Adhikarana atha karNarogapratiShedho nAma dvAviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः कर्णरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha karNarogapratiShedho nAma dvAviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः कर्णरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana vAtakarNarogacikitsA sarpiHpAnam (2) · Śloka 2
वातजे कर्णशूले रात्रौ रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबेन्निरन्नो वा पयोऽनुपानम्||२||
🔊 Audio coming soon
Adhikarana karNasvedanam (3) · Śloka 3
ततो दशमूलसिद्धे छागे पयसि गोश्रृङ्गनिहितोऽग्निवर्णान् पाषाणान् सन्दशेन गृहीत्वाऽवपेत्| तेनोष्मणा नाडीस्वेदेन च स्वभ्यक्तं स्वेदयेत्| बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वाथितैः||३||
🔊 Audio coming soon
Adhikarana karNapUraNam (4) · Śloka 4
स्विन्नं च पूरयेत् कुष्ठारास्नामधुकवंशावलेखशुण्ठीशिखिचन्द्रकमाषसरलपयोविपक्वेन तैलेन| जीवकमधुककुष्ठमण्डूकीदेवदारुमहौषधकल्काष्टगुणक्षीरसिद्धेन वा| मयूरनालकुलत्थागरुमाषदेवदारुकल्कक्षारशुक्ताम्लसाधिताभ्यां वा तैलवसाभ्याम्| मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगन्धोदकक्षीरविपक्वया वा वराहवसया| रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिंशुमारवसया| मांसीकुष्ठामेदासरलसुरभिमधुकक्षीरविपक्वया वा गोधावसया| जीवकशताह्वामधुकमांसीक्षीरसिद्धां कुक्कुटमयूर-वसां कर्णपूरणनस्याभ्यङ्गेषु विदध्यात्| मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपञ्चमूलकैरण्डपत्ररसमष्टगुणक्षीरसाधितं तैलं वा| घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाकस्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्| तद्वच्च तैललवणाभ्यक्तान्यर्कोरुपूगमूलकारलुकबिल्वमहावृक्षान्यतमपत्राणि| महापञ्चमूलसरलागरुदेवदार्व्यन्यतमकाष्ठमष्टादशाङ्गुलं त्रिभागे क्षौमेणावेष्ट्य तैलेन सिक्त्वाग्रे प्रदीपयेत्| ततो दह्यमानाद्यः स्नेहः पतति सद्यः कर्णरुजमपहरति||४||
🔊 Audio coming soon
Adhikarana dhUmapAnam (5) · Śloka 5
मधूच्छिष्टकैडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैः क्षौमवस्त्रं धूमवर्त्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य डुण्डुकनालेन धूमं पातुं दद्यात्| डुण्डुकनालमेव वानेन कल्केनाभ्यज्य विशोषयित्वा धूमं विदध्यात्||५||
🔊 Audio coming soon
Adhikarana lepaH pariSiShTA cikitsA ca (6) · Śloka 6
श्रेयसीदेवदारुकाकोलीकुष्ठनिचुलबीजैः क्षीरपिष्टैस्तिलयुतैः कर्णं बहिर्लेपयेत्| सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामेरण्डपत्रावच्छादिते कर्णे स्वेदार्थं प्रणयेत्| पुनः पुनश्च नाडीस्वेदान् पिण्डस्वेदश्च| वातव्याधिप्रतिश्यायार्दितविधानञ्च सनिरूहानुवासनं कुर्यात्||६||
🔊 Audio coming soon
Adhikarana pathyApathyam (7) · Śloka 7
परिहार्याणि च परिहरेद्विशेषतः प्रवातं शिताम्बुपानं शिरःस्नानं च||७||
🔊 Audio coming soon
