Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

21. karṇarōgavijñānīyaḥ

Adhikarana atha karNarogavij~jAnIyo nAmaikaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातः कर्णरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

नेत्ररोगाणां निर्णयं कृत्वोर्द्वाङ्गचिकित्साप्रसङ्गेन कर्णरोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana vAtakarNarogaH (2) · Śloka 2

प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्| मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः| प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्| अर्धावभेदकं स्तम्भं शिशिरानाभिनन्दनम्| चिराच्च पाकः पक्वन्तु लसीकामल्पशः स्रवेत्| श्रोतं शून्यमकस्माच्च स्यात् सञ्चारविचारवत्||२||

🔊 Audio coming soon

प्रतिश्यायादिभिर्हेतुभिरन्यैश्च निदानोक्तैर्मरुद्वायुः कुपितः श्रोत्रस्रोतसि वेगवच्छूलमर्धावभेदकादिकञ्च कुरुते| प्रतिश्यायो नासारोगेषु वक्ष्यते| अर्धावभेदकः शिरोरोगेषु| शिशिरानाभिनन्दनं शीतद्वेषः| चिराच्च पाकः श्रोत्रे स्यात्| पक्वं च श्रोत्रमकस्माद्विनाकारणं सञ्चारविचारवत् स्यात्| क्षणं संवृतमाभाति क्षणं विवृतमित्यर्थः| इति वातकर्णरोगः||२||

Adhikarana pittakarNarogaH (3) · Śloka 3

शूलं पित्तात्सदाहोषा शीतेच्छा श्वयथुं ज्वरम्| आशुपाकं प्रपक्वं च सपीतलसिकास्रुतिः| सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च||३||

🔊 Audio coming soon

पित्तात् स्वहेतुतः कुपिताच्छ्रोत्रस्रोतसि दोहादियुक्तं शूलं स्यादिति सम्बन्धः| आशुपाकादिकं चार्थाच्छ्रोत्रविशेषणं बोद्धव्यम्| सुबोधम्| इति पित्तकर्णरोगलिङ्गम्||३||

Adhikarana kaPakarNarogaH (4) · Śloka 4

कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः| कण्डूश्वयथुरुष्णोच्छा पाकाच्छ्र्वेतघनस्रुतिः||४||

🔊 Audio coming soon

कफादिति| प्रकरणात्कर्णरोगे शिरोगौरवादिकं लिङ्गम्||४||

Adhikarana raktakarNarogaH (5) · Śloka 5

करोति श्रवणे शूलमभिघातादिदूषितम्| रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम्||५||

🔊 Audio coming soon

अभिघातादिना रक्तस्य कोपस्तेन दूषितं रक्तं श्रवणे कर्णे शूलं करोति| तच्च रक्तकर्णरोगं पित्तकर्णरोगसमानलिङ्गं भवति| ततोऽपि पित्तात् किञ्चिदधिकलक्षणमिति रक्तकर्णरोगः||५||

Adhikarana sannipAtakarNarogaH (6) · Śloka 6

शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्| पर्यायादुष्णशीतेच्छं जायेते श्रुतिजाड्यवत्| पक्वं सितासितारक्तघनपूयप्रवाहि च||६||

🔊 Audio coming soon

समुदितैः सन्निपतितैर्दोषैर्वातादिभिः शोफादियुक्तं शूलं श्रोत्रे जायते| पर्यायेण निरन्तरावृत्त्या उष्णोच्छा शीतेच्छा च यस्मिन् शूले तत्पर्यायादुष्णशीतेच्छम्| पर्यायादेव श्रुतिजाड्यवत्| तच्च श्रोत्रं पक्वं सितासितादिगुणपूयप्रवाहि भवतीति सन्निपातकर्णरोगः||६||

Adhikarana karNanAdaH (7) · Śloka 7

शब्दवाहिसिरासंस्थे श्रृणोति पवने मुहुः| नादानकस्माद्विधान् कर्णनादं वदन्ति तम्||७||

🔊 Audio coming soon

शब्दवहासु सिरासु कारणविशेषवशात् स्थिते पवने पुरुषो मुहुः प्रतिक्षणमकस्मात् कारणं विना विविधानसतो नादान् श्रृणोति| तं कर्णरोगं कर्णनादमित्याचार्या वदन्ति||७||

Adhikarana badhiratvam (8) · Śloka 8

श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः| उच्चैः कृच्छ्राच्छुतिं कुर्याद्बधिरत्वं क्रमेण च||८||

