Adhikarana atha li~gganAshapratiShedho nAma saptadasho~adhyAyaH - pra (1) · Śloka 1
अथातो लिङ्गनाशप्रतिशेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha li~gganAshapratiShedho nAma saptadasho~adhyAyaH - pra (1) · Śloka 1
अथातो लिङ्गनाशप्रतिशेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana li~gganAshaparyAyAH - upadravAshca (2) · Śloka 2
लिङ्गनाशे नीलिका पटलमान्ध्यमिति पर्यायाः| सः श्लैष्मिक एव प्राक् साध्योऽभिहितः| तस्य पुनः षडुपद्रवाः-आवर्त्तकी, शर्करा, राजीमती, छिन्नांशुका, चन्द्रकी छत्रकी चेति||२||
🔊 Audio coming soon
Adhikarana upadravalakShaNAni (3) · Śloka 3
तत्र श्वेतारुणावर्त्तवदनवस्थिता दृष्टिरावर्त्तकी| अर्कक्षीरलेशेनेव कूर्चिकापिण्डेनेव चाचिता शर्करा| शालिशूकाभराज्यावृता राजीमती| छिन्नविषमदग्धाभा सरुक् छिन्नांशुका| कांस्यसमच्छाया चन्द्रकसंस्थाना चन्द्रकी| नैकवर्णा छत्रनिभा छत्रकी| ता न विध्येत्| अपि च||३||
🔊 Audio coming soon
Adhikarana avedhyali~gganASalakShaNam (4) · Śloka 4
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्| नाजीर्णभीरुवमितशिरः कर्णाक्षिशूलिनाम्| नात्युष्णशीतवाताभ्रे नासम्पूर्णां च नीलिकाम्||४||
🔊 Audio coming soon
Adhikarana asa~jjAtanIlikAlakShaNam (5) · Śloka 5
असञ्जाता ही विषमा दधिमस्ततनुश्च सा| शलाकयाऽवघृष्टापि पुनरूर्ध्वं प्रपद्यते| करोति वेदनां तीव्रां दृष्टिञ्च स्थगयेत्पुनः||५||
🔊 Audio coming soon
Adhikarana asampUrNanIlikAyAH gatiH (6) · Śloka 6
सा च सम्पूर्यते शीघ्रं श्लेष्मलैर्वातपित्तलैः| चिरात् सोपद्रवा च स्यात्...........................||६||
🔊 Audio coming soon
Adhikarana vyadhyanIlikAlakShaNam (7) · Śloka 7
.......................ंइष्प्रेक्ष्या त्वर्हति व्यधम्|७|
🔊 Audio coming soon
Adhikarana li~gganASe SastrakarmavidhAnam (7) · Śloka 7
अथ स्निग्धस्य विरिक्तस्य घृतैः सम्भोजितस्य निशि रसेन प्रीणितोत्तमाङ्गस्याभुक्तवतः सज्जोपकरणस्य विमलेऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणेन लब्धमार्दवायां भूमौ प्रसादितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलम्बितशिरसः किञ्चिदुत्तानास्यस्य स्वां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य जङ्घयोरुपरिष्टान्नात्युच्छ्रितासननिविष्टो भिषक् दक्षिणहस्तानुलोममक्षिमुखवाष्पस्विन्नं निमीलितमीषदङ्गुष्ठोदरविमृदिततारकतया परिप्लुतदोषं सव्याङ्गुष्ठप्रददेशिनीभ्यामुन्मील्य दक्षिणमध्यमाप्रदेशिन्यङ्गुष्ठैर्निष्कम्पं गृहीतया शलाकया कृष्णभागाद्भागद्वयस्यापाङ्गादेकभागस्य च सङ्गमे दृषेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि सन्धौ विध्येत्| एवमेव दक्षिणं दक्षिणाङ्गुष्ठप्रदेशिन्युन्मीलितमितरेण करेणैव चातुरस्य दक्षिणपार्श्वे स्थित्वा||७||
🔊 Audio coming soon
Adhikarana samyagviddhalakShaNam (8) · Śloka 8
अथ शब्दवदवेदनं साम्बुबिन्दुस्रुति च सम्यग्विद्धं विद्यात्| प्रविष्टमात्रां च शालाकां धारयेत्| रागाश्रुवेदनानुत्पादनार्थञ्च स्तन्येन सेचयेत्| ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामादृष्टिमध्यात् प्रवेशयेत्||८||
