Adhikarana pratij~jA (1) · Śloka 1
अथातो बालोपचरणीयनामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana pratij~jA (1) · Śloka 1
अथातो बालोपचरणीयनामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana ulbAdvishodhanam (2) · Śloka 2
अथ खलु जातमात्रमेव बालमुल्बात् सैन्धवसर्पिषा मार्जयेत्||२||
🔊 Audio coming soon
Adhikarana prANapratyAnayanam (3) · Śloka 3
ततोऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य क्रोशितुमपि रुजानुरूपसमर्थस्यानवस्थिताशेषदेहधातोरसम्भाव्य यौवनाद्यवस्थस्य क्रकचस्पर्शमिव करवसनशयनसंसर्गमन्यमानस्याविकल्पितमङ्गानि विक्षिप्तः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसम्बाधयोनिपुटावपीडितप्राणप्रत्यानयनाय बलातैलेन परिषेकं कुर्यात्| कर्ण मूले चाश्मनोः सङ्घट्टनम्||३||
🔊 Audio coming soon
Adhikarana nishceShTasya prabodhanaM karNe mantroccAraNaM ca (4) · Śloka 4
यदि वाऽचेष्ट एव स्यात्ततः कृष्णकपालिकया शूर्पेण चैनमभिनिष्पुनीयात्| दक्षिणकर्णमूले च मन्त्रमस्योच्चारयेत् _ अङ्गादङ्गत्सम्भवसि हृदयादभिजायसे| आत्मा वै पुत्रनामासि स जीव शरदां शतम्| शतायुः शतवर्षोऽसि दीर्ग़मायुरवाप्नुहि| नक्षत्राणि दिशो रात्रिरहश्चत्वाभिरक्षतु||४||
🔊 Audio coming soon
Adhikarana nAbhinAlacchedanAdi (5) · Śloka 5
प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्चतुरङ्गुलस्योर्ध्वं क्षोउमसूत्रेण बद्ध्वा तीक्ष्णेन शस्त्रेण वर्धयेत्| ग्रीवायां चैनमासज्जेत्| नाभिञ्च कुष्ठतैलेन सेचयेत्||५||
🔊 Audio coming soon
Adhikarana snapanam (6) · Śloka 6
ततः क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा सप्ततपनीयरजतनिर्वापणकवोष्णेन कपित्थपत्रकषायेण वा तद्विधेन स्नापयेत्||६||
🔊 Audio coming soon
Adhikarana jihvauShThAdishodhanam (7) · Śloka 7
ततोऽस्य सुपरिलिख़ितनख़या सुप्रक्षालितोपवानया कार्पासपिच्ववगुण्ठितया दक्षिणप्रदेशिन्या जिह्वोउष्ठकण्ठमनुसुख़ं प्रमुज्यात्| तालुं चोन्नाम्य स्नेहपिचुनोपरिष्टादवगुण्ठयेत्||७||
🔊 Audio coming soon
Adhikarana medhAjanakaM prAshanam (8) · Śloka 8
ततश्चैन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रम् कुशाग्राभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत्| तद्वद् ब्राह्मीबलानन्ताशतावर्यन्यतमचूर्णं वा||८||
🔊 Audio coming soon
Adhikarana garBodakavAmanam (9) · Śloka 9
ततः सैन्धवोपहितेन सर्पिषा गर्भोदकानि वामयेत्| तथास्योरः कण्ठविशुद्ध्या लाघवमभिलाषश्च जायते||९||
🔊 Audio coming soon
Adhikarana jAtakarma (10) · Śloka 10
अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात्||१०||
🔊 Audio coming soon
Adhikarana sUtikAyAH stanyAvataraNakAlaH (11) · Śloka 11
अपि च सिराणां हृदयस्थानां विवृतत्वात्प्रसूतितः| तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते||११||
🔊 Audio coming soon
Adhikarana prathamAdidineShu shishoH prAshanam (12) · Śloka 12
