Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

36. kṣudrarōgavijñānīyaḥ

Adhikarana atha kShudrarogavij~jAnIyo nAma ShaTtriMsho~adhyAyaH | pratij~jA (1) · Śloka 1

अथातः क्षुद्ररोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

शस्त्रकर्मार्हरोगप्रसङ्गेन क्षुद्ररोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते| क्षुद्राः रोगाः क्षुद्ररोगाः| (क्षुद्रशब्दः स्वल्पाधमक्रूरपर्यायवाची| 'क्षुद्रः स्वल्पेऽधमे क्रूरः' इति वैजयन्ती| उक्तधर्मयुक्ता रोगा क्षुद्ररोगाः| उक्तञ्च- मन्दवेगा महावेगा व्याधयोऽल्परुजोऽरुजः| ये महान्तोऽल्पकाश्चैव क्षुद्ररोगास्तु ते स्मृताः|| इति| अत्राऽपि स्वल्पा मशव्यङ्गतिलकालकादयः| अधमा रुद्धगुदशर्करार्बुदकुनखादयः| क्रूरा मसूरिकाविस्फोटाग्निरोहिण्यादयः| क्रौर्ये क्षुद्रशब्दप्रयोगः पुराणादिष्वपि दृश्यते- अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समा मृगैः| इति| अयुर्वेदस्य तस्याष्टौ प्राहुरङ्गानि तद्विदः| सर्वेभ्यः प्रायशस्तेभ्यः क्षुद्ररोगाः समुच्छ्रिताः|| इति श्रेष्ठत्वेऽपि|| १||

Adhikarana ajagallikA (2) · Śloka 2

स्निग्धाः सवर्णा ग्रथिता नीरुजा मुद्गसन्निभाः| पिटकाः कफवाताभ्यां बालानामजगल्लिका||२||

🔊 Audio coming soon

क्षुद्ररोगाणामनेकविधत्वेन सामान्यलक्षणाभावात्प्रत्येकं व्याधिगौरवानुरूपेण हेत्वादिकं प्रदर्शयिष्यति| बालानां कफवाताभ्यां स्निग्धादिगुणाः पिटका भवन्ति सा नाम्नाऽजगल्लिका| बालानां प्राय इति बोद्धव्यम्| (केरले पालुण्णीत्युच्यते)|| २||

Adhikarana yavaprakhyA alajI ca (3) · Śloka 3

यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना| अवक्त्रा त्वलजी..............................||३||

🔊 Audio coming soon

ताभ्यामिति कफवाताभ्यां मांसाश्रिता घना यवसदृशा या पिटका भवति सा नाम्ना यवप्रख्या| सैवावक्त्रा सत्यलजीत्युच्यते| (ताभ्यामेव अवक्त्रा अमुखतया पूयोद्गमनद्वाररहिता)||३||

Adhikarana kacCapI (4) · Śloka 4

....................वृत्ताः स्तोकपूया ग़नोन्नताः| ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः||४||

🔊 Audio coming soon

वृत्तत्वादिगुणाः पञ्च वा षड् वा वा कच्छपवदुन्नता ग्रन्थयो नाम्ना कच्छपी| (कफवाताभ्यां कच्छपोन्नताः कच्छपपृष्ठवदौन्नत्ययुक्ताः)|| ४||

Adhikarana panasikA (5) · Śloka 5

कर्णस्योर्ध्वं समन्ताद्वा पिटका कठिनोग्ररुक्| शालूकाभा पनसिका..............................||५||

🔊 Audio coming soon

कर्णस्योपरि भागे समन्ताद्वा कर्णमाश्रित्य कठिनत्वादिगुणा शालूकेन जलकुसुमकन्देन सदृशा पिटका नाम्ना पनसिका| (कर्णस्योर्ध्वमुपरिष्टात् समन्तात्परितः वाशब्दो विकल्पार्थः| 'उभयोः पार्श्वयोः समं जायते नैकस्मिन्नेव कर्णे' इति भोजः| उक्तञ्च- कर्णयोरुपदिष्टाच्च कर्णयोश्च समन्ततः| पिटकां कुरुते राजन् शालूकसदृशां स्थिराम्|| इति| कठिना कठिनस्पर्शा| उग्ररुगधिकतरपीडायुक्ता| शालूकाभा शालूककन्दसदृशा| (शालूकं नीर्चेम्प्|) पिटिका पनसिकासंज्ञः क्षुद्ररोगः)|| ५||

Adhikarana pAShANagardabhaH (6) · Śloka 6

........................शोफस्त्वल्परुजः स्थिरः| हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः||६||