Adhikarana pittakarNarogacikitsA (8) · Śloka 8
पित्तजे तु शूले प्रातः प्रातः शर्करायुतं सर्पिः पाययेत्| ततः स्निग्धं विरेचयेत्| द्राक्षामधुकसिद्धं स्तन्यं कर्णपूरणं प्रयुञ्जीत| माक्षिकं वा| मधुकपद्मककल्कस्तन्यसिद्धं वा सर्पिः| सितामधुकखर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं प्रियालकतैलं पाचितमभ्यङ्गनस्यकर्णपूरणैः शूलदाहघ्नम्| मधुककुडवं षोडशगुणेनाम्भसाऽष्टावशेषं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीमधुकोशीरसारिवाकाकोलीजीवकानन्तामृणालमञ्जिष्ठा लोध्रचन्दनबिसगर्भं पचेत्| तच्च पूर्ववत् प्रणयेत्| एषामेव च कल्केन सघृतेन कर्णं परितो लेपयेत्| स्वेदयेच्च| तथा क्षीरसर्पिर्नस्यं शिरोऽभ्यङ्गश्च| एवमप्यनुपशमे तु पुनर्विरेकः||८||
🔊 Audio coming soon
Adhikarana kaPakarNarogacikitsA (9) · Śloka 9
कफजे पिप्पलीविपक्वं घृतमथवा सक्षौद्रं पाययित्वा तं वामयेत्| ततस्तीक्ष्णं धूमं पाययेत्| कर्णञ्चास्य पूरयेत् सरलदेवदारुहिंस्रापटोलपत्रसुरससिद्धेन तैलेन| देवदारुपिप्पलीमालतीपत्रक्वाथकल्कसिद्धेन वा| लोध्रखदिरसारमनश्शिलाद्विहरिद्राकुष्ठत्रिफलैलाक्वाथकल्कसिद्धेन वा| रसाञ्जनमार्कववैजयन्तीशिग्रुलशुनार्द्रकमरुङ्गीमूलकदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा| तथा शूलशोफगौरवाणि प्रशाम्यन्ति| धान्याम्लक्वथितद्शमूलबाष्पेण नाडीस्वेदमाचरेत्| स्विन्नं कुशाम्रत्रिवृन्नलदशुण्ठीमुस्तसाधितेन तैलेन पूरयेत्| कफघ्नांश्च गण्डूषान् धारयेत्||९||
🔊 Audio coming soon
Adhikarana raktajakarNarogacikitsA (10) · Śloka 10
रक्तजे पैत्तिकवत् सिद्धिः सिराव्यश्च||१०||
🔊 Audio coming soon
Adhikarana pakvAvasthAyAScikitsA (11) · Śloka 11
पक्वेषु कर्णशूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगण्डूषवमनान्याचरेत्| उपदिग्धञ्च स्रोतः सायं प्रातः पिचुवर्त्तिभिः प्रमृज्य यवागरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत्| पलाशधवतिनिशककुभसर्जत्वक्क्वाथरसक्रियया स्वभ्यक्तां पिचुवर्त्तिं स्रोतसि दद्यात्| बदरीसल्लकीजम्बूधातकीवटप्लक्षोदुम्बरक्वाथेनैवमेव च रसक्रियया| हरिद्राधातकीत्रिफलाजम्बूसल्लकीकिंशुकक्वाथेन च| तथा सौराष्ट्रिकापद्मकधातकीसमङ्गाश्वत्थधवलोध्ररसाञ्जनक्वाथेन| एभिरेवौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसोऽवकिरणमेवं क्लेदशूलगौरवाणि शाम्यन्ति| एषामेव च कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनम्| तथा सुरसादिवर्गः प्रक्षालनावचूर्णनयोः प्रयोज्यः||११||
🔊 Audio coming soon
Adhikarana karNanAdabAdhiryayoshcikitsA - cikitsAsUtram (12) · Śloka 12
नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः| श्लेष्मानुबन्धे तु प्राक्श्लेष्माणमपहरेद्वमननावनाभ्यां तीक्ष्णधूमैश्च||१२||
🔊 Audio coming soon
Adhikarana asAdhyabAdhiryanirdeSaH (13) · Śloka 13
बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं च वर्जयेत्||१३||
🔊 Audio coming soon
Adhikarana sAdhyabAdhirye cikitsAkramaH (14) · Śloka 14
