Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

38. guhyarōgavijñānīyaḥ

Adhikarana atha guhyarogavij~jAnIyo nAmAShTatriMsho~adhyAyaH, pratij~jA (1) · Śloka 1

अथातो गुह्यरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

व्रणशस्त्रप्रसङ्गेन क्षतप्रायत्वात् गुह्यरोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते| गुह्यशब्देनोपस्थो भण्यते|| १||

Adhikarana guhyarogahetuH (2) · Śloka 2

स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा| दोषाध्युषितसङ्कीर्णमलिनाणुरजः पथाम्| अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्| दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा| विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः| मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः| वेगनिग्रहदीर्घातिखरशष्पविघट्टनैः| दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान्| जनयन्त्युपदंशादीन्...........................||२||

🔊 Audio coming soon

स्त्रीव्यवायनिवृत्तत्वादियुक्तस्य पुरुषस्य तत एव हेतोर्गुह्यं गता वातादयो दुष्टास्त्रयोविंशतिमुपदंशादीनामयान् व्याधीन् जनयन्ति| स्त्रीव्यवायो मैथुनम् अतः सहसा यो निवृत्तिः सहसा सेवनञ्च दोषकोपहेतुः| अथवा दोषाध्युतत्वादिगुणरजः पथामन्ययोनादिकां वा स्त्रियं भजतः| दोषैर्वातादिभिरध्युषितमधिष्ठितं सङ्कीर्णञ्च मलिनं चाणु च रजः पथं योनिद्वारं यस्यास्ताम्| सङ्कीर्णं केनचित् बीभात्सेन मिश्रितम्| मलिनं शौचाद्यभावेन मलयुक्तम्| अणु संव् ऋतम्| अन्ययोनिर्विजातीयवडवागवादिस्ताम्| अनिच्छन्ती या मैथुनद्वेषेणाङ्गसङ्कोचनपरा| अगम्या भगिन्यादिः| तथा रतान्तेषु दूषितं पङ्काद्याविलं तोयं स्पृशतस्तेन शौचं कुर्वतः अपि वा नैव स्पृशतः शौचादिकं नैव कुर्वतः| तथा विवर्धयिषया शोफं वर्धयितुमिच्छया तत्रैव तीक्ष्णान् प्रलेपसेकादीन् प्रयच्छतो ददतः| मुष्ट्यादीनामुत्पीडनया| विषवतां शूकानां पातनैः| वेगनिग्रहः शुक्रादिवेगधारणम्| दीर्घणातिखरेण च शष्पेण तृणेन विघट्टनं क्षोदनम्| 'गुह्यरोम शष्पमि'ति जेज्जटः| (स्त्रीं व्यवायनिवृत्तस्येति पाठः| वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैरिति च| व्यावायनिवृत्तस्य चिरकालोपेक्षितमैथुनस्य नरस्य पुनः सहसा अतर्कितमेव स्त्रीं नारीं भजतः सेवमानस्य| अथवेति विकल्पे| सङ्कीर्णः प्रसववैषम्यादिना गुदबस्तिभ्यामेकीभूतः| अथवा रजः-शब्दोऽपि दोषाध्युषितादिवद् गुणवचनः, तथा सति तजःपथां रजोयुक्तयोनिमार्गां रजस्वलासूतिकादिमित्यर्थः| अस्मिन् पक्षे दोषाध्युषितादिभिः पथशब्दोऽभिसम्बध्यः| अगम्यां भगिन्यादिकान्तथा सत्यन्यजनज्ञानशङ्काजुगुप्सादिजनितवैक्लव्यदूने हृदि क्रुद्धा दोषास्तद्गतेन मनसा सह गुह्यं प्राप्तास्तत्र रोगान् जनयन्तीत्यर्थः| श्रुतिस्मृतिविरुद्धाचारतश्च| मुष्ट्युत्पीडनादयः कामसूत्रविहितकरण भेदजनिताः| ऊषरजलेषु बाहुल्येन दृश्यमानो जन्तुतुल्याकृतिः कश्चिदोषधिविशेषः शूकः| ते च शूकाः सविषनिर्विषभेदात् द्विधा तत्र विषवन्तो रोगकारिणः| तदुक्तम्- कृष्णानि चित्राण्यथवा शूकानि सविषाणि तु| पातितानि पचन्त्याशु मेढ्रं निरवशेषतः|| इति| अथवा विषद्रव्यकल्पितानां वच्छूकानां वश्यौषधानां पातनात्| वेगनिग्रहदीर्घातिखरस्पर्शविघाट्टनात् वेगनिग्रहाच्छुक्रादिवेगधारणात्| तथा दीर्घाणामतिखरणाञ्च स्पर्शानां विघट्टनादास्फालनात्| स्पर्शमिति कामातपत्रसंज्ञितस्त्वग्विशेषः| तस्य च बहुरूपता विद्यते तत्कामशास्त्रादवगन्तव्यम्)|| २||

Adhikarana apadaMshAnAM sa~gkhyAsamprAptiH (3) · Śloka 3

..................................अपदंशोऽत्र पञ्चधा| पृथग्दोषैः सरुधिरैः समस्तैश्च...................||३||

🔊 Audio coming soon

अत्रैषां त्रयोविंशतेर्मध्ये वातेन पित्तेन श्लेष्मणा रक्तेन सन्निपातेनेति पञ्चधा अपदंशाः|| ३||

Adhikarana vAtajApadaMshaH (4) · Śloka 4

................................अत्र मारुतात्| मेढशोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्||४||

🔊 Audio coming soon

त्वक्परिपोटनान्तं वातेनोपदंशे लक्षणम्| (अत्र पञ्चानां मध्ये वातेनापदंशे लिङ्गे शोफो नानाप्रकाररुजः स्तब्धता त्वचोभेदनं च स्यात्)|| ४||

Adhikarana pittajApadaMshaH (5) · Śloka 5

पक्वोदुम्बरसङ्काशं पित्तेन श्वयथुर्ज्वरः||५||

🔊 Audio coming soon

ज्वरान्तं पित्तेन| पित्तजे अपदंशे पक्वोदुम्बरसङ्काशः शोफो ज्वरश्च स्यात्|| ५||

Adhikarana shleShmajApadaMshaH (6) · Śloka 7

श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः||६|| `|७|

🔊 Audio coming soon

गुर्वन्तं श्लेष्मणा| कठिन इत्याद्यनन्तरप्रकृतस्य श्वयथोर्विशेषणम्| (विशेषणसामर्थ्याच्छ्वयथुरेवात्र विशेष्यः| श्लेष्म कृते अपदंशे काठिन्ययुक्तः स्नेहलेपप्रतीतिकरः कण्डूसहितः शीतस्पर्शश्च शोफो जायते)|| ६||

