Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

37. kṣudrarōgapratiṣēdhaḥ

Adhikarana atha kShudrarogapratiShedhAkhyo nAma saptatriMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः क्षुद्ररोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

उक्तक्रमेणैवं क्षुद्ररोगाणां चिकित्सां प्रदर्शयितुमध्याय आरभ्यते| (क्षुद्ररोगाणामजगल्लिकादीनां प्रतिषेधश्चिकित्सास्मिन्नुच्यत इति क्षुद्ररोगप्रतिषेधः| शेषं पूर्ववत्)|| १||

Adhikarana ajagallikAcikitsA (2) · Śloka 2

अजगल्लिकामपक्वां जलौकोभिर्ग्राहयेत्| यवक्षार शुक्तिसौराष्ट्रीकल्कैश्च लेपयेत्||२||

🔊 Audio coming soon

अपक्वायामजगल्लिकायां जलौकसो यवक्षारादिभिश्च लेपः||२||

Adhikarana yavaprakhyAdipAShANagardabhAntAnAM cikitsA (3) · Śloka 3

यवप्रख्यादीन् पाषाणगर्दभान्तान् स्वेदयित्वा सुरदारु कुष्ठमनश्शिलालैर्लेपयेत्| पक्वांस्तु सहाजगल्लिकया व्रणवदुपाचरेत्||३||

🔊 Audio coming soon

यवप्रख्यादीनां पञ्चानां प्रकरणादपक्वानां यथार्हः स्वेदः| सुरदार्वादिभिश्च लेपः| (यवप्रख्यादीनां भिन्नरूपत्वेऽपि कफवातजत्वसाम्येन कारणैक्यात् ग्रथनसाम्येन विलायनीयत्वाच्च क्रियैकत्वकथनम्)| पक्वांस्तु यवप्रख्यादीन् सहाजगल्लिकयेत्यजगल्लिकामपि पक्वामेवं षड् व्रणप्रतिषेधोक्तचिकित्सयोपचरेत्|| ३||

Adhikarana mukhadUShikAcikitsA (4) · Śloka 4

मुखदूषिकां लोध्रतुवरिकाभ्यां वा प्रदिह्यात्| वटपत्र नारिकेलशुक्तिभ्यां वा सैन्धववचाक्षिभेषजसिद्धार्थ कैर्वा| एवमशान्तौ छर्दयेत्| ललाटे च सिरां विध्येत्||४||

🔊 Audio coming soon

मुखदूषिकासु लोध्रतुवरिकाभ्यां वा लेपो वटपत्रनारिकेलफलशुक्तिभ्यां वा सैन्धवादिभिर्वा| लोध्रमक्षिभेषजम्| तुवरिका आढकी| एवं लेपेनाशान्तौ छर्दनं सिराव्यधश्च|| ४||

Adhikarana padmakaNTakacikitsA (5) · Śloka 5

पद्मकण्टकेषु निम्बाम्बुवान्तं निम्बोदकसिद्धं सर्पिः सक्षौद्रं पाययेत्| निम्बारग्वधकषायेण चोद्वर्तनम्||५||

🔊 Audio coming soon

पद्मकण्टकेषु निम्बक्वाथेन वमनं ततो निम्बक्वाथसिद्धस्य सर्पिषः पानं निम्बारग्वधयोः कषायेण चूर्णेनोद्वर्तनं च| निम्बस्य त्वक् आरग्वधस्य मूलत्वक् च)|| ५||

