Adhikarana atha timirapratiShedho nAma ShoDasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
तिमिरस्य काचादिहेतुत्वेन प्राधान्यात् पृथक् प्रथमं चिकित्सां प्रदर्शयितुमध्याय आरभ्यते ||१||
Adhikarana timirANAM ghorarUpatvam (2) · Śloka 2
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया|
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्रुतम्||२||
सर्वेषु नेत्ररोगेषु यतो घोरं तिमिरमतस्तं द्रुतं शीघ्रं साधयेत्| घोरत्वे हेतुस्तिमिरमिथ्यादिकम्|| २||
Adhikarana jIvantyAdighRutam (3) · Śloka 3
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषिते|
तत्क्वाथे द्विगुणक्षीरं घ्रुतप्रस्थं विपाचयेत्|
प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः|
शताह्वामधुकद्राक्षासितादारुफलत्रयैः|
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम्||३||
जीवन्त्याद्यं घृतं व्याख्यासमम्| (तिमिरादीनां लेखनाञ्जनादिसाध्यत्वाल्लेखनस्य दृग्बलहानिकरत्वात्पूर्वं दृग्वलाधानकारणं घृतपानं प्रस्तौति )| जीवन्त्यास्तुलां पलशतमपां द्रोणे चतुष्षष्टिकुडवप्रमितेऽम्भसि पचेत श्रपयेत्| पादशेषिते षोडशकुडवावशिष्टे तत्क्वाथे जीवन्तीकषाये द्विगुणक्षीरमष्टकुडवप्रमितपयःसंयुतं घृतप्रस्थं कार्षिकैः कर्षप्रमाणैः प्रपौण्डरीकादिभिर्विपाचयेत् साधयेत्| तद् घृतं निशि स्वप्नकाले पीतं सेवितं परमतिशयेन तिमिरापहरं तिमिरघ्नम्|| ३||
Adhikarana drAkShAdighRutam (4) · Śloka 4
द्राक्षाचन्दनमञ्जिष्ठकाकोलीद्वयजीवकैः|
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः|
पच्चेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः|
हन्ति तच्छुक्लतिमिररक्तराजीशिरोरुजः||४||
द्राक्षाद्यं घृतं सुबोधम्| ( समक्षीरं घृततुल्येन क्षीरेण युक्तं जीर्णघृतस्य पुराणघृतस्य प्रस्थं कुडवचतुष्टयं पिचून्मितैः कर्षप्रमाणैः कल्कितैर्द्राक्षादिभिः पचेत्| पक्वं तद् घृतं काचादीन् हन्ति| रक्तराजी सिरोत्पातः| यस्य व्याधेर्यद्विशेषलक्षणं तदेव तस्य व्याधेः संज्ञान्तरत्वेन परिणमति| धूमदर्शनेन विना धूमरस्याभावाद्धूमरो धूमदर्शीत्युच्यते| धन्वन्तरिणा तु धूमरचिकित्सायामुक्तम्-'घृतं पिबेद्धूमदर्शी नरस्तु कुर्याद्विधिं पित्तहरं च सर्वम्|' इति| तथा रक्तराज्या विना सिरोत्पातस्यासम्भवाद्रक्तराजीत्युच्यते सिरोत्पातः| शङ्खवद्धवलत्वाच्छङ्खशुक्लम्| पाकात्ययहेतुत्वात् पाकात्ययशुक्लम्| इत्येवमादयः संज्ञाविशेषा बहवो दृश्यन्ते )|| ४||
Adhikarana paTolAdighRutam (5) · Śloka 5
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्|
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्|
प्रस्थमामलकानां च क्वाथयेदर्मणेऽम्भसः|
तदाढकेऽर्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्|
मुस्तभूनिम्बयष्ट्याह्वकुटजोदीव्यचन्दनैः|
सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित्|
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्|
विशेषाच्छुक्लतिमिरनक्तान्ध्योष्णाम्लदाहहृत्||५||
