Adhikarana atha karNarogapratiShedho nAma dvAviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः कर्णरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उक्तक्रमेण कर्णरोगाणां चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana vAtakarNarogacikitsA sarpiHpAnam (2) · Śloka 2
वातजे कर्णशूले रात्रौ रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबेन्निरन्नो वा पयोऽनुपानम्||२||
रसभोजनोत्तरं रसभोजनस्य पश्चात्| अथवा निरन्न एव पयोऽनुपानं वातहरद्रव्यसिद्धं सर्पिः पिबेत्||२||
Adhikarana karNasvedanam (3) · Śloka 3
ततो दशमूलसिद्धे छागे पयसि गोश्रृङ्गनिहितोऽग्निवर्णान् पाषाणान् सन्दशेन गृहीत्वाऽवपेत्|
तेनोष्मणा नाडीस्वेदेन च स्वभ्यक्तं स्वेदयेत्|
बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वाथितैः||३||
तत इति सर्पिष्पानादनन्तरं दशमूलेत्यादिना कर्णस्वेदः| अथवा बिल्वादिपत्रैरानूपमांसयुक्तैः क्वथितैः स्वेदयेत्||३||
Adhikarana karNapUraNam (4) · Śloka 4
स्विन्नं च पूरयेत् कुष्ठारास्नामधुकवंशावलेखशुण्ठीशिखिचन्द्रकमाषसरलपयोविपक्वेन तैलेन|
जीवकमधुककुष्ठमण्डूकीदेवदारुमहौषधकल्काष्टगुणक्षीरसिद्धेन वा|
मयूरनालकुलत्थागरुमाषदेवदारुकल्कक्षारशुक्ताम्लसाधिताभ्यां वा तैलवसाभ्याम्|
मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगन्धोदकक्षीरविपक्वया वा वराहवसया|
रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिंशुमारवसया|
मांसीकुष्ठामेदासरलसुरभिमधुकक्षीरविपक्वया वा गोधावसया|
जीवकशताह्वामधुकमांसीक्षीरसिद्धां कुक्कुटमयूर-वसां कर्णपूरणनस्याभ्यङ्गेषु विदध्यात्|
मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपञ्चमूलकैरण्डपत्ररसमष्टगुणक्षीरसाधितं तैलं वा|
घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाकस्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्|
तद्वच्च तैललवणाभ्यक्तान्यर्कोरुपूगमूलकारलुकबिल्वमहावृक्षान्यतमपत्राणि|
महापञ्चमूलसरलागरुदेवदार्व्यन्यतमकाष्ठमष्टादशाङ्गुलं त्रिभागे क्षौमेणावेष्ट्य तैलेन सिक्त्वाग्रे प्रदीपयेत्|
ततो दह्यमानाद्यः स्नेहः पतति सद्यः कर्णरुजमपहरति||४||
एवञ्च स्विन्नं कर्णं कुष्ठादिविपक्वेन तैलेन पूरयेत्| जीवकादिसिद्धेन तैलेन वा| मयूरनालादिसाधिताभ्यां तैलवसाभ्यां वा मधुकादिविपक्वया वराहवसया वा कर्णं पूरयेत्| रास्नादिविपाचितया शिंशुमारवसया वा| शिंशुमारो नाम जलजः प्राणिविशेषः| मांस्यादिविपक्वया गोधावसया वा कर्णं पूरयेदिति सम्बन्धः| सुरभिर्मुरा| जीवकादिसिद्धां कुक्कुटमयूरयोर्वसां कर्णपूरणादिषु विदध्यात्| मधुकादिसाधितं वा तैलं कर्णपूरणादिषु| शिग्र्वादिपत्ररसस्तैलाच्चतुर्गुणः| क्षीरमष्टगुणम्| ह्रस्वं बृहत्यादिपञ्चमूलम्| तरुणान्यचिरप्ररूढान्यश्वत्थपत्राणि घृताद्यभ्यक्तानि तद्वदिति पुटपाकस्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्| अर्कादीनामन्यतमस्य पत्राणि तैललवणाभ्यक्तानि तद्वदिति पुटपाकस्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्| महापञ्चमूलाद्यन्यतमकाष्ठस्नेहग्रहणविधानं सुबोधम्| सः स्नेहः कर्णपूरणेन सद्य एव कर्णरुजमपहरति||४||
Adhikarana dhUmapAnam (5) · Śloka 5
मधूच्छिष्टकैडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैः क्षौमवस्त्रं धूमवर्त्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य डुण्डुकनालेन धूमं पातुं दद्यात्|
डुण्डुकनालमेव वानेन कल्केनाभ्यज्य विशोषयित्वा धूमं विदध्यात्||५||
मधूच्छिष्टादिभिः श्लक्ष्णयिष्टैः सूत्रोक्तधूमवर्त्तिप्रमाणं परिणाहे क्षौमं लेपयेत्| ततस्तत्क्षौमं वर्त्त्याकृत्य सूत्रेणावेष्ट्य डुण्डुकस्य स्योनाकस्य नालेन धूमं पातुमातुराय दद्यात्| अथवा केवलमेव डुण्डुकनालमनेन मधूच्छिष्टादिकल्केनाभ्यज्य शोषयित्वा धूमं पातुं विदध्यात्|| ५||
Adhikarana lepaH pariSiShTA cikitsA ca (6) · Śloka 6
श्रेयसीदेवदारुकाकोलीकुष्ठनिचुलबीजैः क्षीरपिष्टैस्तिलयुतैः कर्णं बहिर्लेपयेत्|
सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामेरण्डपत्रावच्छादिते कर्णे स्वेदार्थं प्रणयेत्|
