Adhikarana atha li~gganAshapratiShedho nAma saptadasho~adhyAyaH - pra (1) · Śloka 1
अथातो लिङ्गनाशप्रतिशेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
लिङ्गनाशस्य दुःसाधत्वात् पृथक् चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana li~gganAshaparyAyAH - upadravAshca (2) · Śloka 2
लिङ्गनाशे नीलिका पटलमान्ध्यमिति पर्यायाः|
सः श्लैष्मिक एव प्राक् साध्योऽभिहितः|
तस्य पुनः षडुपद्रवाः-आवर्त्तकी, शर्करा, राजीमती, छिन्नांशुका, चन्द्रकी छत्रकी चेति||२||
लिङ्गनाशस्य व्यवहारार्थं पर्यायकीर्तनम्| सुबोधम्| प्रागिति दृष्टिरोगविज्ञानीये| तस्येति लिङ्गनाशस्य| उपद्रवोऽनुबन्धिरोगान्तरम् ||२||
Adhikarana upadravalakShaNAni (3) · Śloka 3
तत्र श्वेतारुणावर्त्तवदनवस्थिता दृष्टिरावर्त्तकी|
अर्कक्षीरलेशेनेव कूर्चिकापिण्डेनेव चाचिता शर्करा|
शालिशूकाभराज्यावृता राजीमती|
छिन्नविषमदग्धाभा सरुक् छिन्नांशुका|
कांस्यसमच्छाया चन्द्रकसंस्थाना चन्द्रकी|
नैकवर्णा छत्रनिभा छत्रकी|
ता न विध्येत्|
अपि च||३||
तत्रेत्यादिनाऽवर्त्तक्यादीनां षण्णां लक्षणम्| सुबोधम्| ता आवर्तक्यादीर्न विध्येत्| तद्वर्जितं लिङ्गनाशं विध्येदित्यर्थः| अपि चेत्यवेध्याया नीलिकाया लिङ्गनाशस्य समुच्चये| (आवर्त्तोऽम्भसां भ्रमस्तद्वदनवस्थिता चला| आवर्त्तकी तत्संज्ञो लिङ्गनाशोपद्रवः| एवं शर्करादयो वाच्याः| कूर्चिका क्षीरविकृतिः| आचिता समन्ताद्व्याप्ता| शालिशूकानामाभेवाभा यासां ताः शालिशूकाभाः शालिशूकाभाश्च ता राजयश्च ताभिरावृता| छिन्ना अन्तरान्तरा विच्छेदयुक्ता, विषमा विषमसंस्थाना, दग्धाभा दग्धप्रतीतियुक्ता च| सरुक् रुजासहिता| कांस्यं कंसलोहम्| चन्द्रकसंस्थाना चन्द्रकाकारा| चन्द्रकं मयुरबर्हाग्रम्| नैकवर्णाऽनेकवर्णा| छित्रनिभा किञ्चिदुन्नतत्वाच्छत्रसदृशी| छत्रमातपत्रम्)||३||
Adhikarana avedhyali~gganASalakShaNam (4) · Śloka 4
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्|
नाजीर्णभीरुवमितशिरः कर्णाक्षिशूलिनाम्|
नात्युष्णशीतवाताभ्रे नासम्पूर्णां च नीलिकाम्||४||
उपद्रवषट्कस्य लिङ्गमुक्त्वाऽनन्तरमवेध्यान् दर्शयति| असिरार्हा येषां सूत्रस्थाने सिराव्यधः प्रतिषिद्धस्तेषां नीलिकां तिमिरं न विध्येत्| सुबोधम्| असम्पूर्णा असञ्जाता||४||
Adhikarana asa~jjAtanIlikAlakShaNam (5) · Śloka 5
असञ्जाता ही विषमा दधिमस्ततनुश्च सा|
शलाकयाऽवघृष्टापि पुनरूर्ध्वं प्रपद्यते|