इतरत्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबन्धमवेक्ष्य साधयेत्||१४||
🔊 Audio coming soon
Adhikarana prayujyamAnAH vividhAH yogAH (15) · Śloka 15
तत्र प्रागेव पुराणसर्पिषा वा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत्| कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत्| कर्णासन्नं जलौकोभिस्ततो बस्तिकर्ममूर्धतैलनस्यधूमान् कर्णपूरणं च शीलयेत्| तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन क्वाथेन सितामधुकबीजकबीजकल्केन च पयोयुक्तं तैलं पाचयेत्| तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मन्थयेत् यावत् पिण्डीभूतमुद्धृत्याऽष्टगुणे पयसि मधुकगन्धचन्दनगर्भं साधितमाशु कर्णपूरणात् बाधिर्यं नाशयति| तिलान् नवप्रलूनान् वस्त्रबद्धान् वहन्तीष्वप्सु रात्रिमुषितान् दिवा शोषयेत् पञ्चरात्रम्| एवं गते पञ्चरात्रे मधुयष्टिकाक्षीरकाकोलीमहापञ्चमूलदेवदारुशताह्वाजीवकक्वथिते पयसि पञ्चाहमेवं वासयेच्छोषयेच्च| ततोऽनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान् प्रपीडयेत्| तत्तैलं नीलोत्पलानन्ताचन्दनागरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत्| एतन्नस्ये कर्णपूरणे शिरसि चाभ्यञ्जने प्रणीतमाशु शूलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबन्धानपोहति भग्नास्थिसन्धानजननञ्च| शुष्कमूलकभस्मक्षारद्वयहिङ्गुशुण्ठीमिसिवचाकुष्ठामरदारुसौभाञ्जनभूर्जग्रन्थिमुस्तालवणत्रयैः सोद्भिदैस्तैलं शुक्तकदलीबीजपूरकरससंयुक्तं सिद्धं शूलनादबाधिर्यकण्डूशोफक्लेदोपदेहकृमिपूतिकर्णेषु| अथ कर्णौ सुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत्| अश्वयथुपरिस्रावे मन्दश्रुतेर्वमनमाचरेत्||१५||
🔊 Audio coming soon
Adhikarana pratInAhacikitsA (16) · Śloka 16
प्रतीनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेन्मातुलुङ्गरसस्य वा सशुक्तक्षौद्रसैन्धवस्य| शोध्यमाने वेदना रक्तागमो वा यदि भवेत्ततो घृतमण्डेन पूरयेन्नस्यं च शीलयेत्| मलपूर्णेऽप्येष एव विधिः||१६||
🔊 Audio coming soon
Adhikarana kaNDUSoPayoScikitsA (17) · Śloka 17
कण्द्वां तीक्ष्णनस्यधूमादीन् कफघ्नान्वितरेत्| रूक्षतिक्तकटुश्चाहारः शोफेऽप्येवमेव विधिः| कटुतीक्ष्णोष्णाश्च प्रदेहपरिषेकाः||१७||
🔊 Audio coming soon
Adhikarana pUtikarNakrimikarNayoScikitsA (18) · Śloka 18
पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च| विशेषतश्चात्र कृमिघ्नः| तथा सर्षपतैलेन पूरणम्| हरितालचूर्णवता गोमूत्रेण वा| वार्ताकबीजेन धूपनम्||१८||
🔊 Audio coming soon
Adhikarana vidradhyarSo~arbudacikitsA (19) · Śloka 19
कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत्| क्षतविद्रधिं पित्तकर्णशूलवदर्शांसि नासार्शोवदर्बुदानि च||१९||
🔊 Audio coming soon
Adhikarana vidArikAcikitsA (20) · Śloka 20
विदारिकामामां कर्णविद्रधिवद्यथादोषोदयञ्च साधयेत्||२०||
🔊 Audio coming soon
Adhikarana pAlIshoShacikitsA (21) · Śloka 21
