Adhikarana atha kITaviShapratiShedho nAma tricatvAriMsho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः कीटविषप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति हस् स्माहुरात्रेयादयो महर्षयः||१||
जङ्गमविषप्रसङ्गेन सर्पान्वयानां कीटानां चिकित्साप्रदर्शनार्थमध्याय आरभ्यते|| १||
Adhikarana kITasvarUpam (2) · Śloka 2
सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः|
दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः||२||
अत्र प्रथममेव कीटानां स्वरूपमुच्यते| तदविज्ञाने हि चिकित्सायाः प्रदर्शनस्याशक्यत्वात्| सर्पाणामेव विडादिषु कीटा जायन्ते वक्ष्यमाणेन वायव्याग्नेयसौम्यसङ्कीर्णभेदेन चतुर्विधाः| क्रमेण च प्रथमास्त्रयो दोषैर्वातादिभिर्व्यस्तैर्युक्ता अन्याः समस्तैः||२||
Adhikarana vAyavyAH kITAH (3) · Śloka 3
कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः|
उच्चिटिङोऽग्निनामा च चिच्चिटाङ्गो मयूरकः|
अहिजोरभ्रकावर्त्तशारिकामुखवैदलाः|
शरावकुर्द्दौ परुषश्चित्रशीर्षो हि जारकः|
अष्टादशेति वायव्या: कीटा वातप्रकोपनाः||३||
कुम्भीनसादयोऽष्टादश कीटा वायव्यास्ते च वातप्रकोपनाः| शरावकुर्द्दोऽभिराजी पुरुषश्चित्रशीर्षकः शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्त्तितः| इति सुश्रुतपाठः| व्याख्या-तानेव चतुष्प्रकारान् वातादिस्वभावैर्निर्दिशन्नाह| कुम्भीनस इत्यादि| एते कीटकभेदा नानादेशीयलोकादवगन्तव्याः| यतः सुरसवीरनन्दिवराहजेज्जटगयदासादिभिः टीकाकारैर्न व्याख्याताः| वातप्रकोपनानां कुम्भीनसादीनां मध्ये शृङ्गिचिच्चिटिङ्गशरावकुर्दचित्रशीर्षकान् वर्जयित्वा शेषाश्चतुर्दश मुखसन्दंशविषाः| इति प्रबन्धसंग्रहः|| ३||
Adhikarana AgneyAH kITAH (4) · Śloka 4
आग्नेयाः कीटाः कौण्डिन्यकः कणभको वरटीपत्रवृश्चिकः|
विनासिका ब्राह्मणिका विन्दुलो भ्रमरस्तथा|
बाह्यकी पिच्चिटः कुम्भीवर्चः कीटोऽरिमेदकः|
दुन्दुभिः पद्मकीटश्च मकरः शतपादकः|
पञ्चालः पाकमत्स्यश्च सूक्ष्मतुण्डोऽथ गर्दभिः|
क्लीतः कृमिशरारी च यश्चाप्युत्क्लेशकः स्मृतः|
चतुर्विंशतिराग्नेयाः कीटाः पित्तविकारदाः||४||
कौण्डिन्यकादयश्चतुर्विंशतिः कीटा आग्नेयास्ते च पित्तविकारदाः| (पित्तकोपनानां मध्ये कौण्डिन्यकवरटीभ्रमरपिच्चिटवर्च्चः कीटमकरशतपदपञ्चालपाकमत्स्यसूक्ष्मतुण्डान् विहाय शेषाश्चतुर्द्दशमुखसन्दंशविषाः)|| ४||
Adhikarana saumyAH kITAH (5) · Śloka 5
विश्वम्भरः पञ्चशुष्कः पञ्चकृष्णोऽथ कोकिलः|
स्थैर्यकः प्रचलाकश्च वटभः किटिभो जटी|
सूचीमुखः कृष्णगोधा दर्भः काषायवासिकः|
त्रयोदशैते निर्द्दिष्टाः सौम्याः श्लेष्मप्रकोपनाः||५||
विश्वम्भरादयस्त्रयोदश कीटाः सौम्यास्ते च श्लेष्मप्रकोपनाः| (श्लेष्मप्रकोपिनां मध्ये विश्वम्भरप्रचलाककृष्णगोधाकषायवासिकांश्चतुरो वर्जयित्वा नवाऽन्ये मुखसन्दंशविषा इति प्रबन्धसंग्रहे)|| ५||
Adhikarana sa~gkIrNAH kITAH (6) · Śloka 6
तुङ्गनासश्चिपिलकस्तालको वाहकस्तथा|
कोष्ठागारी कृमिकरो यश्च मण्डलपुच्छकः|
तुण्डनाभः सर्षपको मद्गुलिः शम्बुकस्तथा|
अग्निकीटश्च सङ्कीर्णा द्वादश प्राणनाशनाः||६||
तुङ्गनासादयो द्वादश कीटाः सङ्कीर्णास्ते च प्राणनाशनाः सान्निपातिकत्वात्| (त्रीन् कीटान् दर्वीकरमण्डलिराजिलसम्बन्धेन वाय्वादिप्रकृतीन् क्रमान्निर्दिश्य सर्वदोषप्रकृतिकानाह-तुङ्गनास इत्यादि| सर्वदोषप्रकृतिकानां मध्ये वाहकसर्षपशम्बुकान् वर्जयित्वा नव मुखसन्दंशविषाः)|| ६||
Adhikarana bhedAnusAraM daMshalakShaNam (7) · Śloka 7
दष्टस्य कीटैर्वायव्यैर्द्दंशस्तोदरुजोल्बणः|
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान्|
पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथ वा|
कफादिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः|
स्रावाढ्यः सर्वलिङ्गस्तु दंशः स्यात्सान्निपातिकैः||७||