पुनः पुनश्च नाडीस्वेदान् पिण्डस्वेदश्च|
वातव्याधिप्रतिश्यायार्दितविधानञ्च सनिरूहानुवासनं कुर्यात्||६||
श्रेयस्यादिभिस्तिलयुक्तैः कर्णलेपः| श्रेयसो हस्तिपिप्पली| सुबोधम्||६||
Adhikarana pathyApathyam (7) · Śloka 7
परिहार्याणि च परिहरेद्विशेषतः प्रवातं शिताम्बुपानं शिरःस्नानं च||७||
परिहर्याणि वातकोपनानि परिहरेत्| प्रवातादीनि विशेषेण| प्रकृष्टो वातः प्रवातः| इति वातजे कर्णरोगे||७||
Adhikarana pittakarNarogacikitsA (8) · Śloka 8
पित्तजे तु शूले प्रातः प्रातः शर्करायुतं सर्पिः पाययेत्|
ततः स्निग्धं विरेचयेत्|
द्राक्षामधुकसिद्धं स्तन्यं कर्णपूरणं प्रयुञ्जीत|
माक्षिकं वा|
मधुकपद्मककल्कस्तन्यसिद्धं वा सर्पिः|
सितामधुकखर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं प्रियालकतैलं पाचितमभ्यङ्गनस्यकर्णपूरणैः शूलदाहघ्नम्|
मधुककुडवं षोडशगुणेनाम्भसाऽष्टावशेषं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीमधुकोशीरसारिवाकाकोलीजीवकानन्तामृणालमञ्जिष्ठा लोध्रचन्दनबिसगर्भं पचेत्|
तच्च पूर्ववत् प्रणयेत्|
एषामेव च कल्केन सघृतेन कर्णं परितो लेपयेत्|
स्वेदयेच्च|
तथा क्षीरसर्पिर्नस्यं शिरोऽभ्यङ्गश्च|
एवमप्यनुपशमे तु पुनर्विरेकः||८||
पित्तजे कर्णशूले प्रातः प्रातः शर्करया युतं सर्पिरास्निग्धत्वलाभात् पाययेत्| सुबोधम्| माक्षिकं वेति केवलम्| सितादिभिः प्रियालकतैलं पाचितमभ्यङ्गादिभिः शुलदाहघ्नम्| मधुकादिना तैलं पूर्ववत् प्रणयेदित्यभ्यङ्गादिषु| तेनेत्यष्टभागशेषेण यष्टीमधुकादिगर्भेण| अनन्ता दूर्वा| एषामित्यनन्तरोक्तानां यष्टीमधुकादीनाम्| क्षीरसर्पिर्यत्क्षीरं मथित्वा गृह्यते| सुबोधम्| इति पित्तजे कर्णरोगे||८||
Adhikarana kaPakarNarogacikitsA (9) · Śloka 9
कफजे पिप्पलीविपक्वं घृतमथवा सक्षौद्रं पाययित्वा तं वामयेत्|
ततस्तीक्ष्णं धूमं पाययेत्|
कर्णञ्चास्य पूरयेत् सरलदेवदारुहिंस्रापटोलपत्रसुरससिद्धेन तैलेन|
देवदारुपिप्पलीमालतीपत्रक्वाथकल्कसिद्धेन वा|
लोध्रखदिरसारमनश्शिलाद्विहरिद्राकुष्ठत्रिफलैलाक्वाथकल्कसिद्धेन वा|
रसाञ्जनमार्कववैजयन्तीशिग्रुलशुनार्द्रकमरुङ्गीमूलकदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा|
तथा शूलशोफगौरवाणि प्रशाम्यन्ति|
धान्याम्लक्वथितद्शमूलबाष्पेण नाडीस्वेदमाचरेत्|
स्विन्नं कुशाम्रत्रिवृन्नलदशुण्ठीमुस्तसाधितेन तैलेन पूरयेत्|
कफघ्नांश्च गण्डूषान् धारयेत्||९||
कफजे कर्णशूले पिप्पलीविपक्वमपक्वमेव वा सक्षौद्रं सर्पिः पाययित्वा तमातुरं वामयेत्| तीक्ष्णो धूमः सूत्रोक्तः| अस्य च श्लेष्मकर्णरोगिणः सरलादिसिद्धेन वा देवदार्वादिसिद्धेन वा लोध्रादिसिद्धेन वा तैलेन कर्णं पूरयेत्|अरलादिकल्कपाकम्| शेषयोर्येषामेव क्वाथस्तेषामेव च कल्केन| रसाञ्जनादीनां पृथग्भूतानां वा मिश्रीभूतानां वा रसेन कर्णं पूरयेत्| मार्कवो भृङ्गराजः| वैजयन्त्यतिमुक्तकः| मुरुङ्गी मधुस्रवा| अथवा केवलेनैव मधुना| अथवा रक्षौघ्नतैलेन सर्षपतैलेन| तथेति कर्णपूरणक्रियया शूलादीनि शाम्यन्ति| नाडीस्वेदः सुबोधः| स्विन्नं कर्णं कुशाम्रादिसिद्धेन तैलेन पूरयेत्| कुशाम्रः क्षुद्राम्रः| कफाघ्नान् कफघ्नद्रव्यकृतान् गण्डूषान् धारयेच्च| इति कफजे कर्णरोगे|| ९||
Adhikarana raktajakarNarogacikitsA (10) · Śloka 10
रक्तजे पैत्तिकवत् सिद्धिः सिराव्यश्च||१०||
रक्तजे कर्णरोगे पैत्तिककर्णरोगवत् सिश्चिकित्सा| अत्र तु सिराव्यधाऽधिकः||१०||
Adhikarana pakvAvasthAyAScikitsA (11) · Śloka 11
पक्वेषु कर्णशूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगण्डूषवमनान्याचरेत्|
उपदिग्धञ्च स्रोतः सायं प्रातः पिचुवर्त्तिभिः प्रमृज्य यवागरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत्|
पलाशधवतिनिशककुभसर्जत्वक्क्वाथरसक्रियया स्वभ्यक्तां पिचुवर्त्तिं स्रोतसि दद्यात्|
बदरीसल्लकीजम्बूधातकीवटप्लक्षोदुम्बरक्वाथेनैवमेव च रसक्रियया|
हरिद्राधातकीत्रिफलाजम्बूसल्लकीकिंशुकक्वाथेन च|
तथा सौराष्ट्रिकापद्मकधातकीसमङ्गाश्वत्थधवलोध्ररसाञ्जनक्वाथेन|
एभिरेवौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसोऽवकिरणमेवं क्लेदशूलगौरवाणि शाम्यन्ति|