🔊 Audio coming soon

श्लेष्मणा वायुरनुगत उच्चैः कृच्छ्राच्च श्रुतिं कुर्यात्| अथवा कर्णनादाख्यो रोग उपेक्षितः सन्नेवं कुर्यात्| उभयत्रापि क्रमेण बधिरत्वमयं रोगः सप्तमः||८||

Adhikarana pratInAhaH (9) · Śloka 9

वातेन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत्| रुग्गौरवं विधानं च सः प्रतीनाहसंज्ञितः||९||

🔊 Audio coming soon

कारणविशेषवशाद्वातेन श्लेष्मा शोषितः सन् कर्णस्रोतो लिम्पेत्ततः स्रोतोलेपात् कर्णे रुगादिकं भवेत्| स एवम्भूतो रोगः संज्ञया प्रतीनाहः||९||

Adhikarana kaNDUH SoPaSca (10) · Śloka 10

कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ||१०||

🔊 Audio coming soon

कफाद्धेतोर्यौ श्रोत्रे स्थिरौ कण्डूशोफौ तौ तत्संज्ञया कण्डूशोफाविति नाम्ना स्मृतावाचार्यैः| एकः कण्डूः द्वितीयः शोफः||१०||

Adhikarana pUtikarNakaH (11) · Śloka 11

कफो विदग्धः पित्तेन सरुजं नीरुजं तथा| धनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्||११||

🔊 Audio coming soon

पित्तेन कर्त्रा कफो विदग्धः विदाहावस्थां नीतः पूतिकर्णाख्यं रोगं कुरुते| किम्भूतमित्याह| सरुजं वा नीरुजं वा उभयथापि घनपूति बहुक्लेदम्||११||

Adhikarana krimikarNakaH (12) · Śloka 12

वातादिदूषितं श्रोतं मांसासृक्लेदजा रुजम्| खादन्तो जन्तवः कुर्यस्तीव्रां स क्रिमिकर्णकः||१२||

🔊 Audio coming soon

जन्तवः क्रिमयः खादन्तो भक्षयन्तः प्रकरणात् कर्णं तत्रैव सम्भवात्तीव्रां रुजं कुर्युः| स रोगो नाम्ना क्रिमिकर्णकः| किम्भूता जन्तव आह-वातादिभिः स्वकारणकुपितैर्दूषिते ये श्रोत्रसम्बन्धिनी मांसासृजी तयोर्विक्लेदस्तज्जाः||१२||

Adhikarana vidradhyarSo~arbudAni (13) · Śloka 13

श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः| विद्रधिः पूर्ववच्चान्यः शोफोऽर्शोर्बुदमीरितम्| तेषु रुक् पूतिकर्णत्वं बधिरत्वं क्रमेण च||१३||

🔊 Audio coming soon

श्रोतस्य कण्डूयनेन क्षते व्रणे जाते सति पूर्वलक्षणस्तीव्ररूग्रुपो विद्रध्याख्यो रोगः स्यात्| अन्यश्च विद्रधिः पूर्ववन्निदानोक्तविद्रधिहेतुना भवत्येष च विद्रधेरेव भेदान्तरं तेन संख्यायां न प्रविशति| शोफश्च यः कर्णे स नाम्ना एकार्श ईरितः द्वितीयोऽर्बुदं एवमेतौ द्वौ रोगावेकीकृत्य पूर्वैः सह पञ्चदश तु भवन्ति| तेषु चानान्तरोक्तेषु विद्रध्यर्शोऽर्बुदेषु क्रमेण यथासङ्ख्यं रुगादित्रयं जायते| बधिरत्वं च जायते ( इति च पाठः )||१३||

Adhikarana kUcikarNakaH (14) · Śloka 14

गर्भेऽनिलात् सङ्कुचिता शष्कुली कूचिकर्णकः||१४||

🔊 Audio coming soon

गर्भावस्थायामनिलाद्धेतोर्गर्भानिलात् शष्कुली सङ्कुचिता स रोगे नाम्ना कूचिकर्णकः||१४||

Adhikarana pippalI (15) · Śloka 15

एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः| पिप्पली पिप्पलीमानः.........................||१५||

🔊 Audio coming soon

गर्भावस्थायामेव कर्णे एको वाऽनेको वा स्थिरः पिप्पलीप्रमाणो यो मांसाङ्कुरः स नाम्ना पिप्पली ||१५||

Adhikarana vidArikA (16) · Śloka 16

...............................सन्निपाताद्विदारिका| सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः| कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति| सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्||१६||

