Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

32. bhaṅgapratiṣēdhaḥ

Adhikarana atha bha~ggapratiShedho nAma dvAtriMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातो भङ्गप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

प्रहारप्रसङ्गेन भङ्गानां स्वरूपं चिकित्सां च प्रदर्शयुतुमध्याय आऱ्रभ्यते||१||

Adhikarana bha~ggavaividhyam (2) · Śloka 2

पतनपीडनप्रहाराक्षेपणव्यालदंशनप्रभृतिभिरभिघातवि- शेषैरनेकविधमस्थि भङ्गुमुपदिशन्ति||२||

🔊 Audio coming soon

पतनादिभिरभिघातविशेषैरनेकविधमस्थ्नो भङ्गमुपदिशन्त्याचार्याः| पतनं श्वभ्रादौ वृक्षपर्वतादेर्वा| पीडनं गुल्मयन्त्रादिना| प्रहारो मुद्गरादिना| आक्षेपणमङ्गस्याकर्षणेन त्रोटनम्| व्यालगजमहिषादयस्तेषां दंशनं दंशः| एवंविधमन्यदपि प्रभृतिशब्देन गृह्यते| एतेषां विशेषैरनेकविधोऽनन्तरूपोऽस्थिभङ्गः ||२||

Adhikarana bha~ggAdhiShThAnadvaividhyam (3) · Śloka 3

तत्तु भङ्गजातं द्व्यधिष्ठानं सन्धावसन्धौ च||३||

🔊 Audio coming soon

तच्च भङ्गजातं सन्ध्यसन्धिभेदेन द्व्यधिष्ठानम्||३||

Adhikarana sandhibha~ggasya ShaDvidhatvam (4) · Śloka 4

तत्र सन्धिमुक्तं षड्विधमुत्पिष्टं विश्लिष्टमवक्षिप्तमतिक्षिप्तं तिर्यक् क्षिप्तं विवर्तितमिति||४||

🔊 Audio coming soon

तत्रोत्पिष्टादिभेदेन षड्विधं सन्धिगतं भङ्गजातम्||४||

Adhikarana sandhibha~ggasAmAnyalakShaNam (5) · Śloka 5

तस्य सामान्यलक्षणं प्रसारणाऽऽकुञ्चनविवर्तनाक्षेप- णाशक्तिरुग्ररुजता स्पर्शासहिष्णुत्वं च||५||

🔊 Audio coming soon

तस्य च षड्विधस्यापि सन्धिभङ्गस्य प्रसारणाऽशक्त्यादिकं सामान्यं साधारणं लक्षणम्||५||

Adhikarana sandhibha~ggavisheShalakShaNam (6) · Śloka 6

अथोत्पिष्टे स्वस्थान एव सन्धावुभयतः शोफो वेदनाविशेषतश्च रात्रौ भवति| विश्लिष्टेऽल्पशोफो वेदनासातत्यं सन्धिविकिर्या च| अवक्षिप्ते सन्धिविश्लेषस्तीव्रा च रुक्| अतिक्षिप्ते द्वयोरपि सन्ध्यस्थ्नोरतिक्रान्तता वेदना च| तिर्यक् क्षिप्ते त्वेकस्यास्थ्नः पार्श्वतो गमन- मत्यर्थं वेदना च| विवर्तिते सन्धिपार्श्वगमनाद्विषमाङ्गता वेदना च||६||

🔊 Audio coming soon

अथेत्यादिनोत्पिष्टादि विशेषेणोच्यते| उत्पिष्टे स्वस्थान एव सन्धौ स्वस्थानस्थस्यैव सन्धेरुभयतः शोफः| रात्रौ च वेदना विशेषेण भवति| विश्लिष्टेत्यादि सुबोधम्| वेदनायाः सातत्यमविच्छिन्नता| सन्धेर्विक्रिया पूर्वापेक्षया किञ्चिद्विकृतत्वम्| अतिक्रान्तता दूरवर्तित्वम्| इत्युक्तः सन्धिभङ्गः|| ६||

Adhikarana asandhiBa~ggasya dvAdashavidhatvam (7) · Śloka 7

असन्धिभग्नं पुनर्द्वादशविधम्| तद्यथा-कर्कटकं वक्रं स्फुटितं वेल्लितमस्थिच्छल्लिकाऽश्वकर्णं पिच्चितं दारितं चूर्णितमतिपातितं शेषितं मज्जानुगतमिति||७||

🔊 Audio coming soon

असन्धिभग्नं तु कर्कटकादिभेदेन द्वादशविधम्||७||

Adhikarana asandhiBa~ggasAmAnyalakShaNam (8) · Śloka 8

श्वयथुबाहुल्यं स्पन्दनं विवर्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दः स्रस्ताङ्गता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसन्धिभग्नरूपम्|८|