Adhikarana vivRutAdijAlagardabhAntAnAmiri gallikAyAshca cikitsA (6) · Śloka 6

विवृतादीन् जालगर्दभान्तानिरिगल्लिकां च पित्तविसर्प वच्चिकित्सेत्||६||

🔊 Audio coming soon

(कारणानां पित्ताद्विनाभावाद्रोगाणां प्रायेण स्वरूपसाम्याच्च विवृतादिरिगल्लिकान्तानां क्रियामेकीकृत्याह) विवृतादीनिरिगल्लिकां च चिकित्सितोक्तपित्तविसर्पवत् चिकित्सेत्| (विवृतादीन् विवृता मसूरिका विस्फोटविद्धा गर्दभीकक्ष्यागन्धनामराजिकाजालगर्दभानिरिगल्लिकां चेति दश क्षुद्ररोगान् पित्तविसर्पवत् पित्तविसर्प इव कमलोत्पलादिप्रलेपादिना चिकित्सेत्| अन्ये तु पित्तविसर्पवदित्यस्यार्थमेवमाहुः-पित्तवद्विसर्पवच्च| शास्त्रान्तरेषु क्रियाविशेषदर्शनात् केषाञ्चित् पित्तहरं केषाशिद्विसर्पहरमिति| अनेन विसर्पेषु सामान्येनोक्ता लङ्घनरूक्षणरक्तावसेकवमनविरेचनादिकाः क्रिया द्योत्यन्ते| उक्तञ्च- मसूरिकाग्ररूपेषु लङ्घनं वमनं ततः| यष्टीमधुकनिम्बत्वगम्बुभिः सितयानु च| विरेचनं त्रिवृच्चूर्णयुक्तया वाऽविपत्तिना|| अन्ये मसूरिकायां कफविसर्पकुष्ठहरं प्रलेपादिक्रियाविधिमुपदिशन्ति विस्फोटचिकित्सां च विस्फोटेषु च सर्वेषु लङ्घनं पूर्वमाचरेत्| न रसेन विना केऽपि विस्फोटाः सम्भवन्ति हि|| इति| मसूरिकाविस्फोटयोर्विंशतिदिनात्पूर्वं स्नानाभाव उक्तः| पूज्य चाभ्यज्य च स्नायाद्विंशतेर्दिवसात् परम्| प्राप्ते स्नानदिनेऽगारं मुञ्चेयुर्गृहवासिनः| अन्यथा तान् विशेत्प्रायो मसूरीत्याह काश्यपः| इत्यष्टविधाया मसूरिकायाश्चिकित्सा समानतन्त्रादवगन्तव्या)||६||

Adhikarana rAjikAjAlagardabhayorvisheShaH (7) · Śloka 7

विशेषतो राजिकामपाकशर्कराभूर्वाकण्टकशर्कराभिः क्षीरपिष्टाभिर्लेपयेत्| अभीक्ष्णं च मृजा शीलनम्| जाल गर्दभे धात्रीफलान्युपयुञ्जीत||७||

🔊 Audio coming soon

विशेषत इत्यादिना राजिकायाः साधनसमुच्चयः| अपाकशर्करादिभिः क्षीरपिष्टैर्लेपः| अपाकशर्करा कुम्भकारचुल्लीदग्धशर्करा| कण्टकशर्कराङ्गणमृत्| अभीक्ष्णमत्यर्थं मृजाशीलनं संशोधनसेवा| जालगर्दभे धात्रीफलान्यामलकान्युपयुञ्जीत विशेषत इत्यर्थात्|| ७||

Adhikarana agnirohiNIcikitsA (8) · Śloka 8

अग्निरोहिणीमपि प्रत्याख्याय पित्तविसर्पवदुपाचरेत्| पक्वां तु मधुरवर्गसिद्धेन सर्पिषा रोपयेत्||८||

🔊 Audio coming soon

अग्निरोहिणीमपीत्यसाध्यत्वाङ्गीकरणे| प्रत्याख्याय न सिध्यतीत्युक्त्वा| (प्रत्याख्याय निराकरणं कृत्वा साध्येत न वेत्युक्त्वेत्यर्थः| पक्वामित्यग्निरोहिणीम्)|| ८||

Adhikarana vidArikAcikitsA (9) · Śloka 9

विदारिकां जलवासिनीभिर्ग्राहयित्वा बिल्वमूलनगवृत्ति कवर्षाभ्वजकर्णपलाशकल्केन प्रलिम्पेत्| अनुपशा म्यन्तीं त्वभ्यज्य स्वेदयित्वा विम्लापयेत्| पक्वां शस्त्रेण विदार्य निम्बतिलपटोलकल्केन प्रच्छाद्य बध्नीयात्| क्षीरिवृक्षकदरखदिरकषायो व्रणप्रक्षालनम्| शुद्धं मधुर कषायसंस्कृतेन तैलेन रोपयेत्||९||

🔊 Audio coming soon

विदारिकायां पूर्वं जलौकसः ततो बिल्वमूलादिपलाशान्तकल्केन प्रलेपः| नगवृत्तिकः सुबोधः| पलाशं पत्रम्| विम्लापनं मर्दनेन विलायनम्| पक्वामिति तामेव विदारिकाम्| शुद्धामिति तामेव| (नगवृत्तिकवर्षाभूबिल्वमूलैरिति सुश्रुतपाठः| नगवृत्तिकः जिङ्गाणम्| गुडगनिकेति लोके| वृश्चिकालीत्यन्ये| अजकर्णः सर्जः| पलाशः शठी| इति श्रीडल्हणकृते निबन्धसंग्रहे)|| ९||

