Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

26. mukharōgapratiṣēdhaḥ

Adhikarana atha mukharogapratiShedho nAma ShaDviMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथात मुखरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

उक्तक्रमेणैव मुखरोगाणां चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana khaNDauShThacikitsA (2) · Śloka 2

स्निग्धस्विन्नस्य खण्डौष्ठस्यौष्ठान्तौ विलिख्य सुश्लिष्टौ क्षौमसूत्रेण सीव्येत्| शतधौतघृताभ्यक्तां चास्मै कवलिकां व्रणस्योपरि दद्यात्| प्रक्लिन्नं च व्रणं व्रणचिकित्सया साधयेत्||२||

🔊 Audio coming soon

तैलनस्यान्तं खण्डौष्ठसाधनम्| स्निग्धस्विन्नस्य पुंसः खण्डौष्ठस्योष्ठान्तौ सद्वैद्यो विलिख्य सुश्लिष्टौ कृत्वा सूत्रेण सीव्येत्| सुबोधम्||२||

Adhikarana khaNDauShThacikitsA (3) · Śloka 3

ज्योतिष्मतीलोध्रमधुकपटोलोत्पलकाकमाचीश्रावणीसारिवाभिस्तैलं विपक्वमभ्यञ्जनाच्छोधनरोपणम्| तथा वातहरमधुरौषधसिद्धं तैलं नस्यम्||३||

🔊 Audio coming soon

ज्योतिष्मत्यादिभिर्विपक्वं तैलमभ्यङ्गात् खण्डौष्ठव्रणस्य शोधनं रोपणं च| ज्योतिष्मती कङ्गुणिका| वातहरैर्भद्रदार्वादिभिर्मधुरवर्गेण च सूत्रोक्तेन सिद्धं तैलं नस्यं तथा शोधनं रोपणं च||३||

Adhikarana vAtauShThakopacikitsA (4) · Śloka 4

वातज ओष्ठकोपे देवदारुगुग्गुलुसर्जरसमधूच्छिष्टसिद्धेन महास्नेहेनाभ्यङ्गः| तेनैव समधुकचूर्णेन प्रतिसारणम्| तसभ्यक्तेन पिचुना प्रच्छदनम्| एरण्डपल्लवैः क्षीरक्वथितैर्नाडीस्वेदः| खण्डौष्ठोक्तं नावनं शिरोऽभ्यङ्गश्च||४||

🔊 Audio coming soon

शिरोऽभ्यङ्गश्चेत्येवमन्तं वातौष्ठकोपे| महास्नेहः चतुष्टयम्| तेनैवेति देवदार्वादिसिद्धमहास्नेहेन मधुयष्टीचूर्णयुक्तेन प्रतिसारणम्| रसक्रिया कल्कश्चूर्णश्चेति त्रिविधं प्रतिसारणं पूर्वमुक्तम्| पिचुः कार्पासचुलुकम्||४||

Adhikarana pittauShThakopacikitsA chatauShThe ca (5) · Śloka 5

पित्तोत्थेऽभिघातजे च जलौकोभिर्विस्रावणम्| पत्तङ्गयष्टीच्छिन्नरुहाविपक्वं सर्पिरभ्यङ्गः| मधुमधूकलोध्रसर्जरसैः प्रतिसारणम्| पित्तविद्रधिवच्च चिकित्सा||५||

🔊 Audio coming soon

पित्तज ओष्ठकोपे तथाऽभिघातजे क्षतजे च पित्तविद्रधिचिकित्सान्तम्| सुबोधम्||५||

Adhikarana raktauShThakopacikitsA (6) · Śloka 6

रक्तजेऽप्यचिरोत्थिते पैत्तिकवत् प्रतिकुर्यात्|६|

🔊 Audio coming soon

रक्तजे पैत्तिकवत् रक्तौष्ठकोपस्यासाध्यत्वोक्तेरचिरोत्थित इति विशेषणम्||६||

Adhikarana kaphauShThakopacikitsA (6) · Śloka 6

कफजे जलौकोभिः शाकादिपत्रैर्वा रक्तं विस्राव्य व्योषपाठायवक्षारस्वर्जिकाक्षारैः सक्षौद्रैः प्रतिसारयेत्| कुष्ठतगरदन्तीश्यामाबिडहरितालविडङ्गैर्वा| स्वेदनस्य धूमकवलांश्च कफघ्नानवचारयेत्||६||

🔊 Audio coming soon

कफघ्नस्वेदाद्युपचारणान्तं कफौष्ठकोपे| तत्र प्रथमं जलौकोभिः शाकाख्यतरूपत्रेण वा रक्तविस्रावणम्| ततो व्योषादिभिः सक्षौद्रैः प्रतिसारणमिति सम्बन्धः||६||

Adhikarana medoShThakopacikitsA (7) · Śloka 7

मेदोजे दन्तच्छदं स्वेदयित्वा वृद्धिपत्रेण विपाट्य शुद्धमेदसमग्निमुपचरेत्| कफजोक्तैश्च प्रतिसारणम्| जलार्बुदोक्तं रोपणम्||७||

