Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. bhūtapratiṣēdhaḥ

Adhikarana atha bhUtapratiShedho nAmAShTamo~adhyAyaH - avataraNikA · Śloka

🔊 Audio coming soon

उक्तक्रमेणैव भूतानां चिकित्सितं प्रदर्शयितुमध्याय आरभ्यते||

Adhikarana pratij~jA (1) · Śloka 1

अथातो भूतप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana sAdhyeShu sAmAnyopakramaH (2) · Śloka 2

भूतं जयेदहिंसेच्छुं जपहोमबलिव्रतैः| तपश्शीलसमधानज्ञानदानदयादिभिः||२||

🔊 Audio coming soon

अहिंसेच्छुं साध्यं रतिकामं बलिकामं च भूतं जपप्रभृतिभिर्जयेत्||२||

Adhikarana hi~gvAdivargaprayogaH (3) · Śloka 3

हिङुव्योषालनैमालीलशुनार्कजटाजटाः| अजलोमी सगोलोमी भूतकेशी वचा लता| कुक्कुटीसर्पगन्धाख्या तिलाः काणविकाणके| वज्रप्रोक्ता वयस्था च शृङ्गी मोहनवत्यपि| स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्| खराश्वश्वाविडुष्ट्रर्क्षगोधानकुलशल्यकात्| द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः| चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद् घृतम्| पुराणामथवा तैलं नवं तत्पाननस्ययोः| अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने| एभिश्च गुलिकां युञ्ज्यादञ्जने सावपीडने| प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने| प्रयोगोऽयं ग्रहोन्मादान्सास्पस्मारान् शमं नयेत्||३||

🔊 Audio coming soon

हिङ्ग्वादौ वर्गे पुराणं घृतं सिद्धं नवं तैलं वा पाननस्ययोरभ्यङ्गे च प्रयोक्तव्यम्| नैपाली मनःशिला| अर्कजटा अर्कमूलम्| जटा मांसी| अजलोमी मेषविलोचना| गोलोमी दूर्वा| भूतकेशी शुक्ला निर्गुण्डी| लता शतपुष्पा| कुक्कुटी रसायनोक्तलक्षणा| सर्पगन्धा गन्धनाकुली| काणा काकोली| विकाणा क्षीरकाकोली| वज्रप्रोक्ता सुधा| वयस्थां आमलकम्| शृङ्गी कर्कटशृङ्गी| मोहनवल्ली ब्राह्मी शिरीषश्च| रक्षोघ्नं सर्षपम्| अन्यद्रक्षोघ्नमौषधं वचादि यथालाभम्| खरादीनां त्रयोदशानां सामुद्राणां च सत्त्वानां प्राणिनां यथालाभं चर्मादिकम्| एषामित्येभिरिति च हिङ्ग्वादीनां परामर्शः| अवपीडनं कल्कादिनस्यम्| सुबोधम्||३||

Adhikarana gajAhvAdiyogaH (4) · Śloka 4

गजाह्वापिप्पलीमूलव्योषामलकसर्षपान्| गोधानकुलमार्जारशशपित्तप्रपेषितान्| नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान्||४||

🔊 Audio coming soon

गजाह्वादीन् गोधादिपित्तप्रपेषितान् नावनादिषु ग्रहापहान् विदधीत| गजाह्वा हस्तिपिप्पली||४||

Adhikarana ashvAdiviDyogaH (5) · Śloka 5

अश्वश्वाश्वतरोलूककङ्कगृध्रसृगालजा| विट्खरोष्ट्रवराहाश्च तया तैलं विपाचितम्| पिष्टया बस्नमूत्रेण नावनादिषु पूजितम्||५||

🔊 Audio coming soon

अश्वादीनां दशानां विशा पुरीषेण वस्तमूत्रपिष्टया तैलं विपाचितं नावनादिषु पूजितम्| अश्वतरो वेसरः||५||

Adhikarana shirIShAdya~jjanam (6) · Śloka 6

शिरीषपुष्पं लशुनं शुण्ठीं सिद्धार्थकं वचाम्| मञ्जिष्ठां द्वे निशे कृष्णां बस्तमूत्रेण पेषयेत्| छायाशुष्का कृता वर्तिः मत्स्यपित्तद्रुताञ्जनम्||६||