करोति वेदनां तीव्रां दृष्टिञ्च स्थगयेत्पुनः||५||
सा चासम्पूर्णा नीलिकाऽनेन लक्षणेन ज्ञातव्या| असञ्जाता असम्पूर्णा सा नीलिका विषमत्वादिरूपा भवति| विषामा क्वचित्तन्त्री क्वचित्समा| दधिमस्तुवत्तनुरघना| नेत्रच्छिद्रप्रविष्टया कुरवकमुखया शलाकयाऽवघृष्टाऽपि पुनरप्यूर्ध्वं नेत्रस्य प्रपद्यते| सुबोधम्| ( हृदये तु 'असञ्जातो हि विषमो दधिमस्तुनिभस्तनुः| शलाकयाऽवघृष्टोऽपि पुनरूर्ध्वं प्रपद्यते' इति पाठः| व्याख्या| असञ्जातोऽसम्पूर्णः| विषमो विषमसंस्थानः| अन्तःस्थितमलस्याऽसम्पूर्णतया कुत्रचित् सूक्ष्मत्वात् कुत्रचिन्निबिडत्वाच्च बहिर्निम्नोन्नतत्वयुक्तः| दधिमस्तुनिभोः दधिनिभो मस्तुनिभो वा| कदाचिद् दधिनिभः कदाचिन्मस्तुनिभ इति केचित्| तनुरघनः| शलाकया अवघृष्टोऽपि दृष्टिमण्डलान्नासां प्रति निर्लिखितोऽपि पुनरप्यूर्ध्वं प्रपद्यते| तीव्रां रुजं च करोति| पुनरवघर्षणादनन्तरं दृष्टिंदृष्टिमण्डलं स्थगयेदाच्छादयेत्)|| ५||
Adhikarana asampUrNanIlikAyAH gatiH (6) · Śloka 6
सा च सम्पूर्यते शीघ्रं श्लेष्मलैर्वातपित्तलैः|
चिरात् सोपद्रवा च स्यात्...........................||६||
सा चासम्पूर्णा नीलिका श्लेष्मलैराहारैराशु सम्पूर्यते वातपित्तलैः पुनश्चिरात्सम्पूर्यते आवर्तक्युपद्रवयुक्ता च स्यात्| (शीघ्रावच्छादने चिरावच्छादने च हेतुमाह-श्लेष्मलैरित्यादि| स असम्पूर्णवृद्धो लिङ्गनाशः श्लेष्मलैः श्लेष्मवर्धनैराहारादिभिराश्वचिरात् पूर्णतां प्राप्नोति| अन्यैरश्लेष्मलैराहारैः सोपद्रव उपद्रवैरावर्त्तक्यादिभिः सहिताश्चिरेण कालेन पूर्णो भवति )|| ६||
Adhikarana vyadhyanIlikAlakShaNam (7) · Śloka 7
.......................ंइष्प्रेक्ष्या त्वर्हति व्यधम्|७|
या तु निष्प्रेक्ष्या परिपूर्णत्वेनाविज्ञातसमया सा व्यधमर्हति||७||
Adhikarana li~gganASe SastrakarmavidhAnam (7) · Śloka 7
अथ स्निग्धस्य विरिक्तस्य घृतैः सम्भोजितस्य निशि रसेन प्रीणितोत्तमाङ्गस्याभुक्तवतः सज्जोपकरणस्य विमलेऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणेन लब्धमार्दवायां भूमौ प्रसादितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलम्बितशिरसः किञ्चिदुत्तानास्यस्य स्वां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य जङ्घयोरुपरिष्टान्नात्युच्छ्रितासननिविष्टो भिषक् दक्षिणहस्तानुलोममक्षिमुखवाष्पस्विन्नं निमीलितमीषदङ्गुष्ठोदरविमृदिततारकतया परिप्लुतदोषं सव्याङ्गुष्ठप्रददेशिनीभ्यामुन्मील्य दक्षिणमध्यमाप्रदेशिन्यङ्गुष्ठैर्निष्कम्पं गृहीतया शलाकया कृष्णभागाद्भागद्वयस्यापाङ्गादेकभागस्य च सङ्गमे दृषेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि सन्धौ विध्येत्|
