Adhikarana atha bhagandarapratiShedho nAma trayastriMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो भगन्दरप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
व्रणतन्त्रप्रकरणे भगन्दराणां निर्णयं कर्तुमध्याय आरभ्यते||१||
Adhikarana Bagandarasya nidAnaM samprAptishca (2) · Śloka 2
हस्त्यश्वपृष्ठगमनकठिनोत्कटकासनैः|
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः|
अनिष्टदिष्टपाकेन सद्यो वा साधुगर्हणैः|
प्रायेण पिटकापूर्वो योऽङ्गुले द्व्यङ्गुलेऽपि वा|
पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत्|
बस्तिमूत्राशयाभ्याशगतत्वात् स्यन्दनात्मकः|
भगन्दरः स सर्वांश्च दारयत्यक्रियावतः|
भगबस्तिगुदान्तेषु दीर्यमाणेषु भूरिभिः|
वातं मूत्रं शकृच्छुक्रं खैः सूक्ष्मैर्वहति क्रमात्||२||
हस्त्यश्वपृष्ठगमनादिभिः पायोरङ्गुले द्व्यङ्गुले वा निकटे यो व्रणो भवेत्स भगन्दरः| अर्शसां च निदाने ये हेतवोऽभिहितास्तैरप्यपरैर्निषेवितैरिति सम्बन्धः| यच्च किञ्चिद्दिनचर्यादावनिष्टमिति दिष्टमुक्तं तस्य पाकेन फलपरिणामेन| सद्यः साधुगर्हणैरचिरकृतसज्जननिन्दाभिः| प्रायेण पिटकापूर्वमारम्भो यस्य स तथोक्तः| स च व्रणः पायोरन्तर्मुखो वा भवेत् बहिर्मुखो वा| स च व्रणो बस्त्यादीनामभ्याशगतत्वान्निकटवर्तित्वात् स्यन्दनात्मकः स्रवणात्मको भवति| स भगन्दरोऽक्रियावतोऽपथ्य शीलिनः सर्वान् सकलान् भगादीन् दारयति च| तेषु भगादिषु दीर्घमाणेषु खैः स्रोतोभिर्बहुभिः सूक्ष्मैर्वातादिचतुष्टयं क्रमाद्वहति| (निषेवितैर्नितरां सेवितैर्हस्त्यश्वपृष्ठगमनादिभिः हस्तिपृष्ठगमनमश्वपृष्ठगमनं कठिनासनमुत्कटकासनं च| अर्शोनिदानेऽभिहितान्युक्तानि यान्यपराण्यतिव्यवायादीनि तैः अर्शोनिदानाभिहितत्वेनैव हस्त्यश्वपृष्ठगमनादिके सिद्धे पुनरप्यत्र कथनादेतेषां भगन्दरस्य विशेषकारणत्वं सूचितम्| अथवा एवंविधैरपानमरुत्कोपकारणैरन्यैः| चशब्दः समुच्चये| अनिष्टदिष्टपाकेन पुराकृताशुभकर्मफलपरिपाकेन| अथवाऽनिष्टदिष्टस्य दिनचर्यानिर्दिष्टस्य पापकर्मणः पाकेन फलपरिणामेन| सद्यः साधुगर्हणैरचिरकृताभिः सज्जननिन्दाभिः पायोर्गुदस्यैकाङ्गुलप्रमाणे वा निकटे| वाशब्दादर्द्धाङ्गुलत्र्यङ्गुलयोरपि ग्रहणम्| उक्तञ्च शास्त्रान्तरे- पिटिकां जनयेज्जन्तोर्गुदनाड्यां सुदारुणाम्| गुदस्यार्द्धाङ्गुले वाऽपि द्व्यङ्गुले त्र्यङ्गुलेऽपि वा|| इति| अन्तरन्तर्भागे बाह्यः बहिर्भागे वा| दुष्टासृङ्मांसगो दुष्टरक्तमांसाश्रितः| बस्तिमूत्राशयाभ्याशगतत्वाद्बस्तेर्मूत्राशयस्य च समीपगतत्वात्| बस्तिमूत्राशययोरवयवाशयविशेषत्वमङ्गविभागाच्छारीरादवगन्तव्यम्| स्यन्दनात्मकः सदास्रावयुक्तः| प्रायेण बाहुल्येन पिटकापूर्वः पिटकापूर्वमारम्भो यस्य स तथोक्तः| पूर्वं पिटका जायते ततः पाकाद् व्रणः स्यादित्यर्थः| प्रायः शब्देन क्षतजस्य भगन्दरस्य पिटकाया विना सम्भवः सूचितः| य एवंविधो व्रणः स भगन्दराख्यो रोग अक्रियावतः प्रमादाच्चिकित्सामकुर्वतो नरस्य सर्वान् भगवस्तिगुदान् दारयति| अत्र सर्वशब्देन साकल्यग्रहणं भगादीन् साकल्येन दारयतीत्यर्थः| भगादिदेशदरणात् भगन्दराख्यास्य| गुदप्रदेशदरणात् गुदन्तराख्या बस्तिप्रदेशदरणात् बस्तिन्दराख्या कथं न युज्यत इति चेदत्र ब्रूमः| विशेषेण भगस्य दरणादन्यत्रापि भगवददरणाच्च