Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. unmādapratiṣēdhaḥ

Adhikarana athonmAdapratiShedho nAma navamo~adhyAyaH - pratij~jA (1) · Śloka 1

अथात उन्मादप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

भूतसमानहेतुत्वादिभिश्चित्तोपप्लवसामान्याच्चिकित्सासामान्याच्च भूतिचिकित्साया अनन्तर एवोन्मादापस्मारयोर्निर्णयस्तत्र प्रथममुन्मादं प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana tatrAdau sa~gkhyAsamprAptirnirvacana~jca (2) · Śloka 2

षडुन्मादा भवन्ति-वातपित्तकफसन्निपाताधिविषनिमित्ताः| तत्रोन्मादो नाम य उन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मदः||२||

🔊 Audio coming soon

वातादिभेदेन षडुन्मादाः| आधयो मानसा व्याधयो मौनविचारहर्षदयाः| तत्र शारीरैर्वातादिभिर्मानसाभ्यां च रजस्तमोभ्यां मनसो यो मदः स उन्माद इत्युन्मादस्य निर्वचनम्||२||

Adhikarana unmAdahetuH (3) · Śloka 3

तेषां पुनरुन्मार्गगत्वे हेतुः शमलं विकृतोपहितमहितमनु चितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदेहानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देव द्विजगुरूल्लङ्घनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगो वा||३||

🔊 Audio coming soon

तेषामिति शारीरमानसानां दोषाणामुन्मार्गगमने तु शमलादिकं हेतुः| शमलं पापम्| विकृतोपहितमित्याद्याहारजातस्य विशेषणम्| विकृतेनोपहितं कृतमहितमपथ्यम्| अनुचितमनभ्यस्तम्| विषमेण शारीरेणाङ्गेन या चेष्टा तस्याः सेवा| देवादीनामुल्लङ्घनं वा| राग-जनिता आधयो दयितादिविरहादयः| द्वेषजनिता भयादयः| तैराधिभिर्मनोविघातः| विषं महाविषम्| उपविषं स्वल्पशक्तिविषम्| गरो-ऽनेकसंयोगजनितं विषम्|| ३||

Adhikarana unmAdasamprAptiH (4) · Śloka 4

एभिर्हीनसत्त्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्यु दीर्णत्वाद्दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतां स्यावृत्य जनयन्त्युन्मादम्||४||

🔊 Audio coming soon

एभिरित्यनन्तरोक्तैर्हेतुभिः| हीनसत्त्वस्येत्यादि सुबोधम्||४||

Adhikarana unmAdapUrvarUpANi (5) · Śloka 5

तत्र शिरसः शून्यता चक्षुषोरस्वस्थत्वं स्वनः कर्णयो- रुच्छ्वासाधिक्यमास्यसंस्रवणम्मन्नानभिलाषोऽरोचको- ऽविपाको हृदयग्रहोऽस्थाने ध्यानायाससम्मोहोद्वेगाः सततं रोमहर्षो ज्वरोऽभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृ- तिकरणं व्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचित्तच- लितानवस्थितानामप्रशस्तानां रूपाणां तिलपीडाकवच्च- क्राधिरोहणं वातकुण्डलिकाभिरुन्मथनं निमज्जनं कलुषाणाम्भसामावर्तेषु चक्षुषोश्चापसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि| ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव||५||

🔊 Audio coming soon

तत्रेत्यादिना वातादिदोषनिमित्तानामुन्मादानां पूर्वरूपाणि| अस्थानेऽप्रसङ्गे ध्यानादयः| उदर्दो दोषादिविज्ञानीयोक्तलक्षणः| व्याधेः स्वप्ने दर्शनं देहस्य| भ्रान्तादिगुणानाञ्च रूपाणां दर्शनम्| क्वच्चिक्राधिरूढैस्तिलाः पीड्यन्ते यथास्माद्देशे| वातकुण्डलिका आवर्तवाताः| ततः पूर्वेभ्योऽनन्तरमुन्मादोऽवश्यमभिनिर्वर्तत इत्येवशब्दार्थः||५||