एवमेव दक्षिणं दक्षिणाङ्गुष्ठप्रदेशिन्युन्मीलितमितरेण करेणैव चातुरस्य दक्षिणपार्श्वे स्थित्वा||७||
अथेत्यादिना लिङ्गनाशे सस्त्रकर्मविधानम्| रसेन मांसरसेन प्रीणितं तर्पितं नस्यादिनोत्तमाङ्गं यस्य स तथोक्तः| उपकरणानि तदुपयोगीनि| विदेहाधिपतिर्जनको राजा| प्रत्यादित्यमादित्याभिमुखम्| आस्तरणेन कुथादिना लब्धमार्दवा या भूमिस्तस्यां प्रसारितचरणयुग्मो योऽसङ्कुचितजानूपविष्टः| क्षितितलगतौ समतलौ द्वौ पाणी यस्य| हस्तस्यान्तर्भागस्तलः| इतरद्यत् प्रयुज्यमानकर्म ईक्षणं तस्माद् द्वितीयम्| ईक्षणं नेत्रम्| यच्चोपविष्टेन प्रसारितमातुरेण जानुयुग्मं तन्मध्ये कृत्वा कर्मयोग्यनैकट्येन कर्मसौकर्यापेक्षं योज्यम्| मुखवाष्पो वैद्यमुखोद्भवः| सव्यो वामः| प्रदेशिन्यङ्गुष्ठनिकटाङ्गुली| सहजन्मनि सन्धौ स्वाभाविके छिद्रे| इति दक्षिणहस्तेन व्यधः सव्यनेत्रे| एवमेव हस्तकर्मवैपरीत्येनातुरस्य दक्षिणं नेत्रं विध्येत्|| ७||
Adhikarana samyagviddhalakShaNam (8) · Śloka 8
अथ शब्दवदवेदनं साम्बुबिन्दुस्रुति च सम्यग्विद्धं विद्यात्|
प्रविष्टमात्रां च शालाकां धारयेत्|
रागाश्रुवेदनानुत्पादनार्थञ्च स्तन्येन सेचयेत्|
ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामादृष्टिमध्यात् प्रवेशयेत्||८||
अथेति| शब्दवदित्यादि सम्यग्विद्धलक्षणम्| सुबोधम्| शलाकायामन्तस्थितायामेव स्तन्येन सेकः| आदृष्टिमध्याद् दृष्टिमध्यं यावत् ||८||
Adhikarana vedhottaraM karma (9) · Śloka 9
अधश्चास्यावलोकयतो लिङ्गनाशमद्रुतमविलम्बितमनुसुखमधोमुखमपनयेदुच्छिङ्खयेच्चैनम्|
तथा हि दृक्स्रस्तकफस्य विशुध्यति|
विशुद्धदृष्टेश्चाङ्गुलिं तन्तून् ज्ञातीन् सन्ततींश्च दर्शयेत्|
प्रेक्षमाणस्य चानिमीलितान्नेत्राच्छन्नैः शनैः भ्रमयन्नेव शलाकामपकर्षेत्|
अथ व्यपगतदोषस्य यथावत् पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात्|
ततो निवातमागारमनुप्रवेश्य संवेश्य च सोपधाने मृदुशयने शयानं दक्षिणेऽक्षिणि विद्धे वामेन पार्श्वेन वामे दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपचारेत्|
यथाशक्ति चैनमुपवासयेत् उद्गारक्षवथुकासनिष्ठीवनोत्क्षेपणानि त्र्यहं परिहरेत्|