🔊 Audio coming soon

रोपणान्तं मेदोष्ठ्कोपे| दन्तश्छद ओष्ठः| शुद्धमेदसं समग्निनामुपचरेत्| कफजोक्तैर्व्योषादिभिः प्रतिसारणम्| जलार्बुदोक्तं हरिद्रादिविपक्वं तैलं व्रणरोपणम्||७||

Adhikarana jalArbudacikitsA (8) · Śloka 8

जलार्बुदं भित्वा विशोध्य त्रिकटुकटुकातेजोवतीयवक्षारस्वर्जिकासैन्धवकासीसचूर्णैः सक्षौद्रैः प्रतिसारयेत्| अवगाढमतिवृद्धं वा क्षारेणाग्निना वा दहेद्धरिद्रालोध्रमधुकमालतीहरेणुतगरैर्विपक्वं तैलं रोपणम्||८||

🔊 Audio coming soon

जलार्बुदं भित्वा ऋज्ववगाढञ्च शस्त्रं न्यस्य विशोध्य अन्तर्मलापनयनप्रक्षालनादिना सक्षौद्रैस्त्रिकटुकादिभिः प्रतिसारणं कुर्यात्| अवगाढं क्षारेणातिवृद्धमग्निना वा दहेत्| सुबोधम्| सन्निपातमांसौष्ठकोपौष्ठार्बुदान्यसाध्यान्युक्तानि| इत्योष्ठ्रोगाः||८||

Adhikarana gaNDAlajIcikitsA (9) · Śloka 9

गण्डालजीमपक्वां शोफवद्विदग्धामुपनाह्य पक्वां विदार्य व्रणवत् साधयेत्||९||

🔊 Audio coming soon

व्रणवत् साधयेदित्यन्तं गण्डालज्याम्| इति गण्डरोगः|| ९||

Adhikarana SItadantacikitsA (10) · Śloka 10

शीतदन्तस्योष्णाम्बुस्विन्नस्य व्रीहिमुखेन पालीं लिखित्वा पिचुतैलेन दहेत्| प्रतिसारयेच्च प्रियङ्गुजम्ब्वस्थिदाडिमत्वक्त्रिफलारसाञ्जनसैन्धवशुण्ठीमुस्तचूर्णैः समधुघृतैः| क्षीरिवृक्षकषायो गण्डूषः| अणुतैलं नस्यम्||१०||

🔊 Audio coming soon

अणुतैलनस्यान्तं शीताख्ये दन्तरोगे| शीतो दालन इति पर्यायौ| प्रतिसारयेच्च| केनेत्याह प्रियङ्ग्वादीनां चूर्णेः समधुघृतैः||१०||

Adhikarana dantaharSha - dantabhedayoshcikitsA (11) · Śloka 11

दन्तहर्षे भेदे च वातहरसिद्धं तैलमेलाकुष्ठपाटलीत्वग्विपक्वो मज्जा वा गण्डूषः| स्निग्धाश्च नस्यादयः||११||

🔊 Audio coming soon

स्निग्धाश्च नस्यादय इत्यन्तं दन्तहर्षदन्तभेदयोः| एलादिविपक्वो मज्जा विज्ञेयः||११||

Adhikarana dantacAlacikitsA (12) · Śloka 12

दन्तचाले दशमूलक्वाथेन तैलसर्पिर्वसाक्षौद्रैश्च कवलः| पिप्पलीसैन्धवतुत्थलोध्रपत्तङ्गस्रोतोजमुस्तात्रिफलाः प्रतिसारणम्| नियतं च स्नैहिकधूमपायी स्निग्धमधुराहारो विस्रावणपरः स्यात्| चन्दनपद्मकमधुकविदारीकशेरुकनीलोत्पलमृद्वीकाजीवकर्षभसशर्कराणां प्रत्येकं पलेन क्षीरेण च मांसरसाद्विगुणेन तैलप्रस्थं विपाचयेत्| एतन्नस्यगण्डूषप्रयोगात्परं दशननयनश्रवणबलकरम्||१२||

🔊 Audio coming soon

श्रवणबलकरमित्येवमन्तं दन्तचाले| दशमूलक्वाथेन वा तैलादिभिर्वा कवलग्रहः| पिप्पल्यादिभिः प्रतिसारणम्| अत्र चाल आतुरो नियतं सदा स्नैहिकाख्यधूमपायी स्यात्| स्निग्धमधुराहारो विस्रावणपरश्च| विस्रावणं विरेचनम्| चन्दनादिना तैलं नस्यगण्डूषयोरिति|| १२||

Adhikarana adhidantacikitsA (13) · Śloka 13

अधिदन्तकं क्षारेणालिप्य जर्जरं विज्ञाय कृमिदन्तकविधिनोत्पाट्य तद्वदेवोपचरेत्| अनवस्थितशोणितञ्च दग्ध्वा व्रणवदुपक्रमेत||१३||