Adhikarana raktajApaMdashaH (7) · Śloka 7

शोणितेनासितस्फोटसम्भवोऽस्रश्रुतिर्ज्वरः||७||

🔊 Audio coming soon

ज्वरान्तं रक्तेन| रक्तकृते अपदंशे कृष्णवर्णानां स्फोटानामुत्पत्तिरस्रस्रावो ज्वरश्च स्यात्|| ७||

Adhikarana sannipAtajApadaMshaH (8) · Śloka 8

सर्वजे सर्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि| तीव्रा रुगाशु पचनं दरणं कृमिसम्भवः||८||

🔊 Audio coming soon

कृमिसम्भवान्तं सन्निपातेन| सरक्तसन्निपातजे अपदंशे सर्वलिङ्गत्वं वाताद्यपदंशानां प्रत्येकोक्तलक्षणनिचयसम्भवः| तथा वृषणयोरपि शोफः| अपिशब्देनान्यत्रापि| मेढ्रमात्रे शोफोद्भवं सूचितम्| रक्तापदंशेऽपि शोफ उक्तः| तीव्रा अत्यर्थमसहनीया रुक्पीडाविशेषः| आशुपचनं द्वित्रिदिनैरेव पाकः| आशुशब्दोक्त्या पूर्वेषां क्रमेण पाकः सूचितः| दरणं भेदनम्| कृमिसम्भवः अन्तः स्वयमेव जन्तूनामुद्भवः)|| ८||

Adhikarana apadaMshAnAM sAdhyAsAdhyatA (9) · Śloka 9

याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः||९||

🔊 Audio coming soon

तेषां पञ्चानामपदंशानां मध्ये रक्तापदंशो याप्यः| सन्निपातजस्तु मृत्यवे भवति|| ९||

Adhikarana arshAMsi (10) · Śloka 10

जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः| अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः| पिच्छिलास्रस्रवा योनौ तद्वच्च छत्रसन्निभाः| तेऽर्शांस्युपेक्ष्या घ्नन्ति मेढ्रपुंस्त्वभगार्तवम्||१०||

🔊 Audio coming soon

गुह्ये यदसृग्रक्तं पिशितं मांसञ्च तत्रोक्तात्कारणात् कुपितैर्दोषैर्मेढ्रस्यान्तर्वा बहिर्वा कण्डूलाः पिच्छिलास्रस्रवाश्च मांसकीलका जायन्ते| ते अनेनैव प्रकारेण स्त्रिया अपि योनौ छत्ताकृतयो मांसकीलका जायन्ते नाम्ना अर्शांसि| ते च पुरुषे जाता उपेक्षिताः सन्तो मेढ्रं पुंस्त्वं च नाशयन्ति| स्त्रियास्तद्वद्भगमार्तवं च| लाघवार्थमत्र योनिरोग उक्तः| (कुपितैर्ययोक्तेन कारणजातेन क्रुद्धैर्गुह्यासृक्पिशिताश्रयैः गुह्यगतमसृक्पिशितञ्चाश्रयो येषां तैः मेढ्रस्यान्तर्भागे बहिर्भागे वा कण्डूलाः कण्डूयुक्ताः पिच्छिलास्रस्रवाः पैच्छिल्ययुक्तं रक्तं स्रवन्तः मांसकीलका कीलकाकारा मांसाङ्कुराः जायन्ते| योनौ च स्त्रीणां गुह्येऽपि तद्वत् योनिव्यापदुक्तकारणदुष्टैर्दोषैरन्तर्बहिर्वा कण्ड्वादियुक्ता मांसकीलका जायन्ते| तत्र त्वयं विशेषः ते छत्रसन्निभाः छत्रतुल्याकाराः कृश मूलाः स्थूलाग्राश्च भवन्ति| मेढ्रजा मांसकीलकाः योनिजाश्चर्शांसीति कथ्यन्ते| उपेक्षया तु पुनः मेढ्रपुंस्त्वभगार्तवं, मेढ्रे चेन्मेढ्रम्| पुंस्त्वं स्त्रीगमनसामर्थ्यं शुक्रं वा| तथा भगे चेत् भगमृतुत्वयोग्यं आर्तवं रक्तं च घ्नन्ति| पुंरोगाणां मध्ये स्त्रीरोगकथनं कारणादिसाम्येन लाघवात्)|| १०||

Adhikarana sarShapikAH (11) · Śloka 11

गुह्यस्य बहिरन्तर्वा पिटकाः कफरक्तजाः| सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः||११||

🔊 Audio coming soon

कफरक्ताभ्यां गुह्यस्य बहिरन्तर्वा सर्वत्र वा सर्षपतुल्यप्रमाणसंस्थाना घनाः संहताः पिटका भवन्ति ता नाम्ना सर्षपिका स्मृताः| (गुह्यस्य मेढ्रस्य गुह्यशब्दोक्त्या योनेरपि बहिरन्तः बहिर्भागेऽन्तर्भागे वा कफरक्तजाः श्लेष्मरक्तसंसर्गनिमित्ताः सर्षपामानसंस्थानाः मानसस्थानाभ्यां सर्षपतुल्याः घना निरन्तरनिचिताः पिटकाः सर्षपिकासंज्ञो गुह्यतोगः)|| ११||

Adhikarana avamanthaH (12) · Śloka 12

पिटका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः| सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्||१२||

🔊 Audio coming soon

गुह्ये याः पिटका बहवो दीर्घा मध्यतश्च दीर्यन्ते स रोगो नाम्नाऽवमन्थः| स च कफवाताभ्यां भवति| वेदनारोमहर्षवांश्च भवति| (कफासृग्भ्यां कफेनासृजा च संसृष्टाभ्यां जाताः बहवो बहुसङ्ख्याः दीर्घा आयामयुक्ताः या पिटका मध्यतो मध्यप्रदेशे दीर्यन्ते विदीर्णा भवन्ति| वेदनारोमहर्षवान् वेदनया रोमहर्षेण च युक्तः स रोगोऽवमन्थाख्यः)|| १२||

Adhikarana kumbhIkA (13) · Śloka 13

कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुजाः||१३||

🔊 Audio coming soon

रक्तपित्तहेतुर्जाम्बवास्थिमसदृशा क्षिप्रजा या पिटका सा नाम्ना कुम्भीका| (रक्तपित्ताभ्यां जाता जाम्बवबीजास्थिसदृशा आशुजा अतिवेगेनोत्थिता पिटका कुम्भीका तत्संज्ञो गुह्यरोगः)|| १३||