भगन्दर इत्येवाख्या न गुदन्दरो न बस्तिन्दर इति| उक्तं च भोजे- भगं परिसमन्ताच्च गुदं बस्तिं तथैव च| भगवद्दारयेद्यस्मात्तस्मात् ज्ञेयो भगन्दरः|| इति| चशब्दः समुच्चये| तेष्वति| तेषु भगादिषु दीर्यमाणेषु दारितेषु भूरिभिर्बहुभिः सूक्ष्मैः स्रोतोमुखैर्वातादीन् क्रमेण वहति| वातमधोवातम्| द्रवरूपत्वात् पुनर्मूत्रं वहति| गुदावयवस्य निकटवर्तित्वात्ततः पुरीषं वहति| शुक्राशयस्य किञ्चिद्दूरतया अन्ते शुक्रं चेति क्रमार्थः||२||
Adhikarana sa~gkhyAsamprAptiH (3) · Śloka 3
दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः||३||
एवंविधस्य भगन्दरस्य वाताद्यागन्तुकारणभेदादष्टविधत्वमाह| स च भगन्दरः पृथग्दोषैस्त्रिविधो भवति| युतैरिति मिश्रैः तेन संसर्गेण त्रयः सन्निपातेनैक इति दोषजाः| सप्त भगन्दराः अष्टम आगन्तुः||३||
Adhikarana avasthAvisheShe saMj~jAvisheShaH (4) · Śloka 4
अपक्वं पिटकामाहुः पाकप्राप्तं भगन्दरम्||४||
तञ्च रोगविशेषमपक्वभूमिकास्थमाचार्याः पिटकामाहुः| स एव च पाकभूमिकामारूढो भगन्दर उच्यते||४||
Adhikarana piTakAlakShaNam (5) · Śloka 5
गूढमूलां ससंरम्भां रुगाढ्यां रूढकोपिनीम्|
भगन्दरकरीं विद्यात् पिटकां न त्वतोऽन्यथा||५||
या च पिटका गूढमूलत्वादियुक्ता सा भगन्दरत्वामारुरुक्षुर्विज्ञेया| अत उक्तादन्यथा वैपरीत्येन या पिटका सा भगन्दरकरीति न विज्ञेया| (दृढमूलामिति च पाठः| दृढमूलां दृढमचञ्चलं मूलं यस्याः तां पुनः पुनरेकत्र पूर्ववदेवोत्पत्तिर्दृढमूलत्वम्| ससंरम्भां संरम्भयुक्तां संरम्भो वेदनाविशेषः| रुगाढ्यामतिशयितपीडायुक्ताम्| रुढकोपिनीं तत्तत् प्रतिक्रियया व्रणेरूढेऽपि पुनः कोप उद्भवो यस्यास्तां पिटकां भगन्दरकरीं भगन्दराख्यव्रणजननीं विद्यात्| अत उक्तप्रकारादन्यथा वैपरीत्ये तु न भगन्दरकरीं पिटकामात्रामेव विद्यादित्यर्थः||५||
Adhikarana vAtapiTakAlakShaNam (6) · Śloka 6
तत्र श्यावारुणा तोदभेदस्फुरणरुक्करी|
पिटकामारुतात् ........................||६||
तत्रेत्यादिना वातादिविशेषेण भगन्दरपिटकानां लक्षणम्| सुबोधम्| श्यावादिगुणा वातात् पिटका| (तत्र तासु मध्ये मारुतोद्भवा पिटका श्यावाद्यन्यतरवर्णा तोदादिकरी च)|| ६||
Adhikarana pittapiTakAlakShaNam (7) · Śloka 7
.................... पित्तादुष्ट्रग्रीवावदुच्छ्रिता|
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता||७||
उष्ट्रग्रीवावदुच्छ्रितेत्यादिगुणा पित्तात्| (पित्तात् पिटका उष्ट्रग्रीवासाम्येनौन्नत्याधिक्यमधोगुरुत्वञ्च ध्वनितम्| रागिणी रागयुक्ता| तनुरल्पा| ऊष्माड्योष्मबहुला| ज्वरधूमायनाभ्यां युक्ता| धूमायनं धूमोद्वमनप्रतीतिः||७||
Adhikarana kaphapiTakAlakShaNam (8) · Śloka 8
स्थिरा स्निग्धा महामूला पाण्डुः कण्डूमती कफात्||८||
स्थिरादिगुणा कफात्| (कफात्पिटका स्थिरा अचला स्निग्धा महामूला पृथुमूला पाण्डुः पाण्डुरवर्णा कण्डूमती कण्डूयुक्ता स्यादिति शेषः)||८||
Adhikarana vAtapittapiTakAlakShaNam (9) · Śloka 9
श्यावाऽऽताम्रा सदाहोषा घोररुग्वातपित्तजा||९||
वातपित्तजा पिटका श्यावादिगुणा| (वातपित्ताभ्याञ्जाता पिटका श्यावा श्याववर्णा आताम्रा ईषत्ताम्रवर्णा| द्विदोषजत्वा दस्या द्विदोषवर्णायोः समवलयोरेकत्रासम्भवादाताम्रेत्युक्तम्| सदाहोषा दाहोषासहिता| दाहः सर्वाङ्गीणस्तीव्रसन्तापः| ऊषा प्रादेशिकदाहः| घोररुक् घोरा उग्रा रुक् पीडाविशेषो यस्मिन्)||९||