🔊 Audio coming soon

ताभ्यामिति कफवाताभ्यां हनुसन्धौ समुत्पन्नः अल्परुजादिकः शोफो नाम्ना पाषाणगर्दभः|| ६||

Adhikarana mukhadUShikA (7) · Śloka 7

शाल्मलीकण्टकाकाराः पिटकाः सरुजो घनाः| मेदोगर्भा मुखेशूनां ताभ्यां च मुखदूषिका||७||

🔊 Audio coming soon

ताभ्यां चेति कफवाताभ्यामेव शाल्मलीकण्टकाकारत्वादिगुणा यूनां यौवनवतां मुखे याः पिटका भवन्ति ता नाम्ना मुखदूषिका, मेदो गर्भे पूरणे यासां तास्तथोक्ताः| चशब्दो मेदः समुच्चयति| (ताभ्यां कफवाताभ्यां यूनां प्रत्यग्रवयसां मुखे वदनस्य बहिर्भागे कपोललाटनासिकाचिबुकादिप्रदेशे| शाल्मली कण्टकाकाराः शाल्मलीकण्टकसदृशाः आकृतिमात्रेणैव सादृश्यम्| सरुजः ईषद्रुजायुक्ताः| घना निविडाः| मेदोगर्भाः मेदः गर्भेऽन्तर्भागे यासाम्| यास्त्वेवंविधास्ताः पिटकाः मुखदूषिका संज्ञः क्षुद्ररोगः)|| ७||

Adhikarana padmakaNTakA (8) · Śloka 8

ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः| चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः||८||

🔊 Audio coming soon

ते पद्मकण्टका नाम्ना ज्ञेयाः यैः कफवातजैः पद्मं कण्टकैरिव शरीरे नीरुजैः श्वेतैश्चीयते सञ्चीयते| (कफवातनिमित्तैः नीरुजैः रुजारहितैः श्वेतैः श्वेतवर्णैः यैः पिटकैः कण्टकैः पद्मं पद्म नालमिव शरीरं चीयते समन्ताद्व्याप्यते ते पिटकाः पद्मकण्टकसंज्ञाः ज्ञेयाः मुनिभिरिति शेषः| य एवंविधः स पद्मकण्टकाख्यः क्षुद्ररोगः)|| ८||

Adhikarana vivRutA (9) · Śloka 9

पित्तेन पिटका वृत्ता पक्वोदुम्बरसन्निभा| महादाहज्वरकरी विवृता विवृतानना||९||

🔊 Audio coming soon

पित्तेन हेतुना विवृतमुखी वृत्तत्वादिगुणा पिटका भवति सा नाम्ना विवृता| (पित्तेन हेतुना वृत्ता वर्तुला पक्वोदुम्बरसन्निभा पक्वेनोदुम्बरफलेन सदृशी महादाहज्वरकरी महान्तमतिदुस्सहं दाहं सर्वाङ्गीणं तीव्रसन्तापं तथाविधं ज्वरञ्च करोतीति महादाहज्वरकरी| विवृतानना असंवृतमुखी अनेनारम्भसमय एव पाकपूयस्रवणादिकं द्योत्यते| या एवंविधा सा पिटका विवृतासंज्ञः क्षुद्ररोगः)|| ९||

Adhikarana masUrikAH (10) · Śloka 10

गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः| मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटका घनाः||१०||