तस्मात्प्रथमेऽहन्यनन्ता मिश्रिते मधुसर्पिषी मन्त्रपूते त्रिकालं प्राशयेत्| द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च||१२||
🔊 Audio coming soon
Adhikarana prathamastanyapAnavidhiH (13) · Śloka 13
ततः प्राङ्निवारितस्तन्यस्य स्वपाणितलसम्मितं सर्पिर्द्विकालं दापयेदनन्तरं च स्तन्यमिष्टितः||१३||
🔊 Audio coming soon
Adhikarana karNapathi snehadAnam (14) · Śloka 14
अहरहश्चास्य श्रोत्रशृङ्गाटकं स्नेहाप्लुतेन प्लोतेन प्रच्छादयेत्||१४||
🔊 Audio coming soon
Adhikarana saMveshanam (15) · Śloka 15
प्राक्शिरसं चैनं क्षोउमनिचये संवेशयेदुच्छीर्षके चास्याभिमन्त्रितमुदकुम्भं स्थापयेत् द्वारपक्षयोश्च||१५||
🔊 Audio coming soon
Adhikarana vIjanAdyupacArAH (16) · Śloka 16
आदारीविदारीबदरीख़दिरनिम्बपीलुपरूषकशाख़ाभिरेनं वीजयेत्| ताभिश्च समन्ततः सूतिकागारं परिVवारयेत्| सर्षपातसीकणकणिकाश्चान्तर्बहिः प्रकिरेत्| सायं प्रातश्च बलिम्||१६||
🔊 Audio coming soon
Adhikarana dhUpanaM shAntikarma ca (17) · Śloka 17
व्रणोक्तैश्च गुग्गुल्वादिभिर्धूपं कुर्वीत| तथा ब्राह्मणोऽथर्ववेदविद्दशाहं शान्तिकर्म कुर्यात्| मायूरीं महामायूरीमार्यारत्नकेतुधारिणीं चोभयकालं वाचयेत्||१७||
🔊 Audio coming soon
Adhikarana rakShAkarmavisheShaH (18) · Śloka 18
हिङ्गुवचातुरुष्करक्षोघ्नैः पोटलिकामुत्तरदेहल्यामासज्जेत्| कुमारस्य च सह मात्रा काण्ठे उच्छीर्षके च| तद्वदार्यापर्णशबरीमार्यापराजितां च गोरोचनाभिलिखिताम्| द्वारे च देहलीमनुतिर्यङ्मुसलं निधापयेत्| कणकण्डकतिन्दुकेन्धनाग्निं नक्तं दिवञ्च जागृयात्| तथानुरक्ताः स्त्रियः सुहृदश्च| प्रहृष्टजनसम्पूर्णञ्च तद्वेश्म कार्यम्||१८||
🔊 Audio coming soon
Adhikarana stanyadAnArhadhAtrIlakShaNam (19) · Śloka 19
अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृतानातुरा जीवद्वत्सा वत्सला दक्षिणा ब्रह्मचारिण्यव्यङ्गा बहुक्षीरा शुक्लाम्बराचारा दीर्घह्रस्वादिदेहदोषाष्टकरहिता अलम्बोर्ध्वचूचुकातिपीनहीनस्तनदोषमुक्ता युक्तचूचुका धात्री स्यात्तस्य एव स्तन्यं पिबेत||१९||
🔊 Audio coming soon
Adhikarana shuddhastanyalakShaNam (20) · Śloka 20
तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितञ्च तच्छुद्धमारोग्यबलजननम्||२०||
🔊 Audio coming soon
Adhikarana dhAtryAH stanadAnavidhiH (21) · Śloka 21
अथ धात्री स्नाताऽनुलिप्ता नित्यमहतवासाः सुमनाः प्रजास्थापनौषधीः शिरसा बिभ्राणा प्राङ्मूखी स्तनं प्राग्दक्षिणं धौतमीषत्परिस्रुतं पाययेत्||२१||
🔊 Audio coming soon
Adhikarana nAnAstanyapAnadoShAH (22) · Śloka 22
नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधा व्यापदो भवन्ति| अपरिस्रुते चातिस्तन्यपूर्णस्तनपानेनोत्स्नेहनात् कासश्वासज्वरच्छर्दिषां सम्भवः||२२||
🔊 Audio coming soon
Adhikarana stanyanAshahetavaH stanyajananopAyAshca (23) · Śloka 23
रूक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः| स्तन्यजननानि तु मद्यानि सीधुवर्ज्यान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्चौषधयः क्षीरपानमनायासः सौमनस्यं च||२३||