Adhikarana unmAdasAmAnyalakShaNam (6) · Śloka 6

सामान्यलिङ्गं मनोबुद्धिस्मृत्यादिसम्प्रमोषः| ततश्च देहो हतसारथिरिव रथोऽकर्णधार इव चाप्सु प्लवः सुख दुःखाचारधर्माधर्मप्रलुप्तोकस्माद् भ्रमति||६||

🔊 Audio coming soon

मनः सम्प्रमोषादिकमुत्पन्नानामुन्मादानां दोषजानां सामान्यलिङ्गम्| ततश्चेति मनःप्रभृतीनां सम्प्रमोषे| कर्णधारः प्लववाहकः| प्लवश्च नावादिः||६||

Adhikarana vAtonmAdalakShaNAni (7) · Śloka 7

तत्र वातादस्थानस्मितहसितनृत्तगीतवादित्रवागङ्गविक्षेप वाग्भेदभ्रूविक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्र मास्यात् फेनागमो यानमयानैरलङ्करणमनलङ्कारिकरिकैर्द्र व्यैर्लोभोऽभ्यवहार्येषु लब्धेषु चावमानस्तीव्रं मात्सर्यं कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता जीर्णेऽन्ने चातिबलवत्वम्||७||

🔊 Audio coming soon

तत्रेत्यादिना विशेषलिङ्गानि| अतिबलवत्वान्तं वातज उन्मादे लक्षणम्||७||

Adhikarana pittonmAdalakShaNAni (8) · Śloka 8

पित्तात् क्रोधः सन्तर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रै रभिद्रवणं नग्नता प्रच्छायशिशिराभिरतिरुदकाभिलाषः सन्तापः पीतावस्रंसनमनिमित्तमनलज्वलनोपशङ्काह्नि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षत्वं च||८||

🔊 Audio coming soon

पित्तादुन्मादे संरब्धाक्षत्वान्तं लिङ्गम्| प्रकृष्टा छाया यत्र देशे स प्रच्छायः| पीतावस्रंसनं पीतस्य गुणेन भ्रंशः||८||

Adhikarana kaPonmAdalakShaNAni (9) · Śloka 9

कफादल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिङ्घाणकस्रवणं रहःकामता स्त्रीप्रियत्वं निद्रा बीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमला विलाक्षता भुक्ते रात्रौ च बलवत्वमिति||९||

🔊 Audio coming soon

रात्रिबलवत्वान्तं कफादुन्मादे लक्षणम्||९||

Adhikarana sannipAtonmAdalakShaNam (10) · Śloka 10

भवति चात्र सर्वायतनसंस्थानसन्निपाते तदात्मकम्| उन्मादं दारुणं विद्यात्तं भिषक् परिवर्जयेत्||१०||

🔊 Audio coming soon

गतानुगतिका| सर्वेषामायतनानां दोषोन्मादकारणानां सन्निपाते संस्थानानाञ्च सर्वोन्मादलिङ्गानां सन्निपाते मिश्रीभूतत्वे तदात्मकमुन्मादं विद्यात्| तं दारुणं सान्निपातिकं वैद्यः परिवर्जयेद साध्यत्वात्||१०||

Adhikarana AdhijonmAdalakShaNam (11) · Śloka 11

धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्| पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते| रोदित्यकस्मात् स्मयते तद्गुणान् बहु मन्यते| शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते||११||

🔊 Audio coming soon

धनेत्यादिना आधिज उच्यते| अभीषङ्गोऽभिभवः| तद्गुणा नष्टधनकान्तादिगुणाः| शोकेन क्लिष्टं मनो यस्य स तथोक्तः जागरणीशीलो जागरूकः||११||

Adhikarana viShajonmAdalakShaNam (12) · Śloka 12

विषेण श्याववदनो नष्टच्छायोऽबलेन्द्रियः| वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्||१२||

🔊 Audio coming soon

विषेणेत्यादिना विषज उन्मादः| वेगान्तरमतीतानागतयोर्विषवेगयोर्मध्यं तत्रापि सम्भ्रान्तोऽस्वस्थचित्तः| तमिति विषजमुन्मादम्||१२||