एषामेव च कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनम्|
तथा सुरसादिवर्गः प्रक्षालनावचूर्णनयोः प्रयोज्यः||११||
पक्वेष्वित्यनन्तरोक्तेषु वातादिजेषु कर्णशूलेषु यथास्वमित्यारम्भकदोषापेक्षया धूमादीन्याचरेत्| उपदिग्धं क्लेदेन लिप्तं कर्णस्रोतः| पिचुवर्त्तिः कार्पसवर्त्तिः| पलाशादिक्वाथेन बदर्यादिक्वाथेन च पिचुवर्त्त्यभ्यञ्जने रसक्रिया| हरिद्रादिक्वाथेन च रसक्रिया सौराष्ट्रिकादिक्वाथेन च| एभिरेव च यथायोगं रसक्रियौषधैः सूक्ष्मचूर्णीकृतैः पक्वकर्णस्रोतसोऽवकिरणम्| एषामित्यादि सुबोधम्|| ११||
Adhikarana karNanAdabAdhiryayoshcikitsA - cikitsAsUtram (12) · Śloka 12
नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः|
श्लेष्मानुबन्धे तु प्राक्श्लेष्माणमपहरेद्वमननावनाभ्यां तीक्ष्णधूमैश्च||१२||
नादाख्ये बाधिर्याख्ये च रोगे वातकर्णरोगोक्तः सर्वो विधिः| श्लेष्मानुबन्धे त्विति नादबाधिर्ययोरेव ||१२||
Adhikarana asAdhyabAdhiryanirdeSaH (13) · Śloka 13
बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं च वर्जयेत्||१३||
बालादीनां बाधिर्यमसाध्यम्| सर्वस्यैव च चिरोत्थितं बहुकालप्ररूढं बाधिर्यं यत्तदसाध्यम्||१३||
Adhikarana sAdhyabAdhirye cikitsAkramaH (14) · Śloka 14
इतरत्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबन्धमवेक्ष्य साधयेत्||१४||
इतरत्वनन्तरोक्तलक्षणविपरीतं बाधिर्यं दोषानुबन्धस्वरूपानतिक्रमेण नस्यादिभिः साधयेत्||१४||
Adhikarana prayujyamAnAH vividhAH yogAH (15) · Śloka 15
तत्र प्रागेव पुराणसर्पिषा वा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत्|
कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत्|
कर्णासन्नं जलौकोभिस्ततो बस्तिकर्ममूर्धतैलनस्यधूमान् कर्णपूरणं च शीलयेत्|
तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन क्वाथेन सितामधुकबीजकबीजकल्केन च पयोयुक्तं तैलं पाचयेत्|
तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मन्थयेत् यावत् पिण्डीभूतमुद्धृत्याऽष्टगुणे पयसि मधुकगन्धचन्दनगर्भं साधितमाशु कर्णपूरणात् बाधिर्यं नाशयति|
तिलान् नवप्रलूनान् वस्त्रबद्धान् वहन्तीष्वप्सु रात्रिमुषितान् दिवा शोषयेत् पञ्चरात्रम्|
एवं गते पञ्चरात्रे मधुयष्टिकाक्षीरकाकोलीमहापञ्चमूलदेवदारुशताह्वाजीवकक्वथिते पयसि पञ्चाहमेवं वासयेच्छोषयेच्च|
ततोऽनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान् प्रपीडयेत्|
तत्तैलं नीलोत्पलानन्ताचन्दनागरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत्|
एतन्नस्ये कर्णपूरणे शिरसि चाभ्यञ्जने प्रणीतमाशु शूलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबन्धानपोहति भग्नास्थिसन्धानजननञ्च|
शुष्कमूलकभस्मक्षारद्वयहिङ्गुशुण्ठीमिसिवचाकुष्ठामरदारुसौभाञ्जनभूर्जग्रन्थिमुस्तालवणत्रयैः सोद्भिदैस्तैलं शुक्तकदलीबीजपूरकरससंयुक्तं सिद्धं शूलनादबाधिर्यकण्डूशोफक्लेदोपदेहकृमिपूतिकर्णेषु|
अथ कर्णौ सुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत्|
अश्वयथुपरिस्रावे मन्दश्रुतेर्वमनमाचरेत्||१५||
तत्रेति बाधिर्ये| संसर्जनं पेयादिक्रमः| मूर्द्ध्वतैलमभ्यङ्गादिभेदेन चतुर्विधं सूत्रे प्रदर्शितम्| तरुणस्याचिरकालप्ररूढस्य बिल्वस्य फलानि गोमूत्रेण क्वाथयेत्| तेनेति क्वथितगोमूत्रेणत्यादि| तैलपाकविधं शेषं सुबोधम्| तिलानित्यादिना तिलभावनं सुबोधम्| एवमिति प्रतिदिनं शोषणं च वहदम्बुवासनं च पञ्चरात्रम्| ततस्तथैव मधुयष्ट्यादिक्वथितपयसि वासनं शोषणं च पञ्चरात्रमेव| अनेनैवेति यष्ट्यादिशृतेन| एषामेव चेति यष्ट्यादीनां चूर्णेन युक्तान् तिलान्| शुष्कमूलकभस्मादिभिर्द्रव्यैः शुक्लादिभिश्च द्रवैस्तैलं सिद्धं शूलादिषु दृष्टशक्तिः| सुप्ताविवेति बाधिर्य एव| यथोक्तामिति सूत्रोक्ताम्| सश्वयथ्वादि बाधिर्य एव| इति बाधिर्यम्|| १५||
Adhikarana pratInAhacikitsA (16) · Śloka 16
प्रतीनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेन्मातुलुङ्गरसस्य वा सशुक्तक्षौद्रसैन्धवस्य|