🔊 Audio coming soon
Adhikarana pAnAnarhastanyaM stanyAnarhabAlAvasthA ca (24) · Śloka 24
न तु क्षुधितशोकार्तश्रान्तक्रुद्धप्रदुष्टधातुगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधञ्च बालमिति||२४||
🔊 Audio coming soon
Adhikarana ShaShThInishAyAM visheShakRutyam (25) · Śloka 25
भवति चात्र- षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः| जागृयुर्बान्धवास्तस्य दधतः परमां मुदम्||२५||
🔊 Audio coming soon
Adhikarana nAmakaraNam (26) · Śloka 26
दशमे द्वादशे वाह्नि गोत्राचारैः शुभैः शुभे| सूता स्नानोत्सवं कुर्यात्पिताऽपत्यस्य नाम च| दिने शततमे वाख्यां पूर्णे संवत्सरेऽथवा| विभ्रतोऽङ्गैर्मनोह्वालरोचनागुरुचन्दनम्| पूज्यं त्रिपुरुषानूकमादौ घोषवदक्षरम्| अवृद्धं कृतमूष्मान्तमनरातिप्रतिष्ठितम्| नक्षत्रदेवतायुक्तं तदेव तु न केवलम्| मङ्गल्यमन्तरन्तस्थं न दुष्टं न च तद्धितम्| पुंसो विसर्जनीयान्तं समवर्णं स्त्रियाः पुनः| विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमम्| सुखोद्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्||२६||
🔊 Audio coming soon
Adhikarana bAlasyAyuHparIkShaNam (27) · Śloka 27
ततः प्रकृतिभेदोक्तरूपैरायुः परीक्षणम्| प्रागुदक्शिरसः कुर्याद्बालस्य ज्ञानवान्भिषक्||२७||
🔊 Audio coming soon
Adhikarana prashastaM veshma upakaraNAni ca (28) · Śloka 28
प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि| निर्वातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितम्| निर्मत्कुणाखुमशकमतमस्कं च शस्यते| शुचिधौतोपवानानि निर्वलीनि मृदूनि च| शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च||२८||
🔊 Audio coming soon
Adhikarana dhUpanam (29) · Śloka 29
काकोऽविशस्तः शस्तश्च धूपने त्रिवृतान्वितः| वचाज्यकुष्ठश्रीवेष्टसर्षपैर्धूपयेत् सदा||२९||
🔊 Audio coming soon
Adhikarana bodhanAdau sAvadhAnatA (30) · Śloka 30
बोधयेत्सहसा सुप्तं नो न चैनं समुत्क्षिपेत्| तथा ह्यस्य समुत्त्रासो वेगरोधश्च जायते||३०||
🔊 Audio coming soon
Adhikarana lAlApanodanopAyaH (31) · Śloka 31
माक्षिकामलकव्योषबृहतीमूलसैन्धवैः| लालोपनोदरुच्यर्थं मुख़मन्तःपरामृशेत्||३१||
🔊 Audio coming soon
Adhikarana maNyAdidhAraNam (32) · Śloka 32
जीवत्ख़ड्गादिशृङ्गेषु समासक्ताञ्छुभान् मणीन्| धारयेद् दश चैन्द्र्यादीञ्जीवकर्षभकावपि| आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीम्| हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषान्सततं वचाम्||३२||
🔊 Audio coming soon
Adhikarana stanyadoShodBavAH gadAH (33) · Śloka 33
स्तन्यदोषाद्गदास्तस्य यथोक्तं तत् पिबेद्यतः| पीनाऽतिकन्धरास्तम्भं कुर्यादूर्ध्वाक्षमूर्ध्वगः| उच्छ्वासरोधाल्लम्बोऽतिस्तनो जीवितसंशयम्| न गर्भिण्याः पिबेत्स्तन्यं पारिगर्भिककृद्धि तत्||३३||
🔊 Audio coming soon
Adhikarana stanyABAve upAyaH (34) · Śloka 34