🔊 Audio coming soon

शिरीषादिभिर्बस्तमूत्रपिष्टैः कृता वर्तिः छायाशुष्का सती प्रयोगकाले मत्स्यपित्तेन द्रुता भूतेष्वञ्जनम्||६||

Adhikarana naktamAlaPalAdya~jjanam (7) · Śloka 7

नक्तमालफलं व्योषं बिल्वस्योनाकयोर्जटा| हरिद्रे च कृता वर्तिः पूर्ववन्नयनाञ्जनम्| वयस्थाहिङ्गुकटुकाषड्ग्रन्थासैन्धवं तथा||७||

🔊 Audio coming soon

नक्तमालफलादिभिः कृता वर्तिः पूर्ववदिति बस्तमूत्रपिष्टा शुष्का च मत्स्यपित्तेन द्रुता नयनाञ्जनम्| नक्तमालः कर्णिकारः| जटा मूलम्| वयेस्थेत्यादि| तथा पूर्ववन्नयनञ्जनम्| वयस्था आमलकम्| षड्ग्रन्था वचा|| ७||

Adhikarana siddhArthakAdisarpiragadashca (8) · Śloka 8

सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम्| मञ्जिष्ठाश्वेतकटभ्Vईवराश्वेताद्रिकर्णिका| निम्बस्य पत्रं बीजं तु नक्तमालशिरीषयोः| सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे| सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्| ग्रहान्सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान्| कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्मजित्| एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः| पाननस्याञ्जनालेपस्नानोद्घर्ऱ्षणयोजितः| गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत्||८||

🔊 Audio coming soon

सिद्धार्थकादिभिः कल्कीकृतैश्चतुर्गुणे गोमूत्रे सिद्धं सर्पिर्नाम्ना सिद्धार्थकम्| ग्रहान् सर्वान् सुरादीन् निहन्ति| आसुरान् ग्रहान् विशेषान्निहन्ति| कृत्यादिघ्नञ्च| कृत्या आभिचारदेवता| एभिरिति सिद्धार्थकादिभिर्वस्तमूत्रेणागदः पानादियोजितो गुणैः पूर्ववत्| सुबोधम्|| ८||

Adhikarana siddhArthakAdiguDAH (9) · Śloka 9

सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दम्| बीजं करञ्जात्कुसुमं शीरिषात् फलञ्च वल्कञ्चकपित्थवृक्षात्| समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च| बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात्| दुष्टग्रहोन्मादतमो निशान्धा नुद्बन्धकान् वारिनिमग्नदेहान्| दिग्धाहनान् दर्पितसर्पदष्टां स्ते साधयन्त्यञ्जननस्यलेपैः||९||

🔊 Audio coming soon

सिद्धार्थकाद्यनेकवारं बस्तमूत्रेण भावितं गोपित्तेन गुडान् कुर्यात्| ते गुडा अञ्जनादिभिर्दुष्टग्रहादीन् साधयन्ति| वल्कं त्वक्| माणिमन्थं सैन्धवम्| स्योनाकस्य मयूरजङ्घस्य मूलम्| किणिही गिरिकर्णिका| सा तु सिता शुक्ला| तमस्तिमिरम्| उद्बन्धको गलबन्धेन मृतकल्पः| तद्वज्जलनिमग्नदेहः| विषलिप्तेन शस्त्रेणाहतो दिग्धाहतः||९||

Adhikarana kArpAsAsthyAdidhUpanam (10) · Śloka 10

कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचनैः| नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं स्कन्दोन्मादपिशाचराक्षससुरोवेशग्रहघ्नं परम्||१०||

🔊 Audio coming soon

कार्पासास्थ्यादिभिस्तुल्यैः समभागैः कृतं धूपनं स्कन्दग्रहादिघ्नम्| निर्माल्यं स्पृक्का| पिण्डीतको मदनः||१०||

Adhikarana bhUtarAvaM ghRutam (11) · Śloka 11

त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंही निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः| सितलशुनफलत्रयोशीरतिक्तावचा तुत्थयष्टीबलालोहितैलाशिलापद्मकैः| दधितगरमधूकसारप्रियाह्वाविषाख्या विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः| घृतमनवमशेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस्तद्ग्रहघ्नं परम्||११||