🔊 Audio coming soon

गात्रेषु बहिरन्तर्मुखञ्च याः प्रकरणात्पित्तेन पिटका मसूरप्रमाणाः तद्वर्णा इति मसूरवर्णा लोहिताः घनाश्च भवन्ति तास्तत्संज्ञाः नाम्ना मसूरिकाः| (गात्रेषु पादपाण्याद्यवयवेषु| अनेन पादतलं मस्तकं च गृह्यते| वक्त्रस्यान्तर्मुख इत्यर्थः| चशब्दान्नेत्रश्रोत्राद्यन्यस्रोतांसि च गृह्यन्ते| दाहज्वरान्विताः| दाहज्वररुजान्विताः, दाहेन ज्वरेण रुजया चान्विता युक्ताः, दाहः सर्वाङ्गीणसन्तापः| अथवा दाहज्वरो दाहादिज्वरः मसूरमात्राः मसूरप्रमाणाः तद्वर्णा मसूरतुल्यवर्णाः लोहिता इत्यर्थः| घना निबिडतया निरन्तरप्रसृताः पिटकास्तत्संज्ञाः मसूरिकासंज्ञाः| मसूरिकाया रक्तपित्तत्वमाह भोजः| उक्तञ्च- पित्तं शोणितसंसृष्टं त्वचं दूषयते यदा| करोति पिटकां घोरां सर्वगात्रेषु देहिनाम्|| तिलसर्षपमाषाणं निष्पावानां तथैव च| तुल्यप्रमाणसंस्थानां दाहज्वरसमन्विताम्|| विद्यान्मसूरिकामेतां पिटकां रक्तपित्तजाम्|| इति| उरभ्रस्तु नामानुगतरूपभेदेनास्या अष्टविधत्वमाह| उक्तञ्च- मसूरिका सर्षपिका अजका कोद्रवस्तथा| कङ्गुर्विस्फोटकोऽपाकी विसर्पी चाष्टमी स्मृता|| सोषकण्डूज्वरां ताम्रां सूक्ष्मामाहुर्मसूरिकाम्| सर्षपाकृतितद्वर्णां दाहपाकरुजावतीम्|| रक्ताभमूत्रां दुस्साधां पित्तात् सर्षपिकां जगुः| कलायसदृशां गाढां शाखापर्वास्यशोफिनीम्|| दाहक्लेदव्रणामूचु रजकां श्लेष्मपित्तजाम्| कोद्रवं कोद्रवाकारं रक्तपित्तसमुद्भवम्|| कङ्गोस्तण्डुलसङ्काशैर्निरन्तरविसर्पिभिः| स्फोटैः श्लेष्मसमुद्भूतैरापूर्णं कङ्गुरिष्यते|| अग्निदग्धैरिव स्फोटैराकीर्णः कफरक्तजः| निर्विपाको विसर्पस्तु विस्फोटक इति स्मृतः|| अपाकं विरलं शुष्कं जायते मृत्युसन्निभम्| विसर्पवत् सर्पति सर्वगात्रे शोफान्विता च ज्वरदाहयुक्ता| विसर्पिणी कायसमानवर्णा कालोपकल्पा कफरक्तजा तु|| विदाहकम्पातिरुजातिसारैस्तृष्णार्तिहिक्कारुचिकासमोहैः| युक्तानि हन्त्याशु मसूरिकान्तर्मुखा च बाह्ये किणसन्निभा च|| ज्वरास्यशोषाङ्गविमर्द्दकाससन्धिश्लथत्वारुचिरोमहर्षाः| शिरोर्त्तिनेत्रामयपीनसाश्च मसूरिकाणां प्रभवन्ति चाग्रे|| त्वगक्षिरोगापस्मारराजयक्ष्ममसूरिकाः| दर्शनात् स्पर्शनाद्दानात् सङ्क्रामन्ति नरान्नरम्|| इति| पृथग्दोषसंसर्गसन्निपातविषद्रुमप्रसवाघ्राणजत्वभेदेनास्या नवविधत्वमाख्यातवान् भरद्वाजः| पृथग्दोषसन्निपातरक्तागन्तुजत्वभेदेन षड्विधत्वमाह वृद्धकाश्यपः| तत्सर्वं ग्रन्थगौरवभयादत्र न लिख्यते|| १०||

Adhikarana visphoTAH (11) · Śloka 11

ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः||११||

🔊 Audio coming soon

ततो मसूरिकातः सर्वेण प्रकारेण कष्टतरा महारुजाः स्फोटास्त आख्यया विस्फोटाः| (कष्टतराः अतिशयितपीडायुक्ताः निरन्तरचितस्फोटसर्वाङ्गतयाऽसनशयनाद्येषु कथञ्चिदलब्धशर्मतयाऽनल्पवेदना युक्ता इत्यर्थः| विस्फोटस्य पित्तजत्वमाह भोजः- पित्तं प्रकुपितं स्थानात्त्वचं बाह्यां समाश्रितम्| करोति त्वग्गतान् स्फोटानग्निदग्धोपमान् बहून्|| सर्वदेहाश्रयं जन्तोर्ज्वरदाहसमन्वितान्| नानाप्रकारसंस्थानान् विद्याद्विस्फोटकान्नृप|| इति| जातूकर्णेऽपि- उषाचोषपरीदाह ज्वराङ्गसदनान्विताः| जायन्ते पित्तवैषम्याद्विस्फोटाः सर्वदेहगाः|| इति|| ११||

Adhikarana viddhA gardabhI ca (12) · Śloka 12

या पद्मकर्णिकाकारा पिटका पिटकाचिता| सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी||१२||

🔊 Audio coming soon

वातपित्ताभ्यां या पद्मकर्णिकाकारा अग्रे महती तनुमूला पिटकाभिरन्याभिराचिता पिटका सा नाम्ना विद्धा भवति| ताभ्यामेवेति वातपित्ताभ्यामेव गर्दभी नाम पिटका भवति| अस्याः पद्मकर्णिकाकारत्वं न भवतीत्यर्थात्|| १२||