Adhikarana sharkarArbudacikitsA (10) · Śloka 10

शर्करार्बुदं मेदोऽर्बुदवदुपाचरेत्||१०||

🔊 Audio coming soon

शर्करार्बुदे ग्रन्थ्याद्युक्तमेदोऽर्बुदवच्चिकित्सा|| १०||

Adhikarana valmIkacikitsA (11) · Śloka 11

वल्मीकं हस्तस्य पादस्य चोपरिष्टान्मर्मणि वा जातं प्रवृ द्धमतिबहुच्छिद्रावृतं सशोफं च वर्जयेत्| अतोऽन्यथा तु प्राक् कृतशुद्धेः शोणितमपहरेत्| सक्तु पलललवणागुडूच्यारेवतश्यामादन्तीकुलत्थिकामूलैर्लेपयेत्| पक्वे तु सर्वां गतिं दुष्टमांसानि च शस्त्रेण सम्यक् शोध यित्वाऽग्निना क्षारेण वा दहेत्| सुशुद्धे तु व्रणे भल्लातकमनश्शिलालैलाकालनुसार्य गरुचन्दनैर्निम्बतैलं रोपणार्थं श्रपयेत्||११||

🔊 Audio coming soon

(वल्मीकस्य देशभेदरूपजनितमसाध्यत्वं दर्शयति|) हस्तस्येत्याद्यसाध्यवल्मीकस्य लिङ्गम्| अतो साध्यलक्षणादन्यथा वैपरीत्ये वल्मीकवतः प्राक्पूर्वं कृत संशुद्धेर्विहितवमनविरेकस्य शोणितं यथोपपत्त्यवसेचयेत्| ततः सक्त्वादिभिरारेवतादिमूलयुक्तैलेपयेत्| आरेवतः कर्णिकातः| श्यामा त्रिवृत्| दन्ती नागदन्ती| कुलत्थिका द्वितीया त्रिवृत्| पक्वे त्विति वल्मीके| सर्वां गतिमशेषां नाडीम्| सुबोधम्| (पक्वे प्राप्तपाके, तुविशेषे| अनन्तरोक्तादुपक्रमादस्य शस्त्रसुखसाध्यत्वं विशेषः| शस्त्रेण मण्डलाग्रादिना सर्वामशेषां गतिं नाडीं दुष्टमांसानि च सम्यक् शस्त्रकर्मोक्तविधानेनामूलतः शोधयित्वा छित्वेत्यर्थः| अग्निना क्षारेण वा दहेत्| वशब्द अग्निक्षारयेर्विकल्पार्थः| उन्नतमग्निनाऽवनतं क्षारेण च दहेदिति भावः)| शुद्धे च वल्मीकव्रणे निम्बतैलं भल्लातकादिभी रोपणार्थं श्रपयेत्| कालानुसारी तगरम्|| ११||

Adhikarana kadaracikitsA (12) · Śloka 12

कदरं शस्त्रेणोत्कृत्य स्नेहेन दहेत्||१२||

🔊 Audio coming soon

कदाराख्ये सुबोधम्| स्नेहेन दाहयोग्येन (कदराख्यं क्षुद्ररोगं शस्त्रेण वृद्धिपत्रादिना उत्कृत्य छित्त्वा स्नेहेन अग्निसन्तापाद्दाहयोग्येन पादतलमुन्नाम्य तस्य व्रणस्य परितो माषकल्केन दृढां पालीं कृत्वा स्नेहेन तां पूरयित्वा दहेत्)|| १२||

Adhikarana ruddhagude niruddhamaNicikitsAtideshaH (13) · Śloka 13

रुद्धगुदे निरुद्धमणिवच्चिकित्सा||१३||

🔊 Audio coming soon

निरुद्धमणिर्गुह्यरोगे वक्ष्यते तदुक्ता चिकित्सा रुद्धगुदे| (रुद्धगुदाख्ये क्षुद्ररोगे गुह्यरोगप्रतिषेधे वक्ष्यमाणनिरुद्धमणिक्रियावत् चिकित्सितं कार्यम्| पुनः पुनः स्थूलतरस्नेहाक्तजातुषनाडीविन्यासानिलापहस्नेहपरिषेकादिभिर्गुदस्रोतः क्रमेण वर्धयेदित्यर्थः)|| १३||