स्नानाम्बुपानदन्तधावनाधोमुखावस्थानानि सप्ताहम्|
स्नेहविधिं चेक्षेत|
मूर्ध्नि पादयोश्च घृताभ्यङ्गमाचरेत्|
तृतीये चाह्नि मुक्त्वाक्षि परिषेचयेदेरण्डपल्लवशृतेन दुग्धोष्णेन दुग्धेन|
जीवनीयैर्वा सिद्धेन पयसा हविषा वा|
तद्वल्लघुना पञ्चमूलेन|
ततः पूर्ववद् बध्नीयात्|
ततः प्रभृत्येवमेव प्रत्यहमासप्ताहम्|
सप्तमे तु दिवसे सर्वथा मोक्षयेत्|
दशमे वा|
भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलवणं वाट्यमुष्णोदकद्वितीयां विलेपीं वा|
एवमाचरतो रुजा रागादयौ नानुवर्त्तन्ते||९||
अस्येत्यातुरस्याधोभूमिदेशमीक्षमाणस्य नेत्राल्लिङ्गनाशमधोमुखं नेत्रस्याधोभागे अपनयेदाकर्षेत्| तथाहीत्युछिङ्खनेन स्रस्तकफत्वाद् दृग्विशुध्यति| शेषं व्याख्यासमम्| पिचु कार्पासचुलुकम्| स्नानादीनि सप्ताहं परिहरेदिति सम्बन्धः| स्नेहविधिं चेक्षेत तदुक्ताचारविधानाय| दोग्धोष्णं धारोष्णमेव यदेरण्डपल्लवश्रृतं दुग्धं क्षीरं तेन सेचयेत्| अथवा जीवनीयाख्यैः सिद्धेन क्षीरेण वा घृतेन वा सेचयेत्| तद्वदिति पयसा हविषा वा लघुपञ्चमूलसिद्धेन| पूर्ववदित्यर्मादिविधानेन| ततःप्रभृति प्रत्यहं विमुच्यैवमेव बध्नीयादित्यर्थः| दशमे वेति दोहाद्यपेक्षया| सर्वथेत्यपुनर्बन्धनाय| सुबोधम्| रुजा रागादय इत्यत्रादिशब्देनाश्वादयः|| ९||
Adhikarana rujAdyupadravacikitsA pathya~jca (10) · Śloka 10
तदनुवृत्तौ यष्टीमधुकलोध्रमृद्वीकासैन्धवैः सिद्धेन ससितेनऽजपयसा नयनमाश्च्योतयेत्|
मधुककुष्ठोत्पलद्राक्षालाक्षाशर्कराभिर्वा|
पृश्निपर्णीमुस्तमधुकशतावरीपद्मकसैन्धवैर्वा|
शिरोवक्त्रलेपञ्च सारिवागौरिकयवदूर्वाघृतैः कुर्यात्|
मातुलुङ्गरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः|
अजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमञ्जिष्ठायष्ट्याह्वैर्हिमः सुखोष्णो वा लेपः|
तद्वद्देवदारुनागरपद्मकैर्वा|
जाङ्गलरसेन च जीवनीयक्वाथवता भोजयेत्|
वातहरवर्गसिद्धेन च पयसा|
पद्मकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात्|
तथानुपशमे सिरां विध्येत्|
अधिमन्थसाधनं चेक्षेत||१०||
तदनुवृत्तौ रुजाद्यनुवृत्तौ तु यष्टीमधुकादिभिः सिद्धेनाजपयसा सशर्करेण नयनमाश्च्योतयेत्| मधुकादिभिर्वा नयनमाश्च्योतयेत्| अत्र सामर्थ्याज्जलम्| अथवा पृश्निपर्ण्यादिभिराश्च्योतयेत्| सारिवादिभिः शिरोवक्त्रलेपं च कुर्यात्| अथवा सर्षपयुक्तैस्तिलैस्तोकभृष्टैर्मातुलुङ्गस्य रसेनप्लुतैरालोडितैः शिरसो वक्त्रस्य च लेपः| अथवा पयस्यादिभिरजाक्षीरद्रुतैरालेपो हिमः सुखोष्णो वा शिरसि वक्त्रे चेति प्रकरणात्| पयस्या क्षीरिका| अथवा देवदार्वादिभिर्लेपस्तद्वदिति अजाक्षीरद्रुतो हिमः सुखोष्णो वा| जाङ्गलरसेनेत्यादि सुबोधम्| वातहरवर्गसिद्धेन च पयसा भोजयेदिति सम्बन्धः| अधिमन्थसाधनं सर्वगाक्षिरोगोक्तमीक्षेतानुष्ठानाय|| १०||