Adhikarana alajI (14) · Śloka 14

अलजीं मेहवद्विद्यात्.............................||१४||

🔊 Audio coming soon

अलज्याख्यां गुह्यपिटकां मेहवच्छाराविकादिपठितालजीवल्लक्षणैर्विद्यात्|| १४||

Adhikarana uttamA (15) · Śloka 15

.....................................उत्तमां रक्तपित्तजाम्| पिटकां माषमुद्गाभाम्.......................................||१५||

🔊 Audio coming soon

पित्तरक्तजां माषमुद्गसदृशां पिटकां नाम्नोत्तमां विद्यात्| (उत्तपामिति पाठः| पित्तरक्तकारणजनितां संस्थानमानाभ्यां माषेण मुद्गेन वा तुल्यां पिटकामुत्तमाख्यं क्षुद्ररोगं विद्यात्)|| १५||

Adhikarana puShkarikA (16) · Śloka 16

............................पिटका पिटकाचिता| कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा||१६||

🔊 Audio coming soon

पुष्करस्य पद्मस्य कर्णिकेव या पिटका अन्याभिर्वह्नीभिः पिटकाभिराचिता सा नाम्ना पुष्करिकेति ज्ञेया| (पित्तरक्ताभ्यामेव पद्मकर्णिका तुल्या तथा पिटकैराचिता स्वयमप्यणुभिः पिटकाभिर्व्याप्तेत्यर्थः)|| १६||

Adhikarana saMvyUDhapiTakA (17) · Śloka 17

पाणिभ्यां भृशसंव्यूढे संव्यूढपिटका भवेत्||१७||

🔊 Audio coming soon

संव्यूढख्ये रागे मेढ्रे भृशसंव्यूढे विमर्दिते पिटका भवेत्| (हस्ताभ्यामतिशयेन संव्यूढे संवाहिते मर्दित इति यावत् मेढ्र इत्यर्थात्| संव्यूढपिटका तत्संज्ञो गुह्यरोगो भवेत्| अत्रापि पित्तरक्ताभ्यामित्यूह्यम्)|| १७||

Adhikarana mRuditam (18) · Śloka 18

मृदितं मृदितं वस्तु संरब्धं वातकोपतः||१८||

🔊 Audio coming soon

वस्तु मेढ्राख्यं मृदितं सद्वातकोपात् संरब्धं भवति स नाम्ना मृदितम्| (हर्षणार्थं हस्ताभ्यां मर्दितं यद्वस्तु मेढ्राख्यं तद्वातकोपतः मर्दनस्यैवातियोगात् कारणान्तराद्वा कुपिताद्वातात्संरब्धं हृष्टमेव सदा वर्तते चेन्मृदितं मृदिताख्यो गुह्यरोगः|| १८||

Adhikarana aShThIlikA (19) · Śloka 19

विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता||१९||

🔊 Audio coming soon

या विषमत्वादिगुणा पिटका वायुना भवति सा नाम्नाऽष्ठीलिका स्मृता| (कुपितेन वायुना विषमा क्वचिन्निम्ना क्वचिदुन्नता कठिना प्रायेण काठिन्युक्ता भुग्ना कुटिलाकारा स्त्रीलिङ्ग सामर्थ्यात् पिट-केत्यूह्यं इयमष्ठीलिकाख्यो गुह्यरोगः|| १९||

Adhikarana nivRuttam (20) · Śloka 20

विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्| निवर्त्तते सरुग्दाहं क्वचित्पाकञ्च गच्छति| पिण्डितं कुथितं चर्म तत्प्रलम्बमधोमणेः| निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत्||२०||

🔊 Audio coming soon

विमर्दनादिना दुष्टेन वायुना मेढ्रजं चर्म सरुग्दाहं सन्निवर्तते परावृत्य तिष्ठति| क्वचित्तु पाकमपि गच्छति| ततश्चर्मपिण्डितं सङ्कुचितं कुथितं क्लिन्नं मणेर्मेढ्राग्रभागस्याधः प्रलम्बं भवति तस्य निवृत्तमिति संज्ञा| तच्च निवृत्तं कफसंयोगात् कण्डूकाठिन्यवच्च भवति न तु सर्वत्र| (विमर्दनाद्धि दुष्टेनेति पाठः| पिण्डितं ग्रथितमिति च| विमर्दनाद्विविधान्मर्दनात् दुष्टेन वायुना मेढ्रजं चर्म मेढ्रस्य त्वक् निवर्तते परावृत्य तिष्ठति| हि प्रसिद्धौ| क्वचित् केषुचित् पुरुषेषु दोषभेदवशात् सरुग्दाहं रुजया ऊष्मातिशयेन च युक्तं सत्पाकं गच्छति च| तत्तथाभूतं चर्मपिण्डितं ग्रथितं पिण्डाकारतया ग्रन्थिभावमापन्नं मणेर्मेढ्राग्रभागस्याधःप्रलम्बं लम्बमानं निवृत्तसंज्ञं निवृत्ताख्यो रोगः| सकफं कफसम्बद्धं तत्तु निवृत्तं कण्ड्वा काठिन्येन च युक्तं भवति)|| २०||

Adhikarana avapATikA (21) · Śloka 21

दारूढं स्फुटितं चर्म निर्दिष्टमवपाटिका||२१||

🔊 Audio coming soon

मेढ्रभवं चर्म दुष्टं कृत्वोढं मर्दितं स्फुटितं सदवपाटिकेति नाम्ना निर्दिष्टम्| (दुरुढं दुष्टं कृत्वोढं अयथावत् गृहीतमर्दितमित्यर्थः| अत एव स्फुटितं भिन्नं यच्चर्मत्वक् तदवपाटिका तत्संज्ञो गुह्यरोगः)|| २१||

Adhikarana niruddhamaNiH (22) · Śloka 22

वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत्| स्रोतो मूत्रं ततोऽभ्येति मन्दधारमवेदनम्| मणेर्विकासरोधश्च स निरुद्धमणिर्गदः||२२||

🔊 Audio coming soon

वातेन दूषितं चर्म मेढ्रमणौ सक्तं श्लिष्टं यदि मेढ्रस्रोतोरुणाद्धि ततो मूत्रं मन्दधारमवेदनं चाभ्येति मणेश्च हर्षणे विकासरोधो भवति स गदो नाम्ना निरुद्धमणिः| (वातेन कृतदूषणं चर्म मणौ लिङ्गाग्रे सक्तं संश्लिष्टं स्रोतो मूत्रमार्गं रुणद्धि यदि ततस्तस्माद्धेतोः मूत्रः मन्दधारं स्रोतोरोधादन्तरान्तरा विच्छिन्नं अवेदनं वेदनारहितम्| अर्श्मर्यादौ हि निरोधस्याभ्यन्तरत्वाद्वेदनासम्भवः इह तु बाह्यत्वात्तदभावः| अभ्येति निर्गच्छति| मणेः कर्णिकायास्त्वक्परिवर्तनाशक्यतया विकासयितुमशक्यत्वञ्च स्यात्| य एवं विधः स गदो निरुद्धमणिसंज्ञो गुह्यरोगः)|| २२||