दष्टस्य कीटैरित्यादिना चतुर्णां कीटानां क्रमेण दंशलक्षणम्| व्याख्यासमम्| (वायव्यसंज्ञैः कीटैर्दष्टस्य नरस्य दंशो दंशव्रणस्तोदरुजाद्यः स्यात्| आग्नेयसंज्ञैः कीटैर्दष्टस्य दंशोऽल्पस्रावयुक्तो दाहादिमान् पक्वपीलुफलसमवर्णः खर्जूरफलवर्णो वा स्यात्| कफादिकैः सौम्यसंज्ञैः कीटैर्दष्टस्य दंशव्रणः मन्दरुजोऽल्पवेदनः पक्वजन्तुफलतुल्यः स्नावबहुलश्च स्यात्| सान्निपातिकैः कीटैर्दष्टस्य तु दंशव्रणो वायव्यादिसर्वलक्षणयुक्तः स्यात्)||७||
Adhikarana kITaviShavegAH (8) · Śloka 8
वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता|
शिरोऽक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदना||८||
कीटेषु विषवेगाः सर्पवद्विज्ञेया वातादिविशेषेण| अत्र तु शोफो वर्द्धिष्णुर्विस्ररक्ततादिकं च| (विस्रमामगन्धि| मुर्च्छा मोहः| अतिवेदना रुजाधिक्यम्)|| ८||
Adhikarana kITadaMshe sAmAnyali~ggam (9) · Śloka 9
सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः||९||
सर्वेषां कीटानां कर्णिकारादिसामान्यं लिङ्गम्| कर्णिकाकारा पिटकोक्ता क्षुद्ररोगे| (कीटदष्टानां सामान्यलक्षणमाह-शोफो वर्द्धिष्णुरित्यादि| कर्णिकाकारः किञ्चिदुत्सन्नो दंशव्रणः कर्णिकाशोफः| तद्विधो मांसाङ्कुरो वा)|| ९||
Adhikarana vAtikAdInAM daMshanopAyAH (10) · Śloka 10
वातिकः पक्षवातेन स्पर्शद्दशति पैत्तिकः|
मुखेन श्लैष्मिकः कीटः सर्वथा सान्निपातिकः||१०||
वातिक इत्यादिना चतुर्णां कीटानां दंशनोपायाः| सर्वथेति पक्षवातेन स्पर्शान्मुखेन च|| १०||
Adhikarana kaNabhadaShTe lakShaNam (11) · Śloka 11
दष्टस्य कणभैः शोफो विसर्पो वमथुर्ज्वरः|
दंशश्च कर्णिकाकारः श्यावरक्तो विशीर्यते||११||
दष्टस्य कणभैरित्यादिना कीटेभ्यः प्रधानविवरणम्| श्यावरक्तो विशीर्यत इत्येवमन्तं कणभे| (सर्व एव कणभाश्चतुष्पादकीटाः साध्या इति प्रबन्धसंग्रहे)|| ११||
Adhikarana trikaNTakAdidaMshalakShaNAni (12) · Śloka 12
त्रिकण्टकैस्तु दष्टस्य नानावर्णोऽथवा सितः|
दंशो भवेच्छ्वयथुमान् मोहो भेदश्च वर्चसः|
कृकलासेऽर्द्धचन्द्राभः स्राववान् भृशलोहितः|
दंशो रक्तैश्चितः स्फोटैः सशूलैर्दम्भवोद्भवः|
एकदंष्ट्रार्पितः पीतः कण्डूमान् दार्दुरः सरुक्|
दंशो दष्टः सतृण्निद्रो मूर्च्छावान् हरितं वमेत्|
मात्स्यो दंशः सरुग्दाहः प्रागेवोक्तो जलौकसाम्|
विश्वभरकृतो दंशः शोफकण्डूरुजान्वितः|
कफोद्वममतीसारं कुरुते कोठजन्म च|
पीतः शतपदीदंशः स्वेदरुग्रागशोफवान्|
अतसीपुष्पवर्णो वा पिटकावन्भ्रमप्रदः|
गृहगोधिकया स्वेदतोदश्वयथुदाहवान्|
क्लेदी च दंशो दष्टस्य हृत्पीडाग्रन्थिसम्भवः|
कण्डूमान् मशकैरीषच्छ्वयथुर्मन्दवेदनः|
असाध्यकीटसदृशमसाध्यमशकक्षतम्|
प्रायेण मक्षिका नेत्रे दशन्ति श्वयथूल्बणः|
तद्दंशो दाहकण्डूमांस्तासां तु स्थालिकां त्यजेत्|
तद्दष्टे पिटका श्यावा स्राविणी भूर्युपद्रवा|
रुग्वान् पिपीलिकादंशो वह्निनेव च दह्यते||१२||
त्रिकण्टकैरिति| वर्च्चोभेदान्तं त्रिकण्टके| भृशलोहितान्तं कृकलासदंशे| दम्भवोद्भवो दंशो रक्तैः सशूलैः स्फोटैश्चितो भवति| एकदंष्ट्रार्पित इत्यादि हरितं वमेदित्यन्तं दार्दुरे दंशे| दर्दुरो मण्डूकः| मात्स्यो दंशः सरुग्दाहो रुग्दाहसहितो भवति| जलौकसां तु दंशः प्राक्सूत्रस्थान एवोक्तः| कोठजन्मान्तं विश्वम्भरकृते दंशे| शतपद्याः कर्णजलूकिकया दंशः पीतः स्वेदादिमांश्च| अथवा अतसीपुष्पवर्णः पिटकायुक्तो भ्रमप्रदश्च| ग्रन्थिसम्भवान्तं गृहगोधिकाया घरोल्लिकायां दंशे| मन्दवेदनान्तं मशकदंशे| असाध्यमशकक्षतमसाध्यकीटलक्षणैर्ज्ञेयम्| मक्षिकाः प्रायेण नेत्रे दशन्ति| तद्दंशो मक्षिकादंशो श्वयथूल्बणः श्वयथुबहुलो दाहादिमांश्च| तासां मक्षिकाणां मध्ये या स्थालिका नाम मक्षिका तां तु त्यजेदसाध्यत्वात्| तद्दष्ट इति स्थालिकादष्टे भूर्युपद्रवान्तलक्षणा पिटका स्यात्| दह्यत इत्येतदन्तं पिपीलिकादंशे|| १२||