शोध्यमाने वेदना रक्तागमो वा यदि भवेत्ततो घृतमण्डेन पूरयेन्नस्यं च शीलयेत्|
मलपूर्णेऽप्येष एव विधिः||१६||
प्रतीनाहाख्ये पूर्वं स्नेहस्वेदाभ्यां कर्णे क्लेदानपादनम्| कर्णशोधनं स्रुवमुखमश्वत्थपत्राग्रमिति यन्त्रं सूत्रे पूर्वमुक्तम्| तैलस्येति करणे षष्ठी| पूरणयोगात्| तद्वन्मातुलुङ्गरसस्येति च| यदि च शोध्यमाने कर्णे वेदना भवेदथवा रक्तागमो भवेत्ततो घृतमण्डेन पूरणं योग्यनस्यशीलनं च| मलपूर्णेऽपीति प्रतीनाहप्रकारत्वादेष एव प्रतीनाहोक्तो विधिः ||१६||
Adhikarana kaNDUSoPayoScikitsA (17) · Śloka 17
कण्द्वां तीक्ष्णनस्यधूमादीन् कफघ्नान्वितरेत्|
रूक्षतिक्तकटुश्चाहारः शोफेऽप्येवमेव विधिः|
कटुतीक्ष्णोष्णाश्च प्रदेहपरिषेकाः||१७||
कण्ड्वाख्ये तीक्ष्णधूमादिकं कफघ्नं वितरेत्| तदेव च शोफाख्ये| अत्र तु कट्वादिगुणप्रदेहादिकमपि||१७||
Adhikarana pUtikarNakrimikarNayoScikitsA (18) · Śloka 18
पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च|
विशेषतश्चात्र कृमिघ्नः|
तथा सर्षपतैलेन पूरणम्|
हरितालचूर्णवता गोमूत्रेण वा|
वार्ताकबीजेन धूपनम्||१८||
पूतिकर्णे कर्णस्रावोक्तः पक्वकर्णपूयप्रवाहोक्तो धूमादिः| कृमिकर्णे च पूतिकर्णवदेव| अत्र तु कृमिकर्णे कृमिघ्नविधिर्विशेषतः कार्यो धूपनान्तः||१८||
Adhikarana vidradhyarSo~arbudacikitsA (19) · Śloka 19
कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत्|
क्षतविद्रधिं पित्तकर्णशूलवदर्शांसि नासार्शोवदर्बुदानि च||१९||
कर्णविद्रधिर्योऽन्य इत्युक्तस्तं वमनपूर्वं विद्रधिवत् विद्रधिप्रकारेणामं पक्वं च चिकित्सेत्| तत्र च विद्रधेः क्षतविद्रध्याख्यो भेदो यः कण्डूयनहेतुकस्तमनन्तरोक्तपित्तकर्णरोगविच्चिकित्सेत्| सुबोधम्| अर्शांस्यर्बुदानि च प्रकरणाद्वक्ष्यमाणनासार्शोर्बुदवत्||१९||
Adhikarana vidArikAcikitsA (20) · Śloka 20
विदारिकामामां कर्णविद्रधिवद्यथादोषोदयञ्च साधयेत्||२०||
विदारिकाऽसाध्योक्ता| तत्र विशेषः आमायां दोषानतिक्रमेण चिकित्सितोक्ता विद्रधिचिकित्सा कार्या ||२०||
Adhikarana pAlIshoShacikitsA (21) · Śloka 21
पालीशोषे वातशूलवन्नस्यमालेपं स्वेदञ्च कुर्यात्|
स्विन्नमुद्वर्त्तयेत्तिलप्रियालबलजमधुकयवाश्वगन्धाकल्केन|
उद्वर्तितञ्च मधुकपयस्याशतपुष्पाश्वगन्धाकल्काष्टगुणवाजिगन्धाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यज्यात्|
शतावर्यश्वगन्धैरण्डपयस्याजीवकक्षीरसिद्धेन वा|
गोधाप्रतुदविष्किरानूपौदकमांसवसामज्जानं सर्पिस्सर्षपतैलञ्च यथालाभं संगृह्यार्कालर्कबलातिबलानन्ताविदारिगन्धाजलशूकमधुरवर्गप्रतीवापं विपचेदयमभ्यङ्गः पाल्याः परं मांसजननः|
एवमपि तु या क्षीयते पाली तस्या यद् दुष्टं तच्छित्वा विधिवत् सन्धाय यथोक्तेन क्रमेणोपचरेत्||२१||
पालीशोषे वातशुलवन्नस्यादिकं कुर्यात्| वातशूलं कर्णरोगे प्रथममुक्तम्| स्विन्नं च पालीशोषं तिलादिकल्केनोद्व्र्तयेत्| उद्वर्तितञ्च पालीशोषं मधुकादिसिद्धेन तैलेनाभ्यज्यात्| शतावर्यादिसिद्धेन वा| गोधेत्यादिनाभ्यङ्गाय तैलम्| अलर्को मन्दारः| अनन्ता दूर्वा याषश्च| जलशूकः शैवालम्| एवमनन्तरोक्तेन प्रकारेण चिकित्स्यमाना या पाली क्षीयते तस्याः पाल्याः यदंशं दुष्टं लक्ष्यते तच्छित्वा शेषं विधिवत् सन्धाय यथोक्तेन पालीशोषक्रमेणोपचरेत्|| २१||
Adhikarana tantrikAcikitsA (22) · Śloka 22
तन्त्रिकामपि चैवमेव नस्याभ्यङ्गादिभिर्यापयेत्||२२||
तन्त्रिका याप्यैवोक्ता तां पालीशोषप्रकारेणैव प्रथमं चिकित्सेद्याप्यत्वे च नस्यादिभिर्यापयेत् ||२२||
Adhikarana paripoTakacikitsA (23) · Śloka 23
परिपोटकेऽप्ययमेव विधिः|
तथा मधुकखरमञ्जरीसैन्धवाश्वगन्धादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहः सिद्धोऽभ्यङ्गः|
तिलमधुकप्रपौण्डरीकसिद्धार्थकघृतक्षीरकृतयोत्कारिकयोपनाहः||२३||
अयमेवेति पालीशोषोक्तः| तथेति परिपोटके||२३||
Adhikarana utpAtacikitsA (24) · Śloka 24
उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः|
तिलमधुकसारिवोत्पललोध्रकदम्बबलाभ्रजम्बूपल्लवैस्सधान्याम्लं तैलं साधितमभ्यङ्गः|
तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि||२४||