Adhikarana cippacikitsA (14) · Śloka 14

चिप्पं शोणितावसेकसंशोधनैरुपाचरेत्| व्यपगतोष्मा णञ्चैनमुष्णाम्बुना परिषिच्य यथायोगं शस्त्रेण परिकर्त्या पनयेत्| ततो रसाञ्जनरोचनानेपालीतेजोह्वाकल्कैरम्लपिष्टैः शोध यित्वा कालेयकागरुहरिद्रारसञ्जनसिद्धे तैलेन रोपयेत्| मधुरकषायसिद्धेन वा| अल्पावशिष्टं च सर्जरसचूर्णेन पूरयेत्||१४||

🔊 Audio coming soon

चिप्पे सुबोधम्| परिकर्त्योपकर्त्य| (एनं चिप्पाख्यं रोगं दुष्टरक्तमोक्षणेन 'ऊष्मा पित्तादृते नास्ती' त्युक्त्वा तन्निर्हरणपरमौषधेन विरेचनाख्येन संशोधनेन च व्यपगतोष्माणं जितोष्माणं कृत्वाऽनन्तरमुष्णोदकेन परिषिच्य शस्त्रेण यथायोगं परिकर्त्य परितो नखशस्त्राग्रेण मांसाद्विश्लेष्य षडङ्गुलेन सन्दंशेनामूलतो दृढं गृहीत्वा सम्यगुत्पाट्यापनयेत्)||१४||

Adhikarana kunakhacikitsA (15) · Śloka 15

कुनखमपि प्रदुष्टमेवमेवोपक्रमेत्||१५||

🔊 Audio coming soon

कुनखमपीति चिप्पचिकित्सितसमुच्चये| (प्रदुष्टमभिघातादिनान्तर्मांसविश्लेषोच्चलितदुष्टास्रसंश्लेषात् कुत्सितत्वमागतं नखमप्येवमेव चिप्पवदेव नखोत्पाटनादिकेन शस्त्रकर्मणोपक्रमेत चिकित्सेत्)|| १५||

Adhikarana alasacikitsA (16) · Śloka 16

अलसे त्वम्लकाञ्जिकावसिक्तौ चरणौ निम्बतैलपटो लाकासीसरोचनाकल्केनालेपयेत्| निदिग्धिकारस सिद्धेन सर्षपतैलेनाभ्यज्य रोचनाकासीसमनश्शिलाचूर्णैः प्रतिसारयेत्||१६||

🔊 Audio coming soon

अलस इत्यादि सुबोधम्| (अलसाख्ये क्षुद्ररोगे तु अम्लेन काञ्जिकेन धान्याम्लेनावसिक्तौ परिषिक्तौ चरणौ निम्बादिकल्केनालेपयेत्| कासीसं तुत्थम्| प्रतिसारणं घर्षणम्)|| १६||

Adhikarana tilakAlakAdInAM cikitsA (17) · Śloka 17

तिलकालकान् मशांश्च सूर्यकान्तेनाऽग्निना वा दहेत् क्षारेण वा| चर्मकीलं जतुमणिं च तद्वच्छस्त्रेणोत्कृत्य||१७||

🔊 Audio coming soon

तिलकालकादिषु सूर्यकान्तव्यवहितैः सूर्यरश्मिभिर्दाहोऽग्निना वा क्षारेण वा| (तिलकालकाख्यान् मशाख्यांश्च रोगान् अर्ककिरणसन्तप्तेन सूर्यकान्तेनाग्निना वा तयोस्त्वङ्मांसाश्रयतया पद्मपत्रतनुना मृदुक्षारलेपेन वा दहेत्|) चर्मकीलं जतूमणिं च तद्वदिति सूर्यकान्तादिना दहेदिति सम्बन्धः| न तु प्रथममेवापि तु शस्त्रेणोत्कृत्य| (चर्मकीलाख्यं जतूमणिसंशितं च| जतूमणिरित्यप्राणिजातेर्वा रज्ज्वादेरित्यूङ्| शस्त्रेण वृद्धिपत्रादिना उत्कृत्यमूलतश्छित्वा| तद्वत् सूर्यकान्ताद्यन्यतमेन दहेत्)|| १७||

Adhikarana lA~jchanAdicikitsA (18) · Śloka 18

लाञ्छनव्यङ्गनीलिकासु यथासन्नां सिरां विध्येत्| क्षीरी वृक्षवल्ककल्कैश्च क्षीरपिष्टैर्लेपयेत्| बलातिबलामधु कहरिद्राभिर्वा| मधुकागरुपयस्याकालीयकैर्वा| तरुण कपित्थतिन्दुकरजनीभिर्वा| अम्लिकामूलेन वा| सूकर दंष्ट्रया वा मधुघृतयुक्तया||१८||