पालीशोषे वातशूलवन्नस्यमालेपं स्वेदञ्च कुर्यात्| स्विन्नमुद्वर्त्तयेत्तिलप्रियालबलजमधुकयवाश्वगन्धाकल्केन| उद्वर्तितञ्च मधुकपयस्याशतपुष्पाश्वगन्धाकल्काष्टगुणवाजिगन्धाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यज्यात्| शतावर्यश्वगन्धैरण्डपयस्याजीवकक्षीरसिद्धेन वा| गोधाप्रतुदविष्किरानूपौदकमांसवसामज्जानं सर्पिस्सर्षपतैलञ्च यथालाभं संगृह्यार्कालर्कबलातिबलानन्ताविदारिगन्धाजलशूकमधुरवर्गप्रतीवापं विपचेदयमभ्यङ्गः पाल्याः परं मांसजननः| एवमपि तु या क्षीयते पाली तस्या यद् दुष्टं तच्छित्वा विधिवत् सन्धाय यथोक्तेन क्रमेणोपचरेत्||२१||
🔊 Audio coming soon
Adhikarana tantrikAcikitsA (22) · Śloka 22
तन्त्रिकामपि चैवमेव नस्याभ्यङ्गादिभिर्यापयेत्||२२||
🔊 Audio coming soon
Adhikarana paripoTakacikitsA (23) · Śloka 23
परिपोटकेऽप्ययमेव विधिः| तथा मधुकखरमञ्जरीसैन्धवाश्वगन्धादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहः सिद्धोऽभ्यङ्गः| तिलमधुकप्रपौण्डरीकसिद्धार्थकघृतक्षीरकृतयोत्कारिकयोपनाहः||२३||
🔊 Audio coming soon
Adhikarana utpAtacikitsA (24) · Śloka 24
उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः| तिलमधुकसारिवोत्पललोध्रकदम्बबलाभ्रजम्बूपल्लवैस्सधान्याम्लं तैलं साधितमभ्यङ्गः| तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि||२४||
🔊 Audio coming soon
Adhikarana unmanthacikitsA (25) · Śloka 25
उन्मन्थे तीक्ष्णैः शिरोविरेकः| तिलसर्षपलोध्रहरिद्राद्वयैरुद्वर्तितायाः कर्णपाल्यास्तालीसतमालैलाकट्फलरसाञ्जनैर्लेपः| तालपत्र्यश्वगन्धार्कस्सैन्धवावल्गुजबीजसुरसलाङ्गलिकाभिर्गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यञ्जनम्| तैलमेव वा पटोलकटुरोहिणीरसाञ्जनशिरीषैः||२५||
🔊 Audio coming soon
Adhikarana duHkhavarddhanacikitsA (26) · Śloka 26
दुःखवर्द्धने जम्ब्वाम्राश्मन्तकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुकहरिद्राप्रपौण्डरीकमञ्जिष्ठाचूर्णेनाऽवचूर्णयेत्| लाक्षाविडङ्गपक्वेन तैलेनाभ्यञ्जयेत्||२६||
🔊 Audio coming soon
Adhikarana lihyAkhyapiTikAcikitsA (27) · Śloka 27
लोहकापिटकासु कर्णपालीं बहुशो गोमयपिण्डस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालिम्पेत्| कुटजकरञ्जेङ्गुदीबीजारग्वधत्वग्भिर्वा| एभिरेव च सर्वैस्समरिचनिम्बपत्रमधुच्छिष्टैस्सर्षपतैलं सिद्धं लेहिकाव्रणघ्नोऽभ्यङ्गः| परिदहने जलजाभिरसृक् स्रावयेत्| शीतैश्च प्रदिह्यात्||२७||
🔊 Audio coming soon
Adhikarana pAlIroge sAmAnyakramaH (28) · Śloka 28
सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यङ्गप्रदेहनस्यास्रविस्रावणानि यथार्हं प्रयुञ्जीत| प्रकोपकारणानि च परिहरेत्||२८||
🔊 Audio coming soon
Adhikarana avasthAviSiShTA pAlIcikitsA (29) · Śloka 29