Adhikarana avamUtritalakShaNam (13) · Śloka 13
जलबिन्दुनिभैः स्फोटैर्दाहकण्डूरुजान्वितैः|
यद्गात्रमाचितं सोष्म तद्विद्यादवमूत्रितम्||१३||
जलबिन्दुप्रख्यैर्दाहाद्यन्वितैः स्फोटैर्यद्गात्रमाचितं व्याप्तमूष्मसहितं भवति तद्विषप्राणिना अवमूत्रितमिति विद्यात्|| १३||
Adhikarana vRushcikaviShaM bhedAH lakShaNAni ca (14) · Śloka 14
वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्|
ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति|
दंशः सद्योतिरुक् श्यावस्तुद्यते स्फुटतीव च|
ते गवादिशकृत् कोथाद्दिग्धदष्टादिकोपतः|
सर्पकोथाच्च सम्भूताः मन्दमध्यमहाविषाः|
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुरमेचकाः|
रोमशा बहुपर्वाणो लोहताः पाण्डुरोदराः|
धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः|
पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः|
अग्न्याभा द्व्येकपर्वाणो रक्तासितसितोदराः|
तैर्दष्टः शूनरसनः स्तब्धगात्रो रुजार्दितः|
खैर्वमन् शोणितं कृष्णमिन्द्रियार्थानसंविदन्|
स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्वलो वेदनातुरः|
विशीर्यमाणमांसश्च प्रायशो विजहात्यसून्|
उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः|
साध्यतो वृश्चिकात्स्तम्भं शेफसो हृष्टरोमताम्|
करोति सेकमङ्गानां दंशः शीताम्बुनेव च|
उष्ट्रवर्णतया प्रोक्तः स एव ह्युष्ट्रधूमकः|
रात्रिको रात्रिचाराच्च.............................||१४||
वृश्चिकस्येत्यादि सुबोधम्| वृश्चिकस्य विषं तीक्ष्णमाशुकारि आदौ दंशसमय एव अग्निरिव दहति| क्षिप्रमाश्वेव ऊर्ध्वं दंशव्रणादूर्ध्वदेहमारोहति पश्चात्तदनन्तरमेव दंशव्रणमाश्रित्य तिष्ठति| ततो दंश आश्वेवाधिकवेदनायुक्तः श्याववर्णस्तोदयुक्तः स्फुटनप्रतीतियुक्तश्च भवति| तेषामुत्पत्तिभेदजनितं विषभेदं दर्शयति| ते वृश्चिकास्त्रिभिः कोथैर्जायन्ते| ते च गवादिशकृत्कोथजा मन्दविषाः| दिग्धदष्टादिकोथजाः मध्यविषाः| सर्पकोथजा महाविषाः| कोथः क्लेदः| एषां विशेषपरिज्ञानार्थं लक्षणमाह| पाण्डुरोदरान्तं मन्दविषवृश्चिके लक्षणम्| मन्दा मन्दविषाः| गवादिशकृत्कोथजा वृश्चिकाः पीतादिवर्णाः कर्बुरा नानावर्णाः मेचकाः कृष्णवर्णाः| रोमशा रोमबहुलाः बहुपर्वाणो बहुसन्ध्युपेतपुच्छाः| लोहिताः रक्ताः उदरे पाण्डुवर्णाः| अरुणान्तं मध्यविषे| मध्या मध्यविषा दिग्धदष्टादिकोथजा वृश्चिकाः| तुर्विशेषे| धूम्रोदरा धूम्रवर्णमुदरं येषां ते तथोक्ताः| त्रिपर्वाणः पुच्छे त्रीणि पर्वाणि सन्धयो येषां ते| कपिलारुणाः कपिलवर्णा अरुणवर्णाश्च| पिशङ्गादिकं महाविषे| महाविषाः सर्पकोथशवजा वृश्चिकाः पिशङ्गास्ताम्रवर्णाः शबला नानावर्णाः चित्रा विचित्रवर्णाः शोणिताभा रक्तवर्णाः| सितोदरान्तमग्न्याभेषु| द्वे वा एकं वा पर्व येषां ते तथोक्ताः| अग्न्याभा अग्निसदृशवर्णाः रक्तासितासितोदरा रक्ताद्यन्यतमवर्णोदराः| पिशङ्गादि सितोदरन्तं महाविषवृश्चिकलक्षणमिति केचित्| तैरग्न्याभैर्दष्टाः शूनरसनादिकः सन् प्रायोऽसून् विजहाति| शूनरसन उच्छूनजिह्वः| स्तब्धगात्रो निश्चलाङ्गः| ज्वरार्दितस्तीव्रज्वरयुक्तः| खैः रोमकूपैः कृष्णवर्णं रक्तमुद्वमन्| इन्द्रियार्थानसंविदन् श्रोत्रादीन्द्रियाणां शब्दादिविषयानविजानन्| स्विद्यन् स्वेदयुक्तः| मूर्च्छन् मोहं गच्छन्| विशुष्कास्यः अनार्द्रवदनः| वेदनातुरो वेदनया पीडितः विशीर्यमाणमांसः दंशव्रणाद्विशीर्यमाणानि मांसानि यस्य| प्रायशः प्रायेणासून् प्राणान् विजहाति त्यजति| उच्चिटिङ्गाख्यो वृश्चिकस्तु वक्त्रेण दशत्यधिकव्यथश्च भवति| 'वृश्चिकस्तनुदीर्घोच्च उच्चिटिङ्गः स्मृतो बुधैरिति' मञ्जरी| साध्यतः साध्यसंज्ञाद् वृश्चिकात् शेफस्तम्भादिकं भवति| दंशश्चाङ्गानां शीताम्बुना सेकं करोतीव| स एव साध्यसंज्ञो वृश्चिक उष्ट्रवद्धूमवर्णत्वादुष्ट्रधूम इत्युक्तः| रात्रिचरणाच्च रात्रिकः||१४||