🔊 Audio coming soon

लाञ्छनादित्रयाणामपि रक्तदोषजत्वसाम्याच्चिकित्सामेकीकृत्याह-लाञ्छनादित्रये आसन्नायाः अप्रतिषिद्धायाः सिरायाः व्यधनम्| पञ्च लेपयोगाः सुबोधाः| पयस्या क्षीरिका| कालीयकं कृष्णचन्दनम्| तरुणकपित्थोऽजीर्णकपित्थतरुः| अम्लिका चुक्रिकाः, तस्या मूलम्| इति लाञ्छनादित्रयसाधारणम्| (पूर्वोक्तं व्यङ्गनीलिकयोरपृथक्त्वं तु सङ्ख्यानां षट्त्रिंशत्वापादनायैव| अत्र नीलिकाग्रहणं स्थानभेदजनितसंज्ञान्तरतया चिकित्सान्तरभ्रान्तिपरिहारार्थम्)|| १८||

Adhikarana vya~ggacikitsAvisheShaH (19) · Śloka 19

विशेषेण व्यङ्गेष्वसृक्स्रावपूर्वमर्जुनपरिपोटैर्लेपः| क्षौद्रेण वा पिष्टा मञ्जिष्ठा| अजाक्षीरेण वाऽऽर्द्रदाडीमत्वक्| तेनैव वा बालामलकं गोमूत्रेण सप्ताहं स्थितम्| दधिम ण्डेन व कालेयकलोध्रोत्पलकिञ्जल्कम्| नवनीतेन वा श्वेताश्वखुरजमषी||१९||

🔊 Audio coming soon

लाञ्छनादित्रयस्य सामान्यचिकित्सामुक्त्वा तेषु व्यङ्गस्य विशेषचिकित्सामाह-विशेषतस्तु व्यङ्गेषु रक्तस्रावं कृत्वा अर्जुनतरोः परिपोटैः स्वयं जीर्णत्वग्भर्लेपः| सुबोधम्| मञ्जिष्ठा क्षौद्रेण| आऱ्द्रादाडीमत्वगजाक्षीरेण| किम्भूतमामलकमाह- गोमूत्रेण सप्ताहं स्थितम्| कालेयकादिकं दधिमण्डेन| कालेयकं पीतचन्दनम्| श्वेताश्वखुरजाक्षारो नवनीतेन| (श्वेता श्वेतवचा| अश्वखुरः कृष्णशङ्खपुष्पी| (नि) गिरिकर्ण्यपरा नीला वाजिखुरा व्यक्तगन्धकुसुमा च| अश्वखुरा तुरगखुरप्रतिमा स्याच्छङ्खिनी कृष्णा| श्लक्ष्णपिष्टश्वखुरप्रलिप्तसंशुष्कतान्तवक्लृताज्यसिक्तप्रज्वलितवर्त्त्युद्भवया मष्या लेपः| न तु शङ्खपुष्पीमेव दग्ध्वोत्पन्नया| अश्वखुरेण कृता मषीति वा| इति सामान्येन व्यङ्गेषु)||१९||

Adhikarana vAtajavya~ggacikitsA (20) · Śloka 20

तत्रापि वातजेषु देवदारुदुरालभाबृहतीमञ्जिष्ठामूर्वापा मार्गत्रायन्तीत्रायमाणाशुकनसाबलाविदारीयवबदरकुल त्थबिल्वोत्पलशतावरीदर्भमूलक्वाथे शृङ्गीविडङ्गगर्भ घृतं विपक्वमधोभक्तं पानमभ्यङ्गं नावनं च सायं योज येत्| प्रलेपञ्च न्यग्रोधदेवदारुहरीतकीपूतीकरञ्जमदनपुलचूर्णै र्घृतयुक्तैः| बदरमज्जाकोद्रवलाजचूर्णेन वा सघृतेन| श्वेतचमरास्थितालपत्रीस्तन्यमधुघृतैर्वा||२०||