उत्पच्यमानायां तु पाल्यां सर्जरसापामार्गपटोलनिम्बनिचुलत्वग्भिरालेपः| उत्पुटन्त्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासर्पिभिः| श्यावायां गौरीसुगन्धाश्यामानन्तातण्डुलीयकमूलैः| कण्डूमत्यां पाठानन्तातार्क्ष्यशैलेयमाक्षिकैः| दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः| व्रणितायां क्षौद्रजीवनीयैः| कृशायां गोधावराहवसाभिः| ग्रन्थितायां ग्रन्थिं पाटयित्वा विलिख्य च कृष्णासैन्धवमधुभिः प्रतिसारयेत्| स्राववत्यां मधु-मधुकमधूकमधुपर्णीभिर्लेपः| एभिरेव च यथास्वं स्नेहानभ्यङ्गार्थं प्रकल्पयेत्||२९||
🔊 Audio coming soon
Adhikarana karNasandhAnam (30) · Śloka 30
अथरोगतो बलाद्वा विच्छिन्नं कर्णमनुसन्दध्यात्||३०||
🔊 Audio coming soon
Adhikarana pa~jcadasha chinnakarNasandhayaH (31) · Śloka 31
समासतस्तु पञ्चदश कर्णसन्धयः प्रायो नामानुगतसंस्थानविशेषतया सम्भवन्ति| तद्यथा- १. पृथुलायतसमोभयपालीश्चक्रनेमिः| २. वृत्तायतमोभयपालिरुत्पलभेदकः| ३. अभ्यन्तरदीर्घपालिः कवाटः| ४. विपरीतोर्द्ध्वकवाटः| ५. ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः| ६. अणुस्थूलसमविषमपालिर्व्यायोजिमः| ७. बाह्यपालिर्गण्डाधारः| ८. अतो विपरीतस्त्वासङ्गिमः| ९. अपालिराहार्यः; स एव मांसलपीठो निर्बेधिमः| १०. शुष्कशुष्कलिरुत्सन्नपालिः| ११. तराल्पपालिः सङ्क्षिप्तः| १२. अनधिष्ठानपालिः पर्यन्तयोश्च क्षीणमांसो हीनः| १३. तनुविषमपालिर्वल्लिः| १४. ग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालिर्यष्टी| १५. निर्मांससंक्षिप्ताग्राऽशोणितपालिः काकौष्ठ इति||३१||
🔊 Audio coming soon
Adhikarana karNasandhInAM sAdhyAsAdhyatA (32) · Śloka 32
एषामाद्या दश सिध्यन्ति; न त्वितरे||३२||
🔊 Audio coming soon
Adhikarana karNasandhInAmavAntaraBedAH (33) · Śloka 33
तत्र बाह्यायां पाल्यां दीर्घायामाभ्यन्तरः सन्धिः| तथेतरायां बाह्यः| समः समयोश्च| अण्वादिविषमयोस्तु परस्परविपर्ययौ||३३||
🔊 Audio coming soon
Adhikarana ekapAlIsandhAnam (34) · Śloka 34
या त्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात् तां द्विधा पाटयित्वोपरि छित्वा सन्दध्यात्||३४||
🔊 Audio coming soon
Adhikarana pAlIkalpane prakArAntaram (35) · Śloka 35
गुण्डोत्कृत्तेन वा सशोणितेन सानुबन्धेन मांसेन पालीं कल्पयेत्| यस्य पालीद्वयमपि नास्ति तस्याप्येष एव विधिः| अथवा समानवयोदोषादेः सञ्चार्य कर्णपीठं समं मध्ये निवेश्य वर्द्धयेत्||३५||
🔊 Audio coming soon
Adhikarana sandhAnavidhiH (36) · Śloka 36
सन्धानविधिः पुनरातुरे ग्रथितकेशान्ते बन्धनमुपधारिते छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्षेत दुष्टमदुष्टं वेति| ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनविषमं सन्धिं निवेश्य ततो मधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुणठ्य सूत्रेण नातिगाढमशिथिलं च बद्ध्वा सिराव्यधोक्तेन कपालस्य वा चूर्णेनावकीर्याचारिकमुपदिशेत्| सन्धिमाश्लिष्यन्तं क्षौमसूत्रेण सीव्येत| अतिक्षीणपालिकं वा शोणिताक्तेन पिचुना वेष्टयेत्| व्रणवच्चैनमुपाचरेत्| त्र्यहाच्चतुरहाद्वा सलिलेन परिषिच्य पिचुं सूत्रं चापनयेत्||३६||
🔊 Audio coming soon
Adhikarana karNasandhAnasyAviShayaH (37) · Śloka 37