Adhikarana maNDalA (13) · Śloka 13

मण्डला विपुलोत्सन्ना सरागपिटकाचिता||१३||

🔊 Audio coming soon

प्रकरणाद्वातपित्ताभ्यामेव या विपुला विस्तृता उत्सन्ना प्राप्तोत्सेधा सरागाभिरन्याभिः पिटकाभिश्चाचिता सा नाम्ना मण्डला||१३||

Adhikarana kakShyA gandhanAmA ca (14) · Śloka 14

कक्ष्येति कक्षासन्नेषु प्रायो देशेषु सानिलात्| पित्ताद्भवन्ति पिटकाः सूक्ष्मा लाजोपमा घनाः| तादृशी महती त्वेका गन्धनामेति कीर्तिता||१४||

🔊 Audio coming soon

सानिलात् प्रधानात् पित्तात् प्रायः कक्षासन्नेषु प्रदेशेषु सूक्ष्मा लाजसदृशा घनाश्च पिटका भवन्ति स रोगो नाम्ना कक्ष्या| तादृशीति कक्षासन्नेषु सानिलात्| पित्तात् या महत्येका पिटका सा नाम्ना गन्धनामा इति कीर्तिता| (प्रायः शब्देनास्योपेक्षया सकलशरीरख्यापकत्वं सूचितम्| कक्षासन्नेषु प्रदेशेषु बाहुपार्श्वादिष्वित्यर्थः| उक्तं च सौश्रुते- बाहुपार्श्वांसकक्षेषु कृष्णाः स्फोटाः सुदारुणाः| पित्तप्रकोपसम्भूताः कक्ष्यामिति विनिर्दिशेत्|| इति| तादृशीति| आकृत्या कक्ष्यासदृशी| महती स्थूला| एका अद्वितीया| एका तु महती इति योजनायामनेकपिटकामध्ये एकस्या महत्त्वमिति च प्रतीयते| एतमर्थं पित्तकारणत्वं चाह धन्वन्तरिः- एकामेतादृशी दृष्ट्वा पिटकां स्फोटकाचिताम्| त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षत|| इति|| १४||

Adhikarana rAjikAH (15) · Śloka 15

घर्मस्वेदपरीतेऽङ्गे पिटकाः सरुजो घनाः| राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः||१५||

🔊 Audio coming soon

घर्मेणातपेन स्वेदेन वा परीते समायुक्ते चाङ्गे देहे सरुजत्वादिगुणा याः पिटकास्ता नाम्ना राजिकाह्वयाः राजिकासंज्ञाः| राजिका रक्तसर्षपास्ताभिस्तुल्यं वर्णादि यासां पिटकानां तास्तथोक्ताः| (स्वेदः स्वेदविध्युक्ततापोपनाहादिजनितः| संस्थानेनैव प्रमाणसिद्धेः पुनरपि प्रमाणकथनं प्रमाणाधिक्ये एतद् भ्रान्तिनिरासार्थम्| अनुक्तकारणत्वादत्राप्यनिलपित्तजत्वमूह्यम्)||१५||

Adhikarana jAlagardabhaH (16) · Śloka 16

दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत्| शोफो पाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः||१६||

🔊 Audio coming soon

पित्तोल्बणैस्त्रिभिर्दोषैर्मन्दैश्चिरकारिभिः क्रमेण विसर्पवत्तनुत्वादिगुणः पाकरहितश्च यः शोफो विसर्पति व्याप्नोति स नाम्ना जालगर्दभः|| १६||

Adhikarana agnirohiNI (17) · Śloka 17

मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः| कक्ष्याभागेषु जायन्ते येऽग्न्याभाः साऽग्निरोहिणी| पञ्चाहात् सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम्||१७||