विसर्पोक्तघृतानि चेत्यन्तमुत्पाताख्ये| रक्ते हृते शीतैश्चन्दनादिभिः प्रलेपः कार्यस्तिलादिभिः कल्कितैर्द्धान्याम्लसहितं साधितं तैलमभ्यङ्गश्च| तथा क्षीरोत्थं घृतं विसर्पे यानि घृतान्युक्तानि तानि च हितानि||२४||
Adhikarana unmanthacikitsA (25) · Śloka 25
उन्मन्थे तीक्ष्णैः शिरोविरेकः|
तिलसर्षपलोध्रहरिद्राद्वयैरुद्वर्तितायाः कर्णपाल्यास्तालीसतमालैलाकट्फलरसाञ्जनैर्लेपः|
तालपत्र्यश्वगन्धार्कस्सैन्धवावल्गुजबीजसुरसलाङ्गलिकाभिर्गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यञ्जनम्|
तैलमेव वा पटोलकटुरोहिणीरसाञ्जनशिरीषैः||२५||
पटोलादितैलान्तमुन्मन्थाख्ये| तैलमेव वेत्येवकारेण पटोलादौ वसाप्रतिषेधः||२५||
Adhikarana duHkhavarddhanacikitsA (26) · Śloka 26
दुःखवर्द्धने जम्ब्वाम्राश्मन्तकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुकहरिद्राप्रपौण्डरीकमञ्जिष्ठाचूर्णेनाऽवचूर्णयेत्|
लाक्षाविडङ्गपक्वेन तैलेनाभ्यञ्जयेत्||२६||
दुःखवर्द्धनाख्ये प्रथमं जम्ब्वाम्रादिक्वाथपरिषेकस्ततस्तैलेनाभ्यञ्जनं ततो यष्ट्यादिचूर्णेनाऽवचूर्णनं लाक्षाविङ्गाभ्यां पक्वं तैलमभ्यञ्जनं च हितम्||२६||
Adhikarana lihyAkhyapiTikAcikitsA (27) · Śloka 27
लोहकापिटकासु कर्णपालीं बहुशो गोमयपिण्डस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालिम्पेत्|
कुटजकरञ्जेङ्गुदीबीजारग्वधत्वग्भिर्वा|
एभिरेव च सर्वैस्समरिचनिम्बपत्रमधुच्छिष्टैस्सर्षपतैलं सिद्धं लेहिकाव्रणघ्नोऽभ्यङ्गः|
परिदहने जलजाभिरसृक् स्रावयेत्|
शीतैश्च प्रदिह्यात्||२७||
लेहिकापिटकासु लिह्याख्यासु| सुबोधम्| कृमिघ्नानि विडङ्गफलानि| कुटजादिभिर्वा लिम्पेदिति सम्बन्धः| एभिरित्यनन्तरोक्तैः| सर्वशब्देन विडङ्गानां च परिग्रहः| परिदहने तु लिह्याख्यास्वितिप्र्करणात्| जलजा जलौकसः| इत्युक्ताः यथोद्दिष्टाः कर्णरोगाः||२७||
Adhikarana pAlIroge sAmAnyakramaH (28) · Śloka 28
सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यङ्गप्रदेहनस्यास्रविस्रावणानि यथार्हं प्रयुञ्जीत|
प्रकोपकारणानि च परिहरेत्||२८||
सर्वेषु चोक्तानुक्तेषु पालीरोगेषु| यथार्हमिति दोषाद्यपेक्षं स्नेहादि प्रयुञ्जीत| सुबोधम् ||२८||
Adhikarana avasthAviSiShTA pAlIcikitsA (29) · Śloka 29
उत्पच्यमानायां तु पाल्यां सर्जरसापामार्गपटोलनिम्बनिचुलत्वग्भिरालेपः|
उत्पुटन्त्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासर्पिभिः|
श्यावायां गौरीसुगन्धाश्यामानन्तातण्डुलीयकमूलैः|
कण्डूमत्यां पाठानन्तातार्क्ष्यशैलेयमाक्षिकैः|
दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः|
व्रणितायां क्षौद्रजीवनीयैः|
कृशायां गोधावराहवसाभिः|
ग्रन्थितायां ग्रन्थिं पाटयित्वा विलिख्य च कृष्णासैन्धवमधुभिः प्रतिसारयेत्|
स्राववत्यां मधु-मधुकमधूकमधुपर्णीभिर्लेपः|
एभिरेव च यथास्वं स्नेहानभ्यङ्गार्थं प्रकल्पयेत्||२९||
उत्पच्यमानायामित्यादिना पाल्यामवस्थाविशेषेषु साधनविशेषः| उत्पुटनं दरणम्| गौरी हरिद्रा| सुगन्धा गन्धनाकुली| दह्यामाना दाहयुक्ता| व्रणिता सव्रणा| ग्रथिता ग्रन्थिमती| एभिरेव चानन्तरोक्तैरवस्थाविशेषे यथास्वमभ्यङ्गार्थं स्नेहान् प्रकल्पयेत्| उत्पच्यमानायां सर्जरसादिभिरेव| उत्पुटन्त्यां शिग्र्वादिभिरेवेत्येवमादि यथास्वशब्दार्थः ||२९||
Adhikarana karNasandhAnam (30) · Śloka 30
अथरोगतो बलाद्वा विच्छिन्नं कर्णमनुसन्दध्यात्||३०||
अथेत्यादिना छिन्नपालीसन्धानविधानम्| अथेति मङ्गले| रोगतः कर्णं छिन्नं स्वस्थमेव वा संग्रामादौ बलात् छिन्नमुभयमप्यनुसन्दध्यात्| तस्मिन् विच्छेदे दोषसंस्थानविशेषवशात् प्रहारादिगतिविशेषवशाच्चानेकप्रकारो घटनीयः सन्धिः सम्भवति| सर्वः सर्वैः प्रकारैर्दर्शयितुमशक्यः||३०||
Adhikarana pa~jcadasha chinnakarNasandhayaH (31) · Śloka 31
समासतस्तु पञ्चदश कर्णसन्धयः प्रायो नामानुगतसंस्थानविशेषतया सम्भवन्ति|
तद्यथा- १. पृथुलायतसमोभयपालीश्चक्रनेमिः|
२. वृत्तायतमोभयपालिरुत्पलभेदकः|
३. अभ्यन्तरदीर्घपालिः कवाटः|
४. विपरीतोर्द्ध्वकवाटः|
५. ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः|