Adhikarana vAtakaphapiTakAlakShaNam (10) · Śloka 10
पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्||१०||
कफानिलाज्जाता पिटका पाण्डुरादिगुणा| पित्तकफजा पिटका अर्शोभगन्दर एव वक्ष्यते| (कफानिलाज्जाता पिटका क्वचित् पाण्डुरा धूसरवर्णा आश्यावा ईषच्छ्यावा च अत्यन्तविपरीतयोः श्यावपाण्डुरयोः सङ्करादुभयोरपि वर्णयोरस्पष्टता भवतीत्यर्थः| कृच्छ्रपाका चिरपाका कृच्छ्रशब्देन पाचनौषधप्रलेपादिभिरपि पाकस्य दुष्करत्वं सूचितम्)||१०||
Adhikarana sannipAtapiTakAlakShaNam (11) · Śloka 11
पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा|
शूलारोचकतृड्दाहज्वरच्छर्दिरुपद्रुता||११||
सर्वैर्दोषैर्जाता पिटका पादाङ्गुष्ठसमत्वादिगुणा| (सन्निपातोत्था पिटकामानसंस्थानादिभिः पादाङ्गुष्ठसदृशी| नानाविधा नानाप्रकारा व्यथा पीडाविशेशो यस्यां सा तथा| शूलादिभिरर्द्दिता च| शूलाद्युपद्रुतिः पाकोन्मुखानां सर्वासां लिङ्गमिति केचित्| क्षतजस्य भगन्दरस्य पिटकाभावात्तत् पिटका नाभिहिता)|| ११||
Adhikarana piTakAnAM vraNAvasthAprAptiH (12) · Śloka 12
व्रणतां यान्ति ताः पक्वाः प्रमादात् ........||१२||
पिटकावस्थालक्षणमुक्त्वाऽनन्तरं भगन्दरावस्थालक्षणानुसारेण नामविशेषश्चोच्यते-ताः सर्वाः पिटकाः प्रमादात् पक्वाः व्रणतां यान्ति| (ता भगन्दरकाऱ्रिण्यः पिटकाः प्रमादादचिकित्सयेत्यर्थः| अत्र प्रमादशब्दकथनेन सावधानश्चेत् पाकादनेकोपद्रवकारिणीमेवंविधां पिटकां कदाचिदपि नोपेक्षेत इति च सूचितम्| पक्वाः व्रणतां यान्ति व्रणत्वं प्राप्नुवन्ति||१२||
Adhikarana shataponakaH BagandaraH (13) · Śloka 13
...............................तत्र वातजा|
चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत्क्रमात्|
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम्|
शतपोनकसंज्ञोऽयम्.......................||१३||
तत्र वातजा पिटका पक्वा सत्यणुमुखैश्छिद्रैः शतपोनकवत् चालनीवक्रमाच्चीयते| किम्भूतैश्छिद्रैरित्याह-अजस्रमविच्छेदेनाच्छं फेनसंयुतं चास्रावं स्रवद्भिः| अयं भगन्दरो नाम्ना शतपोनकः| आस्रावं पूयस्रवणम्||१३||
Adhikarana uShTragrIvaH BagandaraH (14) · Śloka 14
..........................उष्ट्रग्रीवस्तु पित्तजः||१४||
पित्तपिटकया पक्वयोष्ट्रग्रीवाख्यो भगन्दर उच्यते| (पित्तजो भगन्दरस्तु उष्ट्रस्य ग्रीवावदुच्छ्रितमुखत्वादुष्ट्रग्रीवाख्यः)||१४||
Adhikarana parisrAvI BagandaraH (15) · Śloka 15
बहुपिच्छापरिस्रावी परिस्रावी भगन्दरः||१५||
कफपिटकया पक्वया भगन्दरो बहुपिच्छापरिस्रावी नाम्ना परिस्रावी| (कफजो भगन्दरः अनल्पपिच्छस्रावयुक्तस्तस्मात् परिस्रावीसंज्ञः) ||१५||
Adhikarana parikShepI bhagandaraH (16) · Śloka 16
वातपित्तात् परिक्षेपी परिक्षिप्य गुदं गतिः|
जायते परितस्तत्र प्रकारं परिखेव च||१६||
वातपित्तात् भगन्दरो नाम्ना परिक्षेपी| तत्र च गुदं परिक्षिप्य मण्डलाकृत्या गतिर्नाडी जायते प्राकारपरिखासदृशी प्राकारस्य परितः परिखा बहिर्निकटे खाता| (वातपित्तजो भगन्दरः परिक्षेपीसंज्ञः| तत्र परिक्षेपिणि प्रकारस्य परितः परिखेव गुदं परिक्षिप्य गुदस्य परितो मण्डलाकृत्या नाडी जायते)||१६||