🔊 Audio coming soon

पित्तोल्बणैस्त्रिभिर्दोषैर्ये ज्वरादियुता मांसदारणाः स्फोटा वर्णदाहव्याप्त्यादिकेनाग्निसदृशाः कक्ष्यासन्नेषु प्रदेशेषु जायन्ते साग्निरोहिणीत्युच्यते| सा चाग्निरोहिणी दोषकोपवशात् पञ्चाहेन सप्तरात्रेण पक्षेण वा जीवितं हन्ति| (पित्तोल्बणैरुद्रिक्तपित्तैर्मलैर्वातादिभिः ज्वरिणः सज्वरस्य पुरुषस्य| ज्वरिण इति स्फोटविशेषणं वा आमरणान्तं ज्वरकारिण इत्यर्थः| कक्ष्याभागेषु| अत्र भागशब्दस्य बहुवचनोक्त्या न केवलं कक्ष्यैव तत्समीपवर्तिनोऽन्येऽपि प्रदेशा गृह्यन्ते| उक्तं च सौश्रुते- स्फोटाः कक्षंसपार्श्वेषु जायन्ते मांसदारणाः| अन्तर्दाहज्वराकारा दीप्तपावकसन्निभाः|| सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्| तामग्निरोहिणी विद्यादसाध्यां सन्निपाततः|| इति| मांसदारिणः मांसदरणशीलाः| अनेनैशामन्तर्मूलत्वं ध्वन्यते| आग्न्याभाः वर्णौष्ण्यादिभिरग्निसदृशाः| य एवंविधा विस्फोटा जायन्ते सा नाम्ना अग्निरोहिणीति प्रसिद्धा| सा पञ्चाहात् पञ्चदिवसात् पूर्वमिति शेषः| सप्तरात्रात् सप्तदिवसात् पक्षात्पञ्चदशदिवसाद्वा जीवितं नाशयति| असाध्यप्रकरणात्पञ्च्चाहादेः परमिति वा| सन्निपातजाया अप्यस्या असाध्यमर्यादायास्त्रैविध्यकथनमेकैकदोषोद्रेकात्| तत्राशुकारिणः पित्तस्योद्रेककथनात्पित्तवातकफजस्थितिक्रमोऽपि बोद्धव्यः )|| १७||

Adhikarana irigallikA (18) · Śloka 18

त्रिलिङ्गा पिटका वृत्ता जत्रूर्ध्वमिरिगल्लिका||१८||

🔊 Audio coming soon

जत्रुण ऊर्ध्वं त्रिलिङ्गा त्रिदोषलक्षणा वृत्ता या पिटका सा इरिगल्लिकेत्युच्यते| (अस्या अपि सन्निपातजत्वादुग्ररुग्ज्वरादिसहितत्वं द्योत्यते| उक्तञ्च धन्वन्तरिणा _ पिटकामुत्तमाङ्गस्थां वृत्तामुग्ररुजां ज्वराम्| सर्वात्मिकां सर्वलिङ्गां जानीयादिरिगल्लिकाम्|| इति|| १८||

Adhikarana vidArI (19) · Śloka 19

विदारीकन्दकठिना विदारी कक्षवङ्क्षणे||१९||

🔊 Audio coming soon

कक्षे वङ्क्षणे वा या विदारीकन्दवत् कठिना पिटका सा विदारी नाम्ना| अत्रापि त्रिलिङ्गत्वमूह्यम्| उक्तञ्च धन्वन्तरिणा विदारीकन्दवद्धृत्ता कक्षवङ्क्षणसन्धिषु| विदारिका सा विज्ञेया सरुजा सर्वलक्षणा|| इति|| १९||

Adhikarana sharkarArbudam (20) · Śloka 20

मेदोऽनिलकर्फर्ग्रन्थिः स्नायुमांससिराश्रयैः| भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः| मांसं विशोष्य ग्रथितां शर्करामुपपादयेत्| दुर्गन्धिरुधिरं क्लिन्नं नानावर्णंततो मलाः| तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्||२०||

🔊 Audio coming soon

स्नाय्वाद्याश्रयैः मेदःप्रभृतिभिः प्रथमं ग्रन्थिर्भवति| ततः स एव स्वयं भिन्नो वसादिसदृशं स्रवेत्| तत्र स्रावयुक्ते ग्रन्थावनिलो वायुरुल्बणः प्राप्तबलो मांसं विशोष्य ग्रथितां कठिनां शर्करामुपपादयेत्| ततोऽनन्तरं मला वातादयो निचिता वृद्धाः सन्तः तां शर्करां दुर्गन्धत्वादियुक्तं रुधिरं स्रावयन्ति| तस्य रोगस्य शर्करार्बुदमिति संज्ञा| (स्नायुमांससिराश्रयैः स्नायुर्मांसं सिराश्च आश्रयो येषां तैः मेदोऽनिलकफैः कृतो यो ग्रन्थिः स स्वयं भिन्नः वसाज्यमध्वाभं वसाघ्रुतमधुनिभं यत्किञ्चित् स्रवेत्| तत्र तस्मिन् काले अनिल उल्बणः आस्रावाल्लब्धावकाशतया वृद्धिं गतः मांसं विशोष्य शोषयित्वा ग्रथितां ग्रथनात् काठिन्ययुक्तां शर्करां शर्करातुल्यत्वाच्छर्कराम् (शर्करा चरत्कल्ल्) उपपादयेत् परिणामयेत्| ततोऽनन्तरं मला वातादयो (निचितामिति पाठः)| निचितां वृद्धां तां शर्करां दुर्गन्धि दुर्गन्धयुक्तं क्लिन्नं क्लेदयुक्तं नानावर्णं सन्निपातजत्वात् सङ्कीर्णवर्णं रुधिरं रक्तं स्रावयन्ति शर्करातः सिरामुखेन स्रावयन्तीत्यर्थः| उक्तञ्च दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः| स्रवन्ति सहसा रक्तं विद्यात्तच्छर्करार्बुदम्|| इति| यदेवंविधं तच्छर्करार्बुदं विद्यात्)|| २०||