Adhikarana grathitam (23) · Śloka 23

लिङ्गं शूकैरिवाकीर्णं ग्रथिताख्यं कफोद्भवम्||२३||

🔊 Audio coming soon

कफेन हेतुना लिङ्गं मेढ्रमन्तः शूकैः किंशारुभिरिवावृतं भवति तस्य ग्रथित इत्याख्या| (शूकाचितप्रतीतियुक्तं मेढ्रं ग्रथिताख्यं तच्च कफोद्भवं कफेन जायत इत्यर्थः| (किंशारुर्धान्यशूकम्)|| २३||

Adhikarana sparshahAniH (24) · Śloka 24

शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया||२४||

🔊 Audio coming soon

शूकेन दूषितं यन्मेढ्रे रक्तं तदुत्था मेढ्रे स्पर्शस्य हानिरचेतनत्वं भवति| तत्तदाह्वयं नाम्ना स्पर्शहानिः| (लिङ्गवृद्ध्यर्थं प्रलिप्त शूकदूषिताद्रक्तादुत्पन्ना स्पर्शहानिः स्वापप्रयुक्तं स्पर्शाज्ञानं तदाह्वयो स्पर्शहान्याख्यो रोगः|| २४||

Adhikarana shataponakam (25) · Śloka 25

छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम्| वातशोणितकोपेन ते विद्याच्छतपोनकम्||२५||

🔊 Audio coming soon

यत्तु मेहनं मेढ्रं सर्वत्र अणुमुखैः सूक्ष्मास्यैश्छिद्रैश्चितं वातशोणितकोपेन हेतुना भवति तं नाम्ना शतपोनकं विद्यात्| (यत्तु लिङ्गं वातरक्तयोः कोपादणुमुखैः सूक्ष्मास्यैर्मुखस्याणुत्वोक्त्या मूलस्य स्थूलत्वमपि व्यक्तितम्| अत्र एव हि तेभ्यो मूत्रादिपरिस्रुतिः| छिद्रैः सूषिरैः सर्वतश्चितं व्याप्तं तं शतपोनकाख्यं विद्यात्| भगन्दरोक्तशतपोनकवत् बहुच्छिद्रत्वात्)|| २५||

Adhikarana tvakpAkaH (26) · Śloka 26

पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्||२६||

🔊 Audio coming soon

पित्तासृग्भ्यां हेतुभ्यां ज्वरदाहवान् यस्त्वचः पाकः स नाम्ना त्वक्पाकः| (पित्तेनासृजा च हेतुना ज्वरदाहवान् ज्वरेण दाहेन च युक्तो मेढ्रा त्वचः पाको त्वक्पाकाख्यो गुह्यरोगः)|| २६||

Adhikarana mAMsapAkaH (27) · Śloka 27

मांसपाकः सर्वजः सर्ववेदनो मांसशातनः||२७||

🔊 Audio coming soon

सर्वजः सन्निपातजो मांसपाकः सर्वाभिर्वेदनाभिर्युक्तो मांसशातनो भवति| (सर्वजः सन्निपातजः सर्ववेदनः छेदभेदतोदस्फुरणव्यासव्यधस्रंसस्वापाद्यखिलवेदनान्वितः मांसशातनः मांसं पक्त्वा मेढ्रादणुशः पातयन् मांसपाकः मांसपाकाख्यो रोगः)||२७||

Adhikarana asRugarbudam (28) · Śloka 28

सरागैरसितैः स्फोटैर्वेदनाभिश्च पीडितम्| मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम्||२८||

🔊 Audio coming soon

सरागत्वादियुक्तैः स्फोटैस्तद्विधाभिश्च सूक्ष्माभिः पिटकाभिर्यत्र मेहनं पीडितं भवत्युग्रा च वेदना तस्य रोगस्यासृगर्बुदमिति नाम विद्यात्| (मेढ्रं सरागैरीषद्रक्तवर्णैरसितैः कृष्णवर्णैर्वा स्फोटैरथात्तादृशीभिरेव पिटकाभिश्च पीडितं व्याप्तं तथा उग्रा अत्यर्थमसहनीया वेदना च स्याद्य एवंविधो रोगस्तमसृगर्बुदं विद्यात्)||२८||

Adhikarana mAMsArbudaM vidradhishca (29) · Śloka 29

मांसार्बुदं प्रागुदितं विद्रधिश्च त्रिदोषजः||२९||

🔊 Audio coming soon

गुह्ये तु यन्मांसार्बुदं तत् लक्षणैः प्राक् ग्रन्थ्याद्यध्याय उदितम्| गुह्ये च त्रिभिर्दोषैर्विद्रधिर्भवति| (अर्बुदानां मध्ये मांसार्बुदं विद्रधीनां मध्ये सन्निपातजो विद्रधिश्चात्रापि भवतः| तौ च स्वस्व निदानेन बोद्धव्यावित्यर्थः)|| २९||

Adhikarana tilakAlakAH (30) · Śloka 30

कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः| पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्||३०||

🔊 Audio coming soon

सन्निपातेन हेतुना गुह्ये पक्वानि मांसानि कृष्णानि भुत्वा समन्ताद्विशीर्यन्ते तांस्तिलकालकान् विद्यात्| (सन्निपातकोपेन पक्वानि मेढ्रमांसानि कृष्णानि कृष्णवर्णानि भूत्वा समन्ततः आबस्तिपर्यन्तं विशीर्यन्ते शकलीभूय निपतन्ति बहुवचनं शकलापेक्षया| य एवंविधास्तान् तिलकालकसंज्ञान् जानीयात्)| इत्यपदंशार्शःसर्षपिकाऽवमन्थकुम्भीकालज्युत्तमापुष्करिकासंव्यूढामृदिताऽष्ठीलिका- निवृत्ताऽवपाटिकानिरुद्धमणिग्रथितस्पर्शहानिशतपोनकत्वक्पाकमांसपाकाऽसृगर्बुद- मांसार्बुदविद्रधितिलकालकाख्यास्रयोविंशतिः पुंगुह्यरोगाः उक्ताः|| ३०||

Adhikarana sAdhyAsAdhyatA (31) · Śloka 31

मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान्| चतुरो वर्जयेदेषां शेषान् शीघ्रमुपाचरेत्||३१||