Adhikarana AcArAtikramapariNAmAstatropacArashca (11) · Śloka 11
यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति|
अभिष्यन्दाधिमन्थादयः स्युर्व्यधदोषाच्च|
तान्यथास्वमुपक्रमेत||११||
यथोक्तस्यानन्तरोक्तस्याचारस्यातिक्रमाल्लिङ्गनाशव्यधः पाकमुपयाति| अभिष्यन्दाधिमन्थादय इत्यत्रादिशब्देन सर्वेषां सर्वगाक्षिरोगाणां ग्रहणम्| व्यधदोषाच्चैवमेव भवेत्| तानित्यभिष्यन्दाधिमन्थादीन्यथास्वं चिकित्सयोपक्रमेत||११||
Adhikarana vyadhadoShAH tatropAyASca (12) · Śloka 12
व्यधदोषाः पुनरध ऊर्ध्वं कृष्णासन्नमपाङ्गासन्नं सिराव्यधश्च|
तत्राधोव्यधादत्यर्थशूलास्रस्रुतिरागाः शलाकायाश्चोपलेपो बहलपिच्छिलः कृष्णं वलिभिरुपचीयते नयनं स्रवति तद्वर्जयेत्|
ऊर्ध्वव्यधादतिमात्ररुक्|
तत्रात्युष्णघृतपरिषेको वातहरं च कर्म|
कृष्णासन्नव्यधान्न सुखमपनीयते पटलम्|
कृष्णे च रुजा|
दृष्टिरपि च रक्तावच्छादिता कृष्णमण्डलाभा भवति|
तत्र सर्पिस्सेकविरेकरक्तमोक्षैः सिद्धिः|
अपाङ्गासन्नव्यधाच्छोफशूलतोदभेदाः सास्राः स्रुतयः|
तत्र घृतसेकोपवासौ भ्रुवोरन्तरे च दाहः|
सिराव्यधाद्रक्तागमो विविधाश्च वेदनाः|
तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेकोऽपाङ्गे वा दाहः||१२||
व्यधदोषाच्च रोगाः स्युरित्युक्तम्| ते तु व्यधदोषा पुनरध इत्यादिना प्रदर्श्यन्ते| अत्यूर्ध्वमधः शलाकया वेध उक्त ऊर्ध्वाधोदोषः| एवमन्यदपि वाच्यम्| तत्रेति निर्धारणे| अधोव्यधादत्यर्थं शूलादित्रयं शलाकोपलेपादिकं च| बहलपिच्छिल इत्युपलेपविशेषणम्| कृष्णमिति नेत्रभागः| तदधोव्यधं वर्जयेदसाध्यत्वात्| ऊर्ध्वव्यधादित्यादि सुबोधम्| वातहरं कर्म यत्किञ्चित्सूत्रोक्तम्| कृष्णासन्नव्यधादिति| पटलं लिङ्गनाशः| दृष्टिः दृष्टिमण्डलम्| तत्रेति कृष्णासन्नव्यधे| सर्पिस्सेकादिभिः सिद्धी रोगोपशमाख्या| अपाङ्गस्यासन्ने समीपे व्यधाच्छोफादयः स्युस्तत्र घृतसेकादिकम्| सिराव्यधाद्रक्तागमादिस्तत्र सिराव्यधरोगे स्तन्यमधुकसिद्धेन सर्पिषा परिषेको दाहश्चापाङ्गे|| १२||
Adhikarana sirAjAle karmaviSeShaH (13) · Śloka 13