🔊 Audio coming soon
Adhikarana vedhottaraM karma (9) · Śloka 9
अधश्चास्यावलोकयतो लिङ्गनाशमद्रुतमविलम्बितमनुसुखमधोमुखमपनयेदुच्छिङ्खयेच्चैनम्| तथा हि दृक्स्रस्तकफस्य विशुध्यति| विशुद्धदृष्टेश्चाङ्गुलिं तन्तून् ज्ञातीन् सन्ततींश्च दर्शयेत्| प्रेक्षमाणस्य चानिमीलितान्नेत्राच्छन्नैः शनैः भ्रमयन्नेव शलाकामपकर्षेत्| अथ व्यपगतदोषस्य यथावत् पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात्| ततो निवातमागारमनुप्रवेश्य संवेश्य च सोपधाने मृदुशयने शयानं दक्षिणेऽक्षिणि विद्धे वामेन पार्श्वेन वामे दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपचारेत्| यथाशक्ति चैनमुपवासयेत् उद्गारक्षवथुकासनिष्ठीवनोत्क्षेपणानि त्र्यहं परिहरेत्| स्नानाम्बुपानदन्तधावनाधोमुखावस्थानानि सप्ताहम्| स्नेहविधिं चेक्षेत| मूर्ध्नि पादयोश्च घृताभ्यङ्गमाचरेत्| तृतीये चाह्नि मुक्त्वाक्षि परिषेचयेदेरण्डपल्लवशृतेन दुग्धोष्णेन दुग्धेन| जीवनीयैर्वा सिद्धेन पयसा हविषा वा| तद्वल्लघुना पञ्चमूलेन| ततः पूर्ववद् बध्नीयात्| ततः प्रभृत्येवमेव प्रत्यहमासप्ताहम्| सप्तमे तु दिवसे सर्वथा मोक्षयेत्| दशमे वा| भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलवणं वाट्यमुष्णोदकद्वितीयां विलेपीं वा| एवमाचरतो रुजा रागादयौ नानुवर्त्तन्ते||९||
🔊 Audio coming soon
Adhikarana rujAdyupadravacikitsA pathya~jca (10) · Śloka 10
तदनुवृत्तौ यष्टीमधुकलोध्रमृद्वीकासैन्धवैः सिद्धेन ससितेनऽजपयसा नयनमाश्च्योतयेत्| मधुककुष्ठोत्पलद्राक्षालाक्षाशर्कराभिर्वा| पृश्निपर्णीमुस्तमधुकशतावरीपद्मकसैन्धवैर्वा| शिरोवक्त्रलेपञ्च सारिवागौरिकयवदूर्वाघृतैः कुर्यात्| मातुलुङ्गरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः| अजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमञ्जिष्ठायष्ट्याह्वैर्हिमः सुखोष्णो वा लेपः| तद्वद्देवदारुनागरपद्मकैर्वा| जाङ्गलरसेन च जीवनीयक्वाथवता भोजयेत्| वातहरवर्गसिद्धेन च पयसा| पद्मकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात्| तथानुपशमे सिरां विध्येत्| अधिमन्थसाधनं चेक्षेत||१०||
🔊 Audio coming soon
Adhikarana AcArAtikramapariNAmAstatropacArashca (11) · Śloka 11
यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति| अभिष्यन्दाधिमन्थादयः स्युर्व्यधदोषाच्च| तान्यथास्वमुपक्रमेत||११||
🔊 Audio coming soon
Adhikarana vyadhadoShAH tatropAyASca (12) · Śloka 12
व्यधदोषाः पुनरध ऊर्ध्वं कृष्णासन्नमपाङ्गासन्नं सिराव्यधश्च| तत्राधोव्यधादत्यर्थशूलास्रस्रुतिरागाः शलाकायाश्चोपलेपो बहलपिच्छिलः कृष्णं वलिभिरुपचीयते नयनं स्रवति तद्वर्जयेत्| ऊर्ध्वव्यधादतिमात्ररुक्| तत्रात्युष्णघृतपरिषेको वातहरं च कर्म| कृष्णासन्नव्यधान्न सुखमपनीयते पटलम्| कृष्णे च रुजा| दृष्टिरपि च रक्तावच्छादिता कृष्णमण्डलाभा भवति| तत्र सर्पिस्सेकविरेकरक्तमोक्षैः सिद्धिः| अपाङ्गासन्नव्यधाच्छोफशूलतोदभेदाः सास्राः स्रुतयः| तत्र घृतसेकोपवासौ भ्रुवोरन्तरे च दाहः| सिराव्यधाद्रक्तागमो विविधाश्च वेदनाः| तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेकोऽपाङ्गे वा दाहः||१२||