६. अणुस्थूलसमविषमपालिर्व्यायोजिमः|
७. बाह्यपालिर्गण्डाधारः|
८. अतो विपरीतस्त्वासङ्गिमः|
९. अपालिराहार्यः; स एव मांसलपीठो निर्बेधिमः|
१०. शुष्कशुष्कलिरुत्सन्नपालिः|
११. तराल्पपालिः सङ्क्षिप्तः|
१२. अनधिष्ठानपालिः पर्यन्तयोश्च क्षीणमांसो हीनः|
१३. तनुविषमपालिर्वल्लिः|
१४. ग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालिर्यष्टी|
१५. निर्मांससंक्षिप्ताग्राऽशोणितपालिः काकौष्ठ इति||३१||
समासतस्तु छिन्नकर्णसन्धयः पञ्चदश वैद्यघटनीयाः सम्भवन्ति| कतमित्याह-प्रायो बाहुल्येन स्वनामार्थानुगतसंस्थानविशेषतया (स्वनामानुगतस्थानविशेषतया) संस्थानमाकृतिः स्थानं प्रदेशः| प्रायोग्रहणं व्याभिचारसूचनार्थम्| तथेत्यादिना त एव सन्धयः पञ्चदशोच्यन्ते| कर्णे तावदेका पाली भवति| सा छिन्ना सती द्वे सम्पद्यते| एका गण्डलग्ना| द्वितीया शुष्कल्यवबद्धा| एवं स्थिते एकः सन्धिश्चक्रनोमिनामा भवति| तस्य लक्षणं पृथुले चायते समे निम्नोन्नतरहिते पाली यस्य सन्धेः स तथोक्तः| रथचक्रे हि नेम्याख्यं बाह्यवृद्धिकाष्ठमेवंरूपमेव भवति| द्वितीयो ह्युत्पलभेदाख्यः तस्य लक्षणं वृत्ते परिवर्तुले आयते दीर्घे समे निम्नोन्नतरहिते पाली यस्य| वृत्ते हि भग्नमुत्पलमाकृत्यैवं भवति| तृतीयः सन्धिः कवाटाख्यः| तस्य लक्षणमभ्यन्तरा गण्डनिबद्धा पाली शष्कुली बाह्यापाल्यपेक्षया दीर्घा यस्य स तथोक्तः| अत्र नामानुगतत्वे प्रायोग्रहणम्| चतुर्थोर्द्ध्वकवाटाख्यः| तस्य लक्षणं कवाटलिङ्गवैपरीत्यम्| अत्र हि बाह्या शुष्कल्यवबद्धा पाली दीर्घा भवति| कवाटे द्वारपक्षौ| पञ्चमो वल्लूराख्यः; तस्य लक्षणमुभे अपि पाली ह्रस्वे स्तोकलम्बे वृत्ते वर्तुले परस्परं च समे| वल्लूराख्यां हि शुष्यन्मांसपेश्याः| व्याधाङ्गनास्वेवंविधा एव दृश्यते| षष्ठो व्यायोजिमाख्यः| तस्य लक्षणं एकापाल्यणुर्नातिघना| द्वितीया स्थूलातीवघना च| एका समा निम्नोन्नतरहिता| द्वितीया तद्विपरीता यस्य स तथोक्तः| अस्यार्थे प्रायोग्रहणम्| सप्तमो गण्डाधाराख्यः| तस्य लक्षणं बाह्यशुष्कल्याश्रया एकैव पालिर्गण्डमूलछिन्नत्वाद्यन्यतरस्य हि बन्धे गण्ड एवाधारो द्वितीयपाल्यभावात्| अष्टम आसङ्गिमाख्यः| तस्य लक्षणं गण्डाधारवैपरीत्यम्| अत्र हि शुष्कुलीमूले छिन्नत्वादेव गण्डलग्ना पाली भवति| अत्रापि प्रायोग्रहणम्| नवम आहार्याख्यः| तस्य लक्षणं न विद्यते कदाचिदपि पालिर्यस्य सोऽपालिर्भवति| आहार्य अपूर्वपाल्युपायत्वात्| स एवाहार्यो मांसलेन कर्णपीठेन निर्वेधिम उच्यते| अतएवासौ सन्ध्युत्तरः यो हि वेधमर्हति| दशमः शुष्कशष्कुल्याख्यः| तल्लक्षणं सर्वसर्विकया पाल्युच्छेदः| शष्कुली शुष्कैवंरूपैव भवति| एकादशः सङ्क्षिप्तपालिः| तल्लक्षणमितरेति| नोत्सन्नपालिरपि त्वल्पपालिः| द्वादशो हीनाख्यः| तल्लक्षणं पालीस्थानयोः क्षीणमांसोऽतएव चानधिष्ठानपालिरन्यपाल्या अपि तत्र संश्रयो न विद्यते स भवति हीनः| त्रयोदशो वल्लाख्यः| तल्लक्षणं तु तनुविषमे क्वचिन्निम्ने क्वचिदुन्नते पाल्यौ यस्य| वल्लिरप्येवंरूपैव भवति| चतुर्दशो यष्टाख्यः| तल्लक्षणं ग्रथिता ग्रन्थिमती निर्मांसा स्तब्धा निश्चला सिराभिरावृता सूक्ष्माऽतितन्वी पाली यस्य स तथोक्तः| यष्टिरप्येवंरूपा भवति| पञ्चदशः काकौष्ठाक्ष्यः| तल्लक्षणं निर्मांसेऽल्पप्रान्ते शोणितरहिते पाली यस्य स तथोक्तः| काकस्य चञ्चुपुटावप्येवंरूपावेव भवतः| इत्युक्ताः पञ्चदश सन्धयः|| ३१||
Adhikarana karNasandhInAM sAdhyAsAdhyatA (32) · Śloka 32
एषामाद्या दश सिध्यन्ति; न त्वितरे||३२||
एषां शुष्कशष्कुल्यन्ता दश साध्या| इतरे पञ्च संक्षिप्तादयोऽसाध्याः||३२||
Adhikarana karNasandhInAmavAntaraBedAH (33) · Śloka 33
तत्र बाह्यायां पाल्यां दीर्घायामाभ्यन्तरः सन्धिः|
तथेतरायां बाह्यः|
समः समयोश्च|
अण्वादिविषमयोस्तु परस्परविपर्ययौ||३३||
तत्रैतेषु मध्ये बाह्या शष्कुल्याश्रया पाली दीर्घा भवति तदाऽस्या आभ्यन्तरः सन्धिः| द्वितीयया संयोगे तच्छिद्रमार्गेण कर्तव्यम्| यदा तु गण्डाश्रया दीर्घा तदाऽस्या बाह्यः सन्धानमभिमुखसन्धिः| समयोश्च पाल्योर्बाह्या एव| ये तु पाली अण्वादिविशेषेण विषमे भिन्नस्वरूपे तयोः पाल्योः परस्परविपर्ययेण सन्धिः| यत्रैका अणुरपरा स्थूला एका समाऽपरा निम्ना तत्राणोः सन्धिः तथा निम्ना कर्तव्या यथा स्थूला चाणुर्भवत्यणुश्च स्थूलेत्येकीभूता समा भवत्येवं समविषययोरपि विपर्ययो वाच्यः|| ३३||