🔊 Audio coming soon

तस्य च द्वादशविधस्याऽप्यसन्धिभग्नस्य श्वयथुबाहुल्यादिकं साधारणं लक्षणम्||८||

Adhikarana asandhiBa~ggasAmAnyalakShaNam (8) · Śloka 8

श्वयथुबाहुल्यं स्पन्दनं विवर्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दः स्रस्ताङ्गता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसन्धिभग्नरूपम्||८||

🔊 Audio coming soon

तस्य च द्वादशविधस्याऽप्यसन्धिभग्नस्य श्वयथुबाहुल्यादिकं साधारणं लक्षणम्||८||

Adhikarana sAdhyAsAdhyatAnirdeshaH (10) · Śloka 10

एषामन्त्यानि पञ्च कृच्छ्रसाध्यानि कृशातिबालवृद्धासहानामत्याशिनां वातात्मकानां कुष्ठिनामुपद्रववतां च| असाध्यं तु भिन्नं कटीकपालं सन्धिमुक्तं वा जघनमुत्पिष्टं कूर्परो विवर्तितस्तथा ललाटं चूर्णितमसंश्लिष्टकपालं च शिरः शङ्खपृष्ठस्तनान्तरभङ्गञ्चेति||१०||

🔊 Audio coming soon

एषां द्वादशानामन्त्यानि पञ्च दारितचूर्णितातिपातितशेषितमज्जानुगतानि कृशातिबालादीनां कृच्छ्रसाध्यानि| भिन्नं कटीकपालादिकमसाध्यम्| कटीकपालं सन्धिमुक्तं वा भिन्नं वा| सुबोधम्| शिरः शङ्खस्य पृष्ठस्तनस्य चान्तरे मध्ये यत् भग्नं तदप्यसाध्यम्||१०||

Adhikarana sAdhAraNopakramaH (11) · Śloka 11

भवन्ति चात्र अथावनतमुन्नाम्यमुन्नतं चावपीडयेत्| अञ्च्छेदधिक्षिप्तमधोगतं चोपरि वर्तयेत्| आञ्च्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः||११||

🔊 Audio coming soon

अथेत्यादि| यदवनतमस्थि तदुन्नाम्यमुन्नमनीयमुन्नतं चावपीडनीयम्| आञ्च्छेदित्यादि अधिक्षिप्तं स्थानान्तरगतमस्थि आच्छेदाकर्षेत्| तथा अधोगतमाञ्च्छनादिभिरुपरि वर्तयेत्| चर्मसंक्षेपबन्धनं देहचर्मणः सङ्कोचं कृत्वाऽवबन्धनम्| अथैषां विशेषावगतेरनन्तरमवनतमस्थि येन केनाऽप्युपायान्तरेणोन्नमनीयम्| उन्नतमस्थ्यवपीडयेद्धस्ततलादिनावपीडनं गमयेत्| अधिक्षिप्तं स्थानात् स्थानान्तरगतमाञ्च्छेदाञ्च्छनेन स्वस्थानमानयेत्| आञ्च्छनं संवाहनम्| अधोगतं प्रहारदिवैचित्र्यादन्यस्यास्थ्न अधोभागगतमुपरि वर्तयेद्यथापुरं स्थापयेत्||११||

Adhikarana vraNabandhanavidhiH (12) · Śloka 12

सन्धीन् शरीरगान् सर्वाश्चलानप्यचलानपि| इत्येतैः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलम्| पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः| कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः| वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः| सुश्लक्ष्णैः सप्रतिष्टम्भैर्वल्कलैः शकलैरपि| कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्||१२||

🔊 Audio coming soon

सन्धीनित्यादि| इत्येतैरनन्तरप्रदर्शितैः स्थापनोपायैः शरीरगान् सर्वान् सन्धीश्चलांश्चाचलांश्च शरीरप्रदेशकान् सम्यङ् निश्चलं संस्थाप्य प्रभूतसर्पिभिः सुखैर्वस्त्रपट्टैर्वैष्टयित्वा ततोऽनन्तरं पृथ्वादिगुणैः कदम्बादिजैर्वल्कलैस्त्वक्पट्टै वंशोद्भवैः शकलैस्त्वक्सारपट्टैर्वा वेष्टितस्य वस्त्रस्योपरि निहितैरेव कुशाह्वयै रज्ज्वादिभिः सन्निविष्टैर्बन्धं योजयेत् समं च| (अचलानपीत्यपि शब्देनाचलेषूत्पिष्टादिष्वपि बन्धनाद्विना रूक्शोफाद्युपशमो न स्यादिति सूचितम्| सर्वान् सन्धीन् भग्नानित्यर्थात् गम्यते| प्रभूतसर्पिर्भिस्तान्तवानुपश्लेषणार्थं बहुलघृतैः| पट्टैर्व्रणप्रमाणैश्चेलखण्डैः प्रतिष्टम्भोपेतैः| प्रतिष्टम्भः प्रतिबन्धः सूत्रसङ्गार्थमुभयोरप्यग्रयोः कर्णिकोपेतैरित्यर्थः| कुशाह्वयैः कुशासंज्ञै केवलं कुशाभिरेव वा| बन्धं तान्तवसूत्रादिभिर्वन्धनं योजयेत्| कुशाह्वयैः शकलैरिति पाठ्याकारः||१२||