🔊 Audio coming soon
Adhikarana sirAjAle karmaviSeShaH (13) · Śloka 13
सिराजालवति तु नेत्रे प्राक् सिराजालमपनयेत्| ततो लब्धबलं स्निग्धं च विध्येत्||१३||
🔊 Audio coming soon
Adhikarana SalAkABramaNadoShAH upacAraSca (14) · Śloka 14
अथ शलाकाभ्रमणदोषाः| क्षोभणमूर्ध्वमधोऽत्यर्थदृष्टिघट्टनमतिदृष्टिप्रेरणञ्च| शलाकाक्षोभणाद्धि स्पन्दनतोदभेदपरिमन्थाः| तस्मिन् यष्टीमधुकपोट्टाल्या घृतमृदितया सेको जलौकसश्च| ऊर्ध्वप्रणयनाद्रागोऽतिवेदना च| तत्रोपवासो घृतसेकश्च स्पर्शसुखः| अधोनयनाच्छूलं रक्तागमश्च| तत्र सर्पिर्मण्डोऽनुवासनं नावनं च| अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च| तत्र सर्पिस्सेकोपवाजलौकसः||१४||
🔊 Audio coming soon
Adhikarana li~gganASadoShAH upacAraSca (15) · Śloka 15
लिङ्गनाशदोषास्तु स्फुटनमवगलनं विस्तरणमुत्प्लवनं लीनता च| तत्र शलाकया स्पृष्टो लिङ्गनाशो यः स्फुटति तमेरण्डपत्रस्विन्नं खण्डशः शोधयेत्| ततः कृष्णासैन्धवमधुभिरवपीडनम्| अवगलति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च शुण्ठीगुडं जलौकसश्च| विस्तीर्यमाणो सुखोष्णाम्बुप्लुतेन वाससा स्वेदो घृतमण्डश्च प्रतिमर्शः| तद्वदुत्प्लवमाने वित्रासनं शीताम्भसा प्रततं चोच्छिङ्खनं च||१५||
🔊 Audio coming soon
Adhikarana utplavanadoShe cikitsAviSeShaH (16) · Śloka 16
स्थिरे चले च दोषे पत्रभङ्गस्वेदः| तथाऽप्यनपगच्छति शलाकापगमने वा पुनरुत्प्लवने स्नेहपाननस्यादिभिरुपाद्य पुनर्विध्येत्| एवमपि पुनरुत्प्लवने भ्रुवोरन्तरे दाहः||१६||
🔊 Audio coming soon
Adhikarana lInatAdoShe cikitsAviSeShaH (17) · Śloka 17
यस्त्वपकृष्यमाणो दृष्टिमण्डले लीयते तत्र क्षीरेण नाडीस्वेदं दद्यात्| शताह्वामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्श इति||१७||
🔊 Audio coming soon
Adhikarana karmAvadhiviShaye sAmAnyaniyamAH (18) · Śloka 18
भवति चात्र वेध्येऽक्ष्णि कार्ये स्वेदादौ नियमोऽयं विधीयते| स्वेददाहप्रतीमर्शान् सद्यो विद्धे तु सेचनम्| अवपीडं तृतीयेऽह्नि युञ्ज्यात्तद्वज्जलौकसः| सप्ताहान्ते सिरामोक्षं विरेकं बस्तिकर्म च| यन्त्राणामनुरुध्येत दृष्टेरास्थैर्यलाभतः| रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्||१८||
🔊 Audio coming soon
Adhikarana SalAkAdoShAH (19) · Śloka 19
कुर्याच्छलाका स्थूलाग्रा विशालव्रणतां तनुः| पटलोत्प्लवनं तीक्ष्णाक्षतमन्तः खरा रुजः| कुण्ठा च विषमाश्रूणि ह्रस्वा दीर्घा च दुर्ग्रहा||१९||
🔊 Audio coming soon
Adhikarana viddhe~akShNi a~jjanAni (20-17) · Śloka 17
आडकीमूलमरिचहरितालरसाञ्जनैः| विद्धेऽक्ष्णि सगुडा वर्त्तिर्योज्या दिव्याम्बुपेषिता| जातीशिरीषधवमेषविषाणपुष्प- वैडूर्यमौक्तिकफलं पयसा सुपिष्टम्| आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम्| पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः| स्रोतोजविद्रुमशिलाऽप्पतिफेनतीक्ष्णै- रस्यैव तुल्यमुदितं गुणकल्पनाभिः||२०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे लिङ्गनाशप्रतिषेधो नाम सप्तडशोऽध्यायः||१७||
🔊 Audio coming soon