ली पयस्य गिरिकर्णिका|
तोयकुम्भे पचेदेतत् पलांशं पादशेषितम्|
तेन कौन्तीवचाकुष्ठकृष्णासर्षपसैन्धवैः|
नीरुक्सरूपवत्सायाः संयुक्तं पयसा च गोः|
पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतम्|
पानाभ्यञ्जनतो मेधास्मृत्यायुः पुष्टिबुद्धिदम्|
रक्षोघ्नं च विषघ्नं च सारस्वतमिदं घृतम्||५२||
त्रिफलादीनां गिरिकर्णिकान्तानां पलाशानां जलकुम्भे पादशेषिते क्वाथे कौन्त्यादिभिः सह घृतं नीरुक्त्वादिगुणयुक्तायाः गोः पयसा सह पुष्ययोगे प्रस्थसम्मितं घृतं पचेत्| सहेमशकलं तनुभिः सुवर्णखण्डैः सह| तद् घृतं पानादिना मेधादिदं रक्षोघ्नादिगुणञ्च| तच्च घृतं नाम्ना सारस्वतम्| लक्षमणा पुत्रजननी| अनन्ता दूर्वा| रवेर्वल्यादित्यवल्ली| पयस्या क्षीरिका| कुम्भः द्वादशाधिकपञ्चशतपलानि|| ५२||
Adhikarana vAgvivardhanayogaH (53) · Śloka 53
लीढं वा सघृतक्षौद्रं वचाहेमरजोऽल्पशः|
संवत्सरं परं मेध्यं रक्षोघ्नं वाग्विवर्धनम्||५३||
वचा हेम्नो रजः सघृतक्षौद्रं संवत्सरं लीढं परं मेध्यादिगुणम्| हेम सुवर्णम्|| ५३||
Adhikarana vayaHsthAdyavalehanam (54) · Śloka 54
वयःस्था पिप्पली कुष्ठं हरिद्रा शारिवा वचा|
मांसी कैडर्यमित्येतच्चूर्णं ब्राह्मीरजः समम्|
लीढ्वाज्येन शिशुर्वर्षं भवत्यपलितोऽव्यथः|
बलवान् शृतसम्पन्नः शतायुः स्थिरयौवनः|
प्रातः प्रातरिमं लेहं धात्रीं चास्यावलेहयेत्||५४||
वयःस्थादीनां चूर्णं ब्राह्मीचूर्णेन सममाज्येन वर्षां लीढ्वा शिशु रपलितत्वादिगुणो भवति| इमञ्च वयःस्थादिकमस्य बालस्य धात्रीमपि वैद्योऽवलेहयेत्|| ५४||
Adhikarana dUrvAdiprAshAH (55) · Śloka 55
ब्राह्मीवद्योजयेद्दूर्वां मूर्वां ब्रह्मसुवर्चलाम्|
लक्ष्मणां श्वेततक्कारीमव्यण्डां गौरसर्षपाम्|
सहस्रवीर्यां फलिनी पक्वं च बृहतीफलम्|
रोहिषं चेत्यमी प्राशाः पृथग्द्वादश कीर्तिताः|
महताऽप्युपयोक्तव्या नरेण नियतात्मना||५५||
ब्राह्मीवद्दूर्वादीनपि पृथग्योजयेत्| ब्राह्मीवदित्यनेनैतत् प्रदर्शितम्| यद्वयःस्थादीनां चूर्णं तत् ब्राह्मीपरिहारेण दूर्वादीनामन्यतमस्य चूर्णेन युक्तं लेह्यमिति| तर्कार्यग्निमन्थाख़्या(नि) अव्यण्डेक्षुरकस्तैलकण्टकः कोकिलाक्षकः| लक्ष्मणा पुत्रजननी रक्तबन्धुच्छदा तथा|| सहस्रवीर्या शतावरी| फलिनी प्रियङ्गुका| रोहिषं भूतिकम्| एते ब्राह्मीप्राशेन सह दूर्वादिभिः पृथग्द्वादश प्राशाः| एते च केवलं बालेन न यावन्महतापि नरेणोपयोक्तव्याः नियतात्मना नियतेन्द्रियेण|| ५५||
Adhikarana mRudBakShaNAdbAlarakShA (56) · Śloka 56
नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः|
पाण्डुत्वश्वयथुश्वासकासातीसारजन्तवः|
छर्दिमूर्च्छाग्निसदनस्तन्यद्वेषाङ्गरुग्भ्रमाः||५६||
बालाञ्च मृद्भक्षणान्नित्यं रक्षेत्| तया हि मृदा नियतमवश्यं गदाः स्युः| के त इत्याह-पाण्डुत्वेत्यादि| जन्तवः क्रिमयः|| ५६||
Adhikarana dantapavanaBakShaNaniShedhaH (57) · Śloka 57
भक्षयेद्दन्तपवनं नास्थिरद्विजबन्धनः|
तस्य तद् घट्टनात्क्रुद्धः कुर्याद्दन्तामयान्मरुत्||५७||
स च बालो यावत्स्थिरद्विजबन्धनो न सम्पन्नस्तावद् दन्तपवनं न भक्षयेत्| सुबोधम्| तस्येत्यस्थिरद्विजबन्धनस्य| तत् घट्टनात् क्रुद्धो वायुर्दन्तामयान् कुर्यात्|| ५७||
Adhikarana bAlopacArapAlanaPalam (58-59) · Śloka 59
शूरैरायुधिभिर्गुप्तमधृष्यं नगरं परैः|
यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिर्ग्रहैः||५८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे बालोपचरणीयो नाम प्रथमोऽध्यायः||५९||
अध्यायोक्तानां विधीनां प्रयोजनमाचिख्यासुरिदमाह-शूरैरित्यादि| शूरैरायुधपाणिभिर्गुप्तं नगरं यथा परैः शत्रुभिरधृष्यं धर्षयितुमशक्यं तथा यथोक्तैर्विधिभिर्गुप्तं रक्षितं ग्रहैः स्कन्दादिभिरधृष्यमिति|| ५८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे प्रथमोऽध्यायः