🔊 Audio coming soon

एषां च मध्यान्मांसोत्थमर्बुदं मांसोत्थमेव च पाकं विद्रधिं तिलकालकांश्चेति चतुरो वर्जयेत् न चिकित्सेत्| शेषांस्तु शीघ्रमेवोपचरेत्| (अपदंशानां साध्यासाध्यविभागस्योक्तत्वादेषामनन्तरोक्तानामर्शःप्रभृतीनां मध्ये मांसोत्थमर्बुदं मांसार्बुदं पाकं मांसपाकं विद्रधिं तिलकालकानिति चतुरः वर्जयेत्| उद्देशत एवैषां चतुष्ट्वे सिद्धेऽपि चतुरैति चतुर इति पुनरुक्तिः सुखनिश्चयार्था बहुवचनोक्तानां तिलकालकानां बहुत्वशङ्कानिरासार्थं च| शेषानर्शः सर्षपिकादीन् शीघ्रमाश्वेवोपाचरेत् तेषामपि कालातिपाते महान प्रत्यवायः स्यादिति भावः)|| ३१||

Adhikarana strIguhyarogANAM hetuH (yonivyApadaH) (32) · Śloka 32

विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात्| विषमस्थाङ्गशयनभृशमैथुनसेवनैः| दुष्टार्तवादपद्रव्यैर्बीजदोषेण दैवतः||३२||

🔊 Audio coming soon

एवं पुंगुह्यरोगानुक्त्वा स्त्रीगुह्यरोगानाह-योनेः स्त्रीगुह्यस्य दुष्टभोजनादिहेतोर्विंशतिर्व्यापदो जायन्ते| विषमस्थैरङ्गैः शयनं तथोक्तम्| दुष्टार्तवेन स्रवता| अपद्रव्याणि लोहादिमयानि दाक्षिणात्यासु प्रसिद्धानि| बीजदोषः स्त्रियो जन्मकाले योन्यारम्भकस्य बीजस्योपहतत्वम्| दैवमन्यजन्मकृतं कर्म| इति योनिव्यापदा मविशेषेण हेतुरुक्तः| (दुष्टभोजनात् पर्युषिताद्यन्यभोजनात्| उक्तं च- भवेत् पर्युषितं पूतिक्लिन्नमुष्णीकृतं पुनः| दुष्टं कृम्यादिजुष्टं च शोषितं चान्नमातपे|| इति| विषमस्थाङ्गशयनभृशमैथुनसेवनैः अयथावद्विन्यस्तैरङ्गैः शयनस्य भृशमैथुनस्य च शीलनैः| दुष्टार्तवाद्वातादिदूषितादृतुजरक्तात्| उपद्रव्यैरिति पाठः| उपद्रव्यैर्लोहादिकृतैरुपलिङ्गैः| उपलिङ्गसुरतं देशान्तरेषु प्रसिद्धम्| उक्तञ्च रतिरहस्ये- विमृद्यमानाः कृतकध्वजेन द्रवन्ति हृष्यन्ति दृढप्रहारैः| स्त्रीराज्यजाः कोसलजाश्च नार्यः प्रचण्डकण्डूतिभगा भवन्ति|| इति|| बीजदोषेण योन्यारम्भकस्याकाशादिकस्य बीजस्योपहतत्वेन दैवतो जन्मान्तरकृतपापफलपरिणामाच्च हेतोः योनेर्विंशतिर्व्यापदो भवन्ति| इयता ग्रन्थजालेन योनिव्यापदां सामान्यकारणमुक्तम्)||३२||

Adhikarana vAtikI yonivyApad (33) · Śloka 33

योनौ क्रुद्धोऽनिलः कुर्याद्रुक्तोदायामसुप्तताः| पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम्| फेनिलारुणकृष्णाल्पतनुरूक्षार्त्तवस्रुतिम्| भ्रंशं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च| तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता||३३||

🔊 Audio coming soon

योनावित्यादिना लिङ्गान्युच्यन्ते| योनौ क्रुद्धो वायुः रुगादीन् कुर्यात्| फेनिलेत्याद्यार्त्तवविशेषणं तस्य स्रुत्या सम्बन्धः| भ्रंशो योनिभ्रंशः| वङ्क्षणादौ व्यथां क्रमेण गुल्ममपि कुर्यात्| तांस्तांश्च स्वान् वातजान् स्तम्भादीन् गदान्| इयं वातिकी नाम योनिव्यापत् स्मृता| (दुष्टभोजनादिना कुपितो वायुर्योनौ रुगादीन् कुर्यात्| पिपी-लिकासृप्तिमिव तासां सञ्चरणप्रतीतिमित्यर्थः| कर्कशता काठिन्यम्| फेनिलं फेनयुक्तमरुणवर्णं कृष्णं कृष्णवर्णं वा अल्पमबहु तनु स्वच्छं रूक्षमस्निग्धं एवम्भूतस्यार्त्तवस्य स्रुतिः स्रवणम्| स्रंसमिति पाठः| स्रंसो वेदनाविशेषः (कलत्तुनोक्क)| वङ्क्षणपार्श्वादौ व्यथां वङ्क्षण्योः पाऱ्श्वयोश्च कटीपृष्ठपरिग्रहः| क्रमेण उपेक्षया कालातिपातात् गुल्मं गुल्माख्यं रोगं तांस्तानायामाक्षेपकस्तम्भादीन् स्वान् वातव्याधिसम्बन्धिनो गदांश्च करोति| यैवंविधा सा वातिकी नाम योनिव्यापत् स्मृता)|| ३३||

Adhikarana aticaraNA (34) · Śloka 34

सैवातिचरणा शोफसंयुक्तातिव्यवायतः||३४||

🔊 Audio coming soon

सैव वातिकी अतिव्यवायाच्छोफसंयुक्ता सत्यतिचरणेत्युच्यते| (सा वातिक्येव अतिव्यवायतः भृषमैथुनाद्धेतोः शोफ संयुक्ता योनिप्रदेशे श्वयथुमती सञ्जाता चेदतिचरणा अतिचरणेति संज्ञान्तरं लभते)|| ३४||

Adhikarana prAkcaraNA (35) · Śloka 35

मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम्| रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सा||३५||

🔊 Audio coming soon

अतिबालाया स्त्रिया मैथुनाद्वायुः पृष्ठादिकं रुजन् योनिं सन्दूषयेत्| सा व्यापन्नाम्ना प्राक्चरणा| (बालाया असम्पूर्णषोडशवयस्काया अतिमैथुनादनल्पव्यवायात् पृष्ठजङ्घोरुवङ्क्षणं पृष्ठं जङ्घे ऊरु वङ्क्षणौ च रुजन् योनिं सन्दूषयेत्| रुक्तोदादियुक्तां करोति सा प्राक्चरणेति योनिव्यापत्)||३५||