Adhikarana cikitsAkramaH (13) · Śloka 13

अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्| पूर्वमावृतमार्गे तु सस्नेहं मृदुशोधनम्| कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्| स्निग्धस्विन्नस्य बस्तींश्च शिरसश्च विरेचनम्| तथास्य शुद्धदेहस्य प्रसादं लभते मनः||१३||

🔊 Audio coming soon

अथेत्यादिना वातादिक्रमेणैवोन्मादानां चिकित्सोच्यते| अनिलज उन्मादे पूर्वं प्रथमं स्नेहपानं प्रयोजयेत्| आवृतमार्गेत्वनिलजे सस्नेहं स्नेहसहितं मृद्वतीक्ष्णं शोधनं वमनविरेचनाख्यम्| कफोद्भवे पित्तोद्भवेऽपि शिरोविरेचनान्तम्| तथेत्यनन्तरोक्तचिकित्सया| अस्येत्यातुरस्य||१३||

Adhikarana snehayogAH (14) · Śloka 14

स्नेहकाले च वातोत्थे तैलं शैरीषमिष्यते| महाकल्याणकं पैत्ते पञ्चगव्यं कफोद्भवे||१४||

🔊 Audio coming soon

वातोत्थ उन्मादे स्नेहकाले स्नेहयोग्ये| शैरीषमपस्मोरोक्तम्| पैत्ते महाकल्याणकोक्तम्| कफोद्भवे पञ्चगव्यमिष्यते||१४||

Adhikarana tIkShNanAvanAdicikitsAkramaH (15) · Śloka 15

इत्थमप्यनुवृत्तौ नु तीक्ष्णं नावनमञ्जनम्| हर्षणाश्वासनोत्रासभयताडनतर्जनम्| अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः| युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः||१५||

🔊 Audio coming soon

इत्थमप्युक्तया चिकित्सया विहितयाऽप्युन्मादस्यानुवृत्तौ दोषाद्यपेक्षया तीक्ष्णं नावनादिकं युञ्ज्यात्| तानि हि नावनादीनि यतः शुद्धदेहस्यसतो मनःप्रकृतिं नयन्ति ||१५||

Adhikarana hi~ggvAdighRutam (16) · Śloka 16

हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्| सिद्धं समूत्रमुन्मादभूतापस्मारनुत् परम्||१६||

🔊 Audio coming soon

द्विपलांशैः पलद्वयप्रमाणैर्हिङ्ग्वादिभिः समूत्रं गोमूत्रसहितं सिद्धं घृतस्याढकमष्टाविंशत्यधिकं पलशतं परमातिशयेन भूतादिनुत् भवति||१६||

Adhikarana brAhmIghRutam (17) · Śloka 17

द्वौ प्रस्थौ स्वरसाद् ब्राह्मया घृतप्रस्थञ्च साधितम्| व्योषश्यामात्रिवृद्बिम्बीशङ्खपुष्पीनृपद्रुमैः| ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः| पलवृद्ध्या प्रयुञ्जीत परं मात्राचतुष्पलम्| उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्| वाक्यस्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्||१७||

🔊 Audio coming soon

ब्राह्मयाः स्वरसात् प्रस्थद्वयं चतुःषष्टिपलानि घृतप्रस्थं द्वात्रिंशत्पलानि कर्षप्रमाणैः कल्कितैर्व्योषादिभिः साधितं ब्राह्मीघृतसंज्ञमेतत् पलवृद्ध्या दिने दिने पलप्रमाणवृद्ध्या प्रयुञ्जीत| परमुत्कृष्टा मात्रा चतुष्पलं पलचतुष्टयम्| तद्घृतमुन्मादादिहरं वन्ध्यायाः सुतप्रदं वागादिकृद् धन्यं भाग्यकरं स्मृतमाचार्यैः ||१७||