🔊 Audio coming soon

तत्रेत्यादिना व्यङ्गेषु वातादिविशेषेणाह-तत्रापि तेष्वपि वातजेषु व्यङ्गेषु देवदार्वादिक्वाथे शृङ्गीविडङ्गगर्भं दत्वा विपक्वं घृतमधोभक्तं भोजनादूर्ध्वं पाने योजयेत्| तदेवाभ्यङ्गे नावने च सायं योजयेत्| न्यग्रोधादीनां चूर्णैर्घृतयुक्तैः प्रलेपं च योजयेत्| बदरमज्जादिचूर्णेन वा सघृतेन| श्वेतचमरास्थ्यादिभिर्वा| चमरो नाम मृगः तस्य श्वेतवर्णस्यास्थि| तालपत्री मौसली|| २०||

Adhikarana pittajavya~ggacikitsA (21) · Śloka 21

पित्तेषु बलामधुकमागधिकाक्षीरकाकोलीस्वगुप्ता फलकाकमाचीतुगाह्वाभिः सपयः सर्पिः सिद्धं पूर्ववत् प्रयोजयेत्| मृद्वीकाश्वेतपाकीखर्जूरपरुषकसौवीरबदरद्विमेदापुनर्नव कशेरुका प्रवालविद्रुममृणालैर्वा सक्षीरैः| उपस्निग्धं चैनमिक्षुरसेनोभयतो विरेचयेत्| कृतरुधिरावसेचनानेतांश्च व्यङ्गान् मधुकशारिवाबला चन्दनलोध्रोत्पलैर्घृतयुक्तैरालेपयेत्| प्रपोण्डरीकमधुकपद्मकनीलोत्पलसारिवाकदलीमू लप्रवालसुवर्णगैरिकैर्वा| शीतमधुरमन्नपानं प्रवातमहः स्वप्नं सौमनस्यं च सेवेत||२१||

🔊 Audio coming soon

पित्तव्यङ्गेषु बलादिभिः सक्षीरं सिद्धं सर्पिः पूर्ववदित्यधोभक्तमभ्यङ्गे नावने च सायं योजयेत्| सक्षीरैर्मृद्वीकादिभिर्विपक्वं सर्पिर्वा पूर्ववत् प्रयोजयेत्| एवञ्च सर्पिः प्रयोगेणोपस्निग्धमेनमिक्षुरसेन कल्पोक्तविधिनोभयत ऊर्ध्वमधश्च विरेचयेत्| एतांश्च पित्तव्यङ्गान् रुधिरं स्रावयित्वा मधुकादिभिर्घृतयुक्तैरालेपयेत्| प्रपौण्डरीकादिभिर्वा घृतयुक्तैः| प्रवालं विद्रुमम्| शीतमधुरान्नपानादिकं च सेवेत|| २१||

Adhikarana kaphajavya~ggacikitsA (22) · Śloka 22

कफजेषु दशमूलदेवदारुहरीतकीश्वदंष्ट्रामलकीक्वाथे मुस्तकुष्ठरिद्रामरतरुकल्कैस्तद्वत् साधितं सर्पिस्तद्वदे वोपयुञ्जीत| तुत्थरोचनालोध्रप्रियङ्गुकालेयकैः समधुघृतैर्लेपः| देव दारुसरलबलाशिग्रुमूलैर्वा| मनश्शिलातुत्थरसाञ्जनैर्वा| मृदुना वा क्षारेणा दशमात्राः प्रलेपः||२२||

🔊 Audio coming soon

कफजेषु व्यङ्गेषु दशमूलादिक्वाथे मुस्तादिकल्कैस्तद्वदिति सक्षीरं साधितं सर्पिः तद्वदेवेत्यधोभक्तं पाने नावनाभ्यञ्जनयोः सायं च प्रयोजयेत्| तुत्थदेवदारुमनश्शिलादिभिर्लेपत्रयं सुबोधम्| अथवा मृदुना क्षारेण सूत्रोक्तेन दशमात्राः प्रलेपः| मात्रा कालविशेषः| तस्या लक्षणम् यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता|| इति|| २२||

Adhikarana raktajavya~ggacikitsA (23) · Śloka 23

रक्तजेषु क्षीरसर्पिःस्निग्धस्य सिरां विस्रावयेत्| वमन विरेचने च पित्तवत् कुर्यात्| आलेपश्चास्य चन्दनमधुक कल्केन घृतवता| सर्जरसनीलोत्पलशङ्खवेतसकदली मूलमूर्वामधुककल्केन वा||२३||