Adhikarana ekapAlIsandhAnam (34) · Śloka 34
या त्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात् तां द्विधा पाटयित्वोपरि छित्वा सन्दध्यात्||३४||
द्विधा पाटितायाः पाल्याः एकैको भागो मूले छित्वा शून्ये पालीमूले योज्यः| ततो द्विपालि सन्दध्यात्||३४||
Adhikarana pAlIkalpane prakArAntaram (35) · Śloka 35
गुण्डोत्कृत्तेन वा सशोणितेन सानुबन्धेन मांसेन पालीं कल्पयेत्|
यस्य पालीद्वयमपि नास्ति तस्याप्येष एव विधिः|
अथवा समानवयोदोषादेः सञ्चार्य कर्णपीठं समं मध्ये निवेश्य वर्द्धयेत्||३५||
सहानुबन्धेन जीवत्संस्कारेण वर्तत इति तथोक्तः| सुबोधम्||३५||
Adhikarana sandhAnavidhiH (36) · Śloka 36
सन्धानविधिः पुनरातुरे ग्रथितकेशान्ते बन्धनमुपधारिते छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्षेत दुष्टमदुष्टं वेति|
ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनविषमं सन्धिं निवेश्य ततो मधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुणठ्य सूत्रेण नातिगाढमशिथिलं च बद्ध्वा सिराव्यधोक्तेन कपालस्य वा चूर्णेनावकीर्याचारिकमुपदिशेत्|
सन्धिमाश्लिष्यन्तं क्षौमसूत्रेण सीव्येत|
अतिक्षीणपालिकं वा शोणिताक्तेन पिचुना वेष्टयेत्|
व्रणवच्चैनमुपाचरेत्|
त्र्यहाच्चतुरहाद्वा सलिलेन परिषिच्य पिचुं सूत्रं चापनयेत्||३६||
आतुर इत्यादिना कर्णसन्धानविधिर्भवति| उपधारिते निश्चितयोग्ये बन्धे कर्णस्य छेद्याद्युपपादनमस्थाने विषये कर्त्तुं न याति| दुष्टादुष्टशोणितलक्षणं सिराव्यध उक्तम्| तत इत्यादि सुबोधम्| पिचुः कार्पासचुलुकम्| प्लोतं वस्त्रम्| सिराव्यधोक्तेनेति चूर्णेन सम्बध्यते| आचारिकं व्रणिनमनुष्ठेयम्| यदि च कर्णसन्धिः श्लेषं न गृह्णाति ततः क्षौमसूत्रेण सीव्येत्||३६||
Adhikarana karNasandhAnasyAviShayaH (37) · Śloka 37
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं सन्दध्यात्||३७||
तस्येत्यशुद्धरक्तास्य वातिप्रवृत्तस्य वा क्षीणरक्तस्य वा न सन्दध्यात्||३७||
Adhikarana aviShayasandhAnapariNAmaH (38) · Śloka 38
तस्य हि स्वयमपि सन्धिर्विश्लिष्यते आध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रूढोऽप्याभरणं न क्षमते|
सशोफकण्डूसन्तापो ग्रथिमांश्च भवति|
तत्र च यथास्वं प्रतिकुर्वीत|
दुष्टरक्ते च रक्तमवसेचयेत्|
क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यङ्गैर्बृंहयेत्||३८||
तस्य हीत्यादि सुबोधम्| तत्रेत्याध्मानपाकादौ यथास्वमिति स्वचिकित्सितानतिक्रमेण||३८||
Adhikarana upadravapratIkAraH (39) · Śloka 39
सर्वत्र चैवमपि सोपद्रवसन्धौ सन्धिं विमुच्य पूर्वापचारोपस्थापितस्मृतिः सम्यक् सन्दधीतेति||३९||
एवच्च विधीयमानेऽपि यदि सोपद्रव एव सन्धिर्भवति ततस्तं विमुच्य पूर्वोपद्रवहेतूनां स्मरणं पुनस्तथाभावप्रतिषेधाय कृत्वा सम्यक् सन्दधीत||३९||
Adhikarana sAmAnyopadeSaH (40) · Śloka 40
भवति चात्र न कर्णे शोफरागादियुक्ते सन्धानमाचरेत्|
न घस्मरस्य नायुष्णे नाविशुद्धतनोरपि||४०||
गतानुगतिका| शोफादियुक्ते कर्णे सन्धानं नाचरेत्| घस्मरस्यात्यादनशीलस्य| अत्युष्ण इति देशे काले च| अशुद्धतनोरकृतवमनादिकस्य||४०||
Adhikarana karNavivardhanam (41) · Śloka 41
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्|
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्द्धयेत्|
अन्यथा दाहरुक्तोदशोफाः स्युस्तत्र कारयेत्|
शीतान् प्रदेहसेकादीन् शुद्धिञ्च क्लेदनाशिनीम्|
स्नेहावानूपजं तैलं सर्पिर्लाक्षरसं समम्|
साधयेन् मधुरस्कन्धहयगन्धामयूरकैः|
पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनम्|
कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्द्दिताः|
अभ्यक्तास्तेन जायन्ते मृदवो नीरुजः स्थिराः|
बृहत्यौ कच्छुरां वारिशुकमर्कजटां घृतम्|
माक्षिकं शङ्खिनीं तैलं सप्ताहं ताम्रभजने|