Adhikarana udAvRuttA (36) · Śloka 36

वेगोदार्वत्तनाद्योनिं प्रपीडयति मारुतः| सा फेनिलं रजःकृच्छ्रादुदावृत्तं विमुञ्चति| इयं व्यापदुदावृत्ता..........................||३६||

🔊 Audio coming soon

वेगोदावर्त्तनादधोवातादिवेगधारणनिमित्तादूर्ध्वमुद्गमाद्वायुर्योनिं प्रपीडयति सा पीडता सत्युदावृत्तं बद्धं फेनिलं फेनयुक्तं रजो रक्तं कृच्छ्राद्विमुञ्चति| इयं व्यापन्नम्नाऽप्युदावृत्ता| (प्रपीडयत्यतिव्यथां करोति| सा अनिलपीडिता योनिः ऋतुकाले प्राप्ते रजो रक्तं फेनिलं फेनयुक्तं कृच्छ्रादल्पाल्पमुदावृत्तं मध्ये मध्ये ऊर्ध्वमावर्तमानं विसृजति)|| ३६||

Adhikarana jAtaghnI (37) · Śloka 37

.............................जातघ्नी तु यदानिलः| जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्त्तवोद्भवम्||३७||

🔊 Audio coming soon

यदा तु दुष्टार्त्तवोद्भवं सुतं जातं तत्काल एव वायू रौक्ष्याद्धन्ति तदा जातघ्नी नाम व्यापद्भवति| (यदा यस्मिन् काले वायू रौक्ष्यात् स्नेहक्षयोद्भूतरूक्षगुणाधिक्यात् क्रुद्धो दुष्टावर्त्तवोद्भवं दुष्टशोणितसम्भूतं जातं जातं सञ्जातान् सर्वानित्यर्थः| जातशब्दशक्त्या जन्मानन्तरत एवेति च द्योत्यते| हन्ति मारयति तदा तु जातघ्नी| जातघ्नी नाम योनिव्यापत्| दुष्टशोणितस्यापि गर्भाधानसामर्थ्यमस्तीत्युक्तं शारीरे)|| ३७||

Adhikarana antarmukhI (38) · Śloka 38

अत्याशिताया विषमं स्थितायाः सुरते मरुत्| अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत्| सस्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा||३८||

🔊 Audio coming soon

या तु स्त्री अत्याशिता सती सुरते पुंयोगे विषमं कृत्वा तिष्ठति तदा तस्या मरुद्वायुरन्नेनोत्पीडितो योनेः स्रोतसि स्थितः सन् तस्या मुखं तीव्ररुजं सास्थिमांसं वक्रयेत् सा व्यापन्नाम्नाऽन्तर्मुखी| (अत्याशिताया अतिभुक्तायाः सुरते करणवैचित्र्यादङ्गं विषमं कृत्वा स्थिताया नार्याः वायूरन्नेन निरवकाशं निष्पीडितो विषमस्थित्या सावकाशे योनिस्रोतस्येव स्थितस्तस्या मुखमस्थ्ना मांसेन च सह तीव्ररुजमत्यर्थं वेदनं वक्रेयेत्| सा अन्तर्मुखीति नाम योनिव्यापत्)|| ३८||

Adhikarana sUcImukhI (39) · Śloka 39

वातलाहारसेविन्या जनन्यां कुपितोऽनिलः| स्त्रिया योनिमणुद्वारां कुर्यात् सूचीमुखीति सा||३९||

🔊 Audio coming soon

जनन्यां मातरि वातलाहारसेविन्यामनिलः कुपितो योषाया योनिं संवृतमुखीं कुर्यात् सा व्यापन्नाम्ना सूचीमुखी|| ३९||

Adhikarana yonishoShaH (40) · Śloka 40

वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसंग्रहम्| करोति योनिशोषञ्च शुष्काख्या सातिवेदना||४०||

🔊 Audio coming soon

ऋतुकाले वेगरोधाद्दृष्टो वायुर्विण्मूत्रसंग्रहं योनिशोषं च करोति| सा व्यापच्छुष्काख्या| सा चातिवेदना भवति| (ऋतुकाले वेगरोधात् अधोवातादिवेगधारणात् दुष्टः क्रुद्धो वायुर्विण्मूत्रसंग्रहं मलमूत्रयोर्निरोधं योनिशोषं योनिद्वारे द्रवाभावं च करोति| अतिवेदना अधिकवेदनायुक्ता या एवंविधा सा शुष्काख्या शुष्का संज्ञा योनिव्यापत्)|| ४०||

Adhikarana vAminI (41) · Śloka 41

षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत्| वमेत्सरुङ्नीरुजो वा यस्यां सा वामिनी मता||४१||

🔊 Audio coming soon

यस्यां व्यापदि निषिक्तं शुक्रं गर्भाशयान्मरुत् सरुजो वा नीरुजो वा षडहात् सप्तरात्राद्वा बहिः क्षिपेत् सा व्यापद्वामिनी मता| (यस्यां व्यापदि वायुः षडहात् षण्णामह्नां समाहारात् हेत्वर्थं पञ्चाम्याः करणार्थे परिणामात् षड्भिरहोभिरित्यर्थः| सप्ताहात् सप्तभिरहोभिर्वा| अत्र सप्ताहशब्दस्य मर्यादात्वेनाभिविधित्वेन चेष्टत्वादत्र षदहात् सप्तरात्राद्वेति पक्षद्वयं परिगृहीतम्| सरुक् रुजा सहितः नीरुजो रुजा रहितः वाशब्दो विकल्पे क्वचित् सरुजः क्वचिन्नीरुजश्चेत्यर्थः| शुक्रं पुंसा निषिक्तं गर्भाशयात् गर्भकोष्ठं प्रविष्टमपीति भावः| वमेत बहिर्निरस्येत्| नुदेदिति वक्तव्ये वमेदित्युक्तिर्वामिनीशब्दस्य निरुक्तिद्योतनाय| एवंविधा सा व्यापद्वामिनीसंज्ञा)|| ४१||

Adhikarana ShaNDA (42) · Śloka 42

योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः| नृद्वेषिण्यस्तनी च स्यात् षण्डसंज्ञानुपक्रमा||४२||

🔊 Audio coming soon

स्त्र्याख्यगर्भे बीजदोषाद्वातोपतप्तायां योनौ पुरुषद्वेषिणी स्तनरहिता च स्त्री स्यात् सा व्यापत् षण्डसंज्ञानुपक्रमा त्याज्या| (योनौ कुतश्चित् कारणात् क्रुद्धेन वायुना पीडितायां सत्यां मातुरित्यर्थात्| गर्भे गर्भाधानसमये बीजदोषतः आर्त्तवदुष्ट्या स्त्री जायमाना पुत्री नृद्वेषिणी पुंसम्भोगविरक्ता अस्तनी यौवनेऽत्यल्पस्तनी च स्यात् सा व्यापत्षण्डाख्या अनुपक्रमा असाध्यत्वाच्चिकित्सारहिता च )|| ४२||