Adhikarana RujurBagandaraH (17) · Śloka 17
ऋजुर्वातकफादृज्व्या गुदो गत्याऽवदीर्यते||१७||
वातकफाद्यो भगन्दरः स ऋजुर्नाम्ना| तत्र ऋज्व्या गत्या गुदः अवदीर्यते| (वातकफजो भगन्दरः ऋज्व्याख्यः| तत्रेति पूर्वस्माद्वानुवर्त्तते| तत्र ऋज्वाख्ये भगन्दरे ऋज्व्या अवक्रया गत्या गुदोऽवदीर्यते)||१७||
Adhikarana arshoBagandaraH (18) · Śloka 18
कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः|
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत्|
स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन् मूलमर्शसः|
स्रवत्यजस्रं गतिभिरयमर्शो भगन्दरः||१८||
पूर्वोत्थं स्वकारणैः प्रथममुत्पन्नं दुर्नामार्शा आश्रित्य कफपित्ते द्वे कुप्यतः कोपम् गच्छतः| ततो हेतोरर्शोमूले कण्ड्वादिमान् शोफः स्यात्स शीघ्रं पक्वभिन्नोऽस्यार्शसो मूलं क्लेदयन् गतिभिर्नाडीभिरजस्रमविच्छेदं पूयं स्रवत्ययं नाम्नाऽर्शो भगन्दरः||१८||
Adhikarana shambukAvartaH BagandaraH (19) · Śloka 19
सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः|
गतयो दारयन्त्यस्मिन् रुग्वेर्गर्दारुणैर्गुदम्||१९||
यः सन्निपातजो भगन्दरः स शम्बुकावर्ताख्यः शम्बुकावर्तसन्निभः शम्बुकस्यावर्तेन सदृशः शम्बुको नामावर्तयुक्तो मत्स्यविशेषः तस्यावर्ता देहे भवन्ति| अस्मिन् शम्बुकावर्ताख्ये भगन्दरे गतयो नाड्यः दारुणैः रुग्वेगैर्गुदं दारयन्ति||१९||
Adhikarana kShatajaH BagandaraH (20) · Śloka 20
अस्थिलेशोऽभ्यवहृतो मांसगृध्या यदा गुदम्|
क्षिणोति तिर्यङ्निर्गच्छनुन्मार्गञ्च ततो गतिः|
स्यात्तदा पूयदीर्णायां मांसकोथेन तत्र च|
जायन्ते कृमयस्तेऽस्य खादन्तः परितो गुदम्|
विदारयन्ति न चिरादुन्मार्गी क्षतजश्च सः||२०||
यदा तु मंसगृध्या मांसलोभेनास्थिलेशोऽभ्यबहृत भक्षितः सन् गुदं क्षिणोति हिनस्ति तिर्यङ्निर्गच्छन्नुन्मार्गञ्च ततः क्षतात् गतिर्नाडी स्यात्तदा तत्र तस्यां नाड्या पूयेण दीर्णायां मांसकोथेन हेतुना कृमयो जायन्ते| परितः समन्तात् गुदं खादन्तस्ते च कृमयोऽस्य पुरुषस्य गुदमचिराद्विदारयन्ति| स भगन्दरो नाम्ना उन्मार्गी क्षतजश्च भवति ||२०||
Adhikarana rugAdinirdhAraNaprakAraH (21) · Śloka 21
तेषु रुग्दाहकण्ड्वादीन् विद्याद्व्रणविभक्तितः||२१||
तेषु च भगन्दरेषु व्रणविभक्तिततो व्रणविभक्तिप्रकारेण रुगादीन् विद्याज्जानीयात्| (रुग्दाहकण्ड्वादीन् रुगादीन् दाहादीन् कण्ड्वादींश्च वाताद्यधिष्ठितदुष्टव्रणोक्तविशेषलिङ्गान्) ||२१||
Adhikarana sAdhyAsAdhyaviBAgaH (22) · Śloka 22
षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत्|
प्रवाहिणी वलीं प्राप्तं सेवनीं वा समाश्रितम्||२२||
षडिति पृथक्संसर्गजाः कृच्छ्रसाधनाः| निचयः सन्निपातः क्षतमस्थिकृतम्| सर्वञ्च भगन्दरं प्रवाहिण्याख्यामन्तर्वलीं प्राप्तं त्यजेत् तथा सेवन्याश्रितं च| इत्युक्तं भगन्दराणां हेतुलिङ्गम्| (तेषां भगन्दराणां मध्ये पृथग्दोषसंसर्गजाः शतपोनकोष्ट्रग्रीवपरिस्रावीपरिक्षेप्युर्ज्वर्शो भगन्दराः षट् कृच्छ्रसाध्याः| निचयक्षतजौ शम्बुकावर्तोर्न्मागिणौ त्यजेन्न चिकित्सेत्)||२२||
Adhikarana sAmAnyashcikitsAkramaH (23) · Śloka 23