स्थापयेत्तत्परं कर्णमालेपात्पोषयेत् कृशम्|
चर्मचटिकाजलौकोहयगन्धाशबरकन्दकं तुल्यम्|
माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं तुल्यम्|
माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं साक्षात्|
कुर्याच्चाभ्यञ्जानालेपान् पालीशोषे प्रकीर्तितान्||४१||
सुरूढत्वादिगुणं कर्णं शनैर्वर्धयेत्| सुवर्ष्मा सुसारः| अन्यथेति सुरूषत्वादिविपरीते वर्धनाद्दाहादयः स्युः| तत्रेति दाहादिषु शीतान् प्रदेहादीन्| क्लेदनाशककलां च वमनादिकां शुद्धिं कारयेत्| आनूपप्राणिजौ स्नेहौ सम्भवाद्वसामज्जानौ| घृतञ्च तैलञ्च लाक्षारसं चेति पञ्चकं परस्परसमम्| मधुरस्कन्धः सूत्रोक्तः| हयगन्धा अश्वगन्धा| मयूरक अपामार्गः| क्षीरं द्रवपञ्चकात् दशगुणम्| कठिनादिगुणाः पाल्यः स्वेदितमर्दिताः सत्यः| तेनेति मधुरस्कन्धादिपक्वेन स्नेहेनाभ्यक्ता मृदवो नीरुजो रुग्रहिताः स्थिराश्च जायन्ते| बृहत्यादिकमालेपयोग्यं सप्ताहं ताम्रभाजनस्थितमालेपात् कृशं कर्णं परं पोषयेत्| कच्छुरा फणिकारी| वारिशूकं जलशूकम्| शङ्खिन्या यवतिक्तायाः स्नेहः शङ्खिनीतैलम्| चर्मचटिकेत्यादि सुबोधम्| चर्मचटिका प्रसिद्धा चर्मपक्षः| एतत् पक्वं कपित्थे स्थितं कर्णवर्धनम्| अत्र च कर्णवर्धनप्रसङ्गे पालीशोषोक्तानभ्यञ्जनादीन् कुर्यात्|| ४१||
Adhikarana nAsAsandhAnavidhiH (42) · Śloka 42
अथ कुर्याद्वयस्थस्य च्छिन्नां शुद्धस्य नासिकाम्|
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः|
त्वड्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत्|
सीव्येद्गण्डं ततः सूच्या सीवन्या पिचुयुक्तया|
नासाच्छेदेऽथ लिखिते परिवर्त्त्योपरि त्वचम्|
कपोलवध्रं सन्दध्यात् सीव्येन्नासां च यत्नतः|
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये|
आमतैलेन सिक्त्वाऽनु पतङ्गमधुकाञ्जनैः|
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्|
ततो मधुधृताभ्यक्तबद्ध्वाऽचारिकमादिशेत्|
ज्ञात्वाऽवस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः|
छिन्द्याद्रूषेऽधिकं मांसं नासोपान्ताच्च चर्म ततः|
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः|
निवेशिते यथान्यासं सद्यःच्छिन्नेऽप्ययं विधिः||४२||
अनेन च कर्णसन्धानप्रसङ्गेनाथेत्यादिना नासासन्धान कर्माप्युच्यते| अथेत्यानन्तर्ये| छिन्नां नासां नासिकां वयस्थस्य प्रत्यग्रवयसः शुद्धस्य च वमनादिना पुनरन्यां कुर्यात्| कथमित्याह-छिन्द्यादित्यादि| कपोलतः च्छिन्नं नासिकासमप्रमाणं मांसपत्रं तत्तुल्यमिति नासाकारं छिन्द्यात्| नासिकाप्रत्यासन्ने प्रदेशे त्वड्मांसं रक्षन् सीवनोपयोगाय| तच्च मांसपत्रं तनुतां तत्क्षणेन नयेत्| ततोऽनन्तरमुद्धृतपत्रं गण्डं व्रणौष्ठयोः पिचयुक्तया सीवन्या सीव्येत्| व्रणौष्ठवत् पिचुरपि सूच्या ग्राहोत्यर्थः| अथानन्तरं नासाच्छेदे यतः छिन्ना नासा तस्मिन् लिखिते कपोलवध्रमुपरि त्वचं कृत्वा सन्दध्यात्| सन्धाय च नासां यत्नतस्तेन वध्रेण सह सीव्येत्| ताञ्च नासामन्तःस्रोतसि सुखेनोच्छ्वासप्रवृत्त्यर्थं नाडीभ्यामुत्क्षिपेत्| अनु चामतैलेनापक्वतैलेन सिक्त्वा पत्तङ्गादिभिरन्यैश्च सूत्रस्थानोक्तैर्मधुकादिभिः शोणितस्थापनैः शुश्लक्ष्णपिष्टैरवचूर्णयेत्| आचारिकं व्रणोक्त आचारः| ततोऽनन्तरमवस्थाविशेषं ज्ञात्वा सद्योव्रणोक्तमपि विधिं कुर्यात्| ततोऽत्र यदधिकं मांसं तच्छिन्द्यात्| नासानिकटादुच्छ्रायि यच्छेषितं चर्म तदाकृतिलाभाय च| ततोऽनन्तरं सुश्लक्ष्णं कृत्वा सीव्येत्| यश्च प्रदेशो हीनः स्यात्तं पुनरन्येन वध्रलेशेन सन्दध्यात्| यच्च सद्य एव प्रहारादिना नासिकाच्छिन्नं तस्मिन् यथान्यासं पूर्वसन्निवेशानतिक्रमेण निवेशिते अयमेव सीवनादिको विधिः प्रसङ्गेनोच्यते|| ४२||
Adhikarana oShThasandhAnavidhiH (43-22) · Śloka 22
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः||४३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः||२२||
ओष्ठस्य विच्छिन्नस्य सन्धाने नासासन्धानवत्सर्वो विधिः| श्वासोच्छ्वाससुखप्रवृत्त्यर्थं नाडीयोगवर्ज्यमिति||४३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे द्वाविंशोऽध्यायः||