Adhikarana mahAyoniH (43) · Śloka 43

दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः| कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्| उत्सन्नमांसां तामाहुर्महायोनिं महारुजम्||४३||

🔊 Audio coming soon

दुष्टो वायुर्योन्यास्यं गर्भकोष्ठञ्चा विष्टभ्य योनिं विवृतां स्थानाच्च स्रस्तां वातिक्याख्यव्यापदमिव च दुःखितां व्यथितामुत्सन्नमांसां महारुजञ्च कुरुते तां नाम्ना महायोनिमाहुः| (यथास्वैः गुह्यरोगकारणाभूतैर्दूषणैर्दुष्टो वायुर्योनिमुखं गर्भाशयञ्च विष्टभ्य स्तम्भयित्वा विवृतां न कदाचिदपि संवरणयुक्तां स्रस्तां स्थानाच्चलितां बहिर्निस्सृतामित्यर्थः| वातिकीमिव वातिक्याख्यां व्यापदमिव दुःखितां रुक्तोदायामादिविविधोपद्रवयुक्तामित्यर्थः| उत्सन्नमांसां उद्वान्तमुखत्वादुत्सन्नमांसां महारुजां अत्यर्थवेदनायुक्तां कुरुते योनिरिति महायोनिशब्दसान्निध्याहार्यं तां व्यापदं महयोनिं महायोन्याख्यामाहुः)|| ४३||

Adhikarana paittikI yonivyApat (44) · Śloka 44

यथास्वैर्दूषणैर्दुष्टं पित्तं योनिसमाश्रितम्| करोति दाहपाकोषा पूतिगन्धज्वरान्विताम्| भृशोष्णभूरिकुणपनीलपीतासितार्त्तवाम्| सा व्यापत् पैत्तिकी...............................||४४||

🔊 Audio coming soon

यथास्वैर्दूषणैर्निदानकथितैर्दुष्टं पित्तं योनिमाश्रित्य तामेव दाहाद्यन्वितां भृशोष्णादिगुणां च करोति सा व्यापन्नाम्ना पैत्तिकी| (यथास्वैः सर्वरोगनिदानोक्तैः कट्वम्लादिभिर्दुष्टं प्राप्तदूषणं योनिं प्राप्तं पित्तं तां योनिं दाहाद्यन्वितां भृशोष्णादिगुणयुक्तार्त्तवां च करोति| दाहः सर्वाङ्गीणः दाहः| ऊषा प्रादेशिका दाहः| पूतिगन्धो दुर्गन्धः| कुणपाऱ्त्तवं रक्तदोषजं प्राक् पुत्रकामीयाध्याय उक्तम्| एवंविधा व्यापत्सा पैत्तिकी नाम भवति)|| ४४||

Adhikarana raktayoniH (45) · Śloka 45

...........................रक्तयोन्याख्यासृगतिस्रुतेः||४५||

🔊 Audio coming soon

एषैवातिरक्तस्रुतेः रक्तयोन्याख्या भवति| (सा पैत्तिकी व्यापदेवात्यसृक्स्रावाद्धेतोः रक्तयोनिसंज्ञा स्यात्)|| ४५||

Adhikarana shlaiShmikI yonivyApat (46) · Śloka 46

कफोऽभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्| शीतलां कण्डुलां पाण्डुं पिच्छिलां तद्विधस्रुतिम्| सा व्यापच्छ्लैष्मिकी..............................||४६||

🔊 Audio coming soon

अभिष्यन्दिभिः स्रोतोमालिन्यकरैराहारैः कफः क्रुद्धो वेदनारहितां शीतलादिगुणां च योनिं कुर्यात्| तद्विधस्रुतिं शीतलादि गुणस्रुतिं सा व्यापन्नाम्ना श्लैष्मिकी| (योनिं अवेदनामीषद्वेदनायुक्तां शीतलां शीतस्पर्शां कण्डूलां कण्डुयुक्तां पाण्डु पिच्छिलां पाण्डुरवर्णां पैच्छिल्ययुक्तां च तद्विधस्रुतिं पाण्डुपिच्छिलाम्बु स्रवणयुक्तां च करोति)|| ४६||

Adhikarana lohitakShayAkhyA (47) · Śloka 47

..................वातपित्ताभ्यां क्षीयते रजः| सदाहकाऱ्श्यवैवर्ण्य यस्यां सा लोहितक्षया||४७||

🔊 Audio coming soon

यस्यां व्यापदि वातपित्ताभ्यां रजः क्षीयते दाहादिकृच्च भवति सा व्यापन्नाम्ना लोहितक्षया| (यस्यां योनिव्यापद्यनिलपित्ताभ्यां कारणाभ्यां रजो रक्तं दाहाद्यन्वितं क्षीयते क्षयं याति सा लोहितक्ष्याख्या व्यापत्)|| ४७||

Adhikarana pariplutA (48) · Śloka 48

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्| पित्तयुक्तेन मरुता योनिर्भवति दूषिता| शूना स्पर्शासहा सार्त्तिर्नीलपीतास्रवाहिनी| बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी| श्रोणिवङ्क्षणरुक्तोदज्वरकृत्सा परिप्लुता||४८||

🔊 Audio coming soon

पित्तलायाः पित्तप्रकृतेः स्त्रिया नृसंवासे क्षवथोरुद्गारस्य च धारणात् पित्तयुक्तेन वायुना दूषिता योनिः शूनादिगुणा भवति सा व्यापन्नाम्ना परिप्लुता| (पित्तलायाः प्रभूतपित्तायाः पित्तप्रकृतेरित्यर्थः| नृसंवासे पुंसङ्गतौ क्षवथूद्गारयोर्धारणात् पित्तयुक्तेन मरुता दूषिता योनिः शूना शोफयुक्ता स्पर्शासहा स्पर्शं किञ्चिदप्यसहमाना सार्त्तिः रुजा युक्ता नीलपीतास्रवाहिनी नीलवर्णं पीतवर्णं वा अस्रं रक्तं वहमाना तथा बस्तैः कुक्षेश्च गुरुत्वमतिसारमरोचकं च कुर्वाणा श्रोण्यां वङ्क्षण्योः रुक्तोदौ च ज्वरं च कुर्वती भवति सा व्यापत् परिप्लुताख्या)|| ४८||

Adhikarana upaplutA (49) · Śloka 49

वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी| उपप्लुता स्मृता योनिः.......................||४९||