पटोलाद्ये घृते सामान्यपरिभाषणं स्मर्तव्यम्| दुष्टारूंषि पर्वण्युदीर्णमूलाः पिटिकाः| अपचिर्गण्डमाला| नक्तान्ध्यं दोषान्ध्यम्| उष्णशब्देनोष्णविदग्धोच्यते| अम्लशब्देनाम्लविदग्धा| सकलनेत्रावयज ऊष्मा दाहः| ( पृथक् पालिकं प्रत्येकं पलप्रमाणं धन्वयासादिसहितं पटोलादिकमामलकानां प्रस्थं चाम्भस सर्मणे जलद्रोणे क्वाथयेद्विपाचयेत्| तदाढके षोडशकुडवावशिष्टे तस्मिन् क्वाथे पिष्टैः कृतपेषणैरर्धपलिकैरर्धपलप्रमाणैर्व्योषचव्यसहितैर्मुस्तादिभिः कल्कैः सह घृतप्रस्थं पचेत्| पक्वं तत्सर्पिः सेव्यमानं घ्राणादिरोगजिद्भवति| घ्राणादीनां रोगशब्देन प्रत्येकं सम्बन्धः| दुष्टारुर्दुष्टव्रणः| आमलकस्योभयत्रोक्तेरुभयत्राप्युक्तप्रमाणं ग्राह्यम् )|| ५||
Adhikarana traiphalaM ghRutam (6) · Śloka 6
त्रिफलाऽष्टपलं क्वाथ्यं पादशेषं जलाढके|
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्|
अर्धप्रस्थे घृतात्सिद्धः सितया माक्षिकेण वा|
युक्तं पिबेत्तत्तिमिरि तद्युक्तं वा वरारसम्||६||
त्रिफलाष्टपलमित्यादिना त्रैफलं घृतं सुबोधम्| तदिति घृतम्| वरारसस्त्रिफलाकषायः| त्रिफलायाः प्रत्येकं विंशतिकाणाधिकमर्धाधिकपलद्वयम्| जलाढके षोडशकुडवप्रमिते जले पादशेषं प्रस्थावशेषं क्वाथ्यम्| तुल्यक्षीरेण तेन क्वाथेन पलप्रमाणत्रिफलाकल्कयुक्तो घृतादर्धप्रस्थः सिद्धः कृतपाकसंस्कारः कार्य इति शेषः| तिमिरी तिमिररोगयुक्तः पुरुषः| सितामाक्षिकान्यतरोपेतं तद् घृतं तद्युक्तं तेन घृतेन युक्तं वरारसं त्रिफलाकषायं वा पिबेत्|| ६||
Adhikarana mahAtraiPalaM GRutam (7) · Śloka 7
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः|
पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत् समैः|
अजाक्षीरवरावासामार्कवस्वरसैः पृथक्|
महात्रैफलमित्येतत परं दृष्टिविकारजित्||७||
यष्टीमध्वित्यादिना महात्रैफलं घृतम्| अत्राऽजाक्षीरादीनां पञ्चावध्यधोत्भवत्वान्मिश्राणामस्नेहसमत्वे प्राप्ते पृथक्समैरित्युक्तम्| ( पालिकैः पलप्रमाणैः ससिताद्राक्षैः सिताद्राक्षोपेतैर्यष्टीमध्वादिभिः कल्कैः| यष्टीमधुर्यष्टिमधुकम्| पृथक् प्रत्येकं समैस्तुल्यैः प्रस्थोन्मितैरित्यर्थः| अजाक्षीरेण वरावासामार्कवाणां पृथक् स्वरसैश्च घृतप्रस्थं प्रस्थोन्मितं घृतं पचेत्| महात्रैफलमिति प्रसिद्धमेतदेवं पक्वं घृतं परमतिशयेन दृष्टिविकारजित् दृष्ट्याऽऽश्रयांस्तिमिरादिविकारान् जयति )|| ७||
Adhikarana triPalAprayogaH (8) · Śloka 8
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि|
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्|
मासमेकं हिताहारः पिबन्नामल्कोदकम्|
सौपर्णं लभते चक्षुरित्याह भगवान् निमिः||८||
त्रैफलेन घृतेन त्रिफलाया लेहः सुबोधः|सौपर्णं चक्षुर्वैनतेयसम्बन्धि| ( अथ घृतपानादनन्तरम्| अथ शब्दत्तिमिरे घृतपानानन्तरमेवान्यत् सर्वं कर्म कर्तव्यमिति च सूचितम्| मासामाग्रहणायैकं मासमित्युक्तम्| हिताहारः पथ्याशी| आमलकोदकमामलकसिद्धमुदकं पानीयार्थे पिबन् यष्टीमधुकसंयुक्तां यष्ट्याह्वोपेतां मधुना माक्षिकेण परिप्लुतां सिक्ताम्| चशब्दः समुच्चये| त्रिफलां त्रैफलेन त्रिफलासिद्धेन हविषा घृतेन सह निशि रात्रौ लिहानः सौपर्णं सुपर्णसम्बन्धि| सुपर्णो गरुडः| चक्षुर्नेत्रं लभत इत्येवं भगवानैश्वर्यादिषडगुणपरिपूर्णो निमिर्नाम महर्षिराह| अत्र सौपर्णमिति मुख्यार्थबाधात्सुपर्णस्य चक्षुरिव चक्षुर्लभत इत्यर्थः )||८||
Adhikarana triPalAsambaddhaprayogAntarANi (9) · Śloka 9
गव्यं घृतं लोहरजोभाजने बादरे स्थितम्|
त्रिफलाचूर्णसहितं पीतं तिमिरनाशनम्|
पुराणं च सिताभीरुयष्टीमधुकचूर्णवत्|
निषिक्तमग्निवर्णैर्वा जीर्णं सर्पिरयोगुडैः|
हेमरूप्यायसैश्चूर्णैर्युक्तां वा त्रिफलां पृथक्|