अथ भगन्दरिणमपक्वपिटकं पाकपरिहारार्थमपत- र्पणेन व्रणप्रतिषेधविहितेन शीघ्रमुपचरेत्|
पक्वपिटकं पुनरुपस्निग्धमर्कादिक्वाथशुद्धं स्वभ्य- क्तमवगाहस्विन्नं भुक्तवन्तं शयनस्थमर्शसमिव यन्त्र- यित्वा पराचीनमर्वाचीनं बहिर्मुखमन्तर्मुखं वा भगन्दरं सम्यगीक्षेत|
ततोऽन्तर्मुखे यन्त्रं प्रणिधाय प्रवाहणप्रविष्टं भगन्दर- मभिसमीक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत्|
बहिर्मुखे त्वेषणीं प्रणिधाय साशयमुद्धरेच्छस्त्रेणानन्तरं चोभयम- प्यग्निना क्षारेण चोपक्रमेत उष्ट्रग्रीवं तु क्षारेणैव|
ततो निर्वापणशोधनरोपणैर्यथाकालं साधयेदिति सामान्योविधिः||२३||
अथेत्यादिना तेषामेव सामान्यं साधनमुच्यते| भगन्दरिणः पुरुषस्य पिटकावस्थायां पाकरक्षार्थं व्रणप्रतिशेधोक्तेनापतर्पणेन शोधनादिना शीघ्रमुपाचरेत्| पक्वपिटकं तु भगन्दरिणं प्रथममेव स्निग्धं ततोऽर्कादिगणक्वाथेन शुद्धं ततोऽपि स्वभ्यक्तं ततः स्वेदयोग्यावगाहेन स्विन्नं भुक्तवन्तं कृतभोजनं शयनस्थमर्शः कर्मविधानप्रकारेण यन्त्रयित्वा पराचीनादिविशेषेण भगन्दरं सम्यगीक्षेत| पराचीनमन्तर्भवम्| बहिर्मुखं बहिर्द्वारमन्तर्मुखं गुदनाड्यन्तर्गतमुखम्| तत इति| ततोऽनन्तरं यदन्तर्मुखं तत् प्रवाहणेन यन्त्रच्छिद्रं प्रविष्टमवेक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत्| बर्हिमुखमेषणी प्रणिधाय विन्यस्य साशयमुद्धरेच्छस्त्रेण| अनन्तरमुभयमप्यन्तर्मुखं बहिर्मुखमपि| शस्त्रकर्म सर्वत्र समानम्| तस्मिन् कृते अग्निक्षारयोर्विषमनियमः| उष्ट्रग्रीवाख्यं भगन्दरं तु क्षारेणैव न कदाचिदग्निना| तत इति क्षारेऽग्नौ वा प्रयुक्ते यथाकालं निर्वापणादिभिः साधयेत्| इति सामान्यः सर्वभगन्दरहितो विधिः||२३||
Adhikarana shataponakacikitsA (24) · Śloka 24
अथ शतपोनके नाडीरेकान्तरिताः पाटयित्वा रोप- येत्|
रूढासु चेतराश्चिकित्सेत्|
अन्यथा तु विवृत्तं व्रणं गुदस्रोतोविदारणाद्वातविण्मूत्रान्य़नुप्रपद्यन्ते|
ततश्चोन्मा- र्गगो वायुराध्मानाटोपपायुशूलादीनुपजनयति|
तत्र स्नेहा- भ्यक्तगुदस्य स्निग्धान् पिण्डनाडीकुम्भीस्वेदान् प्रयु- ञ्जीतावगाहं वा|
स्विन्नञ्च वचा हिङ्गुकुष्ठव्योषलवण- पञ्चकाजमोदान् सर्पिर्मद्यकाञ्जिककुलत्थयूषान्यतमेन पाययेत्|
व्रणं चास्य मधुकतैलेनोष्णेन सिञ्चेत्|
गुदं च बलातैलादिभिर्वातघ्नैः|
अनेन विधिना वाय्वादयः स्वमार्गमापतन्ति|
तत्कृताश्च विकारा निवर्तन्ते||२४||
अथेत्यादिना शतपोनकादीनां विशेषचिकित्सा सुबोधा| (नाडीव्रणमार्गान्| एकान्तरिताः एकैकां नाडीमन्तरीकृताः| पाटयित्वा भित्वा रोपयेत्| तासु रूढास्वितरा अवशिष्टा नाडीश्च| चशब्दत्तद्वत् पाटयित्वा चिकित्सेत्| अन्यथा उक्तादन्यप्रकारेण गुदस्रोतोविदारणाद्वातादीनि विवृतं व्रणमनुप्रपद्यन्ते| मधुकेन सिद्धं तैलं मधुकतैलम्)||२४||
Adhikarana parikShepiNi vesheShaH (25) · Śloka 25
एवमेव च परिक्षेपिण्यामपि क्रमाद् गतिं नाडीविहितेन क्षारसूत्रेण द्विशस्त्रिशोवाऽवदारयेत्|
सकृदेव ह्यवदारणादसाध्यता याप्यता वा स्यात्||२५||
एवमेव चेति शतपोनकवदेव नाडीविहितेनेति ग्रन्थ्याद्यध्यायोक्तेन||२५||
Adhikarana arshoBagandare visheShaH (26) · Śloka 26
अर्शोभगन्दरे पूर्वमर्शासि छिन्द्यात् ततो गत्यनुसारेण भगन्दरम्||२६||