Adhikarana bandhadoShau (13) · Śloka 13

शिथिलेन हि बन्धेन सन्धिस्थैर्यं न जायते| गाढेनातिरुजादाहपाकश्वयथुसम्भवः||१३||

🔊 Audio coming soon

समबन्धहेतुः शिथिल इत्यादि| सुबोधम्| (शिथिलेन श्लथेन बन्धेन सन्धेः स्थैर्यम्| अध्वाटनभारवहनव्यायामादि क्लेशसहिष्णुत्वं न सम्पद्यते| हि यस्मादर्थे||१३||

Adhikarana bandhamokShaNaniyamAH (14) · Śloka 14

त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहान्मोक्षयेद्धिमे| साधारणे तु पञ्चाहात् भङ्गदोषवशेन वा||१४||

🔊 Audio coming soon

त्र्यहादिति| ऋतुशब्दः कालपर्यायः| अथवा भङ्गाधिष्ठातृदोषवशेन मोक्षयेत्| वाते श्लेष्मणि च चिरात्| पित्ते रक्ते च शीघ्रमित्यर्थः ||१४||

Adhikarana anantaropacArAH (15) · Śloka 15

न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्| तं पञ्चमूलपक्वेन पयसा तु सवेदनम्| सुखोष्णं चावचार्यं स्याच्चक्रतैलं विजानता| विभज्य देशं कालं च वातघ्नौषधसंयुतम्| प्रततं लेपसेकांश्च विदध्यात् भृशशीतलान्| गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्| प्रातःप्रातः पिबेद्भग्नः शीतलं लाक्षया युतम्| सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः| कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः||१५||

🔊 Audio coming soon

न्यग्रोधादीत्यादि| सुबोधम्| (ततो बन्धनादनन्तरं तं भग्नमङ्गं शीतेन स्पर्शशीतलेन न्यग्रोधादिगणकषायेण सेचयेत्| सवेदनं वेदनान्वितं चेद्बिल्वादिपञ्चकक्वाथविपक्वेन क्षीरेण सेचयेद्वेदनोपशमाय)| सुखोष्णमित्यादि| देशं कालं च गुणदोषैर्विभज्य वातघ्नौषधसंयुतं सुखोष्णं चक्रतैलमवचार्यं याद्विजानता विज्ञानवता भिषजा| (वाशब्दः पञ्चमूलसिद्धक्षीरचक्रतैलयोर्विकल्पार्थः| अवचार्यं प्रयोज्यं स्यात्)| सुबोधम्| (प्रततमनवरतं भृशशीतलान् स्पर्शवीर्ययोरतिशयेन शीतान् प्रलेपान् परिषेकांश्च कुर्यात्)| सुबोधम्| गृष्टिरेकवारप्रसूता गौः (भग्नः पुरुषः ससर्पिष्कं सर्पिषोपेतं मधुरौषधसाधितं मधुरस्कन्धसिद्धं लाक्षाचूर्णयुक्तं शीतस्पर्शं गृष्टिक्षीरं सकृत्प्रसूता गौर्गृष्टिस्तस्याः क्षीरं प्रतिदिनं प्रातःकाले पिबेत्| सव्रणस्येत्यादि सुबोधं| (सव्रणस्य व्रणोपेतस्य| भग्नस्य व्रणस्तु मधुघृतोत्तरैरुद्रिक्तमधुघृतैः कषायैः कषायद्रव्यचूर्णैः प्रतिसार्यः| तुशब्देन भग्नव्रणस्य घृष्टावकृत्ताद्यन्यतमत्वेऽपि क्रियाविशेषः सूचितः| अथेत्यानन्तर्ये शेषोऽवशिष्टो भङ्गोदितः भङ्गेषुक्तो बन्धनादिः क्रियाक्रमः कार्यः)||१५||

Adhikarana vraNAntaraprakAreShu cikitsAvisheShaH (16) · Śloka 16

लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा| सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत्| तान् समान् सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः| समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्| पञ्चवल्कलचूर्णैर्वा मधुशुक्तसमन्वितैः| धातकीलोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः| विश्लिष्टोत्पिष्टयोः सन्धिमेवमेवाविघट्टयन्| उपाचरेद्यथास्वं च विसर्पादीनुपद्रवान्||१६||