Adhikarana kaNabhAdInAM bhedanirdeshaH (15) · Śloka 15
............................पृथक् तु कणभादिषु|
विकारसाधनाभेदात् भेदाः सन्तोऽपि नोदिताः||१५||
कणभादिष्वशेषेषु पृथक्प्रत्येकं तु भेदाः सन्तोऽपि न कीर्तिताः| कुत इत्याह-विकाराणां व्याधीनां साधनस्य चिकित्सितस्य चाभेदात्|| १५||
Adhikarana kITeShu vAtAdibhedAH (16) · Śloka 16
वातपित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः|
प्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः||१६||
सर्वे कीटाः प्रायेण वातपित्ताधिकाः| कणभोन्दुरास्तु प्रायः श्लैष्मिकाः| वृश्चिका उष्ट्रधूमकाश्च प्रायो वातोल्बणविषाः|| १६||
Adhikarana cikitsAsUtram (17) · Śloka 17
यत्र यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्|
तत्र तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्||१७||
यत्र यस्य दोषस्य लिङ्गानामाधिक्यं प्रतर्कयेत् कल्पयेत्तत्र तस्यैव विपरीतगुणैरौषधैर्द्रव्यादिभिः क्रियां चिकित्सां कुर्यात्||१७||
Adhikarana vAtikakITaviShalakShaNam (18) · Śloka 18
हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामोऽस्थिपर्वरुक्|
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे||१८||
हृत्पीडादिकं वातिके कीटविषे भवति| वाताधिके कीटविषे हृत्पीडादयः स्युः| हृत्पीडा हृदि वेदनाविशेषः| ऊर्ध्वानिलः ऊर्ध्वश्वासः| स्तम्भः स्तब्धताङ्गानाम्| सिरायामः सिराकर्षणम्| अस्थिषु पर्वसु च रुक् पीडाविशेषः| घूर्णनं भ्रमणम्| उद्वेष्टनं ग्रथनमिवाङ्गस्य| गात्रश्यावता शरीरे श्याववर्णत्वम्|| १८||
Adhikarana paittikakITaviShalakShaNam (19) · Śloka 19
संज्ञानाशोष्णनिःश्वासौ हृद्दाहः कटुकास्यता|
मांसावदरणं शोफो रक्तपित्तं च पैत्तिके||१९||
संज्ञानाशादिकं पैत्तिके कीटविषे| (पित्ताधिके कीटविषे संज्ञानाशादयः स्युः| संज्ञानाशो बुद्धिभ्रंशः| उष्णः श्वास उष्णनिःश्वासः| हृदि दाहो हृद्दाहः| कटुकास्यता कटुकवक्त्रत्वम्| मांसस्यावदरणं व्रणमुखात् खण्डशः पतनम्| रक्तपित्तं तत्संज्ञ्हो रोगविशेषः|| १९||
Adhikarana shlaiShmikakITaviShalakShaNam (20) · Śloka 20
छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः|
सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिके विषम्||२०||
छर्द्यादिकं श्लेष्माधिके| श्लेष्माधिकं कीटविषं शैत्यादिसहितैश्छर्द्यादिभिर्जानीयात्| शैत्यं शरीरे|| २०||
Adhikarana vAtikakITaviShe cikitsA (21) · Śloka 21
पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके|
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः||२१||
वातिकादीनां चिकित्सां क्रमेणाह-पिण्याकेनेत्यादिना हितान्तेन वातिके विषे चिकित्सा| वातिके वायव्ये विषे पिण्याकेन दंशव्रणे लेपस्तैलेनाभ्यङ्गः| तैलकथनेन घृतादिनिषेधः सूचितः| नाडीपुलाकाद्यैः स्वेदः नाडीस्वेदः पुलाकादिकृतः स्वेदश्च| पुलाकः पुलाकाख्यो धान्यविशेषः| पललं वा| आदिशब्देन कृसरोत्कारिकापायसपिण्डादयो गृह्यन्ते| बृंहणो विधिः बृंहणलंघनभेदेन द्विविधेषूपक्रमेषु बृंहणोपक्रमश्च हितः| तिलानां स्नेहार्थं पीडितानां किट्टं पिण्याक इति जेज्जटः|| २१||
Adhikarana paittikakITaviShe cikitsA (22) · Śloka 22
पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैः||२२||
शीतलैरित्यन्तेन पैत्तिके| पैत्तिकं विषं शीतलैः स्पर्शवीर्ययोः शीतैः सेकैः प्रलेपैश्च स्तम्भयेत् शमयेत्|| २२||
Adhikarana shlaiShmikakITaviShe cikitsA (23) · Śloka 23
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्||२३||
लेखनादिभिः श्लैष्मिकं जयेत्| श्लेष्माधिकं विषं लेखनादिभिर्जयेत्| लेखनं दंशव्रणस्य| छेदो दंशव्रणच्छेदः|| २३||