🔊 Audio coming soon

त्रिकटुकादिभिस्तुल्यैः समभागैः कल्कितैरशेषमूत्रांशसिद्धमष्टानां मूत्राणामंशेन भागेन पक्वमाज्यमनवं पुराणं नाम्ना भूतरावम्| तत्पानात्परं ग्रहघ्नम्| ग्रन्थिकं पिप्पलीमूलम्| सिंही बृहती| सिद्धार्थयुग्मं रक्तश्वेतभेदेन| सितं चन्दनम्| लोहिता मञ्जिष्ठा| दधि श्रीवासम्| प्रियाह्वा प्रियङ्गुः| विषाख्या लाङ्गली| विषा अतिविषा| आभयं कुष्ठम्| त्रिंशद्वर्णैः पूर्णपादस्त्वर्णाख्योयं हि दण्डकः|| ११||

Adhikarana mahAbhUtarAvaM ghRutam (12) · Śloka 12

नतमधुककरञ्जलाक्षापटोलीसमङ्गावचा पाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणैः| बदरकट्फलत्रिकाकाण्डद्रुक्रिमिघ्नाजग न्धामराङ्कोलकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः| गदशुकतरुपुष्पबीजोग्रयष्ट्याद्रिकर्णीनिकु म्भाग्निबिल्वैः समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतम्| विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति स र्वग्रहोन्मादकुष्ठज्वरंस्तन्महाभूतरावं स्मृतम्||१२||

🔊 Audio coming soon

नतादिभिः समैः कल्कितैर्घृतं मूत्रवर्गेणाष्टभिर्मूत्रैः सिद्धं विधिना च पात्रे निहितं सर्वैश्च पानादिभिः क्रमैर्योजितं सर्व ग्रहादीन् हन्ति नाम्ना महाभूतरावं स्मृतम्| समङ्गा मञ्जिष्ठा| सिंही बृहती| निशायुग्दार्वी पिण्डाहरिद्रा च| लता शारिवा शतपुष्पा च| रोहिणी कटुरोहिणी| कटु मरिचम्| फलत्रिकं त्रिफला| दारुर्देवदारुः| अमरा निर्गुण्डी| अङ्कोलोऽङ्कोलः| अम्बुदो मुस्तः| इन्द्राह्वयः इन्द्रवृक्षः| गदं कुष्ठम्| शुकतरुः शिरीषः| बीजोग्रो वंशः| अद्रिकर्णी गिरिकर्णी| निकुम्भो दन्ती| अग्निश्चित्रकः| षट्त्रिंशद्वर्णपादोऽयं व्यालाख्यो दण्डकः स्मृतः|| १२||

Adhikarana balihomAdyarthe kAlanirdeshaH (13) · Śloka 13

ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः| दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः||१३||

🔊 Audio coming soon

पूर्वाध्यायोक्तप्रकारेण ग्रहा भूता येषु दिनेषु गृह्णन्ति तेष्वेव दिनेषु विशेषतस्तेषां बल्यादीश्चिकित्सकः प्रयुञ्जीत| विशेषशब्दादन्यदापीति||१३||

Adhikarana balyupaharaNArthaM sAmAnyavidhiH (14) · Śloka 14

स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च| रोचते यद्यदा येभ्यस्तानेषामाहरेत्तदा| रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी| भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम्||१४||

🔊 Audio coming soon

येभ्यो ग्रहेभ्यः स्नानादिकं यदैव रोचते तदैवाहरेदुपनयेत्| रत्नादिकं सर्वेषां ग्रहाणां सामान्यः साधाऱ्रणो विधिः||१४||

Adhikarana balyupaharaNArthaM deshanidarshanam (15) · Śloka 15

सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये| दिश्युत्तरस्यां तत्रापि देवायोपहरेत् बलिम्| पश्चिमायां यथाकालं दैत्यभूताय चत्वरे| गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम्| पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे| यक्षाय यक्षायतने सरितोर्वा समागमे| चतुष्पथे राक्षसयोर्भीमेषु गहनेषु वा| रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम्| शून्यालये पिशाचाय पश्चिमां दिशमास्थिते||१५||