🔊 Audio coming soon

अत्र व्रणप्रसङ्गादष्टविधेषु सद्योव्रणेषु प्रविलम्बिव्रणस्यापि बन्धनावश्यकत्वात् तत्क्रियाऽत्र विशेषेणोच्यते| सुबोधम्| (वैद्यो भिषक् लम्बानि येन-केनापि वेधविशेषेण प्रविलम्बितानि व्रणमांसानि मधुमिश्रितेन सर्पिषा प्रलिप्य व्रणान् सन्धधीत अन्योन्यं संश्लेषयेत्| यथास्थानं निवेश्य सीव्येदित्यर्थः| बन्धनैस्तत्तदङ्ग प्रत्यङ्गोचितैः कोशस्वस्तिकादिबन्धनविशेषैरुपपादयेत् सम्पादयेत्| बध्नीयादित्यर्थः)| तानिति व्रणान्| पञ्चवल्कलानां न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसानां त्वचः| (तान् व्रणान् समान् निम्नोन्नतरहितान् अन्योन्यसंश्लिष्टान् ज्ञात्वा यथावदवगम्य चूर्णितैः सूक्ष्मरजीकृतैः समङ्गादियुक्तैः फलिन्यादिचूर्णैर्व्रणे अवाकिरेत्| अथवा मधुशुक्तयुक्तैः पञ्चवल्कलचूर्णैरथवा धातकीलोध्रचूर्णैरवाकिरेत्| तथा एवं कृते सति व्रणा आशु द्रागेव रोहन्ति )| विश्लिष्टे तथोत्पिष्टे चैवमेवानन्तरोक्तेन प्रकारेणाऽविघट्टयन् सन्धिमुपाचरेत्| व्रणे च ये विसर्पश्वयथुदाहकृम्यादय उपद्रवास्तान्यथास्वमुक्तेन चिकित्सितेनोपचरेत् ||१६||

Adhikarana sAdhyAsAdhyatA sthairyatAptikAlashca (17) · Śloka 17

इति भङ्गौपक्रान्तः स्थिरधातोऋतौ हिमे| मांसलस्याल्पदोषस्य सुसाधो दारुणोऽन्यथा| पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात्| मासैः स्थैर्यं भवेत्सन्धेयथोक्तं भजतां विधिम्| सामान्यं साधनमिदं ................................||१७||

🔊 Audio coming soon

इत्यनेनोपक्रान्तो भङ्गः स्थिरधातोर्मांसलस्याल्पदोषस्य च हिमऋतौ शीतकाले सुसाधो भवति| अन्यथेत्युक्तवैपरीत्ये दारुणो दुस्साधः| पूर्व इत्यादि| पूर्ववयसो यथोक्तं विधिं भजत एकेन मासेन सन्धेः स्थैर्यं भवति| मध्यवयसो द्वाभ्यां मासाभ्याम्| अन्तवयसो वृद्धस्य त्रिभिर्मासैरिति क्रमार्थः| इति सामान्यं भङ्गसाधनमुक्तम्||१७||

Adhikarana sandhivisheShe karmavisheShaH - nakhasandhibha~ggaH (18) · Śloka 18

..........................विशेषो वक्ष्यते त्वतः| नखसन्धिं समुत्पिष्टं रक्तानुगतमारया| अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत्||१८||

🔊 Audio coming soon

अतोऽनन्तरं विशेषो वक्ष्यते| यो नखसन्धिः समुत्पिष्टं सन् रक्तानुगतो भवतित तमारयाऽऽराख्येन शस्त्रेणावमथ्य स्रुते तु रक्ते शालिपिष्टेन लेपयेत्||१८||

Adhikarana a~ggulisandhiBa~ggaH (19) · Śloka 19

भग्नान् सन्धिविमुक्तांश्च कृत्वा पूर्ववदङ्गुलीन्| तनुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत्||१९||

🔊 Audio coming soon

भग्नानित्यादि| सुबोधम्||१९||

Adhikarana UrvasthiBa~ggaH (20) · Śloka 20

चक्रयोगेन मतिमानाञ्छेदूर्वस्थि निर्गतम्||२०||

🔊 Audio coming soon

मतिमान् निर्गतमूर्वस्थि चक्रयोगेनाञ्छेत्| चक्रवत् दूरमाक्षिपन्नाधारे प्रवेशयेदित्यर्थः||२०||

Adhikarana kaTiBagnam (21) · Śloka 21

आञ्च्छेदूर्ध्वमधस्ताच्च कटिभग्नं चिकित्सकः||२१||

🔊 Audio coming soon

चिकित्सकः कटिभग्नं ऊर्ध्वमिति पूर्वकायमध इति पश्चिमकायमाञ्च्छेदेवं सन्धिः स्वस्थानमासादयति||२१||

Adhikarana aMsasandhiBa~ggaH (22) · Śloka 22

मुसलेनोत्क्षिपेत् कक्षमंससन्धौ विसङ्गते| स्थानस्थितञ्च बध्नीयात्स्वस्तिकेन समाहितः||२२||

🔊 Audio coming soon

सुबोधम्| मुसलोत्क्षेपणेन स्थानस्थितमंसं स्वस्तिकाख्येन बन्धेन बध्नीयात्||२२||

Adhikarana kUrparasandhiBa~ggaH (23) · Śloka 23

कौर्परं तु भिषक्सन्धिमङ्गुष्ठेनानुमार्जयेत्| अनुमृज्य ततः सन्धिं पीडयेत्कूर्पराच्च्युतम्| प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च कारयेत्||२३||