Adhikarana kITabhedena doShAnusAraprayogAH (24) · Śloka 24
कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता||२४||
त्रिप्रकाराणां वातादिभेदेन त्रिविधानां कीटानां त्रैविध्येन वातादिचिकित्साप्रकारेण क्रिया चिकित्सा हिता|| २४||
Adhikarana svedAdau sAmAnyaniyamaH (25) · Śloka 25
स्वेदालेपनसेकांस्तु कोष्णान् प्रायोवचारयेत्|
अन्यत्र मुर्च्छिताद्दंशपाकतः कोथतोऽपि वा||२५||
मूर्च्छाया दंशपाकाद्दंशकोथाच्चान्यत्र सर्वकीटेषु प्रायः कोष्णान् स्वेदादीनवचारयेत्| प्रायोग्रहणेन कुत्रचिच्छीतमपि योज्यमितिभावः|| २५||
Adhikarana kAshyapoktaM daMshadhUpanam (26) · Śloka 26
नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम्|
विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्||२६||
नृकेशादिना काश्यपोक्तं दंशधूपनम्| पीता इति सर्षपविशेषणम्| जीर्ण इति गुडविशेषणम्|| २६||
Adhikarana atideshena viShaghnavidhinirdeshaH (27) · Śloka 27
विषघ्नं च विधिं सर्व कुर्यात् संशोधनानि च||२७||
विषघ्नं च सर्वं विधिं संशोधनानि च कुर्यात्| सर्वेषु कीटविषेषु विषहरं सर्वं विधिं चिकित्सितं वमनविरेचनादीनि संशोधनानि च कुर्यात्|| २७||
Adhikarana ugrakITAdiShu visheShaH (28) · Śloka 28
साधयेत् सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः||२८||
विषोग्रैरुग्रविषैः कीटैर्वृश्चिकैश्च दष्टान् सर्पवत् सर्पदष्टवत् साधयेत् चिकित्सेत्| अनेन सर्वत्र विषाधिक्ये सर्पस्य विषोल्बणतया तद्वत्प्रतिकर्त्तव्यमित्यूह्यम्|| २८||
Adhikarana taNDulIyakAdiyogaH (29) · Śloka 29
तण्डुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबन्|
याति कीटविषैः कम्पं न कैलास इवानिलैः||२९||
तण्डुलीयकसमां त्रिवृतां सर्पिषा घृतेन पिबन् पुरुषः कीटविषैः तथा कम्पं न याति यथा कैलासोऽनिलैः|| २९||
Adhikarana dvau lepayogau (30) · Śloka 30
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः|
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्||३०||
क्षीरिवृक्ष इत्यादि सुबोधम्| शुद्ध इति वान्तविरिक्ते| मुक्तालेपः शोफादिप्रणुद्वरः श्रेष्ठश्च| मुक्तालेपोऽतिशयेन कीटदष्टानां शोफादिघ्नः|| ३०||
Adhikarana dashA~ggo agadaH (31) · Śloka 31
वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली|
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्|
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्||३१||
वचादिभिः काश्यपविनिर्मितं दशाङ्गनामानमगदं पीत्वा सर्वं कीटविषं जयेत्| वचादिकं काश्यपमुनिना विनिर्मितं दशद्रव्यकृतत्वाद्दशाङ्गसंज्ञमेतमगदमौषधयोगमनुक्तद्रवत्वाज्जलेनालोड्य पीत्व सर्वं कीटविषं जयेत्|| ३१||
Adhikarana mahAsnehAdiyogaH (32) · Śloka 32
ऐकध्यं कीटविषजिन्महास्नेहं पयो मधु||३२||
चत्वारः स्नेहाः क्षीरं मधु चेत्यैकध्यं पीतं कीटविषं जयेत्||३२||
Adhikarana shikhipicchAdidhUpaH (33) · Śloka 33
शिखिकुक्कुटजैः पिच्छः सतैललवणोत्तमैः|
धूपो हन्ति कृतः शीघ्रं कीटवृश्चिकजं विषम्||३३||
शिखिपिच्छादिभिर्धूपः कीटवृश्चिकजं विषं शीघ्रं हन्ति||३३||
Adhikarana kaNabhamatsyayorviSha cikitsA (34) · Śloka 34
विषे कणभजे कुर्यादुन्दुरोक्तमुपक्रमम्|
शिरीषबीजं मण्डूके लेपः स्नुक्क्षीरकल्कितम्|
मधुत्रिकटुकं श्वेतपिण्डामूलं च मत्स्यजे||३४||
कणभविषे उन्दुरोक्तमपक्रमं चिकित्सां कुर्यात्| सर्व एव कणभाश्चतुष्पादकीटाः साध्याश्चेति सुश्रुतटीका| उन्दुरुर्मूषकः| स्नुक्क्षीरेण सुधाक्षीरेण कल्कितं शिरीषबीजं मण्डूकविषे लेपः| मण्डूको दर्दुरः| मध्वादिना लेपो मत्स्यविषे| श्वेतपिण्डामूलं मदनमूलम्| श्वेतभिण्डा इति च पाठः| भिण्डा भिण्डीतको भिण्डी भिण्डकः क्षेत्रसम्भवः| चतुष्पदः सुशाकश्च करपर्णोस्रपत्रकः| वृत्तबीजश्चतुष्पुण्ड्रो भिण्ड इत्यभिधीयते| ग्राहिण्युष्णा रुचिकरी साम्ला भिण्डा प्रकीर्तिता| इति राजनिघण्टौ| 'मूलानि श्वेतभण्डीनामि'ति चरकपाठः| भिण्डा वेण्ट इति भाषा|| ३४||