सिराजालवति तु नेत्रे प्राक् सिराजालमपनयेत्|
ततो लब्धबलं स्निग्धं च विध्येत्||१३||
सिराजालवति नेत्रे तु सिराजालं प्रागपनयेत्ततो लब्धबलादिकं नेत्रं विध्येत्|| १३||
Adhikarana SalAkABramaNadoShAH upacAraSca (14) · Śloka 14
अथ शलाकाभ्रमणदोषाः|
क्षोभणमूर्ध्वमधोऽत्यर्थदृष्टिघट्टनमतिदृष्टिप्रेरणञ्च|
शलाकाक्षोभणाद्धि स्पन्दनतोदभेदपरिमन्थाः|
तस्मिन् यष्टीमधुकपोट्टाल्या घृतमृदितया सेको जलौकसश्च|
ऊर्ध्वप्रणयनाद्रागोऽतिवेदना च|
तत्रोपवासो घृतसेकश्च स्पर्शसुखः|
अधोनयनाच्छूलं रक्तागमश्च|
तत्र सर्पिर्मण्डोऽनुवासनं नावनं च|
अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च|
तत्र सर्पिस्सेकोपवाजलौकसः||१४||
अथेत्यादिना शलाकाभ्रमणदोषाः| सुबोधम्| दृष्टिर्दृष्टिमण्डलम्| परिमन्थः परितो मथनमिव वेदनाविशेषः| दृष्ट्याकुलता आकुलदर्शित्वम्||१४||
Adhikarana li~gganASadoShAH upacAraSca (15) · Śloka 15
लिङ्गनाशदोषास्तु स्फुटनमवगलनं विस्तरणमुत्प्लवनं लीनता च|
तत्र शलाकया स्पृष्टो लिङ्गनाशो यः स्फुटति तमेरण्डपत्रस्विन्नं खण्डशः शोधयेत्|
ततः कृष्णासैन्धवमधुभिरवपीडनम्|
अवगलति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च शुण्ठीगुडं जलौकसश्च|
विस्तीर्यमाणो सुखोष्णाम्बुप्लुतेन वाससा स्वेदो घृतमण्डश्च प्रतिमर्शः|
तद्वदुत्प्लवमाने वित्रासनं शीताम्भसा प्रततं चोच्छिङ्खनं च||१५||
स्फुटनादयो लिङ्गनाशस्य स्वभावदोषाः| स्फुटनं मण्डलस्य बहुधाऽऽगमनम्| अवगलनं शलाकया स्प्रष्टुमशक्यत्वम्| शेषं सुबोधम्| एषां दोषाणां क्रमेण चिकित्सा च सुबोधा| अवपीडनं सूत्रोक्तलक्षणं नस्यम्| प्रतिमर्शो नासाभ्यङ्गः| वित्रासनं शीताम्भसा बिन्दुप्रक्षेपयुक्तेनोत्त्रासनम्| तद्वदित्यनेन पूर्वोक्तः स्वेदः प्रतिमर्शश्च||१५||
Adhikarana utplavanadoShe cikitsAviSeShaH (16) · Śloka 16
स्थिरे चले च दोषे पत्रभङ्गस्वेदः|
तथाऽप्यनपगच्छति शलाकापगमने वा पुनरुत्प्लवने स्नेहपाननस्यादिभिरुपाद्य पुनर्विध्येत्|
एवमपि पुनरुत्प्लवने भ्रुवोरन्तरे दाहः||१६||
स्थिर इत्यादिना उत्प्लवनविशेषचिकित्सोच्यते| सुबोधम्| तथापि स्वेदेनापि| यदा तु शलाकायामपनीतायां पुनर्दोष उत्प्लवते तदा स्नेहपानादिनोपपाद्य पुनर्विध्येत्| सुबोधम्| दाहः सूर्यकान्तादिना त्वग्दाहः||१६||
Adhikarana lInatAdoShe cikitsAviSeShaH (17) · Śloka 17
यस्त्वपकृष्यमाणो दृष्टिमण्डले लीयते तत्र क्षीरेण नाडीस्वेदं दद्यात्|