🔊 Audio coming soon

भग्नं कौर्परं सन्धिमङ्गुष्ठानुमार्जनेन कूर्पराच्च्यावयेत्| ततः कूर्पराच्च्युतं प्रसार्याऽऽकुञ्चयेत्| एवं हि स्वस्थानमासादयति||२३||

Adhikarana atideshena maNibandhAdiBa~ggaH (24) · Śloka 24

मणिबन्धे च जानौ च गुल्फे चैषः क्रियाक्रमः||२४||

🔊 Audio coming soon

मणिबन्धः इत्यादि| सुबोधम्||२४||

Adhikarana hastatalaBa~ggaH (25) · Śloka 25

उभे तले समे कृत्वा तलभग्नस्य देहिनः| बध्नीयादामतैलेन परिषेकं च कारयेत्| प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः| हस्ते जातबले कार्यं क्रमात्पाषाणधारणम्||२५||

🔊 Audio coming soon

तलभग्नस्य देहिन उभे तले समे परस्परं पुटलग्ने कृत्वा बध्नीयात्| ततः करतलमामतैलेनापक्वतैलेन परिषेचयेत्| प्रागित्यादि| सुबोधम्||२५||

Adhikarana akShakaBa~ggaH (26) · Śloka 26

सन्नमुन्नामयेत् स्विन्नमक्षकं मुसलेन तु| तथोन्नतं पीडयेत बध्नीयान्निबिडं ततः||२६||

🔊 Audio coming soon

सन्नमक्षकं स्वेदयित्वा मुसलेनोन्नामयेत्| तत्तून्नतं तत्सम्पीड्य निबिडं बध्नीयात्||२६||

Adhikarana bAhuBa~ggaH (27) · Śloka 27

ऊरुवच्च विधातव्यं बाहुभङ्गो प्रसाधनम्||२७||

🔊 Audio coming soon

बाहुभङ्गे च प्रसाधनं ऊरुवद्विधातव्यम्| ऊरुवदिति चक्रयोजनेन||२७||

Adhikarana grIvABa~ggaH (28) · Śloka 28

ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा| अवटावथ हन्वोश्च प्रगृह्योन्नमयेच्छिरः| समं कुशाभिर्बध्नीयादुत्तानं शाययेच्च तम्||२८||

🔊 Audio coming soon

विवृत्ता परिवृता या ग्रीवा तस्यामथवा क्रोडभागप्रविष्टायां ग्रीवायां शिरः अवटौ च हन्वोश्च प्रगृह्योन्नमयेत्| अवटुः कृकाटिका| ततः समं कुशाभिर्बध्नीयात्| कुशाख्याः काष्ठवल्कलादयः||२८||

Adhikarana hanusandhiBa~ggaH (29) · Śloka 29

हन्वस्थीनि समानीय हनुसन्धौ विसङ्गते| स्वेदयित्वा स्थिते सम्यक्पञ्चाङ्गीबन्धमाचरेत्| घृतं वातघ्नमधुरैः सिद्धं नस्यं च पूजितम्||२९||

🔊 Audio coming soon

सुबोधम्| पञ्चाङ्गीबन्धः अन्तरिक्षे काष्ठप्रयोगेन||२९||

Adhikarana dantasandhiBa~ggaH (30) · Śloka 30

दन्तानभग्नांश्चलितान् सरक्तानवपीडयेत्| वयस्थस्याम्बुभिः शीतैः परिषिच्य प्रलेपयेत्| बहिर्निर्वापणैरन्तः सन्धानीयैरुपाचरेत्| बलाद्वयशृते क्षीरे पद्मकादिशृतं घृतम्| नस्यगण्डूषयोर्योज्यं चलद्विजहितनि च| कल्कितैस्तद्धि तैश्चास्य दन्तमांसानि लेपयेत्| त्रीन् मासान् मृदु भुञ्जीत रसान्नं कठिनांस्त्यजेत्||३०||

🔊 Audio coming soon

सुबोधम्| क्षीरं बलाद्वयेन श्रुतं कृत्वा तस्मिन् पद्मकादिगर्भं घृतं श्रपयेत् तन्नस्ये गण्डूषे च योज्यम्| चलद्विजहितैरौषधैः कल्कितैर्दन्तमांसानि लेपयेत्| अत्र च दन्तचाले त्रीन् मासान् मृद्वकठिनं रसान्नं भुञ्जीत| कठिनांश्च भक्ष्यादींस्त्यजेत्||३०||

Adhikarana nAsABa~ggaH (31) · Śloka 31

नासां विवृत्तां सन्नां वा ऋजूकृत्य शलाकया| प्रत्येकं नस्ततो नाडीं द्विमुखीं सम्प्रवेशयेत्| ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत्||३१||

🔊 Audio coming soon

विवृत्तां परिवृत्तां सन्नां वा नासां शलाकया ऋजूपविष्टां कृत्वा प्रत्येकं नासाच्छिद्रं उभयमुखीं नाडीं यस्यामन्तर्वहिश्च मुखं एकेन श्वासं प्रविष्टमन्येन निस्सरति ताम्||३१||