Adhikarana valmIkaH (21) · Śloka 21

पाणिपादतले सन्धौ जत्रूर्ध्वं वोपचीयते| वल्मीकवच्छनैर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः| रुग्दाहकण्डूक्लेदाड्यैर्वल्मीकोऽसौ समस्तजः||२१||

🔊 Audio coming soon

पाणिपादतलादिके ग्रन्थिरुपचयं प्राप्नोति| तद्वदिति शर्करार्बुदग्रन्थ्युक्तहेतुना| वल्मीकवत्पिपीलिकास्थाणुवत्क्रमवृद्ध्या च बहुभिरणुभिश्च रुग्दाहाद्याढ्यैर्मुखैरुपलक्षितः| असौ रोगो नाम्ना वल्मीकः| अस्य पूर्वस्माद्विशेषः समस्तजत्वं सन्निपातजत्वम्| (पाणितले पादतले सन्धौ कक्षादिके जत्रूर्ध्वं जत्रोरुपरि भागे वा वल्मीकवत् वल्मीकसदृशं ग्रन्थिर्ग्रथितः शोफः तद्वद्वल्मीकवत् बह्वणुभिः बहुभिरसङ्ख्यैरणुभिः सूक्ष्मैः रुग्दाहकण्डूक्लेदाढ्यैः रुगादि परिपूर्णैर्मुखैः पूयोद्गमनद्वारैः शनैर्मन्दं मन्दं उपचीयते उपचयं प्राप्नोति| उपचयो वृद्धिः| समस्तजः सन्निपातजः| असौ वल्मीकः वल्मीकाख्यः क्षुद्ररोगः)|| २१||

Adhikarana kadaram (22) · Śloka 22

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः| ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत्||२२||

🔊 Audio coming soon

शर्करया शिलाखण्डिकया पाद उन्मथिते अथवा कण्टकादिभिः क्षते कीलवत् सोत्सेधो ग्रन्थिर्जायते, तत्तु कदरं नाम्ना भवति| (शर्कराभिरुन्मथिते कृत्तोन्मथने निरन्तरनिचितशर्कराप्रदेशाटनादित्यर्थः| कण्टकादिभिः, आदिशब्देन निशिताग्रदारुशकलादिपरिग्रहः| क्षते व्रणिते वा शब्द उन्मथनक्षतयोर्विकल्पार्थः| पादे पादतले कीलवत् उत्सन्न उन्नतः ग्रन्थिर्जायते| कीलसाम्येन निखातकीलवदत्यन्तवेदनाकरत्वं च द्योत्यते| तत्तु विशेषे कदरं कदराख्यः क्षुद्ररोगः)|| २२||

Adhikarana ruddhagudam (23) · Śloka 23

वेगसन्धारणाद्वायुरपानोपानसंश्रयम्| अणूकरोति बाह्यन्तर्मार्गमस्य ततः शकृत्| कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः||२३||

🔊 Audio coming soon

अपानाख्यो वायुर्वेगरोधाद्धेतोरपानसंश्रयं गुदसंश्रयं मार्गं बाह्यान्तरणूकरोति सङ्कोचयति| ततः अणूकरणाद्धेतोरस्य पुंसः शकृत् पुरीषं कृच्छ्रान्निर्गच्छति| अयं व्याधिर्नाम्ना रुद्धगुदो मत आचार्याणाम् (वेगस्सन्धारणात् अधो वातपुरीषादिवेगधारणात्कुपितः अपानो वायुर्गुदाश्रयः| अस्य गुदस्य बाह्यान्तर्मार्गं वलीत्रितयमित्यर्थः| अपानसंश्रयः इति च पाठः)|| २३||

Adhikarana cippam (24) · Śloka 24

कुर्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्| चिप्पमक्षतरोगं च विद्यादुपनखं च तम्||२४||