घृतक्षौद्रान्वितामद्यात्केवलां वा विचूर्णिताम्|
ताप्यायस्त्रिफलाचूर्णं मधुजीर्णघृतद्रुतम्|
लोहपात्रे स्थितं मांसं माषराशौ च भक्षयेत्|
सक्तून् वाद्यात्ससर्पिष्कां त्रिफलाचूर्णसंयुतान्|
भुञ्जीत वा सुसिद्धेन सूपेनामलकैः सह|
प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक्पृथक्|
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः||९||
बदरकाष्ठमये पात्रे शस्त्रचूर्णयुतं गव्यं घृतमासंस्कारस्थितमनुद्य त्रिफलाचूर्णेन युक्तं पीतं तिमिरस्य नाशनं भवति| पुराणं घृतं च सितादियुक्तं पीतं तिमिरनाशनम्| अभीरुः शतावरी| अथवा जीर्णं सर्पिः पुराणं घृतमयोगुडैः शस्त्रपिण्डैस्तप्तत्वादग्निवणैर्निषिक्तमाप्लुतं पीतम्| पृथग् हेमादियुक्तां त्रिफलां घृतक्षौद्रान्वितामद्या| केवलामेव वा त्रिफलाम्| केवलशब्देन हेमादिसंयोगप्रतिषेधकेनानुगामिनोर्घृतक्षौद्रयोः प्रयोगे प्राप्ते विचूर्णितामित्युच्यते| केचित् घृतक्षौद्रमिच्छन्ति| ताप्यादिचूर्णं मधुजीर्णघृताभ्यां द्रुतमालोडितं मासं लौहपात्रे माषराशौ स्थितं भक्षयेत्| सक्तूनित्यादि अथवा यवसक्तून् सर्पिषा त्रिफलाचूर्णेन च संयुतानद्यात्| व्याख्यासमम्| पथ्यां हरीतकीं मृद्वीकया वा शर्करया वा क्षौद्रेण वेति पृथग् विकल्पार्थम्|| ९||
Adhikarana timiraghnaM nAvanam (10) · Śloka 10
क्वाथोसनात् भृङ्गरसस्तैलं कालतिलोद्भवम्|
लोहपात्रे तदेकत्र साधितं नावनं हितम्||१०||
असनक्वाथादिकं लोहपात्रे साधितं नावनम्| असनं बीजकम्| भृङ्गो मार्कवः|| १०||
Adhikarana timiraghnaM cUrNA~jjanam (11) · Śloka 11
स्रोतोजांशांश्चतुष्षष्टिं हेमायोरुप्यताम्रकैः|
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्|
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्|
रसस्कन्धकषायेण सप्तकृत्वः पृथक्पृथक्|
वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः|
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वं तिमिरापहम्||११||
स्रोतोऽञ्जनस्य चतुष्षष्टिर्भागाः| हेमादीनां प्रत्येकमेकेन भागेन युक्ताः| तेन हेमादीनां चतुर्णां मिश्रीभूतानां षोडशगुणमेकं स्रोतोऽञ्जनम्| तथाविधं स्रोतोऽञ्जनमन्धमूषिकाया उदरे स्थितमग्नौ ध्मापयित्वा समावृत्तं शिलायां चूर्णितं मधुरादिरसस्कन्धकषायेण प्रत्येकं सप्तवारान् भावितमनु च वैडूर्यादीनां त्रिभिर्भागैरेकभागोपमैर्युक्तं चूर्णाञ्जनं प्रयोज्यम्| मूषा मृन्मयी सुवर्णादिद्रुतत्वापादनेऽधिकरणम्| तस्या अन्धत्वं पिधानेनान्तर्धूमदाहाश्च|| ११||
Adhikarana aparaM cUrNA~jjanam (12) · Śloka 12
निर्दग्धं बदराङ्गारैस्तुत्थं चेत्थं निशोचितम्|
क्रमादजापयः सर्पिः क्षौद्रस्तस्मात् पलद्वयम्|
कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः|
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्|
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः|
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा||१२||
बदराङ्गारैर्निर्दग्धं तुत्थमित्थं पृथक् सप्तकृत्वः क्रमेणाजापयः प्रभृतिभिर्निषेचितं कृत्वा तस्मात् तुत्थात् पलद्वयं ताप्यादिभिः कार्षिकैः पलेन च मधुयष्ट्या युक्तं मूषान्तर्ध्मातं पश्चादवचूर्णितं भास्करचूर्णोऽयं सुशीलितः काचादीन् हन्ति विशेषात्तिमिरम्| यथा भास्कर आदित्यस्तिमिरम्|| १२||
Adhikarana sukhAvatI varttiH (13) · Śloka 13
मनोह्वासैन्धवव्योषशङ्खनाभीरसाञ्जनम्|
कतकं चन्दनं फेनो विडङ्गानि सितोपला|