Adhikarana karNaBa~ggaH (32) · Śloka 32

भग्नं कर्णं घृताभ्यक्तं न्यस्य बन्धेन योजयेत्| सद्यः क्षतविधानं च ततः पश्चात् समाचरेत्||३२||

🔊 Audio coming soon

सुबोधम्| न्यस्येति स्वे सन्निवेशे स्थाप्य||३२||

Adhikarana kaTyAdiBa~gge shayanavidhiH (33) · Śloka 33

कटीजङ्घोरुभग्नानां कवाटशयनं हितम्| यन्त्रणार्थं ततः कीलाः पञ्च कार्या निबन्धनाः| जडोरुपार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः| श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा| विमोक्षे भग्नसन्धीनां विधिमेनं समाचरेत्||३३||

🔊 Audio coming soon

कटीभग्नानां जङ्घाभग्नानामूरुभग्नानां च कवाटशयनं हितम्| कवाटं स्थिरं काष्ठपट्टम्| येषां च यन्त्रणार्थमचलनाय निबन्धनाः नियमनाधारभूताः पञ्चकीलाः कार्याः| तेषां नियोजनमाहजङ्घा च ऊरुश्च जङ्घोरु, तस्मिन् जङ्घोरुणि पार्श्वयोश्च द्वौ द्वौ कीलकौ तले पादतले एकः| तेनोत्तानस्य कवाटे स्थितस्यवामे जङ्ह्घोरुण्येकः कीलको दक्षिणे जङ्घोरुणि द्वितीयः| वामे पार्श्वे तृतीयो दक्षिणे पाऱ्श्वे चतुर्थः| पादतले एकः कीलको विश्रमाय| श्रोण्यादिषु भग्नसन्धीनां विमोक्षे चैतदेव| श्रोणिर्जघनमूलम्| अक्षको दोर्वक्षोमूलम्| (कीलकस्य पञ्चसङ्ख्याकथनात् सर्वत्रापि पञ्चैव कीलकाः भग्नस्य सन्धेरध ऊर्ध्वञ्च द्वौ द्वौ कीलको भवतः तल एकश्च| तत्र नाभेरुर्ध्वगानां सन्धीनां भङ्गे त्वेकः कीलक उपरिष्टाद्योज्य इति विशेषः)||३३||

Adhikarana ciravimuktasandhisthApanam (34) · Śloka 34

सन्धींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्| उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमानयेत्||३४||

🔊 Audio coming soon

(चिरविमुक्तसन्धेः स्वस्थानस्थापनोपायमाह) सुबोधम्| चिरविमुक्ताः ये विमुक्ताः सन्तो बहुकालमुपेक्षिताः| बुद्ध्येति यथौपयिकं विकल्पनेन||३४||

Adhikarana asandhiBagnasya saMshleShaNam (35) · Śloka 35

असन्धिभग्ने रूढे तु विषमोल्बणसाधिते| आपोथ्य भग्नं यमयेत्ततो भग्नवदाचरेत्||३५||

🔊 Audio coming soon

(असंश्लिष्टरूढस्याऽसन्धिभग्नस्य संश्लेष्णोपायमाह) यस्त्वसन्धिभग्नः स विषमोल्बणं कृत्वा साधितो दुर्योजितो रूढश्च तं सन्धिमापोथ्य भङ्क्त्वा पुनर्यमयेत्| ततो भग्नवत् भङ्गोक्तविधानेनाचरेत् चिकित्सेत्||३५||

Adhikarana bha~ggasya pAkAdrakShaNam (36) · Śloka 36

भग्नो नैति यथा पाकं प्रयतेत तथा भिषक्| पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति||३६||

🔊 Audio coming soon

सुबोधम्| (भिषक् भङ्गक्रियाकुशलो वैद्यः भङ्गो यथा पाकं न प्राप्नोति तथा प्रत्यनं कुर्यात्| यतः पक्वमांससिरास्नायुः पक्वानि मांससिरादीनि यस्मिन् सः सन्धिः श्लेषमन्योन्यसंश्लेषं न गच्छति प्राप्नोति) ||३६||

Adhikarana atideshena vAtavyAdhicikitsAprayogaH (37) · Śloka 37

वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्| चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत्||३७||

🔊 Audio coming soon

सुबोधम्| (भग्नस्य नरस्य वातव्याधिविनिर्दिष्टन् वातव्याधिचिकित्सितोक्तगुग्गुलुतिक्तबलातैलादीन् स्नेहान्| बल्यान् बलकरान् चतुष्प्रयोगान् पानान्वासननावनाभ्यङ्गान् योजयेत्| तथा बस्तिकर्म कर्मकालादिभेदेन बहविधं बस्तिकर्म च शीलयेदभ्यसेत्)||३७||