अर्शोभगन्दरं इत्यादि सुबोधम्| गत्यनुसारेणेति नाड्यनुसारेण अर्शो नाडीकार्यक्रमेणेत्यर्थः| (ततद्दोषविहितेन शस्त्रक्षाराद्यन्यतमे नार्शश्छित्वाऽनन्तरं भगन्दरमपि शतपोनकादिवच्छित्वा चिकित्सेदित्यर्थः)||२६||
Adhikarana unmArgicikitsA (27) · Śloka 27
उन्मार्गिणं तु प्रत्याख्यायोपाचरेत्|
अनिस्सृतं च शल्यमाहरेत्|
तथा कृमिघ्नं क्रममालेपाभ्यवहरयोः कुर्वीत|
वेदनायां तु पूर्वोक्ताः स्वेदाः|
वचादिपाचनं च|
साल्वलप्रदिग्धं वा व्रणं कदलीमृगलोपाकाजिनकौशेयाविकैरुपनाहयेदिति||२७||
उन्मार्गिणं क्षतजं भगन्दरं तु प्रत्याख्याय न सिध्यतीत्युक्त्वा उपाचरेत्| अनिस्सृतञ्च दृश्यमानं शल्यमाहरेत्| पूर्वोक्ताः शतपोनकोक्ताः स्वेदाः पिण्डनाड्यादयः| साल्वलाख्याः स्वेदविधावुक्ताः पद्मकादयः| लोपाको नाम शरभः||२७||
Adhikarana CedavisheShaviShayaH (28) · Śloka 28
भवति चात्र भगन्दरे बहुच्छिद्रे छेदानालोच्य योजयेत्|
गोतीर्थं सर्वतोभद्रमर्धलाङ्गललाङ्गलौ|
पार्श्वागतेन शस्त्रेण छेदो गोतीर्थको मतः|
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोऽर्धलाङ्गलः|
पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्|
आस्रावमार्गान् निश्शेषं नैवं विकुरुते पुनः||२८||
बहुच्छिद्रे सर्वस्मिन् भगन्दरे च गोतीर्थादिभेदेन छेदानालोच्य निरूप्य गोतीर्थादीन् योजयेत्| (बहुच्छिद्रे अनेकसुषिरे सर्वस्मिन् भगन्दरे गोतीर्थादीन् छेदनविशेषान् ओलोच्य अवलोकनैषणीप्रणयनादिभिरत्रायं योज्य इति यथावदवगम्य गोतीर्थाद्यन्यतमं योजयेत्)| (गोतीर्थादीनां चतुर्णां क्रमेण लक्षणं दर्शयति)| पार्श्वागतेनेत्यादिना गोतीर्थादीनां चतुर्णां क्रमेण लक्षणम्| पार्श्वेन यत्रागच्छति शस्त्रं स गोतीर्थको नाम छेदः यत्र तु सर्वदिशमागच्छति शस्त्रम् स सर्वतोभद्रः| एकस्य पार्श्वस्य यः छेदः सोऽर्धलाङ्गलः| पार्श्वद्वये तु छेदः लाङ्गलको भवति| (पार्श्वागतेन नाडीपार्श्वप्राप्तेन शस्त्रेण छेदो गोतीर्थाख्यः| गोतीर्थो नाम गवां जलपानात्तत्खुराङ्किता भूमिः तद्वच्छस्रनिपातो गोतीर्थ इतीर्यते कैश्चित्| यत्र शस्त्रं सर्वदिशमागच्छति स सर्वतोभद्राख्यः| एकस्य पार्श्वस्य छेदोऽर्धलाङ्गलाख्यः| पार्श्वद्वये उभयोः पार्श्वयोर्यश्छेदः स लाङ्गलकाख्यः)| भगन्दरे सर्वानास्रावमाऱ्र्गान् निस्शेषमग्निना दहेत्| एवं हि कृते भगन्दरः पुनर्न विकुरुते| (अग्निना अग्नितप्तया शलाकया समस्तान् आस्रावमार्गान् निस्शेषान् कृत्वा दहेत् साकल्येनेत्यर्थः| निश्शेषसमस्तशब्दयोरेकत्रकथनेन भगन्दरव्रणसुषिरस्य दूरगतिस्तस्यामूलदाहश्च सूचितः| एवंकृते सति स भगन्दरः पुनर्न विकुरुते विकारकरणसमर्थो न भवति पुनर्नोत्पद्यत इत्यर्थः)||२८||
Adhikarana koShThashuddhimahattvam (29) · Śloka 29
यतेत कोष्ठशुद्ध्यै च भिषक् तस्यान्तरान्तरा||२९||
तस्य च भगन्दरिणः कोष्ठशुद्ध्यर्थं भिषगन्दरान्तरा यतेत| (वैद्यस्तस्यातुरस्य कोष्ठशुद्ध्यर्थ कोष्ठशुद्धेर्वमनविरेचनाद्येकत्वेऽप्यत्र भगन्दरव्रणस्य पक्वाशयनिकटवर्तित्वाद्यथासन्नं विशोधनमिति व्रणप्रतिषेधोक्त्या व्रणस्य विरेकसाध्यत्वाच्च विरेचनमेव गृह्यते| अन्तरान्तरा व्रणरोपणक्रियाकरणस्य मध्ये मध्य इत्यर्थः| यतेत प्रयत्नवान् भवेन्न प्रमादादुपेक्षेतेत्यर्थः)||२९||
Adhikarana virecanayogaH (30) · Śloka 30