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्| मूलैः सिद्धं बृहत्याद्यैः स्थिराभ्यां वा सितायुतम्||३४||
🔊 Audio coming soon
Adhikarana sUtikAgArAnniShkramaNavidhiH (35) · Śloka 35
चतुर्थे सूतिकागारादग्निस्कन्दपुरोगमान्| मासे निष्क्रामयेद्देवान् नमस्कर्त्तु स्वलंकृताम्||३५||
🔊 Audio coming soon
Adhikarana dharaNyAmupaveshanantatra mantrashca (36) · Śloka 36
पञ्चमे मासि पुण्येऽह्नि धरण्यामुपवेशयेत्| द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशम्| धरण्यशेषभूतानां माता त्वमसि कामधुक्| अजरा चाप्रमेया च सर्वभूतनमस्कृता| चराचराणां लोकानां प्रतिष्ठास्यव्ययासि च| कुमारं पाहि मातेव ब्रह्मा तदनुमन्यताम्| स्वाहेति मन्त्रेणानेन प्रत्यहं च ततः परम्| साश्रयं सावलम्बं च कट्यादीन् मर्दयेदनु||३६||
🔊 Audio coming soon
Adhikarana annaprAshanam (37) · Śloka 37
षष्ठेऽन्नप्राशनं मासि क्रमात्तच्च प्रयोजयेत्| चिरान्निषेवमाणोऽन्नं बालो नातुर्यमश्नुते| भजेद्यथा यथा चान्नं स्तन्यं त्याज्यं तथा तथा||३७||
🔊 Audio coming soon
Adhikarana karNavyadhavidhiH savistaraH (38) · Śloka 38
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि| कर्णौ हिमागमे विद्ध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्| प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः| दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना| मध्यतः कर्णपीठस्य किद्दिगण्डाशयं प्रति| जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते| घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते| विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्| नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः| कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः| सशोफदाहसंरम्भमन्यास्तम्भापतानकाः| तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्| स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः| स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्| आमतैलेन सिञ्चेच्च बहलां तद्वदारया| विद्ध्येत्पालीं हितभुजः सञ्चार्याथ स्थवीयसी| वर्तिस्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः| स्वेदितोद्वर्तितं कर्णमभ्यक्तं बृंहणैः पुनः| नाजीर्णे न मलोद्रेके न चात्युष्णेऽपि वर्धयेत्| सदा च युञ्ज्यादभ्यङ्गान् कर्णपालीगदोदितान्| पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे| कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत्| भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः| नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः| जिह्वसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः| जाते महति संरम्भे वर्तिमाश्वपनीय तत्| यवैरण्डजटायष्टीमञ्जिष्ठाज्यैः प्रलेपयेत्| सुरूढं च पुनर्विद्धयेत्त्वरया तु विवर्धनात्| छिद्येत पाली शुद्धस्य शुद्धास्त्रां सन्दधीत ताम्| कर्णामयनिषेधोक्तसन्धानविधिना भिषक्||३८||
🔊 Audio coming soon