🔊 Audio coming soon

रक्तजेषु व्यङ्गेषु क्षीरोद्भावेन सर्पिषा स्निग्धस्य सिरां विस्रावयेत्| सुबोधम्| पित्तवदिति इति पित्तव्यङ्गवदिक्षुरसेनेत्यर्थः| चन्दनसर्जरसादिभिरालेपद्वयं सुबोधम्| इति व्यङ्गानि|| २३||

Adhikarana prasuptau vAtakuShThacikitsAtideshaH dAhashca (24) · Śloka 24

प्रसुप्तौ वातकुष्ठोक्तक्रमोऽन्ते चाग्निना दाहः||२४||

🔊 Audio coming soon

प्रसुप्ताख्ये सुबोधम्| अन्ते च वातकुष्ठचिकित्सया शान्त्यप्राप्तावग्निना दाहः|| २४||

Adhikarana utkoThakoThayoH cikitsA (25-37) · Śloka 37

उत्कोठे पित्तश्लेष्महरो विधिः सक्षारलवणं च तैलम भ्यङ्गः| कोठे कुष्ठचिकित्सितमीक्षेत||२५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे क्षुद्ररोग प्रतिषेधो नाम सप्तत्रिंशोऽध्यायः||३७||

🔊 Audio coming soon

उत्कोठाख्ये सर्वो विधिः पित्तश्लेश्मघ्नः| यवक्षारसैन्धवयुक्तं तैलमभ्यङ्गश्च| कोठे कुष्ठचिकित्सा| (शास्त्रान्तरेषु क्षुद्रत्वसाम्यात्तदनन्तरोक्ता पादप्रभेदकण्टकवेधपाददाहपार्ष्णिव्यथादेहस्फुटनातिस्वेददेहदौर्गन्ध्यवैद्युतानलदाहादि- क्रियाऽप्यत्र दिङ्मात्रावबोधनार्थं किञ्चिल्लिख्यते| तत्रादौ पादप्रभेदे- क्षयंगते श्लेष्मणि पादलग्ने सच्चारिणां देहभृतामजस्रम्| वातः सपित्तोऽङ्घ्रितलेषु दुष्टो भेदान् करोत्यप्रतिकारनिम्नान्|| वटाङ्कुरारुष्करसिक्थचूतनिर्याससिन्धूद्भवमर्कदुग्धम्| एभिर्महिष्यास्तु घृतं विपक्वं पादप्रभेदं विनिहन्ति सद्यः|| अर्काविस्नुहिदुग्धं सिक्थं पटुतैलसंयुतं पिष्टम्| पादविलिप्तं सद्यः करोति कमलोपमं चरणम्| स्नुह्यर्कदुग्धसैन्धवहयखुरचूर्णं सनवनीतम्| न्यस्तं तुम्बफले तत्प्रदारिकां लेपनाद्धन्यात्| पाददार्यां सिरां विद्ध्वा स्निग्धस्विन्ने पदे पुनः| सवाघृतमधूच्छिष्टमज्जाक्षारैः प्रलेपयेत्|| स्नुह्यर्कच्छागपयो लवणमधूच्छिष्टचूतनिर्यासम्| माहिषनवनीतयुतं विपादिकां हन्त्यलाभुस्थम्| अतिपक्वशुष्ककेतकदलभसितं घृतपटूपेतम्| कंसनिघृष्टं लेपात्करोति कमलोपमं चरणम्|| नश्यति तथा विपादी पुष्पलतानीलिमूलशृततैलात्| काऱ्पासभुजगवल्लीपटुतिलजैर्नश्यते विशेषेण|| सर्जघृतं तुल्यगुडंम् पिष्ट्वाऽश्टांशार्कदुग्धेन| प्रतिलेपात्पादतले नश्यते नियतं विपादिका सहसा|| शुक्तिकाभस्म सिन्धूत्थं सर्पिः सर्जरसं पयः| पादयोः स्फुटने लेपस्तिक्तालाबुव्यवस्थितः|| सक्षीरं स्नुहिकाण्डं सान्तर्धूमं सुवर्चिलाVविडवत्| दग्धं छागघृतयुतं तुम्बस्थं हन्ति परिलेपात्|| पूरितोपरिसिक्थेन वह्निना तापिता भृशम्| असाध्यापि व्रजत्यस्तं क्षिप्रमेव विपादिका|| करञ्जबीजं रजनी कटुत्रयं समानभागं लवणस्य मृत्तिकाम्| दग्ध्वा समालोड्य