🔊 Audio coming soon

सुरादिभ्यः पञ्चभ्यः सुरालये बलिस्तत्रापि तेष्वपि उत्तरस्यां दिशिदेवेषु विशेषः| दैत्यभूताय चत्वरे त्रिपथे पश्चिमायाम् दिशि| गवां मार्गे वस्त्राभरणयुक्तो गन्धर्वाय बलिः| पितृग्रहे नागग्रहे च नद्यां बलिः| नागानां विशेषमाह- नागेभ्यः पूर्वदक्षिणायां दिशि| यक्षाय यक्षायतने यक्षायतनं यक्षदेवताक्षेत्रम्| यद्वा वटविटपिमूलं तत्र यक्षाधिवासस्य प्रसिद्धत्वात्| सरितोः समागमो नद्योः सङ्गमः| राक्षसयोरिति राक्षसानां ब्रह्म-राक्षसानां च चतुष्पथे वा भीषणेषु वा गहनेषु काननेषु| तयोरेव दिक् सबोधा| पश्चिमां दिशमास्थिते शून्यालये पिशाचाय बलिः सर्वत्र दिग्विभाग आतुरगृहापेक्षयेति|| १५||

Adhikarana devAnAM baliH (16) · Śloka 16

शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम्| दधिच्छत्रं च धवलं देवानां बलिरिष्यते||१६||

🔊 Audio coming soon

दिग्देशमुक्त्वा शुचीत्यादिना बलिरुच्यते| शुचिमाल्यादिकं देवानां बलिरिष्यते||१६||

Adhikarana devagrahe pAnAdyupacArAH (17) · Śloka 17

हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः| चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्| तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम्| नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा||१७||

🔊 Audio coming soon

हिङ्ग्वादिभिरर्धपलोन्मितैर्घृतप्रस्थं चतुर्षु गोमूत्रप्रस्थेषु विपाचयेत्| तद् घृतं पानादिभिर्देवग्रहविमोक्षणम्| षड्ग्रन्था वचा| वचादिकं बस्तमूत्रेण सह नस्यं चाञ्जनं च देवग्रहविमोक्षणमिति सम्बन्धः| इति देवानाम्||१७||

Adhikarana daitye balivisheShaH (18) · Śloka 18

दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः||१८||

🔊 Audio coming soon

बहफलादियुक्तो दैत्ये बलिः| इति दैत्ये|| १८||

Adhikarana nAgAnAM balyAdivisheShAH (19) · Śloka 19

नागानां सुमनोलाजगुडापूपगुडौदनैः| परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः| वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः| श्वेतपत्रं च लोध्रं च तगरं नागसर्षपाः| शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्||१९||

🔊 Audio coming soon

सुमनःप्रभृतिभिर्नागानां बलिः गुडापूपः सोमालकम्| परमान्नं पायसम्| पुरो गुग्गुलुः| रक्तोत्पलं रक्तोत्पलकुसुमम्| इति नागानाम्|| (श्वेतपत्रमित्यादि| शीतेनानुष्णेन जलेन पिष्टं श्वेतपत्रादिकं नावनाञ्जनयोर्नावनेऽञ्जने च हितं नागग्रहविमोक्षणमित्यर्थः| श्वेतपत्रं (वेल्लियिल) श्वेतपद्ममिति केचित्| नागं नखम्| सर्षपं ह्रस्वसर्षपम्| नपुंसकमनपुंसकेनैकवच्चान्यतरस्यामिति हितशब्दस्य क्लीबत्वमेकत्वं च| इति कैरली व्याख्या|| १९||

Adhikarana yakShANAM balyAdivisheShAH (20) · Śloka 20

यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलुः| देवदारुत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्| हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः| सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्| हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा| निम्बपत्रञ्च बस्ताम्बुकल्कितं नावनाञ्जनम्||२०||

🔊 Audio coming soon

क्षीरादिकं हिरण्यान्तं यक्षाणां बलिः| मिश्रकौदनं मांसमिश्रमोदनम्| वस्त्रकाञ्चनं हिरण्यं स्वर्णम्| नागकेसरमिति केचित्| मूत्रं घृतं क्षीरं च समोन्मितं तुल्यमेकत्र मिश्रीभावेन सिद्धं पानादौ हितम्| हरीतक्यादिकं बस्तमूत्रेण कल्कितं नावनमञ्जनं च नावनाञ्जनविषये हितम्| इति यक्षाणाम्||२०||

Adhikarana brahmarakShasAM balyAdivisheShAH (21) · Śloka 21

ब्रह्मरक्षो बलिः सिद्धं यवानां पूर्णमाढकम्| तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्| गायत्रीविंशतिपलक्वाथेऽर्धपलिकैः पचेत्| त्र्यूषणत्रिफलाहिङ्गुषड्ग्रन्थामिसिसर्षपैः| गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम्||२१||