Adhikarana varShaparyantAH niShedhavisheShAH (39) · Śloka 39
वर्षं स्ववसतेर्बाह्यं कुमारस्य न दर्शयेत्| दीपमातपमग्निं च रूपमन्यच्च भासुरम्||३९||
🔊 Audio coming soon
Adhikarana stanAdapanayanam (40) · Śloka 40
अथैतं जातदशनं क्रमशोऽपनयेत् स्तनात्| पूर्वोक्तं योजयेत् क्षीरमन्नञ्च लघु बृंहणम्||४०||
🔊 Audio coming soon
Adhikarana stanAdapanayanopAyAH (41) · Śloka 41
कुर्यादपस्तनं स्नेहसंक्रान्त्या स्तनलेपनैः| बीभत्सैर्या वकासेककृत्रिमक्षतदर्शनैः||४१||
🔊 Audio coming soon
Adhikarana apastanyasya modakAH (42) · Śloka 42
प्रियालमज्जमधुकमधुलाजसितोपलैः| अपस्तन्यस्य संयोज्यः प्रीणनो मोदकः शिशोः| दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः| संग्राही धातकीपुष्पशर्करालाजतर्पणैः||४२||
🔊 Audio coming soon
Adhikarana tIvrabuBukShAnivRuttAvupAyaH (43) · Śloka 43
बुभुक्षा चेत् प्रबलतामपस्तन्यस्य गच्छति| अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकम्||४३||
🔊 Audio coming soon
Adhikarana kumAradhAraH (44) · Śloka 44
अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः| कुमारधारः कर्त्तव्यस्तत्राद्यो बालचित्तवित्| अधार्मिकं दुराचारः स्थूलो विकटगामिनम्| करोति लोलुपो बालं घस्मरत्वेन रोगिणम्||४४||
🔊 Audio coming soon
Adhikarana kumAraBeShajAni (45) · Śloka 45
रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः| अन्यत्रात्ययिकाद्व्याधेविरेकं सुतरां त्यजेत्||४५||
🔊 Audio coming soon
Adhikarana vitrAsananiShedhaH (46) · Śloka 46
त्रासयेन्नाविधेयं च त्रस्तं गृह्णन्ति हि ग्रहाः| वस्त्रपातात्परस्पर्शात्पालयेल्लङ्ग़नाच्च तम्||४६||
🔊 Audio coming soon
Adhikarana krIDABUmiH ramaNakAni ca (47) · Śloka 47
क्रीडाभूमिः समा कार्या निश्शस्त्रोपलशर्करा| वेल्लोषणकणाम्भोभिः सिक्ता निम्बोदकेन वा| जातुषं घोषविच्चित्रमत्रांस रमणं बृहत्| अतीक्ष्णाग्रं गवाश्वादिमङ्गल्यमथ वा फलम्||४७||
🔊 Audio coming soon
Adhikarana vidyAdhyApanAdi (48) · Śloka 48
शक्तिमन्तं यथावर्णं विद्यामध्यापयेत्ततः| अनुशिष्यात्सदा चैनं धर्माय विनयाय च| यथा नेन्द्रियदुष्टाश्वैर्ह्नियते यौवनागमे||४८||
🔊 Audio coming soon
Adhikarana bAlasya dainandinakRutyAni (49) · Śloka 49
अभ्यङ्गोद्वर्तनं स्नानं प्रत्यहं च समाचरेत्| सहदेवास्थिराकौन्तीकुमुदोत्पलचन्दनैः| बृहतीफलतक्कारीसर्षपाकुष्ठसैन्धवैः| अश्वगन्धाबलैरण्डतिलापामार्गतण्डुलैः| सात्मगुप्ताफलैस्तैलं साजक्षीरं विपाचितम्| रक्षोघ्नः पुष्तिदोऽभ्यङ्गस्तद्वदुद्वर्तनं च तैः| दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः| मूर्वामूलद्विरजनीयवैश्चोद्वर्तनं हितम्| कुलत्थचूर्णमेकं वा वाजिगन्धारजोऽपि वा| स्नाने सर्वौषधीकल्को जीवनीयाम्बु चेष्यते||४९||
🔊 Audio coming soon
Adhikarana BaktatvanusAraM bAlacaryAvisheShaH (50) · Śloka 50