अर्द्रकस्य रसे सिद्धं कल्के वा पाययेद् घृतम्|
भगन्दरे मारुतजे पक्वापक्वे विरेचयेत्||३०||
आर्द्रकस्य रसे वा कल्के वा सिद्धं घृतं पाययेत्| कस्मिन्नित्याह मारुतजे भगन्दरे| पक्वे चाऽप्यपक्वे च विरेचयेत्||३०||
Adhikarana vraNashodhanavargaH (31) · Śloka 31
ज्योतिष्मतीलाङ्गलिकाश्यामादन्तीत्रिवृत्तिलाः|
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका|
हेमक्षीरी च वर्गोऽयं लेपाद्यैर्व्रणशोधनः||३१||
ज्योतिष्मत्यादियोगो लेपाद्यैर्लेपाभ्यङ्गप्रक्षालानादिभिर्भगन्दर व्रणशोधनः| ज्योतिष्मती कङ्गुणिका| लाङ्गलिका विशल्या| गोलोमी दूर्वा| हेमक्षीरी काञ्चनी||३१||
Adhikarana tilAdivargaH shodhane (32) · Śloka 32
तिलकुम्भवरादन्ती तुत्थसिन्धूत्थमाक्षिकम्|
सकृष्णरोचनाकुष्ठं शोधनं.............||३२||
कृष्णादिसहितं तिलकादिकं लेपाद्यरिव्रणस्य शोधनम्| कुम्भो द्रवन्ती||३२||
Adhikarana ma~jjiShThAdimAMsakRudgaNaH (33) · Śloka 33
..........................ंआंसकृत् पुनः|
मञ्जिष्ठासैन्धवक्षौद्रनागदन्तीत्रिवृत्तिलाः|
रसाञ्जनद्विरजनीतेजोह्वानिम्बपल्लवाः||३३||
मञ्जिष्ठादिकं लेपाद्यैर्व्रणे मांसकृत्| तेजोह्वा ज्योतिष्मती||३३||
Adhikarana nADIvraNaghnaH nikumbhAdivargaH (34) · Śloka 34
निकुम्भकुम्भरक्ताह्वकल्को नाडीव्रणापहः||३४||
निकुम्भादीनां कल्को नाडीव्रणापहः| रक्ताह्वो मञ्जिष्ठा||३४||
Adhikarana viShyandanAkhyaM tailam (35) · Śloka 35
सुधाशेलुत्रिवृत्पाठामलयूहयमारकैः|
ज्योतिष्मतीलाङ्गलिकास्वर्जिकार्कवचाग्निकैः|
विष्यन्दनाख्यं विपचेत्तैलं शोधनरोपणम्||३५||
सुधादिभिर्विष्यन्दननामकं तैलं पचेत्तद्गणानां शोधनं रोपणञ्च| शेलुः श्लेष्मातकः| मलयू सोमराजी| हयमारोऽश्वमारः| ज्योतिष्मति कङ्गुणिका| लाङ्गली विशल्या| अग्निकश्चित्रकः||३५||
Adhikarana trivRutAditailam (36) · Śloka 36
त्रिवृद्दन्तीहरिद्रार्कमूललोहाश्वमारकैः|
विडङ्गसारत्रिफलास्नुगर्कक्षीरमाक्षिकैः|
तैलं समदनैः सिद्धं भगन्दरनिबर्हणम्||३६||
समदनैस्त्रिवृदादिभिः सिद्धं तैलं भगन्दरनिबर्हणम्| लोहोऽगरु| अश्वमारः करवीरः| स्नुगर्कयोः क्षीरम्| माक्षिकं धातुमाक्षिकम्| मदनो राठः||३६||
Adhikarana saindhavAditailam (37) · Śloka 37
सैन्धवार्कत्रिवृत्पाठासमङ्गापूतिकाग्निकैः|
समातुलुङ्गच्छदनैस्तैलं शोधनरोपणम्||३७||
समातुलुङ्गच्छदनैः सैन्धवादिभिः सिद्धं तैलं शोधनं रोपणञ्च| समङ्गा मञ्जिष्ठा| अग्निकश्चित्रकः| मातुलुङ्गस्य च्छदनं पत्रम्||३७||
Adhikarana viDa~ggasArAdayo lehaH (38) · Śloka 38
मधुतैलयुता विडङ्गसारत्रिफलामागधिकोषणाश्च लीढा|
कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणा भवन्ति||३८||
विडङ्गसारादयो मधुतैलयुता लीढाः कृम्यादिक्षतानां नाडीव्रणानां च रोपणा भवन्ति| (कृम्यादिहराः स्युः| कृमि उदरकृमि| क्षतमुरःक्षतम्)||३८||
Adhikarana amRutAdigugguluH (39) · Śloka 39
अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलकानि गुग्गुलुः|
क्रमवृद्धमिदं मधुप्लुतं पिटकास्थौल्य भगन्दराञ्जयेत्||३९||
अमृतादिकं क्रमवृद्धं मधुद्रवमिदं पिटकादीञ्जयेत्| अमृताया एको भागः| त्रुट्या द्वौ भागौ| वेल्लानां त्रयः| वत्सकस्य चत्वारः| एवं भागवृद्धिर्यावद्गुग्गुलोरष्टाविति क्रमवृद्धार्थः||३९||