Adhikarana kalyANakaghRutam (18) · Śloka 18

वराविशालाबढ्रैलादेवदार्वेलवालुकैः| द्विशारिवाद्विरजनीद्विस्थिराफलिनीनतैः| बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः| वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः| सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्| प्रस्थं भूतग्रहोन्मादकासापस्मारसूदनम्| पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे| अरेतस्यल्परजसि दैवोपहतचेतसि| अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके| बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्| कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च||१८||

🔊 Audio coming soon

कर्षांशैः कर्षप्रमाणैर्वरादिभिर्घृतस्य प्रस्थं द्वात्रिंशत्पलानि पचेत्| सर्वत्र जलस्य स्मर्तव्यम्| तद्घृतं भूतादिसूदनं पाण्ड्वादिषु शस्तं बल्यादिगुणं कान्त्यादिप्रदं च| इदं घृतं कल्याणकसंज्ञं परं पुंसवनं पुंसवनेषु श्रेष्ठं गर्भास्यादिकाले पुरुषप्रजार्थमपि सेवनीयमित्यर्थः||१८||

Adhikarana mahAkalyANakaghRutam (19) · Śloka 19

एभ्यो द्विशारिवादीनि जले पक्त्वैकविंशतिम्| जले तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरचतुर्गुणम्| वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः| सूप्यपर्णीयुतैरेतन्महाकल्याणकं परम्| बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः||१९||

🔊 Audio coming soon

एभ्य इति वरादिभ्यो द्विशारिवादीन्येव न त्वेलाबालुकान्तानि| हिमं चन्दनम्| एतानि चैकविंशतिद्रव्याणि जले पक्त्वा तस्मिन् जले सूप्यपर्णीयुतैर्वीरादिभिः कल्कितैर्गृष्टिक्षीरचतुर्गुणं सर्पिः पचेत्| एतत् घृतं महाकल्याणकं बृंहणादिगुणं पूर्वस्मात् कल्याणकात् गुणैरधिकम्| गृष्टिरेकवारप्रसूता गौः||१९||

Adhikarana mahApaishAcakaM ghRutam (20) · Śloka 20

जटिला पूतना केशी चारटी मर्कटी वचा| त्रायमाणा जया वीरा चोरकः कटुरोहिणी| कायस्था सूकरी छत्रा सातिच्छत्रा पलङ्कषा| महापुरुषदन्ता च वयस्था नाकुलीद्वयम्| कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्| सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्| महापैशाचकं नाम घृतमेतद्यथामृतम्| बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम्||२०||

🔊 Audio coming soon

जटिलादिभिः शालिपर्ण्यन्तैरौषधैः साधितं महापैशाचकं नाम घृतं चातुर्थिकोन्मादादिनाशनम्| चतुर्थिको ज्वरः| एतत् घृतममृततुल्यं महागुणत्वात्| बुद्ध्यादिकरं बालानामङ्गवर्धनञ्च| जटिला मांसी| पूतना गन्धमांसी| केशी शतावरी| चारटी पद्मचारिणी| मर्कटी आत्मगुप्ता| जया अग्निमन्थः| अपराजिता च| वीरा काकोली| चोरकः शठी चण्डा च| कायस्था हरीतकी सुरसश्च| सूकरी वाराही| छत्रा कुतुम्बकम्| धान्यकमिति च| अतिच्छात्रा गौतमाख्या शतपुष्पेति च| पलङ्कषा लाक्षा| महापुरुषदन्ता महामेदा| शतावरीति च| वयस्था आमलकम्| नाकुलीद्वयं नाकुली गन्धनाकुली च| कटम्भरा कटभी| वृश्चिकाली चक्रा| उष्ट्रधूमक इति च ||२०||

Adhikarana lashunAdighRutam (21) · Śloka 21

लशुनानां शतं त्रिंशदभयात्र्यूषणात् पलम्| गव्यचर्ममषीप्रस्थो द्वयाढकं क्षीरमूत्रयोः| पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत्| हिङ्गुचूर्णपलं शीते दत्वा च मधुमानिकाम्| तद्दोषागन्तुसम्भूतानुन्मादन्विषमज्वरान्| अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||२१||