आरग्वधादिनिर्यूहे शृतं शीतवसन्तयोः| वत्सकादिप्रतीवापं कुमारं प्राशयेद् घृतम्| ग्रीष्मे वातातपस्वेदैर्बालः क्लाम्यत्यतो हिमम्| प्रातरेव पिबेद् दुग्धं जीवनीयगणैः शृतम्| सिताघृताढ्यान् सक्तूंश्च लिह्यान्न त्वेव पीतकम्| नात्यम्बुपायी लिह्याद्वा घृतसात्म्यो घृतं शृतम्| काकोलीशर्करामेदातुगायष्ट्याह्वजीवकैः| कुटन्नटेन मूर्धानं लिप्पेदन्यश्च शीतलैः| रास्नासरलवर्षाभूहिङ्गुसैन्धवदारुभिः| सर्पिर्विदार्यादिजले साधितं लेहयेच्छिशुम्| प्रपण्डरीकं मधुकं सूप्यपर्ण्यौ दुरालभा| प्रियालमज्जाकाकोलीविदारीकट्फलामृताः| द्राक्षाजशृङ्गी दुग्धीका क्षीरशुक्ला हयाह्वया| शृङ्गीमधुककुसुममेदर्षभकजीवकम्| एभिः क्षीरघृतं सिद्धं लिह्याद्बालो घनात्यये||५०||
🔊 Audio coming soon
Adhikarana brAhmyAdighRutam (51) · Śloka 51
ब्राह्मीसिद्धार्थकवचाशारिवाकुष्ठसैन्धवैः| सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम्| आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्||५१||
🔊 Audio coming soon
Adhikarana sArasvataghRutam (52) · Śloka 52
त्रिफला लक्ष्मणानन्ता समङ्गा सारिवा वचा| ब्राह्मी पाठा द्विबृहती द्विस्थिरा द्विपुनर्नवम्| सहदेवा रवेर्वल्ली पयस्य गिरिकर्णिका| तोयकुम्भे पचेदेतत् पलांशं पादशेषितम्| तेन कौन्तीवचाकुष्ठकृष्णासर्षपसैन्धवैः| नीरुक्सरूपवत्सायाः संयुक्तं पयसा च गोः| पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतम्| पानाभ्यञ्जनतो मेधास्मृत्यायुः पुष्टिबुद्धिदम्| रक्षोघ्नं च विषघ्नं च सारस्वतमिदं घृतम्||५२||
🔊 Audio coming soon
Adhikarana vAgvivardhanayogaH (53) · Śloka 53
लीढं वा सघृतक्षौद्रं वचाहेमरजोऽल्पशः| संवत्सरं परं मेध्यं रक्षोघ्नं वाग्विवर्धनम्||५३||
🔊 Audio coming soon
Adhikarana vayaHsthAdyavalehanam (54) · Śloka 54
वयःस्था पिप्पली कुष्ठं हरिद्रा शारिवा वचा| मांसी कैडर्यमित्येतच्चूर्णं ब्राह्मीरजः समम्| लीढ्वाज्येन शिशुर्वर्षं भवत्यपलितोऽव्यथः| बलवान् शृतसम्पन्नः शतायुः स्थिरयौवनः| प्रातः प्रातरिमं लेहं धात्रीं चास्यावलेहयेत्||५४||
🔊 Audio coming soon
Adhikarana dUrvAdiprAshAH (55) · Śloka 55
ब्राह्मीवद्योजयेद्दूर्वां मूर्वां ब्रह्मसुवर्चलाम्| लक्ष्मणां श्वेततक्कारीमव्यण्डां गौरसर्षपाम्| सहस्रवीर्यां फलिनी पक्वं च बृहतीफलम्| रोहिषं चेत्यमी प्राशाः पृथग्द्वादश कीर्तिताः| महताऽप्युपयोक्तव्या नरेण नियतात्मना||५५||
🔊 Audio coming soon
Adhikarana mRudBakShaNAdbAlarakShA (56) · Śloka 56
नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः| पाण्डुत्वश्वयथुश्वासकासातीसारजन्तवः| छर्दिमूर्च्छाग्निसदनस्तन्यद्वेषाङ्गरुग्भ्रमाः||५६||
🔊 Audio coming soon
Adhikarana dantapavanaBakShaNaniShedhaH (57) · Śloka 57
भक्षयेद्दन्तपवनं नास्थिरद्विजबन्धनः| तस्य तद् घट्टनात्क्रुद्धः कुर्याद्दन्तामयान्मरुत्||५७||
🔊 Audio coming soon
Adhikarana bAlopacArapAlanaPalam (58-59) · Śloka 59
शूरैरायुधिभिर्गुप्तमधृष्यं नगरं परैः| यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिर्ग्रहैः||५८|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे बालोपचरणीयो नाम प्रथमोऽध्यायः||५९||
🔊 Audio coming soon