Adhikarana vacAdi agadaH (35) · Śloka 35
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्|
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्|
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु|
कत्तृणं कटभीक्षारं गृहधूमं मनश्शिलाम्|
रोहीतकं च पित्तेन कल्कयेत्स वरोऽगदः|
विश्वम्भरादिष्वालेपनावनाञ्जनपानतः||३५||
वचादिकं केनचित् पित्तेन कल्कयेत् सोगदो विश्वम्भरादिष्वालेपनादितो वरः श्रेष्ठः| गुहा पृश्निपर्णी अतिगुहा सालपर्णी| श्वेता कटभी| कत्तृणं भूस्तृणम्| रोहीतकं दाडिमपुष्पकाख्यम्| नाकुली सर्पसुगन्धा| अजगन्धा पशुगन्धा शुक्ला| पित्तेन पिष्ट्वा आदिलेपाद् गोपित्तेनेत्यर्थः| इति जेज्जटः|| ३५||
Adhikarana shatapadIviShe agadaH (36) · Śloka 36
स्वर्जिकाजशकृत्क्षारः सुरसः साक्षिपीडकः|
मदिरामण्डसंयुक्तो हितः शतपदीविषे||३६||
स्वर्जिकादिभिरगदः शतपद्याः कर्णजलूकिकाया विषे हितः| अक्षिपीडकः शङ्खिनी|| ३६||
Adhikarana gRuhagodhikAviShe agadaH (37) · Śloka 37
कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकान्वितम्|
करञ्जो द्वे हरिद्रे च गृहगोधीविषापहः||३७||
कपित्थादिभिरगदो गृहगोधीविषापहः| कपित्थो दधित्थः| करञ्जो नक्तमालः|| ३७||
Adhikarana sarvaviShe agadaH (38) · Śloka 38
काकाण्डयुक्तः सर्वेषां विषाणां तण्डुलीयकः|
प्रशस्तो बर्हिणोऽण्डेन तद्वद्वायसपीलुकः||३८||
काकस्याण्डेन युक्तस्तण्डुलीयकः सर्वविषाणां प्रशस्तोऽगदः| तद्वच्च मयूराण्डेन वायसपीलुकः काकपीलुकफलानि| काकपीलुको गुञ्जा|| ३८||
Adhikarana makShikAviShe agadaH (39) · Śloka 39
तगरं नागरं नागकेसरं मरिचनि च|
प्रयुक्तं पानलेपाभ्यां मक्षिकाविषनाशनम्||३९||
तगरादिकं पानलेपाभ्यां पाने लेपने च प्रयुक्तं मक्षिकाविषनाशनं भवति|| ३९||
Adhikarana varaTIviShe agadaH (40) · Śloka 40
सितासिते च लवणे मरिचं च सनागरम्|
फणिज्जकरसोपेतं वरटीनां विषापहम्||४०||
सितासितलवणादिकं वरटीनां पिपीलिकानां विषापहम्| सितलवणं शुक्ललवणम्| असितलवणं कृष्णलवणम्| फणिज्जको मरुवकः, तस्य रसः|| ४०||
Adhikarana vRushcikaviShacikitsA sadyaH kartavyam (41) · Śloka 41
सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्|
विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा|
लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः|
सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा|
उपनाहो घृते भृष्टः कल्कोजाज्याः ससैन्धवः||४१||
वृश्चिकस्य विषाधिक्यात्तच्चिकित्सां पृथगाह-सद्य इत्यादि| चक्रादेव गृहीतं तैलमामं चक्रतैलं तेनाथवा विदारिगन्धया सालपर्ण्या सिद्धेनेषदुष्णेनेतरेण तिलतैलेन वृश्चिकजं दंशं सद्यः सेचयेत्| अथवा सलवणोत्तमेन घृतेन| लवणोत्तमं सैन्धवम्| अथवा कोष्णेन क्षीरलवणयुक्तेनारनालेन सिञ्चेत्| उपनाहो दंशे बन्धः| अजाजिरजमोदा| 'सक्षारलवणेन वा' इति च पाठः|| ४१||
Adhikarana svedAdi upacArAH daMshasthale (42) · Śloka 42
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्|
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः||४२||
आदंशमिति यत्र दंशस्तत्र स्वेदः| प्रच्छानं कृत्वा रजन्यादिचूर्णैः प्रतिसारणं दंशे| स्वेदितमनन्तरोक्तेनाजाजीकल्केन कृतोपनाहस्वेदमादंशं दंशव्रणावधिपरित इत्यर्थः| प्रच्छानं कृत्वा रजन्यादिचूर्णैः प्रतिसारयेदवकिरेत्| शिरीषस्य फलं पुष्पं च|| ४२||
Adhikarana lepanam (43) · Śloka 43
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्|
लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा||४३||