🔊 Audio coming soon

सन्निपाताद्धेतोर्यः श्वयथुः सवर्णादिगुण उपेक्षितश्च पक्वः सन् कटुतैलनिभं तत्सदृशं स्रावं स्रवेत् कृच्छ्रेण रोहति बहुकालप्रयुक्तभैषज्यसंस्काराद्रूढो भवति| सः श्वयथुर्विदारिका नाम रोगः| सा च विदारिका रूढा लब्धास्पदा सती ध्रुवमवश्यं कर्णशषुलीं सङ्कोचयति||१६||

Adhikarana pAlISoShaH (17) · Śloka 17

सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्||१७||

🔊 Audio coming soon

कर्णसिरास्थो वायुः पाल्यां शोषं नाम्ना पालीशोषसंज्ञं कुरुते||१७||

Adhikarana tantrikA (18) · Śloka 18

कृशा दृढा च तन्त्रीवत्पाली वातेन तन्त्रिका||१८||

🔊 Audio coming soon

वातेन पाली वीणातन्त्रीवत् कृशा दृढा च भवति; स तन्त्रिका नाम रोगः||१८||

Adhikarana pAripoTaH (19) · Śloka 19

सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धते| कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान्| परिपोटश्च पवनात्........................||१९||

🔊 Audio coming soon

सुकुमारे कर्णे बहुकालमुपेक्ष्य झटिति प्रकर्षेण वर्धिते अरुणः परिपोटवांश्च सरुक्पाल्यां शोफः स्यात्| परिपोटश्चर्मदरणम्| स रोगः पवनाद्धेतोर्भवति| नाम्ना परिपोटः||१९||

Adhikarana utpAtaH (20) · Śloka 20

.......................उत्पातः पित्तशोणितात्| गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्| श्वयथुः स्फोटपिटकारागोषाक्लेदसंयुतः||२०||

🔊 Audio coming soon

गुर्वाभरणभाराद्यैः प्रकुपितात् पित्तशोणितात् श्यावादिगुणः स्फोटादिसंयुक्तश्च यः श्वयथुः स उत्पातो नाम रोगः|| २०||

Adhikarana unmanthaH (21) · Śloka 21

पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः| स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः||२१||

🔊 Audio coming soon

अनिलकफाद्धेतोः पाल्यां सर्वतोदिक्कं निर्यथादिगुणः शोफो भवति; स रोगो नाम्ना उन्मन्थो गल्लिरश्च्योच्यते||२१||

Adhikarana duHkhavardhanaH (22) · Śloka 22

दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्| श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्धनः||२२||

🔊 Audio coming soon

यश्च कर्णो दुर्विद्धः सन् वर्धितस्तस्मिन् यः कण्ड्वादिगुणः सन्निपातोत्थः श्वयथुः स नाम्ना दुःखवर्धनः||२२||

Adhikarana lihyAkhyAH piTakAH (23) · Śloka 23

कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः| लिह्याख्याः पिटकास्ता हि लिह्युः पालीमुपेक्षिताः||२३||

🔊 Audio coming soon

कफादिजाः कण्ड्वादियुक्ताः पिटका नाम्ना लिह्याख्यास्ता ह्युपेक्षिताः पालीं लिह्युः शोषयेयुरित्यर्थः||२३||

Adhikarana sAdhyAsAdhyatA (24) · Śloka 24

पिप्पली सर्वजं शूलं विदारी कूचिकर्णकः| एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत्||२४||

🔊 Audio coming soon

एषां कर्णरोगाणां मध्ये पिप्पल्यादिचतुष्टयमसाध्यम्| एका तन्त्रिकैव याप्या| शेषान् धारयेत्||२४||

Adhikarana karNarogAsa~gkhyAnam (25-20) · Śloka 20

पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः||२५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः||२१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः||२०||

🔊 Audio coming soon

इत्यनन्तरोक्तेन प्रकारेण वातकर्णरोग, पित्तकर्णरोग, कफकर्णरोग, रक्तकर्णरोग, सन्निपातकर्णरोग, कर्णनाद, बधिरत्व, प्रतीनाह, कण्डू, शोफ, पूतिकर्णक, क्रिमिकर्णक, उभयरूपविद्रध्यर्शोर्बुद, कूचिकर्णक, पिप्पली, विदारिका, पालीशोष, तन्त्रिका, परिपोटोत्पातोन्मन्थ, दुःखवर्धन, लिह्याख्याः पञ्चविंशतिकर्णरोगा उक्ताः||२५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकविंशोऽध्यायः