🔊 Audio coming soon

पित्तानिलं कर्तृनखमांसे सरुग्ज्वरं पाकं कुर्यात्| तस्य रोगस्य चिप्पमित्यक्षतरोमित्युपनखमिति च नामत्रयम्| (पित्तं चानिलश्च पित्तानिलम्| अत्र सर्वोऽपि द्वन्द्वः समाहारार्थ एकवत् स्यादिति द्वन्द्वस्यैकवद्भावः, स नपुंसकमिति नपुंसकत्वञ्च| नखमांसे नखसम्बन्धिन्यन्तर्बहिमांसे सरुग्ज्वरं रुग्ज्वरोपेतं पाकं कुर्यात्| तं रोगं चिप्पाख्यमक्षतरोगाख्यमुपनखाख्यञ्च विद्याज्जानीयात्)||२४||

Adhikarana kunakhaH (25) · Śloka 25

कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः||२५||

🔊 Audio coming soon

अभिघाताद्धेतोर्यः कृष्णो रूक्षः खरश्च नखो भवति स रोगो नाम्ना कुनखो भवति| (स्खलनशिलादार्वादिपतनजनितादभिघाताद्धेतोः)|| २५||

Adhikarana alasam (26) · Śloka 26

दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः| अङ्गुल्योऽलसमित्याहुः ..........................||२६||

🔊 Audio coming soon

दुष्टकर्दमस्य संस्पर्शात् कण्ड्वादियुता अङ्गुल्यः अलसमित्याहुः| (दुष्टकर्दमसंस्पर्शात् कृम्यादिदूषितमलमयपङ्कस्पर्शशीलनात्| अत्र कफपित्तकारणत्वं शास्त्रान्तरादवगन्तव्यम्| उक्तञ्च दुष्टकर्दमसंस्पर्शात् पादाङ्गुल्यन्तरे व्रणम्| कण्डूषाक्लेदकोथाड्यं स पित्तः कुरुते कफः|| इति|| २६||

Adhikarana tilakAlakAdirogAH (27) · Śloka 27

........................तिलाभांस्तिलकालकान्| कृष्णानवेदनांस्त्वक्स्थान् मशांस्तानेव चोन्नतान्| मशेभ्यस्तून्नततरान् चर्मकीलान् सितासितान्| तथाविधो जतुमणिः सरुजो लोहितस्तु सः||२७||

🔊 Audio coming soon

कृष्णादिगुणान् त्वक्स्थान् तिलाभान् तिलकालकानाहुः| (तिलाभान् तिलप्रमाणान्| उक्तञ्च शास्त्रान्तरे कृष्णास्तिलप्रमाणा ये नीरुजाः पिटकाः समाः| वातपित्तप्रकोपेन तान् विद्यात्तिलकालकान्|| इति)| उन्नतांस्तानेव मशानाहुः| (उन्नतान् किञ्चिदुत्सन्नान् तांस्तिलकालकान् एव शब्देनाकृतिमात्रस्य विशेष इति द्योत्यते| उक्तञ्च अवेदनं स्थिरं चैव यत्तु गात्रे प्रजायते| माषवत्कृष्णमुत्सन्नं तद्वातान्मशमादिशेत्|| इति)| तेभ्योऽप्युन्नततरान् सितासितान् चर्मकीलानाहुः| (सितासितान् कांश्चित् सितान् कांश्चिदसितान्| अर्शोनिदानोक्तचर्मकीलान्तु सितासितत्वविशेषः)| तथाविधः सरुजो लोहितश्च यः स नाम्ना जतुमणीः| (तथाविधः चर्मकीलतुल्यः| सहजो लोहित इति च पाठः| स जतुर्मणिस्तु विशेषे| सहजः देहेन सहजातश्चेल्लोहितो रक्तवर्णः)|| २७||

Adhikarana lA~jchanam (28) · Śloka 28

कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्||२८||

🔊 Audio coming soon

शरीरे यत्कृष्णं वा सितं वा सहजं समं मण्डलं तल्लाञ्छ नमित्युच्यते| (सहजातं सहजम्| समं निम्नोन्नतरहितम्)|| २८||

Adhikarana vya~ggaM nIlikA ca (29) · Śloka 29

शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु| श्यामलं मण्डलं व्यङ्गं वक्त्रादन्यत्र नीलिका||२९||

🔊 Audio coming soon

शोकादिकुपिताद्वातपित्तात्तनुत्वादिगुणं यन्मुखे मण्डलं तन्नाम्ना व्यङ्गम्| तदेव वक्त्रादन्यत्र देशे स्थितं नीलिकेति नाम लभते| सा च स्वरूपाविशेषान्न रोगान्तरम्| (व्यङ्गनीलिकयोः संज्ञाभेदस्य स्थानमात्रजनितत्वाद्वक्ष्यमाणाषट्त्रिंशत्संख्यायामेकत्वेनैव संख्यानं कार्यम्, न पृथक्त्वेन|| २९||