कुक्कुटाण्डकपालञ्च जलपिष्टा सुखावती|
हन्त्येषा मधुना घृष्टा काचतैमिर्यशुक्लकान्||१३||
मनोह्वादिभिः सुखावतीनाम्ना वर्तिर्मधुना घृष्टा काचादीन् हन्ति||१३||
Adhikarana dRuShTipradA varttiH (14) · Śloka 14
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः|
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः|
आजेन पयसा पिष्ट्वा लेपयेत्ताम्रभाजनम्|
सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्त्तयेत्|
एषा दृष्टिप्रदा वर्त्तिरपि स्याद्भिन्नचक्षुषः||१४||
त्रिफलादिनाऽजाक्षीरपिष्टेन ताम्रभाजनं लेपयेत्| ततः सप्तरात्रे गते ताम्रभाजनाद् गृहीत्वा पुनश्च क्षीरेणाऽनेन पिष्ट्वा वर्त्तयेत् वर्त्तिभावमापादयेत्| एषा वर्त्तिर्यदि चक्षुर्भिन्नं तथाऽप्यवश्यं दृष्टिं ददाति||१४||
Adhikarana rAgavati timire~a~jjanadvayam (15) · Śloka 15
अञ्जनं कृष्णसर्पास्ये निहितं कुशवेष्टिते|
ततस्ततः समुद्धृत्य मासात्सञ्चूर्णयेत् सह|
सुमनः क्षारकैः शुष्कैरर्धांशैः सैन्धवेन च|
प्रयोजयेद्रागवति तिमिरे तद्वराञ्जनम्|
पयसा त्रयमेतच्च चूर्णयित्वा सुभावितम्||१५||
कुशैर्वेष्टिते कृष्णसर्पस्य मुखेऽञ्जनं सौवीरकं निहितं मासं स्थितमनन्तरं ततः कृष्णसर्पमुखात्समुद्धृत्य सुमनोमुकुलकैरञ्जनादर्धभागिकैः सह सञ्चूर्णयेत्| ततः सैन्धवेन च दोषापेक्षेण सह चूर्णयेत्| एतद्वरं श्रेष्ठमञ्जनं रागवति तिमिरे प्रयोज्यम्| एतच्च त्रयमित्यञ्जनसुमनःक्षारकसैन्धवाख्यं चूर्णं पयसा भावितमञ्जनाय द्वितीयः प्रयोगः रागवति तिमिरे|| १५||
Adhikarana pratidoShaM sAdhanopakramaH (16) · Śloka 16
सामान्यं साधनं त्वेतत्प्रतिदोषमतः श्रुणु||१६||
एतच्च यदुक्तं तत् तिमिरे सामान्यं साधनं चिकित्सितम्| अतोऽनन्तरं यत्प्रतिदोषं साधनं तत् श्रृण्विति शिष्यायाचार्यः कथयति||१६||
Adhikarana vAtajatimiracikitsA (17) · Śloka 17
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्|
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः|
त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्|
एरण्डतैलसंयुक्तं योजयेत विरेचनम्|
शङ्खिनीतिल्वकश्यामादन्तीर्निष्क्वाथ्य वा जले|
त्रिवृत्कल्कप्रतीवापं तेन पक्वं घृतं पिबेत्|
प्रपौण्डरीकबृहतीबलानलदसैन्धवैः|
दारुबिल्वाढकीकृष्णाहरिद्रामधुयष्टिभिः|
सिद्धं चतुर्गुणक्षीरं तैलं नस्तो निषेचयेत्|
सितैरण्डजटासिंहीफलदारुनिशानतैः|
शताह्वाबिल्वमूलैश्च तैलं पक्वं पयोन्वितम्|
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु|
वसाञ्जने वा वैयाघ्री वराही वा प्रशस्यते|
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्|
प्रत्यञ्जनं च स्रोतोजं रसक्षीरघृतैः क्रमात्|
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्|
न चेदेवं शमं याति ततस्तर्पणमाचरेत्|
शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः|
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः|
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्|
प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्|
वातपीनसवच्चात्र निरूहं सानुवासनम्||१७||