Adhikarana guggulupa~jcapalaM cUrNam (40) · Śloka 40
गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक् स्यात्|
त्वक्त्रुटिकर्षयुतं मधुलीढं कुष्ठभगन्दरगुल्मगतिघ्नम्||४०||
गुग्गुल्वादि सुबोधम्| त्वचोऽर्धकर्षः| सूक्ष्मैलानां चाऽर्धकर्षः||४०||
Adhikarana gugguluyoge vIryavattaratApAdanam (41) · Śloka 41
शृङ्गवेररजोयुक्तं तदेव च सुभावितम्|
क्वाथेन दशमुलस्य विशेषाद्वातरोगजित्||४१||
तदेवानन्तरोक्तं गुग्गुलुपञ्चपलादिकं शृङ्गवेरचूर्णेन संयोज्य दशमुलस्य क्वाथेन भवितं कुष्ठादीनन्यांश्च वातप्रधानान् रोगान् विशेषाज्जयति| (शृङ्गिविरेस्य रजसा चूर्णेन युक्तम्| शृङ्गिवेरं नागरम्| (नि) 'नागरमूषणमार्यं कटुकं कटुकायनं महीच्छत्रम्| शुण्ठीकोलं विश्वं विश्वौषधमौषधं महास्कन्धम्| महौषधं महावीर्यं सिंहलं विश्वभेषजम्| तीक्ष्णं कटु च कासघ्नं शृङ्गि वेरमिति स्मृतम्|' इति मञ्जरी| दशमूलक्वाथेन सुभावितं पुनः पुनः पेषणशोषणादिना समारोपिततद्वीर्यम्| तत्पूर्वोक्तं गुग्गुलुपञ्चपलाख्यचूर्णमेव विशेषाद्वातरोगान् जयति| अत्र विशेष शब्दकथनेन शुण्ठीचूर्णादिरहितस्याऽपि वातहरत्वं सूचितम्| वातप्रधानकुष्ठादिहरमित्यर्थः)||४१||
Adhikarana uttamakhadirasArAdicUrNam (42) · Śloka 42
उत्तमा खदिरसारजं रजः शीलयन्नसनवारिभावितम्|
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटकाभगन्दरान्||४२||
त्रिफलाखदिरसारयोश्चूर्णमसनक्वाथेन भावयित्वा समेन गुग्गुलुना माक्षिकेण च युक्तं शीलयन् कुष्ठादीन् हन्ति| (अत्रमहिषाक्षस्य प्रमाणेन तुल्यत्वम्| मधुनस्तु चूर्णपिण्डीभावमात्रयैव तुल्यत्वम्)||४२||
Adhikarana cikitsAntaranidarshanam (43) · Śloka 43
भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि|
व्रणाधिकारात्परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात्||४३||
उपसंहरन्नाह-एष योऽत्राऽध्याय उक्तः स भगन्दरेषु विशेषः| शेषाणि व्यञ्जनसाधनानि तु व्यञ्जनानि लिङ्गानि दोषाणां विशेषतः साधनानि च व्रणाधिकारात् व्रणप्रतिषेधात् परिशीलनात् क्रियाभ्यासाच्च सम्यक्सूक्ष्मैरपि प्रकारैर्विदित्वा यदौपयिकं तद्विदध्यात्| (भगन्दरेष्वयं विशेषोपक्रमोऽभिहितः शेषाण्यत्रानुक्तानि व्यञ्जनानि दोषलिङ्गानि साधनान्युपक्रमविशेषाणि| तुशब्दो विशेषद्योतकः| अत्र पिटका भगन्दरभेदेनाऽवस्थाद्वितयोदोषोद्रेकव्रणगत्यादिकमवगम्योपक्रमत्वादुपक्रमस्य दुर्ज्ञेयत्वं विशेषः| व्रणाधिकारात् व्रणप्रतिषेधात् परिशीलनात् चिरपरिचयात्| चशब्दाद् दूष्यदेशादिसमीक्षणमपि सूचितम्| सम्यग्विदित्वा यथावदवगम्य औपयिकं यथायोग्यं विदध्यात् कुर्यादित्यर्थः )||४३||
Adhikarana rUDhe parihAryANi (44-33) · Śloka 33
अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यम्|
साहसानि विविधानि च रूढे वत्सरं परिहरेदधिकं वा||४४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे भङ्गन्दरप्रतिषेधो नाम त्रयस्त्रिंशोऽध्यायः||३३||
रूढेऽपि भगन्दरव्रणे अश्वपृष्ठगमनादिकं संवत्सरं ततोऽप्यधिकं वा परिहरेत्| चलरोधं चलानां वेगानां रोधम्| विविधानि साहसाऽन्यनालोचितात्मवलान्युत्पतनादीनि||४४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे त्रयस्त्रिंशोऽध्यायः||