🔊 Audio coming soon

लशुनः सितलशुनः| मधुनः क्षौद्रान्मानिकामष्टौ पलानि| तल्लशुनघृतं दोषादिसम्भूतानुन्मादादीन् पानादिभिराशु हन्ति| दोषा वातादयः| आगन्तू आधिविषे| उग्रगन्धं पुराणं स्याद् दशवर्षस्थितं घृतम्| लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|| इति चरके||२१||

Adhikarana upAyAntaranirdeshaH (22) · Śloka 22

केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया| पुराणं पाययित्वैनं श्वभ्रे रुन्ध्याद् गृहेऽथवा||२२||

🔊 Audio coming soon

तथेदमपि कुर्यात्| पुराणं घृतं केवलमथवैभिर्लशुनादिभिः सिद्धमुत्तमया मात्रया अष्टयामजरणीयया एनमुन्मादिनं पाययित्वा श्वभ्रे प्रपाते रुन्ध्यात्| गृहेऽथवा विजन इत्यर्थात्||२२||

Adhikarana atideshena a~jjanAdiyogopayogitA (23) · Śloka 23

एतानौषधवर्गान्वा विधेयत्वमगच्छति| अञ्जनोद्वर्तनालेपनावनादिषु योजयेत्||२३||

🔊 Audio coming soon

निवृत्तोन्मादेऽपि तत्संस्कारद्विधेयत्वमगच्छत्येतानन्तरोक्तान्यथायोगमौषधवर्गानञ्जनादिषु योजयेत्||२३||

Adhikarana ashvagandhAditailam (24) · Śloka 24

अश्वगन्धाजगन्धोग्रगन्धालशुनसर्षपैः| रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचितम्| गोमूत्रसदृशं पाननस्याभ्यङ्गानुवासनैः| सर्वोन्मादग्रहालक्ष्मीपाप्मापस्मारनाशनम्||२४||

🔊 Audio coming soon

अश्वगन्धादिभिर्गोमूत्रसमं तैलं विपाचितं पानादिभिः सर्वोन्मादादिनाशनम्| उग्रगन्धा वचा| कायस्था हरीतकी| गोलोमीदूर्वा||२४||

Adhikarana shirIShAdya~jjananAvane (25) · Śloka 25

शिरीषो मधुकं हिङ्गु लशुनस्तगरं वचा| कुष्ठञ्च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्| तद्वद् व्योषं हरिद्रे द्वे मञ्षिठाहिङ्गुसर्षपाः| शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्||२५||

🔊 Audio coming soon

शिरीषबीजादिकं बस्तमूत्रेण पिष्टमञ्जनं नावनञ्च स्यात्| व्योषादिकमपि तद्वदिति बस्तमूत्रेण पिष्टमञ्जनं नावनं च| एतच्च प्रयोगद्वयमप्युन्मादादिनाशनम्||२५||

Adhikarana brAhmayAdiyogaH nasyAdyatha (26) · Śloka 26

ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुरम्| रास्नां विषघ्नां लशुनं विशल्यां सुरसं वचाम्| ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्| काम्लीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता| वर्तिर्नस्याञ्जनालेपधूपैरुन्मादसूदनी||२६||

🔊 Audio coming soon

ब्राह्म्यादिकं हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता वर्तिर्नस्यादिभिरुन्मादसूदनी भवति| हिङ्गुजटा हिङ्गुपत्री| विषघ्नात्र सोमराजी| कटभी च| विशल्या गर्भपातनी| ज्योतिष्मती कङ्गुणिका| नागविन्ना नागदन्ती| अनन्ता दूर्वा| काम्ली सौराष्ट्री| अतश्च सुबोधम्||२६||

Adhikarana apAmArgAdivartiH (27) · Śloka 27

पिष्ट्वा फलान्यपामार्गाद्धिङ्गुलं हिङ्गुपत्रिकाम्| वर्तिर्गोक्रोष्टुपित्तेन मरिचार्धशकाञ्जनम्| उन्मादभूतापस्मारे नृषु गोषु च गोचरे||२७||