तत्रेति निर्धारणे| वातजे तिमिरे दशमूलाम्भसा दशमूलकषायेण त्रिफलाकल्केन च चतुर्गुणक्षीरं घृतं सिद्धं पिबेत्| ततो घृतपानादनन्तरं स्निग्धलक्षणे जाते विरेचनाय त्रिफलापञ्जमूलकषायं क्षीरेण समं दोषाद्यपेक्षमात्रेणैरण्डतैलेन संयुक्तं योजयेत्| अथवा शङ्खिन्यादिकं जले निष्क्वाथ्य तेन जलेन त्रिवृत्कल्कप्रतीवापं घृतं पक्वं पिबेत्| शङ्खिनी यवतिक्ता| तिल्वकं पट्टिकालोध्रम्| प्रपौण्डरीकादिभिः क्षीरचतुर्गुणं सिद्धं तैलं नस्यम्| नलदं मांसी| सितैरण्डादिभिः पयोऽन्वितं पक्वं तैलं नस्यं जत्रूर्ध्वजेषु सर्वेषु वातश्लेष्मामयेषु योज्यम्| व्याघ्रादीनां वसानामन्यतमा मधुयष्ट्या युक्ताऽञ्जनं योज्यम्| अत्र च वाततिमिरे स्रोतोऽञ्जनं क्रमाद्रसादिभिर्निषिक्तं भावितम्| पूरवदिति मधुकेनान्वितं प्रत्युञ्जनं योज्यम्| तदनुत्तमं तिमिरघ्नम्| तीक्ष्णाञ्जनस्य पश्चान्मृद्वञ्जनं प्रत्युञ्जनम्| न विद्यते उत्तमं यस्मात्तदनुत्तमम्| यदि चैवमनन्तरोक्तया क्रियया वाततिमिरं शमं न याति, ततः सूत्रस्थानप्रदर्शितं तर्पणमाचरेत्| शताह्वादिभिरष्टगुणक्षीरं सर्पिर्विपक्वमुत्तमं तर्पणम्| नलदं मांसी| तथा प्रसादनाख्यं सूत्रस्थाननिर्दिष्टं स्नेहनाख्यं च पुटपाकं प्रयोजयेत्| अत्र च वाततिमिरे वातपीनसवन्नासारोगे वक्ष्यमाणं निरूहमनुवासनं च हितम्| इति वाततिमिरे|| १७||
Adhikarana pittajatimiracikitsA (18) · Śloka 18
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः|
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्|
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैविरिचयेत्|
मञ्जिष्ठालोध्रमधुकशारिवाचन्दनैः श्रृतम्|
जलं सशर्करास्तन्यं नेत्रसेके प्रशस्यते|
स्तन्यं वा पद्मकोशीरक्षीरिवृक्षाङ्कुरैः श्रृतम्|
तप्तैर्निर्वापितं सर्पिरसकृल्लोहपिण्डकैः|
विमर्दितसिताद्राक्षं हिमं तच्चाक्षिसेचनम्|
शीतानालेपसेकादीन् मुखे मूर्ध्नि च शीलयेत्|
शारिवापद्मकोशीरमुस्ताशावरचन्दनैः|
वर्त्तिः शस्ताञ्जने चूर्णस्तथा पद्मोत्पलाञ्जनैः|
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगैरिकैः|
नस्यं चाज्यं श्रृतं क्षीरजीवनीयसितोत्पलैः|
लोध्रमूर्वाप्रपुण्ड्राह्वमांसीयष्ट्याह्वचन्दनै|
सोशीरैः साधितं सर्पिः सक्षीरं तर्पणे हितम्|
एभिरेवौषधैश्छागे पक्वे यकृति तद्रसे|
पूर्ववत् पुटपाकश्च कार्यस्तिमिरनाशनः||१८||
पित्तजे तिमिरे जीवनीयादिभिर्विपक्वस्य सर्पिषः पानेन स्निग्धदेहस्य सिरां विध्येत्| शर्करादिभिर्विरेचयेत्| मञ्जिष्ठादिभिः श्रृतं जलं पश्चात् सितास्तन्ययुक्तं सेचनान्नेत्ररोगजित्| पद्मकादिभिः श्रृतं स्तन्यं वा| तप्तैर्निर्वापितमिति असकृदनेकवारं तप्तं शस्त्रपिण्डं निर्वापितं यत्र यत्र च सिता द्राक्षा च विमर्दिता तत् सर्पिर्हिमं शीतीकृतमक्षिसेचनं हितम्| मुखे मूर्ध्नि च शीतानालेपादीन् शीलयेत्| शारिवादिभिर्वर्त्तिरञ्जने शस्ता| तथा नागपुष्पादिसहितैः पद्मोत्पलाञ्जनैश्चूर्णः| क्षीरादिभिः साधितमाज्यं घृतं नस्यम्| सिता शर्करा| लोध्रादिभिस्सक्षीरं साधितं घृतं तर्पणं नेत्रस्य हितम्| एभिरिति लोध्रादिभिश्छागे यकृति पक्वे तद्रसे यकृद्रसे पूर्ववत् पुटपाकः कार्यः| इति पित्तजे तिमिरे|| १८||
Adhikarana kaPajatimiracikitsA (19) · Śloka 19
श्लेष्मोद्भवेऽमृताक्वथवराकणश्रृतं घृतम्|
विध्येत् सिरां पीतवतो दद्याच्चानुविरेचनम्|
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्|
करञ्जकट्फलवचात्रिफलापञ्चकोलकैः|
सदार्वीकैः पयोयुक्तं सिद्धं तैलं च नावनम्|
शङ्खप्रियङ्गुनैपालीकटुत्रिकफलत्रिकैः|
दृग्वैमल्याय विमला वर्त्तिः स्यात्कोकिला पुनः|
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः|
पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः|
पत्रपीतावराव्योषशिलालनतसैन्धवैः|
मनोह्वाशङ्खसिन्धूत्थमरिचैस्तैमिरं जयेत्|
वर्त्तिः प्रगाढमप्याशु शुक्लपिल्लामयार्म च|
तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः|
पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम्|
पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः|
सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत्|
शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया||१९||
श्लेष्मोद्भवे गुडूच्याः क्वाथेन वराकणाभ्यां च कल्कीकृताभ्यां सिद्धं घृतं पीतवतः सिरां विध्येत्| पश्चाच्च पूगादिजं क्वाथं विरेचनं दद्यात्| करञ्जादिभिः क्षीरयुतैः सिद्धं तैलं नावनम्| शङ्खादिभिर्वर्त्तिर्नाम्ना विमला दृग्वैमल्याय स्यात्| तथा कृष्णलोहरज आदिभिर्नाम्ना कोकिला| द्विनिशादिभिः पीतख्या वर्त्तिः| पत्रादिभिः सैन्धवान्तैर्वर्त्तिस्तथा| पीता पीतरोहिणी| मनोह्वादिभिर्वर्त्तिः प्रगाढं घनमपि तिमिरमाशु हन्ति शुक्रादिकञ्च| तालीसादिभिः पिष्टैः कल्कीकृतैर्घृतं क्षीरिवृक्षक्वाथे सिद्धं नेत्रतर्पणम्| किणिही कटभ्यपामार्गश्च| अभयमुशीरम्| जाङ्गलमांसैः सैन्धवपिप्ल्यादिभिर्युक्तैः कल्कितैः पूर्ववत् पुटपाकमाचरेत्| स्वेदो जलापिष्टैः शिग्रुपत्रैर्मात्रया स्तोकमित्यर्थः| इति श्लेष्मजे तिमिरे|| १९||
Adhikarana raktajatimiracikitsA (20) · Śloka 20
रक्तजे पित्तवत् कार्यम्...................||२०||
रक्ततिमिरे पित्तवत् सर्वं कर्म कार्यम्|| २०||
Adhikarana sannipAtajatimiracikitsA (21) · Śloka 21
..................सन्निपाते यथोल्बणाम्|
व्याघ्रर्श्यगोशिखिवसा यवक्वाथपयोयुता|
दूर्वामधुककल्केन विपक्वा तर्पणे हिता|
यष्ट्यनन्ताद्विबृहतीपिप्पलीलवणद्वयैः|
सलोहचन्दनैः पक्वं यकृता शल्यकस्य च|
मृगगोधाशशानां च पुटपाकं प्रकल्पयेत्|
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्|
तत्स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद्धने|
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्|
कुष्ठं वा शर्करोपेतमान्तरिक्षेण वारिण|
निष्क्वाथ्यं सर्पिक्षौद्राभ्यां संसृष्टं प्रागिवाञ्जनम्|
स्रोतोऽञ्जनं ससौवीरं वेष्टयित्वाऽजमेदसा|
वटपत्रैरनु तथा दर्भैः कृष्णमृदाऽनु च|
गोमयानलपक्वं तत् प्रशस्तं चूर्णमञ्जनम्|
उरभ्रशल्यकश्वाविण्मार्जारशिखिजन्मभिः|
वसाभिर्विधिनानेन योगा योज्याः पृथक्पृथक्|
वटप्ररोहमधुकदूर्वालोध्रतिलोत्पलैः|
पयोम्बुपिष्टैः सघृतैः शिरोवक्त्रं च लेपयेत्|
कुर्याच्छिरः परिषेकमेभिरेव पयः श्रृतैः||२१||
सन्निपातजे उल्बणदोषानतिक्रमेण| अत्र च व्याघ्रादीनां वसा यवक्वाथक्षीराभ्यां दूर्वामधुककल्केन च विपक्वा नेत्रतर्पणे हिता| यष्ट्यादिभिः शल्यकादीनां शशन्तानां च यकृता विपक्वं सूत्रोक्तविधिं पुटपाकं प्रकल्पयेत्| उशीरक्वाथे कणसैन्धवं पिप्पलीलवणं चूर्णितं दद्यात्| चूर्णे दत्ते तन्निर्यूहं गालितं घृतेन सह पचेत्| ततस्तमिन् घने शीते च क्षौद्रं क्षिपेत्| इदमञ्जनं सन्निपातातिमिरहितम्| अथवा कुष्ठं शर्करायुक्तमान्तरिक्षेण वारिणा निष्क्वथितं पश्चाच्च प्रागिव घनीभावे शीतत्वे च मधुसर्पिभ्यां संसृष्टमञ्जनम्| सौवीरस्रोतोऽञ्जने आजमेदसा वेष्टितेऽनु च वटपत्रैरनु च कृष्णया मृदा वेष्टिते गोमयाऽग्निपक्वे चूर्णाञ्जनं प्रशस्तम्| अनेनाजामेदोविधिनोरभ्रादीनां पृथग्वसाभिः स्रोतोऽञ्जनसौवीराञ्जनयोगा योज्याः| वटप्ररोहादिभिर्जलक्षीराभ्यां पिष्टैर्घृतयुक्तैः शिरो मुखं लेपयेत्| एभिरेव च वटप्ररोहादिभिः क्षीरश्रृतैः शिरःपरिषेकं कुर्यात्|| २१||