🔊 Audio coming soon

वातश्लेष्मलैरामयैर्व्याप्ता योनिः श्वेतं पिच्छिलं च वहति सा नाम्नोऽपप्लुता स्मृता| (वातनिमित्तैः श्लेष्मनिमित्तैश्चामयैर्व्याप्ता परिवृता श्वेतपिच्छिलवाहिनी श्वेतवर्णं पैच्छिल्ययुक्तं चास्रं वहमाना योनिः योनिव्यापत् उपप्लुताख्या स्मृता)|| ४९||

Adhikarana viplutA (50) · Śloka 50

............................विप्लुताख्या त्वधावनात्| सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया||५०||

🔊 Audio coming soon

या तु योनिरधावनादप्रक्षालनाद्धेतोः सञ्जातजन्तुः कण्डूला च भवति कण्ड्वा चातिरतिप्रिया अतिव्यवायप्रिया च भवति सा नाम्ना विप्लुता| (विप्लुताख्या तु योनिः तुशब्दः परिप्लुतातो विशेषद्योतकः| अधावनादन्तर्मलापरिशोधनात् सञ्जातजन्तुः योन्यन्तर्गतरक्तजक्रिमियुतत्वादागन्तु क्रिमिसम्भवे त्वतिरति प्रियेत्यस्यानुपपत्तेश्चान्तःप्रवृद्धनैसर्गिकक्रिमिरित्यर्थः| रतिरहस्ये चैतत्स्पष्टमुक्तम्- रक्तजाः क्रिमयः सूक्ष्मा मृदुमध्योग्रशक्तयः| स्मरसद्मनि कण्डूतिं जनयन्ति यथाबलम्|| ध्वजदण्डाभिघातेन कण्डूत्यपनयादतः| रक्षणाच्च सुखम्........................|| इति| कण्डूला अमर्षणीकण्डूयुक्ता| कण्ड्वा कण्डूतिहेतोः| चशब्दः सञ्जातजन्तुत्वात् कण्डूः कण्डुत्या रत्यभिनिवेशश्चेतिहेतुपारम्पर्यद्योतनार्थः| अतिरतिप्रिया अतीव सुरतेच्छुः)|| ५०||

Adhikarana karNinI (51) · Śloka 51

अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः| कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम्| सा कर्णिनी...............................||५१||

🔊 Audio coming soon

अकालवाहनादप्राप्ताम्ब्वीरणाद्वायुः श्लेष्मरक्ताभ्यां मिश्रितो योनौ रजोमार्गनिरोधिनीं कर्णिकां जनयेत्| सा व्यापन्नाम्ना कर्णिनी| (वायुरकालवाहनाद्वेगोदीरणात्| काश्चिद्रतान्ते कामाम्बु छलाद्वञ्चयितुं प्रियान्| मूत्रं सृजन्त्यकाले या मदनाम्बवेव तत् द्वयम्| अकालवाहनस्यार्थ इति व्याचष्टसारकृत्| द्वेधाऽप्यनिच्छासुरते द्रुतिभावः प्रतीयते| श्लेष्मरक्तविमूर्च्छितः श्लेष्म रक्ताभ्यां विमूर्च्छितो वर्द्धितः श्लेष्मसम्बन्धात् घनीभूय दुर्मांस प्रायतां प्राप्तस्य रक्तस्य वायुनोदीरणे कर्णिन्याः सम्प्राप्तिरिति भावः| योनौ गर्भाशयद्वारमुखे रजोमार्गनिरोधिनीं गर्भाशयद्वार संवृतिकरीं| अत एव निषिक्तस्य शुक्रस्याप्रतिग्रहाद्गर्भो न जायत इति भावः| कर्णिकां पद्मकर्णिकातुल्यं मांसाङ्कुरमित्यर्थः| जनयेदाविष्कुर्यात्| सा कर्णिनीसंज्ञा व्यापत्)|| ५१||

Adhikarana sAnnipAtikI yonivyApat (52) · Śloka 52

...........................त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः| यथास्वोपद्रवकरैर्व्यापत् सा सान्निपातिकी||५२||

🔊 Audio coming soon

त्रिभिर्दोषैर्योनौ गर्भाशये वाश्रितैर्यथास्वोपद्रवकरैः सूत्रोक्तवाताद्युपद्रव्यकरैर्या व्यापत् सा नाम्ना सान्निपातिकी| (योनिं गर्भाशयं चाश्रित्य रुक्तोददाहपाकशैत्यकण्ड्वादिस्वस्वोपद्रवं कुर्वद्भिर्वातादिभिर्या व्यापत् सा सान्निपातिकी संज्ञा)|| ५२||

Adhikarana yonivyApadupadravAH (53-38) · Śloka 38

इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति| ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान्| असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः||५३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे गुह्यरोग- विज्ञानीयो नामाष्टत्रिंशोऽध्यायः||३८||

🔊 Audio coming soon

इति विंशतिर्वातिक्यतिचरणाप्राक्वरणोदावृताजातघ्न्यन्तर्मुखीसूची -शुष्काख्या-वामिनी-षण्डा-महायोनि-पित्तयोनि-रक्तयोनि-श्लैष्मिकी-लोहतक्षयोऽपप्लुता-परिप्लुता-विप्लुता-कर्णिनी-सान्निपातिक्याख्याः योनिगदा उक्ताः यैर्गदैर्नारी निषिक्तं शुक्रं न प्रतीच्छति गर्भाशयेन न गृह्णाति शुक्रस्याग्रहणाद्गर्भं न गृह्णाति असृग्दरादींश्च रोगान् दारुणानति- कृच्छ्रानाप्नोतियनिलदिभिश्च दोषैर्दारुणानाबाधान् व्याधीन् स्तम्भशूलादीनाप्नोतीति| (योनिगदा योनिव्यापदः इत्यनेन प्रकारेणोक्ताः यैर्योनिगतैर्नारी व्यापद्यमानास्त्री शुक्रं पुंसा निषिक्तं न प्रतीच्छति न प्रतिगृह्णाति| ततस्तसमाद्धेतोः गर्भं न गृह्णाति, गर्भो न जायते| अपत्यार्थमेव यस्याः परिग्रहो विधीयते तदभावे तया किं फलमिति भावः| किञ्च दारुणानतिकृच्छ्रानसृग्दरार्शोगुल्मादीन् आदिशब्देन मूत्रकृच्छ्रास्थिस्रावादयो गृह्यन्ते रोगानाप्नोति| तथा अनिलादिभिर्वातपित्तकफैः कृतानाबाधान् असम्भावनीयान् व्यापदन्तरंश्च प्राप्नोति)|| ५३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे अष्टत्रिंशोऽध्यायः