शताह्वामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्श इति||१७||
यस्त्वित्यादिना लीनतोच्यते| सुबोधम्| नाडीस्वेदः सूत्रोक्तलक्षणः| शतपुष्पामधुयष्टीचूर्णयुक्तं घृतं प्रतिमर्शः|| १७||
Adhikarana karmAvadhiviShaye sAmAnyaniyamAH (18) · Śloka 18
भवति चात्र वेध्येऽक्ष्णि कार्ये स्वेदादौ नियमोऽयं विधीयते|
स्वेददाहप्रतीमर्शान् सद्यो विद्धे तु सेचनम्|
अवपीडं तृतीयेऽह्नि युञ्ज्यात्तद्वज्जलौकसः|
सप्ताहान्ते सिरामोक्षं विरेकं बस्तिकर्म च|
यन्त्राणामनुरुध्येत दृष्टेरास्थैर्यलाभतः|
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्||१८||
गतानुगतिका| व्यधनीयेऽक्ष्णि स्वेदादौ कार्ये अयं नियमो विधीयते| क इत्याह-स्वेददाहेत्यादि| सुबोधम्| यावद् दृष्टेः स्थैर्यलाभस्तावद्यन्त्रणानुरोधः||१८||
Adhikarana SalAkAdoShAH (19) · Śloka 19
कुर्याच्छलाका स्थूलाग्रा विशालव्रणतां तनुः|
पटलोत्प्लवनं तीक्ष्णाक्षतमन्तः खरा रुजः|
कुण्ठा च विषमाश्रूणि ह्रस्वा दीर्घा च दुर्ग्रहा||१९||
कुर्यादित्यादिना शलाकादोषाः| सुबोधम्| कुण्ठा भुग्ना| विषमा निम्नोन्नता| ह्रस्वा वा दीर्घा वा दुग्रहा भवति||१९||
Adhikarana viddhe~akShNi a~jjanAni (20-17) · Śloka 17
आडकीमूलमरिचहरितालरसाञ्जनैः|
विद्धेऽक्ष्णि सगुडा वर्त्तिर्योज्या दिव्याम्बुपेषिता|
जातीशिरीषधवमेषविषाणपुष्प- वैडूर्यमौक्तिकफलं पयसा सुपिष्टम्|
आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम्|
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः|
स्रोतोजविद्रुमशिलाऽप्पतिफेनतीक्ष्णै- रस्यैव तुल्यमुदितं गुणकल्पनाभिः||२०||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे लिङ्गनाशप्रतिषेधो नाम सप्तडशोऽध्यायः||१७||
आढकीमूलादिभिर्दिव्याम्बुपेषिता सगुडा वर्तिविद्धेऽक्ष्णियोज्या| (विद्धे कृतलिङ्गनाशवेधेऽक्ष्णि नेत्रे आढकीमूलादिभिः सगुडा गुडोपेता दिव्याम्बुपेषिता गङ्गाजलपिष्टा वर्त्तिर्योज्या )| जात्यादिकमाजेन पयसा पिष्टममुना पिष्टेन च ताम्रं प्रतनु प्रदिग्धं सप्ताहतश्च पुनस्ताम्रपात्राद् गृहीत्वा क्षीरेण पिष्टं छायाशुष्कं पिण्डाञ्जनं विद्धेऽक्ष्णि हितं प्रसादजननं दृष्टेश्च बलकृत्| स्रोतोजादिकमस्यैव जात्यादिकस्य गुणैः कल्पनाभिश्चाजाक्षीरपेषणताम्रलेपनादिभिस्तुल्यमुदितम्| अप्पतिफेनः समुद्रफेनः| तीक्ष्णं मरिचम्|| २०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे सप्तदशोऽध्यायः