Adhikarana saMsargajatimiracikitsA (22) · Śloka 22
सन्निपाते यदुदितं दोषोद्रेकं विभज्य तत्|
संसर्गेऽपि प्रयुञ्जीत......................||२२||
यच्च सन्निपाते चिकित्सितमुक्तं तत्संसर्गेऽपि प्रयुञ्जीत| कथं ? दोषोद्रेकं विभज्य| य एव दोषः संसर्गे उद्रिक्तस्तद्विपरीतमेव सन्निपातोक्तं विधेयमित्यर्थः| इति तिमिर उक्तम् ||२२||
Adhikarana kAcacikitsA (23) · Śloka 23
........................काचे तिमिरवत् क्रिया|
न तु तत्र सिरां विध्येत् दृक्स्थिता यन्त्रपीडतान्|
कुर्यारान्ध्यं मला दद्यात्स्राव्ये त्वस्रे जलौकसः||२३||
काचे तु वातादिभिन्ने तिमिरवत्स्नेहनादिका विशेषेणैव क्रिया| तत्र तु काचे तिमिरवत् सिरां न विध्येत्| सिराव्यधप्रतिषेधहेतुर्मला दोषा दृक्स्थिता यन्त्रापीडनादान्ध्यं कुर्युरिति| नन्वस्रविस्रावणे किं विधेयमित्याह-स्राव्ये त्वस्रे जलौकसो दद्यात्|| २३||
Adhikarana dhUmarAdInAM cikitsA (24) · Śloka 24
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा|
स्निग्धं विरेचयेच्छीतैश्शीतैर्दिह्याच्च सर्वतः|
गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्|
स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया||२४||
धूमराख्यायामम्लविदाहे पित्तविदाहे च पुराणघृतस्निग्धं पुरुषं विरेचयेत्| सर्वतः शीतैश्चन्दनादिभिः प्रदिह्यात्| गोमयरसादिभिर्घृतान्तैर्विपक्वमञ्जनं सुवर्णगैरिकादिप्रतीवापा रसक्रिया च धूमरादिष्वञ्जनं शस्यते||२४||
Adhikarana niSAndhyatimirayoScikitsA (25) · Śloka 25
पुराणगुडकासीसपिप्पलीकट्फलाद्रजः|
भावितं त्रिफलाम्भोभिः शुष्कं गोविड्रसाप्लुतम्|
निशान्ध्यतिमिरे सद्यो गुलिका हन्ति तत्कृता|
दध्ना विघृष्टं मरिचं रात्र्यन्धाञ्जनमुत्तमम्|
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम्|
कारञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः|
पोविड्रसेन पिष्टेयं वर्त्तिर्नक्तान्ध्यनाशिनी|
क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसाञ्जनैः|
अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवः|
गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः|
कालानुसारितालीसपत्रयष्ट्याह्वनागरैः|
कणा वा कापिले पित्ते मासार्धं परिभाविता|
यकृत्पित्तेषु वा गोधाशशर्श्यरुरुबर्हिणाम्|
खदेच्च प्लीहयकृती माहिषे तैलसर्पिषा|
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्|
तथाऽतिमुक्तकैरण्डसोहलाभीरुजानि च||२५||
पुराणगुडादिचूर्णं त्रिफलाक्वाथभवितं शुष्कञ्च गोमयस्वरसाप्लुतं सत् कृता गुलिका निशान्ध्यतिमिरे द्वे सद्य एव हन्ति| दध्ना निघृष्टमिति| सुबोधम्| कुम्भयोनेशेश्छत्राभिधानाया द्रोणपुष्प्याः पत्रैर्भृष्टं निस्तलितं घृतं पाने पूजितम्| कारञ्जिकादिर्वर्त्तिः सुबोधा| अथवा हरिद्राद्वयरसाञ्जनैः क्षौद्रसुमनोरसाभ्यां वर्त्तिरथवा कौन्त्यादिभिरजामूत्रपिष्टैरथवा कालानुसार्यार्द्विनिशापिप्पलीयुक्तैर्गोमयस्वरसपिष्टैर्वर्त्तिः| कालानुसारीतगरम्| कालेयकं च| अथवा कणा पिप्पली कापिले कपिलगोसम्भवे पित्ते मासार्धं पक्षं परितः समन्ताद्भाविता अञ्जनम्| अथवा नक्तान्ध्ये गोधादीनां यकृत्पित्तेषु मासार्धं परिभाविता कणाऽञ्जनम्| अत्र च माहिषे प्लीहयकृती तैलसर्पिषा खादेत्| जीवन्त्याः पल्लवानि घृते भृष्टानि भक्षयेत्| अतिमुक्तादिपल्लवानि च| सोहला दधिशमी ज्ञेया ज्ञेया सैवापराजिता| अभीरुः शतावरी||२५||