🔊 Audio coming soon

यवानां पूर्णमन्यूनाधिकमाढकं सिद्धं कल्कितं तोयकुम्भादिकं च ब्रह्मरक्षसो बलिर्भवति| आढकं षोडशकुडवप्रमाणम्| तोयस्य कुम्भो द्रोणः| पललं मांसम्| विलेपनं चन्दनाद्यनुलेपनम्| गायत्रीविंशतिपलस्य खदिरपलविंशतेः क्वाथे क्वाथपरिभाषया कृते त्र्यूषणादिभिरर्धपलैः सह सप्त कुडवान् सर्पिषस्त्रिगुणे गोमूत्रे पचेत्| तत् पक्वं घृतं ब्रह्मरक्षसां पानादिषु हितम्| लशुनं सितलशुनम्| इति ब्रह्मरक्षसाम्||२१||

Adhikarana rakShasAM balyAdivisheShAH (22) · Śloka 22

रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम्| बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः| नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च| तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्| हिङिग्वन्द्रयवसिद्धार्थलशुनामलकीफलम्| नावनाञ्जनयोर्योज्यो बस्तमूत्रद्रुतोऽगदः| एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे| रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः||२२||

🔊 Audio coming soon

पललादिकं रुधिरोक्षितनिष्पावान्तं रक्षसां बलिः बलिसाधनम्| पललं तिलचूर्णम्| मिश्रकौदनं मांसेन सह पक्वमोदनम्| पक्वान्यामानि च मांसानि| रुधिरेण रक्तोनोक्षितः सिक्ताः| नक्तमालशिरीषत्वगादिकं बस्तमूत्रद्रुतोऽगदो रक्षसां नावनाञ्जनयोर्नावनविषये च योज्यः| नक्तमालः कर्णिकारः| कृष्णपाटली कृष्णपुष्पा पाटली| एभिरेव नक्तमालत्वगादिभिश्चतुर्गुणे गोमूत्रे सिद्धं पक्वं घृतं पानादिभी रक्षोग्रहान् वारयते रुणाद्धि| इति रक्षसाम्|| २२||

Adhikarana pishAcAnAM balyAdivisheShAH (23) · Śloka 23

पिशाचानां बलिः सीधुः पिण्याकः पललं दधि| मूलकं लवणं सर्पिः सभूतौदनयावकम्| हरिद्राद्वयमञ्जिष्ठामिसिसैन्धवनागरम्| हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफलावचाः| पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम्| गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्| बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम्||२३||

🔊 Audio coming soon

सीध्वादि यावकान्तं पिशाचानां बलिः| सीधुरिक्षुकृतं मद्यम्| पिण्याकस्तिलकल्कः| पललं मांसम्| मूलकं तत्संज्ञं शाकम्| भूतौदनं मांसौदनम्| यावकं वाट्यम्| पाटल्यादिभिः कृते क्वाथे हरिद्राद्वयादिकं कल्कीकृत्य गोमूत्रचतुर्भागयुक्तं सिद्धं घृतं पानेऽभ्यञ्जने च पिशाचानां पिशाचग्रहगृहीतानां हितम्| श्वेतकटभी सुषवी| पुल्लानीति भाषायाम्| बस्ताम्बुनाविमूत्रेण पिष्टैस्तैरेव हरिद्राद्वयादिभिरञ्जनं नावनं च योज्यम्| इति पिशाचानाम्||२३||

Adhikarana tIkShNapratikUlopacAraniShedhavisheShAH (24) · Śloka 24

देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्| सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत्| ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत्| सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः||२४||

🔊 Audio coming soon

देवादिचतुष्टये तीक्ष्णमसहनीयं नस्यादिकं वर्जयेत्| अस्मिंश्चतुष्टये सर्पिष्पानादिकं सर्वं च भैषज्यं मृद्वतीक्ष्णमवचारयेत् प्रयोजयेत्| सर्पिष्पानादीत्यत्रादिशब्देन नावनाभ्यङ्गादिपरिग्रहः| सर्वेषु ग्रहेषु प्रतिकूलं न किञ्चिदप्याचरेत् पिशाचादृते पिशाचं वर्जयित्वा| ते सुरादयः पिशाचवर्जिता महौजसोऽनिर्देश्यशक्तिविशेषा यतः प्रतिकूलाचरणेन क्रुद्धाः सवैद्यमातुरं घ्नन्ति|| २४||