मातुलुङ्गाम्लेन गोमूत्रेण पिष्टं सुरसाग्रजं लेपे| सुखोष्णः पिण्याकोऽपि वा गोमयः मातुलुङ्गप्रक्षेपणादम्लीभूतेन गोमूत्रेण पिष्टं सुरसाग्रजं प्रलेपविषये हितम्| सुरसाग्रजं सुरसपुष्पम्| सुखोष्ण ईषदुष्णः पिण्याको गोमयो वा लेपनाय हितः| पिण्याकपेषणस्यानुक्तद्रवत्वात् पूर्वोक्तं गोमूत्रमेव ग्राह्यम्|| ४३||
Adhikarana pAnam (44) · Śloka 44
पाने सर्पिर्मधुयुत&ल्त्; क्षीरं वा भूरिशर्करम्|
गुडोदकं व सुहिमं चातुर्जातकवासितम्||४४||
माक्षिकयुक्तं घृतं पाने अथवा भूरिशर्करं क्षीरम्| सुबोधम्||४४||
Adhikarana shUlaghno lepaH (45) · Śloka 45
पलाशबीजं शूलघ्नो लेपोऽर्कक्षीरभावितम्||४५||
अर्कक्षीरभावितं पलाशबीजं वृश्चिकेषु शूलघ्नो लेपः|| ४५||
Adhikarana agadAH (46) · Śloka 46
पारावतशकृत्पथ्या तगरं विश्वभेषजम्|
बीजपूररसोन्मिश्रं वरोऽयं वृश्चिकागदः|
मनोह्वा सैन्धवं हिङ्गु मालतीपल्लवानि च|
गोशकृद्रसपिष्टेयं गुलिका वृश्चिकार्द्दिते|
लशुनो मरिचं हिङ्गु सुरसं विश्वभेषजम्|
अर्कक्षीरेण गुलिका वृश्चिकार्दितशङ्करी||४६||
पारावतपुरीषादिकोऽगदः सुबोधः| तथैव च मनोह्वादिगुलिका| लशुनादिका च| वृश्चिकेनार्द्दितः पीडितो वृश्चिकार्दितः शङ्करी सुखकरी|| ४६||
Adhikarana uShTradaMShTrAlepayogaH (47) · Śloka 47
सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्||४७||
उष्ट्रस्य दंष्ट्रा च शैवलेन युक्ता वृश्चिकविषं हन्ति| शैवलोपेता उष्ट्रस्य दंष्ट्रा च लेपाद् वृश्चिकविषं नाशयति|| ४७||
Adhikarana lepA~jjanArthe gulikA (49) · Śloka 48
हिङ्गुना हरितालेन मातुलुङ्गरसेन च|
लेपाञ्जनाभ्यां गुलिका परमं वृश्चिकापहा||४८||
हिङ्गुहरितालाभ्यां पिष्टाभ्यां मातुलुङ्गरसेन कृता गुलिका परमं वृश्चिकापहा लेपेऽञ्जने च प्रयुक्ता|| ४९||
Adhikarana kara~jjAdidaMshalepanam (49) · Śloka 49
करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च|
शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्||४९||
करञ्जादीनां पुष्पाणि मस्तुना पिष्टानि वृश्चिकदंशे लेपनम्||४९||
Adhikarana pippalyAdilepaH (50) · Śloka 50
पिप्पलीं मरिचं यष्टिं श्व्वेतां सुरसमञ्जरीम्|
सहदेवामपामार्गं तण्डुलीयं च कल्कयेत्|
कुतलक्षारतोयेन लेपोऽलिविषनाशनः||५०||
पिप्पल्यादीनि कुतलक्षारोदकेन कल्कितानि लेपोऽलिविषे| अलिर्वृश्चिकः|| ५०||
Adhikarana mohAdiShu lepayogaH (51) · Śloka 51
यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः|
तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्|
सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम्||५१||
यः कीटदष्टो मोहादियुक्तस्तस्य पथ्यादिकं मरिचान्तमलाबुवृन्तसहितं वार्ताकरसपिष्टं दंशलेपनम्| वृश्चिकदष्टो यो नरो मुह्यति मोहं गच्छति प्रश्वसिति तमकश्वासयुक्तश्च भवति उग्रवेदनस्तीव्रवेदनायुक्तः प्रलपति असम्बद्धानि भाषते तस्य वार्ताकरसपिष्टमलाबुवृन्तसहितं पथ्यादिकं प्रलेपनं हितम्| वार्ताकरसो वार्ताकफलरसः| वार्ताकस्तर्क्कारी| अलाबुवृन्तमलाबुपत्रवृन्तम्|| ५१||
Adhikarana daMshe kaNDUvAdau lepaH (52) · Śloka 52
आदंशे यस्य कण्डूः स्यात्कोथः कोठ दारुणम्|
तस्य लेपस्त्रिकटुकं यवक्षारोऽक्षिपीडकः|
पारावतशकृत्कान्तास्वर्जिकाग्निहरेणवः|
रसेन मातुलुङ्गस्य क्षारेणार्कस्य वा द्रुताः||५२||
दंश एवादंशस्तत्र यस्य कण्ड्वादिकं स्यात्तस्य लेपस्त्रिकटुकादयो मातुलुङ्गरसेनार्कक्षीरेण वा द्रुताः|| ५२||
Adhikarana hRudayapIDAdau visheShaH (53) · Śloka 53
हृदयं पीड्यते यस्य मूर्च्छा चिमिचिमायनम्|
दन्तौष्ठदंशो रोम्णां च हर्षस्तस्य निवर्त्तते|
वेगो विषस्य पञ्चाहान्नैव वा क्रियया विना|
तत्र कुर्वीत दंशस्य लेपनं मस्तुकल्कितैः|
श्वेतपाटल्यतिविषाहरिद्राहरिणीनतैः|
बिल्वमूलयवक्षारसूक्ष्ममागधिकायुतैः||५३||