Adhikarana pathyApathyam (38) · Śloka 38

शालीक्षीररसाज्याद्यैः पौष्टिकैरविदाहिभिः| मात्रयोपचरेत् भग्नं सन्धिसंश्लेषकारिभिः| ग्लानिर्न शस्यते तस्य सन्धिविश्लेषकृद्धि सा| लवणं कटुकं क्षारमम्लं मैथुनमातपम्| व्यायामञ्च न सेवेत भग्नो रूक्षञ्च भेषजम्||३८||

🔊 Audio coming soon

सुबोधम्| (भग्नं पुरुषं सन्धिसंश्लेषकारिभिः सन्धेः संश्लेषकरणसमर्थैः पौष्टिकैर्देहपुष्टिकरैरविदाहिभिर्विदाहरहितैः शाल्यादिभिर्मात्रयोपचरेत् भोजयेदित्यर्थः| आदिशब्देन मांसकङ्गुषष्टिकादि परिग्रहः)| तस्य भग्नस्य तु ग्लानिर्न शस्यते सा हि ग्लानिः सन्धिविश्लेषकृत् (ग्लानिरिन्द्रियसादः तत्कारणं व्यायामादिकमित्यर्थः| सा ग्लानिः सन्धिविश्लेषकृद्यस्मात्तस्मात् ग्लानिर्न हिता)| भग्नश्च लवणादिकं न सेवेत| क्षारं यवक्षारादि| रूक्षं निःस्नेहम्||३८||

Adhikarana vivarjanIyaM bha~ggam (39) · Śloka 39

सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्| सङ्क्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत्| आदितो यच्च दुर्जातमस्थिसन्धिरथापि वा||३९||

🔊 Audio coming soon

सम्यक्शास्त्रोक्तविधानेन नियमितमपि तत्कालम्| कालान्तरेण दुर्न्यासादिना यदस्थि विकारं विक्रियां गच्छेत् तद्विवर्जयेत्| आदितो गर्भादेव यदस्थि वा सन्धिर्वा दुर्जातं तदपि वर्जयेत्| (विक्रिया उन्नतावनतत्वाद्ययथापूर्वसंस्थितिः)||३९||

Adhikarana asthivisheShAdbha~ggaprakAravisheShaH (40) · Śloka 40

तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु| कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा||४०||

🔊 Audio coming soon

(अस्थिविशेषकृतं भङ्गस्य व्यवहारविशेषनिमित्तमाह)| तरुणास्थ्यादीनि शारीर उक्तान्यस्थीनि| भुज्यन्ते कुटिलीभवन्ति| भङ्गो द्विधाभवनम्| विभेदः छिद्रणम्| स्फुटनं दलनम्| (तरुणास्थीनि नासादिगतानि मृद्वस्थीनि| नलकानि कौर्परजङ्घादिगतानि| कपालानि शिरःकटीकपालादिगतानि| अन्यानि पृष्ठवंशपर्शुकाग्रादीनि||४०||

Adhikarana susAdhitalakShaNam (41) · Śloka 41

अनुल्बणमनाविद्धं स्वस्थाने पर्यवस्थितम्| आवेदनञ्च चेष्टायां भग्नं विद्यात् सुसाधितम्||४१||

🔊 Audio coming soon

अनुल्बणमित्यादि सुसाधितस्य भग्नस्य लक्षणम् ||४१||

Adhikarana gandhatailam (42-32) · Śloka 32

कृष्णास्तिलान् विरजसो दृढवस्त्रबद्धान् सप्तक्षपा वहति वारिणि वासयेत| संशोषयेदनुदिनं प्रतिसार्य चैनान् क्षीरे तथैव मधुकक्वथिते च तोये| पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम्| विगततुषानरजस्कान् सञ्चूर्ण्य विचूर्णितिर्युञ्ज्यात्| नलदवालकलोहितयष्टिका नखमिसिप्लवकुष्ठबलात्रयैः| अगरुकुङ्कुमचन्दनसारिवा सरलसर्जरसामरदारुभिः| पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्| समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्| शैलेयरास्नाशुमतीकशेरुकालानुसारीनतपत्रलोध्रैः| सक्षीरशुक्लैः सपयः सदूर्वैः तैलं पचेत्तन्नलदादिभिश्च| गन्धतैलमिदमुत्तममस्थि स्थैर्यकृज्जयति चाशु विकारान्| वातपित्तजनितानतिवीर्यं व्यापिनोऽपि विविधैरुपयोगैः||४२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे भङ्गप्रतिषेधो नाम द्वात्रिंशोऽध्यायः||३२||