🔊 Audio coming soon

गोर्वृषस्य क्रोष्टुः सृगालस्य च पित्तेन| एतत् सर्वमेकत एकतो मरिचमित्यर्धांशत्वम्| एषा वर्तिरुन्मादे भूतेऽपस्मारे च योज्या| नृषु नरेषु गोचरे विषये गवां मारके गोषु वृषभेषु चाञ्जनं विधेयम्||२७||

Adhikarana vAtashleShmAtmake visheShopacArAH (28) · Śloka 28

अवपीडाश्च विविधाः सर्षपस्नेहसंयुताः| कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः| सहिङ्गुतीक्ष्णधूमश्च सूत्रस्थानोदितो हितः| सृगालशल्यकोलूकजतुकावृकबस्तजैः| मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्| धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्| धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः| वातश्लेष्मात्मके प्रायः .....................||२८||

🔊 Audio coming soon

अवपीडाः कल्कादिनस्या विविधा नानाविधस्तीक्ष्णाः ते च सर्षपतैलसंयुताः| कटुतैलेनाभ्यङश्च हितः| तद्रजः सर्षपचूर्णं तच्च सहिङ्गु| कटुशब्देन सर्षपा उच्यन्ते| सृगालादीनां मूत्रादिभिर्धूपादीनाचरेत्| जतुका चर्मचटिका| श्वाप्रभृतिभिः सुपूतिभिः| किलन्नगन्धैरेनमुन्मादिनं सततं धूपयेत्| सुबोधम्||२८||

Adhikarana paittike visheShopacArAH (29) · Śloka 29

......................... पैत्तिके तु प्रशस्यते| तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः| शीतानि चान्नपानानि मधुराणि लघूनि च| विध्येत्सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा| निवाते शाययेदेवं मुच्यते मतिविभ्रमात्||२९||

🔊 Audio coming soon

पैत्तिके नु तिक्तकादिकं सर्पिः प्रशस्यते| सुबोधम्| सिराव्यधादिकं च सर्वं दोषाद्यपेक्षया विहितविभागं कार्यम्| मेद्यामिषस्य बल्यामिषस्य तृप्तमुन्मादिनं निवाते शाययेत्| एवमुपक्रान्ते सति मतिविभ्रमादुन्मादान्मुच्यते||२९||

Adhikarana prANabhayakarAH upacAravisheShAH (30) · Śloka 30

प्रक्षिप्यासलिले कूपे शेषयेद्वा बुभुक्षया| आश्वासयेत् सुहृतं वा वाक्यैर्धर्माथसंहितैः| ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा| बद्धं सर्षपतैलाक्तं न्यस्तं चोत्तानमातपे| कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत्| कशाभिस्ताडयित्वा वा बद्ध्वा श्वभ्रे विनिक्षिपेत्| अथवा वीतशस्त्राश्मजने सन्तमसे गृहे| सर्पणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्| त्रासयेच्छस्त्रहस्तैर्वा किरातारातितिस्करैः| अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्| भाययेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया| देहदुःखभयेभ्यो हि परं प्राणभयं मतम्| तेन याति शमं तस्य सर्वतो विप्लुतं मनः| सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया||३०||