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं सन्दध्यात्||३७||
🔊 Audio coming soon
Adhikarana aviShayasandhAnapariNAmaH (38) · Śloka 38
तस्य हि स्वयमपि सन्धिर्विश्लिष्यते आध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रूढोऽप्याभरणं न क्षमते| सशोफकण्डूसन्तापो ग्रथिमांश्च भवति| तत्र च यथास्वं प्रतिकुर्वीत| दुष्टरक्ते च रक्तमवसेचयेत्| क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यङ्गैर्बृंहयेत्||३८||
🔊 Audio coming soon
Adhikarana upadravapratIkAraH (39) · Śloka 39
सर्वत्र चैवमपि सोपद्रवसन्धौ सन्धिं विमुच्य पूर्वापचारोपस्थापितस्मृतिः सम्यक् सन्दधीतेति||३९||
🔊 Audio coming soon
Adhikarana sAmAnyopadeSaH (40) · Śloka 40
भवति चात्र न कर्णे शोफरागादियुक्ते सन्धानमाचरेत्| न घस्मरस्य नायुष्णे नाविशुद्धतनोरपि||४०||
🔊 Audio coming soon
Adhikarana karNavivardhanam (41) · Śloka 41
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्| सुवर्ष्माणमरोगं च शनैः कर्णं विवर्द्धयेत्| अन्यथा दाहरुक्तोदशोफाः स्युस्तत्र कारयेत्| शीतान् प्रदेहसेकादीन् शुद्धिञ्च क्लेदनाशिनीम्| स्नेहावानूपजं तैलं सर्पिर्लाक्षरसं समम्| साधयेन् मधुरस्कन्धहयगन्धामयूरकैः| पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनम्| कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्द्दिताः| अभ्यक्तास्तेन जायन्ते मृदवो नीरुजः स्थिराः| बृहत्यौ कच्छुरां वारिशुकमर्कजटां घृतम्| माक्षिकं शङ्खिनीं तैलं सप्ताहं ताम्रभजने| स्थापयेत्तत्परं कर्णमालेपात्पोषयेत् कृशम्| चर्मचटिकाजलौकोहयगन्धाशबरकन्दकं तुल्यम्| माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं तुल्यम्| माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं साक्षात्| कुर्याच्चाभ्यञ्जानालेपान् पालीशोषे प्रकीर्तितान्||४१||
🔊 Audio coming soon
Adhikarana nAsAsandhAnavidhiH (42) · Śloka 42
अथ कुर्याद्वयस्थस्य च्छिन्नां शुद्धस्य नासिकाम्| छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः| त्वड्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत्| सीव्येद्गण्डं ततः सूच्या सीवन्या पिचुयुक्तया| नासाच्छेदेऽथ लिखिते परिवर्त्त्योपरि त्वचम्| कपोलवध्रं सन्दध्यात् सीव्येन्नासां च यत्नतः| नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये| आमतैलेन सिक्त्वाऽनु पतङ्गमधुकाञ्जनैः| शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्| ततो मधुधृताभ्यक्तबद्ध्वाऽचारिकमादिशेत्| ज्ञात्वाऽवस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः| छिन्द्याद्रूषेऽधिकं मांसं नासोपान्ताच्च चर्म ततः| सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः| निवेशिते यथान्यासं सद्यःच्छिन्नेऽप्ययं विधिः||४२||
🔊 Audio coming soon
Adhikarana oShThasandhAnavidhiH (43-22) · Śloka 22
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः||४३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः||२२||
🔊 Audio coming soon