Adhikarana akShiroge pathyApathyam (26) · Śloka 26
व्रणवच्चाक्षिरोगेषु भोज्याभोज्यानि निर्दिशेत्|
अविधारितवेगस्य भजतोऽञ्जननावनम्|
त्यजतः क्रोधशोकौ च तिमिरं नाश्नुतेऽन्तरम्|
त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतम्|
भुक्त्वा चापिबतस्तोयं तिमिरं लघु शाम्यति|
सुषभव्यं सुकन्यां च स्कन्दं च्यवनमश्विनौ|
षडोतान् यः स्मरेन्नित्यं तस्य चक्षुर्न हीयते||२६||
सर्वेषु चाक्षिरोगेषु व्रणे यानि भोज्यानि तानि भोज्यानि निर्दिशेत्| तद्वदेव च त्याज्यानि| तानि सूत्र उक्तानि| वक्ष्यन्ते च| अविधारितवेगत्वादियुक्तस्य तिमिरमन्तरं नाश्नुते न व्याप्नोति| यो रात्रौ त्रिफलामश्नाति यश्च चक्षुष्यैः संस्कृतं घृतं पिबति यश्च भुक्त्वा तोयं न पिबति तस्य तिमिरं लघु न शाम्यति| यश्च सुषभव्यादीन् षड् नित्यं मनसा स्मरेत् तस्य चक्षुर्न हीयते|| २६||
Adhikarana BrAmakaM timiram ( timirABAsaH ) (27) · Śloka 27
चिन्ताभिग़ातभीशोकरौक्ष्यामोत्कुटिकासनात्|
विरेकनस्यवमनपुटपाकादिविभ्रमात्|
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्|
अक्षिरोगावसानाश्च पश्येत्तिमिररोगिवत्|
यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भैषजम्||२७||
दृष्टिहितप्रसङ्गेनोच्यते| चिन्तादितो विरेकादिविभ्रमान्मिथ्यायोगाद् विदग्धाहारवमनादितश्च तिमिररोगिवन्नरं पश्येत्| दृष्टेररक्षयेत्यर्थः| अत्र तु चिन्तादिजे दोषानालक्ष्य यथास्वं भेषजं युञ्जीत च ||२७||
Adhikarana upaghAtaja timiracikitsA (28) · Śloka 28
सूर्योपरागानलविद्युदादि विलोकनेनोपहतेक्षणस्य|
सन्तर्पणं स्निग्धहिमादि योज्यं तथाञ्जंनं हेमघृतेन घृष्टम्||२८||
यः पुनः सूर्योपरागादीनां विलोकनेनोपहतेक्षणस्तस्य स्निग्धहिमादि सन्तर्पणमाहारादिकं कुर्यात्| उपहतशब्देन स्वल्प उपघातो लक्ष्यते| औपसर्गिकस्य लिङ्गनाशस्यासाध्यत्वात्| सूर्योपरागो ग्रहयोगः| तत्र च हेम सुवर्णं घृतेन सह घृष्टमञ्जनम्|| २८||
Adhikarana cakShUrakShAyAH praSaMsA (29) · Śloka 29
चक्षूरक्षायां सर्वकालं मनुष्यै- र्यत्नः कर्त्तव्यो जीविते यावदिच्छा|
व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते||२९||
यावत् पुंसो जीवित इच्छा तावत्तेन नित्यमेव चक्षूरक्षायां यत्नः कर्त्तव्यः| यतोऽन्धानां पुंसां वित्ते धने विद्यमानेऽप्ययं मनुष्यलोको दर्शनेन तुल्यरात्रिन्दिवानां व्यर्थो निष्फलः||२९||
Adhikarana cakShUrakShA (30-16) · Śloka 16
त्रिफलारुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्|
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा|
अहितादर्शनात्सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्चं|
मुनिना निमिनोपदिष्टमेतत्परमं रक्षणमीक्षणस्य पुंसाम्|
तमालतुटिकुङ्कुमान्यसितमुत्पलं पिप्पली सिताञ्जनमयोरजोमरिचकाकमाचीत्वचः|
सयष्टिमधुकाञ्जनान्युदधिफेनमक्ष्यामये ष्वनुत्तममतोऽञ्जनं विमलमाशु तैमिर्यहृत्||३०||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे तिमिरप्रतिषेधो नाम षोडशोऽध्यायः||१६||
त्रिफलेत्यादि सुबोधम्| शकुनाशनता पक्षिमांसभोजित्वम्| सदैवेति घृतपानेनाभिसम्बध्यत इति|| ३०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे षोडशोऽध्यायः||