🔊 Audio coming soon

प्रक्षिप्येत्यादि| असलिले जलरहिते कूपे प्रक्षिप्य बुभुक्षयाऽनशनेन शोषयेद्वा सुहृदिति बन्धुस्तमुन्मादिनं धर्मार्थसंयुतैर्वचनैराश्वासयेद्वा| इष्टविनाशं पुत्रमरणादिरूपं वाक्यं ब्रूयाद्वा| अथवाद्भुतान्याश्चर्यभूतानीन्द्रजालादीनि दर्शयेत्| अथवा सर्षपतैलेन सिक्तं पाण्यादिषु बद्ध्वा उत्तानं कृत्वाऽऽतपे न्यस्तं कपिकच्छ्वाद्यन्यतमेन स्पृशेत्| कपिच्छुरात्मगुप्ता| अथवा कशाभिस्ताडयित्वा बद्ध्वा च श्वभ्रे जलरहितकूपे विनिक्षिपेत्| अथवा शस्त्रादिरहिते अन्धकारभवने| अथवा तं सर्पादिणा त्रासयेत्| सर्पस्तूद्घृतदंष्ट्रः| सिंहा गजाश्च दान्ता एव ये त्रासयन्त्येव न तूपघ्नन्ति| अथवोद्धृतायुधैः किरातादिभिस्त्रासयेत्| तस्करा गृहीतछद्मतस्करपदवीकाः पुरुषाः| अथवैनमुन्मादिनं प्रसिद्धा राजपुरुषा नगराद् बहिर्नीत्वा सुसंयतम् कृत्वा नृपाज्ञया तर्जयन्तो वधेन करणभूतेन भाययेयुः| यतो देहदुःखभयेभ्यः प्राणभयं परमुत्कृष्टं मतमतस्तेन प्राणभयेन तस्यातुरस्य सर्वतो विप्लुतं मनः शममायति| इयं चानन्तरप्रदर्शिता क्रिया सिद्धा अप्रतिहता देशकालाद्यपेक्षया प्रयोक्तव्या| अस्यामपि सिद्धिमयात्यां देशादिव्यभिचार एवानुमन्तव्यो न तु क्रियादोषा हृदि वर्तन्ते|| ३०||

Adhikarana iShTavinAshajonmAdapratiShedhaH (31) · Śloka 31

इष्टाद्रव्यविनाशात्तु मनो यस्योपहन्यते| तस्य तत्सदृशप्राप्तिस्सान्त्वाश्वासैः प्रसादयेत्||३१||

🔊 Audio coming soon

इष्टद्रव्यविनाशादित्यादि| सुबोधम्| सदृशमितीष्टसदृशं धनसदृशं च| तदिति मनः||३१||

Adhikarana kAmAdijAnAmunmAdAnAM pratIkAraH (32) · Śloka 32

कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्| परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||३२||

🔊 Audio coming soon

कामादिसम्भवानुन्मादानेभिरेव कामादिभिः परस्परप्रतिद्वन्द्वैः शमं नयेत्| कामजं तत्प्रतिद्वन्द्वीभूतेन भयेन वा क्रोधेन वा शमं नयेदित्यर्थः| एवं शेषेष्वपि यथासम्भवं प्रतिद्वन्द्विषु वाच्यम्||३२||

Adhikarana BUtAnubandhapratikAravisheShaH (33) · Śloka 33

भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्| यद्युन्मादे ततः कुर्यात् भूतनिर्दिष्टमौषधम्| बलिं च दद्यात्पललं यावकं सक्तुपिण्डिकाम्| स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्| पक्वामकानि मांसानि सुरां मैरेयमासवम्| अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च| चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च||३३||

🔊 Audio coming soon

यदि चोन्मादे वैद्यो भूतानुबन्धमीक्षेत| ततो भूतनिर्दिष्टमौषधं कुर्यात्| किम्भूतं भूतानुबन्धमाह| प्रोक्तलिङ्गाधिकाकृतिं प्रोक्तेभ्य उन्मादविशेषेभ्योऽधिका आकृतिर्लक्षणं यस्य तम्| तत्र च भूतानुबन्धे चतुष्पथादिषु भूतेभ्यः पललादिकं बलिं दद्यात्| रुधिरोक्षिताः रुधिरसिक्ताः||३३||

Adhikarana sattvavatAM unmAdAsamBavaH (34) · Śloka 34

निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः| निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते||३४||

🔊 Audio coming soon

निवृत्तामिषत्वादियुक्तः सत्त्ववांश्च जितेन्द्रियत्वादिलक्षणो निजैरागन्तुभिश्चोन्मादैर्न युज्यते||३४||

Adhikarana vigatonmAdalakShaNam (9) · Śloka 9

प्रसादश्चेन्द्रियार्थानं बुद्ध्यात्ममनसां तथा| धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||३५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे उन्माद प्रतिषेधो नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

इन्द्रियार्थादीनां प्रसादादिकं विगतोन्मादस्य पुरुषस्य लक्षणम्|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे नवमोऽध्यायः||९|