Adhikarana doShavibhAgena vya~ggalakShaNam (30) · Śloka 30

परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्| पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात्| रक्ताद्रक्तान्तमाताम्रं सोषं चिमिचिमायते||३०||

🔊 Audio coming soon

तद्व्यङ्गं मारुतात्परुषादिरूपं ताम्रपर्यन्तमानीलञ्च पित्तात्| श्वेतपर्यन्तं कण्डुमच्च कफात्| रक्तपर्यन्तादिरूपं रक्ताद्व्यङ्गं भवति| सह ऊषेण स्वेदारतिमता प्रादेशिकेन दाहेन वर्तत इति सोषम्| (पित्तानिलजे व्यङ्गे कफरक्तयोरुद्रेककथनमयुक्तमिति चेद् ब्रूमः'आश्रयिभावनतोऽपि ह्याश्रयदोषाश्रयाद्रुधिरम्| व्यङ्गेऽनिलपित्तकृतेऽप्याधिक्येन दर्शयेद्रूपमि' त्यादिवचनात्तदपि युक्तमेव|| ३०||

Adhikarana prasuptiH (31) · Śloka 31

वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति| ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना| अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः||३१||

🔊 Audio coming soon

वायुना उदीरितः स्थानात् क्षिप्तः श्लेष्मा त्वचं प्राप्य वायुनैव शुष्यति| ततस्त्वक् पाण्डुत्वादिगुणा जायते सम्पद्यते| सा प्रसुप्तितः अचैतन्याद्धेतोः प्रसुप्तिरित्युच्यते| (ततस्तस्माद्धेतोः त्वक् पाण्डुः पाण्डुरवर्णा क्रमेण विचेतना च भवति| यदा यदा पवनो दीरितेन त्वग्गतेन शुष्केण श्लेष्मणा त्वक्पूर्यते तदा तदा निरवकाशतया तत्र रक्तादिवहनाभावाच्चेतनाहानिः स्यादिति क्रमार्थः| त्वचश्चेतना स्पर्शविज्ञानं तेन हीना विचेतना)|| ३१||

Adhikarana utkoThaH koThashca (32) · Śloka 32

असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः| मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च| उत्कोठः सोऽनुबन्धस्तु कोठ इत्यभिधीयते||३२||

🔊 Audio coming soon

असम्यग्वमनेनोदीर्णयोः पित्तश्लेष्मणोरन्नस्य च निग्रहेण वेगधारणेन देहेऽतिकण्डुत्वादियुक्तानि मण्डलानि भवन्ति| एष च रोग उत्कोठ इत्यभिधीयते| स एवानुबन्धः सन् कोठसंज्ञां लभते| (अल्पवीर्येणाल्पमात्रेण वा वमनद्रव्येण कृतं वमनमसम्यग्वमनं तेनान्तःसञ्चितमलनिर्हर्तुमसमर्थतया उन्मुखीकरणमुदीर्णता| पित्तश्लेष्मणोर्निग्रहः पुनर्वमनविरेचनाभावः| अन्ननिग्रह उपवासः| स एवोत्कोठो ज्वराद्यनुबन्धयुक्तश्चेत् कोठः| मण्डलानामेवान्योन्यानुबन्ध इति केचित्)|| ३२||

Adhikarana uktarogANAM sa~gkhyAnam (33-36) · Śloka 36

प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः| यान् विज्ञाय न सम्मुह्येच्चिकित्सायां चिकित्सकः||३३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे क्षुद्ररोग विज्ञानीयो नाम षट्त्रिंशोऽध्यायः||३६||

🔊 Audio coming soon

इत्यन्तरोक्तप्रकारेण एते अजगल्लिका- यवप्रख्या-अलजीकच्छपी-पनसिका-पाषाणगर्दभ-मुखदूषिका-पद्मकण्टकविवृता-मसूरिका-विस्फोट-विद्धा-गर्दभी-मण्डला-कक्ष्या-गन्धनामा-राजिका-जालगर्दभा-अग्निरोहिणी-इरिवेल्लिका-विदारी-शर्करार्बुद-वल्मीक-कदर-रुद्धगुद-चिप्प-कुनखा-आलसतिलकालक-मश-चर्मकील-जतुमणि-लञ्छन-व्यङ्ग-प्रसुप्ति-उत्कोठाख्याः षट्त्रिंशत्क्षुद्ररोगा विभागश उक्ताः| यान् विज्ञायभिषक् चिकित्सायां न सम्मुह्येदिति|| ३३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे षट्त्रिंशोऽध्यायः