🔊 Audio coming soon

कृष्णाम्स्तिलानित्यादिना गन्धतैलमाह| तिलानाम् दिवा शोषणं रात्रौ वहति प्रवहति वारिणि पानीये वस्त्रबद्धानां वासनमिति सप्तरात्रम्| ततः क्षीरे प्रतिसारणं शोषणं च| ततो मधुयष्टीजले प्रतिसारणं पुनः शोषणम्| पुनरपि क्षीरे भावनम्| ततः संशोष्यावचूर्णनम्| ततो नलदादिचूर्णैः संयोजनम्| ततः सर्वगन्धद्रव्य सिद्धक्षीरेण पीडनम्| ततस्तस्य तैलस्यैर्तैर्नलदादिभिः शैलेयादिभिश्च सह पचनमिति गन्धतैलविधानम्| नलदं मांसी उशीरं वा| बालकं जलम्| लोहितयष्टिका मञ्जिष्ठा| मिसिः शतपुष्पा| प्लवङ्कैवर्ती मुस्तकम्| बलात्रयं बला अतिबला श्वेतबला च| पद्मकादिगणः शोधनादिगणोक्तः| सर्जो देवधूपः| रसो निर्यासः| अमरदारु देवकाष्ठम्| क्षीरशुक्ला क्षीरविदारी| शैलेयं शिलाजतु| कशेरु प्लवम्| कालानुसारी तुम्बुरुः| नतं तगरम्| पत्रं गन्धपत्रम्| इदं नाम्ना गन्धतैलम्| उत्तमं श्रेष्ठमस्थ्नां स्थर्यकृत्| एतच्चातिवीर्यं व्यापिनोऽपि वातपित्ताजनितान् विकारान् विविधैः पानादिभिरुपयोगैर्जयतीति| (विरजसो रजोरहितान् दृढवस्त्रबद्धान् दृढेन वस्त्रखण्डेन बद्धान् कृष्णतिलान् वहति प्रवाहयुक्ते जले सप्ताक्षपाः सप्तरात्रं वासयेत्| अत्र क्षपाशब्देन रात्रिरेव गृह्यते| एनान् तिलान् पुनः क्षीरे मधुकक्वथिते तोये च प्रतिसार्य निक्षिप्येत्यर्थः| चशब्दः समुच्चये| तथैव तद्वदेव सप्तसप्तक्षपा इत्यर्थः| अनुदिनमहन्यहनि परिशोषयेच्च| निशितोयादिनिक्षिप्तेष्वेकविंशतिदिनेष्वप्यातपे निक्षिप्य दिवा परिशोषयेदित्यर्थः| उक्तं च सौश्रुते- रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले| दिवा दिवा शोषयित्वा गवां क्षीरे च भावयेत्|| तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना| ततः क्षीरं पुनः पीतान् विशुश्कांश्चूर्णयेद्भिषक|| इति| पुनरपि पीतपयस्कान् क्षीरास्थितानित्यर्थः| पूर्ववदेव बाढमतिशयेन शोषितान्| विगततुषान् वीतत्वचः| अरजस्कानपगतरजसस्तान् कृष्णतिलान् सञ्चूर्ण्य चूर्णयित्वा विचूर्णितैः सूक्ष्मरजी कृतैर्नलदादिभिर्योजयेत्| नलदादिचूर्णं तिलचूर्णाद्दशांशं योज्यम्| तिलाद्दशांशं तिलपीडनेषु चूर्णं तु भैषज्यभवं प्रयुञ्ज्यात्| चूर्णेऽतिरिक्ते न तु तैलभवो न्यूने न भैषज्यफलं भवेच्च|| इत्युक्तत्वात्| ततोऽनन्तरं तं तिलपिष्टं समस्तगन्धभैषज्यसिद्धदुग्धेन समस्तैर्गन्धभैषज्यैश्चोरकवालकोशीरकुष्ठचन्दनादिगन्धद्रव्यैः सिद्धेन पयसा सह चक्रयन्त्रे पीडयेच्च| पीडनस्य तोयस्थाने पयो योज्यमित्यर्थः| पीडनोद्भूतं तं तैलं पुनः सक्षीरशुक्लैः क्षीरशुक्लासहितैः सदूर्वैर्दूर्वयोपेतैः शैलेयादिभिः पूर्वोक्तैर्नलदादिभिश्च सह सपयः पयोयुक्तं तैलाच्चतुर्गुणेन पयसा युक्तमित्यर्थः| उक्तं च सौश्रुते-'चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषगि'ति| उत्तमं श्रेष्ठं इदं गन्धतैलाख्यं तैलमस्थिस्थैर्यकृत् पानाभ्यङ्गादिना अस्थ्नः स्थैर्य करोति| विविधैरुपयोगैः पानान्वासननस्याभ्यङ्गादिभेदैः प्रयोगविशेषैः वातपित्तजनितान् वातपित्तोत्थान् अतिवीर्यं अतिशयितमुत्कृष्टं वीर्यं यस्य तत् अतिक्रान्तमर्यादमित्यथ| यथा भवति तथा व्यापिनः सकलशरीरव्यापिनः विकारान् व्याधीनप्याशु न चिराज्जयति| गन्धतैलाख्येऽस्मिन्योगे वसन्ततिलकायौपच्छन्दसिकेन्द्रवज्रास्वागताख्यानि क्रमात् पञ्चवृत्तानि च)|| ४२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे द्वात्रिंशोऽध्यायः