यस्य वृश्चिकार्दितस्य हृदयपीडादिरोमहर्षान्तं भवति तस्य विषवेगः पञ्चाहाद्विनिवर्तते क्रियया चिकित्सया विना नैव वा निवर्तते| तत्र हृदयपीडादौ श्वेतपाटल्यादिर्बिल्बमूलादियुक्तैर्मस्तुकल्कितैर्दंशस्य प्रलेपनं कुर्वीत| हारिणी पीतयूथिका|| ५३||
Adhikarana utkarttanAdau visheShaH (54) · Śloka 54
उत्कृत्य इवादंशः शूनः क्लिन्नो हतच्छविः|
जम्बूफलनिभं रक्तं कूजन् वमति चेष्टते|
इन्द्रियार्थं न जानाति प्रस्विद्यति च यो मुहुः|
स्वर्जिकाकुष्ठतगरनाकुलीपीलुपिप्पलीः|
बृहतीं चाच्छ्वसुरया तस्य पिष्ट्वा विलेपनम्||५४||
उत्कृत्यत इव छिद्यत इवादंशो दंश इत्येवमादिकं यत्र तत्र स्वर्जिकादीनाच्छ्वसुरया पिष्टेन लेपनम्|| ५४||
Adhikarana ugrAliviShe kramaH (55) · Śloka 55
सर्वत्र चोग्रालिविषे पाययेन्मधुसर्पिषी|
विध्येत् सिरां विदध्याच्च वमनाञ्जननावनम्|
उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम्||५५||
सर्वत्र चोग्राणामलीनां विषे मधुसर्पिषी पाययेत्| सर्वत्रेति सर्वविकारेषु| अनिलापहान्तमुग्रालिविषे| सुबोधम्| उग्रालिबिषे सर्पकोथजनितोग्रविषवृश्चिकदष्टे सर्वत्र शूनरसनत्वादिविषविकारेषु| अथवा उग्रे दारुणे वृश्चिकविषे दधि च सर्पिश्च दधिसर्पिषी ते पाययेत् भिषगिति शेषः| सिरां ललाटादिस्थां यथासन्नं विध्येत्| वमनादिकं वातहरमुष्णादिगुणं भोजनञ्च विदध्यात्| अत्र वातघ्नत्वेऽपि लवणस्य तीक्ष्णोष्णत्वान्निषेधः|| ५५||
Adhikarana nAgarAdi agadaH (56) · Śloka 56
नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम्|
सैन्धवञ्च विनिहन्त्यगदोऽयं लेपतोऽलिकुलजं विषमाशु||५६||
नागरादिकोऽगदो लेपनादलिकुलजं व्रुश्चिकसमूहजं विषमाशु विनिहन्ति| गृहकपोतस्य पारावतस्य पुरीषम्| बीजपूररसपिष्टो नागरादिकोयमगदः प्रलेपनात्सर्ववृश्चिकोद्भूतं विषं सद्य एव हन्ति|| ५६||
Adhikarana vRushcikaviShaM paramauShadham (57) · Śloka 57
अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे|
विषेणालेपयेद्दंशं स्थावरेण यथोचितम्||५७||
वृश्चिकविषस्य परमौषधमाह-अन्ते इति| अनन्तरोक्तायां क्रियायामसिद्धायां व्रुश्चिकजे विषे भृशं समुदीर्णे स्थावरेण विषेण यथोचितं कृत्व दंशमालेपयेत्| अत्रान्तशब्दकथनेन प्राणसन्देहकारिणो विषस्य प्रयोगः नान्योपायिन्येव गदे कार्य इति च द्योत्यते| विषेण स्थावरेण वत्सनाभादिना दंशव्रणं प्रलेपयेत्||५७||
Adhikarana ucciTi~gge visheShaH (58) · Śloka 58
क्रियेयमुच्चिटिङ्गेऽपि प्रतिलोमं च पांसुभिः|
उद्वर्तनं सुखाम्लोष्णैस्तथा प्रच्छादनं घनैः||५८||
इयं च वृश्चिकोक्ता क्रिया उच्चिटिङ्गेऽपि योज्या| काञ्जिकादिना सुखाम्लैः सुखोष्णैश्च पांसुभिः प्रतिलोममुद्वर्तनं तथा घनैः पांसुभिः प्रच्छादनं च हितम्|| ५८||
Adhikarana kuTajaphalAdiyogaH pAnAdau (59) · Śloka 59
कुटजस्य फलं कुष्ठं मालती फलिनी नतम्|
तिक्तेक्ष्वाकुश्च पिष्टानि पानप्रधमनादिभिः|
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषापहम्|
समानममृतेनेदं गरशेषं च नाशयेत्||५९||
कुटजफलादिकं तिक्तेक्ष्वाक्वन्तमौषधं पानादिभिर्वृश्चिकादिविषापहममृतसमम्| गरशेषं च नाशयेत्|| ५९||
Adhikarana arkakShIrabhAvito~agadaH (60-43) · Śloka 43
अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलिचूर्णमिश्रम्|
एषोऽगदो हन्ति विषाणि कीट भुजङ्गलूतोन्दुरुवृश्चिकानाम्||६०||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कीटविष प्रतिषेधो नाम त्रिचत्वारिंशोऽध्यायः||४३||
पिप्पलीचूर्णेन मिश्रं शिरीषबीजं त्रीन् वारानर्कदुग्धेन भावितमगदः कीटादीनां विषाणि हन्ति| अर्कक्षीरेण त्रिवारं भावितं पेषणशेषणादिसंस्कारविशेषेण सम्पादितवीर्यं शिरीषबीजं पिप्पलीचूर्णेन मिश्रीकृत्य गुलिकां कुर्यात्| एषोऽगदः कीटादीनां विषं हन्ति|| ६०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे त्रिचत्वारिंशोऽध्यायः