Adhikarana cittaviplave japAdyupacArAH (25) · Śloka 25

ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्| सर्वव्याधिचिकित्सां च जपन्सर्वग्रहाञ्जयेत्| तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्| महाविद्यां च मायूरीं शुचिस्तं श्रावयेत्सदा| भूतेशं पूजयेत्स्थाणुं प्रमथाख्यांश्च तद्गणान्| जपन् सिद्धांश्च तन्मात्रान् ग्रहान् सर्वानपोहति||२५||

🔊 Audio coming soon

नाथमार्यावलोकिताख्यं ध्यात्वा सर्वव्याधिचिकित्सां विद्यां जपन् समाहितः पौनःपुन्येनोच्चरन् सर्वग्रहानुन्मादादींश्च जयेत्| ईश्वरादिकं तस्यैव| (ईश्वरमिति)| द्वादशभुजं द्वादशसङ्ख्यैर्भुजैर्युतं आर्यावलोकितं आर्यया पार्वत्या अवलोकितमार्यासहितमित्यर्थः| नाथं लोकैकनाथमीश्वरं महादेवं ध्यात्वा सर्वव्याधिचिकित्सां लक्षणया सर्वव्योधेः प्रायश्चित्तभूतं श्रीपञ्चाक्षरादिकं मन्त्रं जपन् समाहितः पौनःपुन्योनोच्चरन् सर्वग्रहान् पञ्चसप्ताष्टादशविधानुन्मादान् वक्ष्यमाणलक्षणानपस्मा रानपस्मारग्रहानन्यं वा येन केनापि हेतुनोत्पन्नं चित्तविप्लवं बुद्धि विभ्रंशं जयेच्छमयेत्| इति कैरली)| तं चातुरं शुचिर्वैद्यो मायूरीं महाविद्यां सदा श्रावयेत्| ('शुचिं तं श्रावयेत्सदा' इति च पाठः| महाविद्यामिति| शुचिं कायवाङ्ह्मनोव्यापारशुद्धं तमातुरं महाविद्यां बुद्धदेवताख्यां मायुरीं त्वरितां सदानवरतं श्रावयेत् तं प्रति ब्रूयात्| इति कैरली)| भूतेशमिति| भूतनाथविग्रहं स्थाणुञ्च भगवन्तं महेश्वरं प्रमथाख्यांस्तद्गणांश्च पूजयेत्| तदिति स्थाणुपरामर्शः| (भूतेशमिति| भूतेशं सर्वभूतानामीशं स्थाणुं महादेवं प्रमथाख्यान् भूतप्रमथगुह्यकादिषु मध्ये प्रमथाख्यान् गणांश्च तदिति स्थाणुपरामर्शः पूजयेत् बलिकर्मादिपूजाविशेषैः प्रसादयेत्| जपन्निति| सिद्धान् प्रसिद्धांस्तन्मन्त्रानघोरादीनिति पाट्यकारः| ग्रन्थान्तरेऽन्यथा प्रोक्तं च - व्योमा वापी महाविद्या महापाशुपतस्तथा| फेनलाक्षी वज्रगान्धारी मालिनि मन्त्रसंहिता| तथा चिविडनासा च शूलिनी चेति कीर्तिताः| तन्त्रे सिद्धा महामन्त्रा ग्रहाणां निग्रहा हिताः| इति तान् मन्त्रान् जपन् सर्वान् ग्रहानपोहति| इति कैरली) ||२५||

Adhikarana atideshena cikitsAnirdeshaH (8) · Śloka 8

यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्| यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम्||२६|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे भूतप्रतिवेधो नामाष्टमोऽध्यायः||८||

🔊 Audio coming soon

यच्चेत्यादिनोन्मादापस्मारयोर्भूतानाञ्च साधारणी चिकित्सा बोद्धव्येत्युक्तम्| (यच्चेति| अनन्तरयोरुन्मादापस्मारप्रतिषेधयोर्यद्धितं चिकित्सितं वक्ष्यते इह भूतप्रतिषेधे यदुक्तं च तत्सर्वं कर्म परस्परं व्यत्यस्य प्रयोजयेत्| तच्चेति च शब्देन अस्मिन्नाध्याये देवदानवग्रहदीनुद्दिश्य प्रोक्तं कर्मपि परस्परं प्रयुञ्जीतेति द्योतितम्| इति कैरली)||२६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे अष्टमोऽध्यायः ||८||