घृतेन लिम्पेत् पादौ विनश्येत विपादिका ध्रुवम्|| कण्टकवेधस्य- पादयोः कण्टके विद्धे रविदुग्धेन पूरयेत्| उद्धृतेऽनुद्धृते चापि पतति स्वयमेव तत्|| सैन्धवं तत्र संस्थाप्य दहेल्लोहशलाकया| कुमार्याः कोष्णपत्रेण बन्धनं चात्र कारयेत्|| लवणोदकसेकं वा सन्धानौदनबन्धनम्| तण्डुलीयकमूलाढ्यं लवणं सपुनर्नवम्|| वायसीं वा पटूयुतां चिल्लीं वा स्नेहसंयुताम्| चिञ्चाकरञ्जपत्रं वा घृतकाञ्जिकसंयुतम्|| भृष्टं प्रबन्धनं कुर्यात् पायसं कोरदूषकैः| व्रणक्रियां च कुर्वीत पक्वे दुष्टं पुनर्दहेत्|| पाददाहस्य- शतावरीमूलरसात् फेनेन परिलेपितौ| परितापाद्विमुच्येते चरणौ क्षिप्रमेव तु|| मसूरविदलैः पिष्टैर्भृषशीतेन वारिणा| चरणौ लेपयेत्सम्यक्पाददाहप्रशान्तये|| नवनीतेन संलिप्तौ वह्निना परितापितौ| मुच्येते चरणौ क्षिप्रं परितापात्सुदारुणात्|| घृताक्तैः सक्तुभिः श्लक्ष्णैरजाक्षीरसमन्वितैः| लेपयेच्चरणौ सद्यः परितापविमुक्तये|| लिम्पेत्सेव्यजलारिष्टैः शतधौतघृतेन वा| पाददाहेषु चरणौ सेकं काञ्जिकसर्पिषा| कुमारीरससेको वा जलौकोभिर्हरेदसृक्| पार्ष्णिव्यथायाः- लिप्ता सर्षपकल्केन स्वेदिता चाश्मना भृशम्| पादपार्ष्णिव्यथा तीव्रा पक्षार्द्धेन विनश्यति|| देहस्फुटनस्य- अगस्तिपुष्पचूर्णेन माहिषं श्रपयेत्पयः| तदुत्थनवनीताक्तो देहस्य स्फुटनं जयेत्|| अतिस्वेदस्य- हरीतकीं तु सम्पिष्य गात्रमुद्वर्त्तयेन्नरः| पश्चात्स्नानं प्रकुर्वीत देहस्वेदोपशान्तये|| देहदौर्गन्ध्यस्य- गोमूत्रेण समालोड्य माहिषं शकृदुत्तमम्| तेनैव लेपनं कुर्याद्देहदौर्गन्ध्यनाशनम्|| शिरीषलामज्जकहेमलोध्रैस्त्वग्भेदसंस्वेदहरः प्रघर्षः| पत्राम्बुलोहैरथ चन्दनाभ्यां शरीरदौर्गन्ध्यहरः प्रलेपः|| तिन्तिणीस्वरसे तैलप्रस्थं सम्यक्पचेद्भिषक्| अत्र कल्कार्थमेतानि वातघ्नानि च योजयेत्|| शिग्रुसैन्धवदुर्गन्धा लशुनं च सचित्रिकम्| एतच्छरीरदौर्गन्ध्यकण्डूतिस्वेदनाशनम्|| तिन्तिणीकदलोद्भूतं स्वरसं लेपयेन्नरः| बहुशो देहवैगन्ध्यकण्डूकोठविनाशनम्|| क्षौद्रेण पौष्करं रेणुमेकविंशतिवासरान्| लिहतां देहदौर्गन्ध्यं नश्येन्निश्शेषमङ्गिनाम्|| द्विनिशातिलरुग्राजीकल्कोद्वर्त्तितविग्रहः| यः स्नाति तस्य देहः स्यात्सुगन्धिर्भास्करच्छविः|| वैद्युतानलदाहस्य- वैद्यतानलदग्धस्य लेपसेकादि योजयेत्| सतैलमम्ललवणप्रायं तापं च वह्निना|| तुत्थदग्धवदाहारं मधुरस्निग्धशीतलम्| सेकं च संज्ञायुक्तस्य कुर्वीतेन्द्रियवेदिनः|| आग्नेयैरौषधैर्लेपं सेकमिक्षुतुषोदकैः| सर्पिस्निग्धैरम्लयुक्तैर्वसातैलघृतैरपि|| इत्यादिकं शास्त्रान्तरादवगन्तव्यम्|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे सप्तत्रिंशोऽध्यायः