🔊 Audio coming soon

व्रणवदुपक्रमेतेत्येवमन्तमधिदन्ते| जर्जरं त्यक्तस्थैर्यम्| कृमिदन्तस्योत्पाटनविधिनोपचरणं चात्रैव वक्ष्यते| अनवस्थितशोणितमनवरुद्धशोणितम्||१३||

Adhikarana dantaSarkarAcikitsA (14) · Śloka 14

दन्तशर्करां दन्तमूलान्यपीडयन् दन्तलेखनेन विलिख्य क्षारतैलेनावसेचयेत्| मूषाकूर्पपाटलीत्वक्चूर्णेन प्रतिसारणम्| सदा च दन्तधावनादीन् सेवेत| दन्तहर्षोक्तं च कुर्यात्||१४||

🔊 Audio coming soon

दन्तहर्षोक्तं च कुर्यादित्येवमन्तं दन्तशर्करायाम्| दन्तमूलान्यपीडयन् रक्षन्| दन्तलेखनं नाम शस्त्रं शस्त्रविध्युक्तम्| क्षारतैलं क्षारपक्वं तैलम्| मूषा सुवर्णाद्यावर्त्तनी| कूर्पं प्रस्तरचूर्णम्| दन्तहर्षोतं वातहरसिद्धमित्यादिकम्||१४||

Adhikarana dantakapAlikAcikitsA (15) · Śloka 15

कपालिकायामेतदेव विशेषतः शीलयेत्||१५||

🔊 Audio coming soon

कपालिकाख्ये दन्तरोगे एतदेव दन्तशर्करोक्तं विशेषेण शीलयेत्||१५||

Adhikarana kRumidantacikitsA (16) · Śloka 16

कृमिदन्तके सुषिरं गुडेन मधूच्छिष्टेन सर्पिषा वा पूरयित्वा तप्तया कुब्जशलाकया दहेत्| सप्तच्छदार्कक्षीरं वा पूरणम्| सर्षपकरञ्जतैलम्||१६||

🔊 Audio coming soon

शीतोपचारश्च सुतरामित्येवमन्तं कृमिदन्ताख्ये| सुषिरमन्तःशून्यं कृमिदन्तस्थं गुडाद्यन्यतमेन पूरयित्वा कुब्जया शलाकया दहेत्| सप्तच्छदक्षीराद्यन्यतमपूरणं रुजमपहरतीत्युर्ररेण सम्बध्यते||१६||

Adhikarana kRumidantacikitsA (17) · Śloka 17

हिङ्गुविडङ्गस्वर्जिकाकट्फलकासीसकुष्ठचूर्णस्तान्तवबद्धो दन्तस्योपरि तिष्ठन् रुजमपहरति| कुन्दुरुष्कचूर्णो वा| एभिरेव च सिद्धं तैलं गण्डूषः| दृढगूढमूलमांसे सरुजे विस्रावणम्| भग्नस्फुटितविवर्णसुप्तचलस्य सरुजस्य च||१७||

🔊 Audio coming soon

हिङ्ग्वादिचूर्णस्तान्तवे वस्त्रे बद्धो दन्तस्योपरि तिष्ठन् रुजमपहरति| कुन्दुरुष्कचूर्णो वा तान्तवावबद्धः एभिरिति हिङ्वादिभिः दृढ इत्यादिकं कृमिदन्तविशेषणम्| विस्रावणं रक्तस्य||१७||

Adhikarana kRumidantacikitsA (18) · Śloka 18

एवमनुपशमे सन्दंशयन्त्रेण दन्तमायतं गृहीत्वा विचाल्य शस्त्रेण पार्श्वेभ्यो मोक्षयित्वोद्धरेत्| दन्तनिर्घातनेनोत्पीड्य मुद्गरेणाश्मना वा निर्घातयेत्| न तूत्तरं दन्तम्||१८||

🔊 Audio coming soon

एवमनन्तरोक्तक्रिययाऽनुपशमे दन्तमुद्धरेत्| कथमित्याह-सन्दंशयन्त्रेणेत्यादि| सन्दंशयन्त्रं यन्त्रशस्त्रविधेः स्मर्तव्यम्| उत्तरदन्तपाल्यामुद्भूतं दन्तं नैवोद्धरेत् ||१८||

Adhikarana kRumidantacikitsA (19) · Śloka 19

तस्योद्धरणात् छोणितात्ययः ततश्चोन्द्रियभ्रंशो वातव्याधिर्वा||१९||

🔊 Audio coming soon

कुत इत्याह-तस्येत्यादि| शोणितात्ययो रक्तक्षयः| ततश्चेति शोणितात्ययात्||१९||

Adhikarana kRumidantacikitsA (20) · Śloka 20

प्रक्षालितमुखश्च समधुकचूर्णं तैलं मधु वा गण्डूषं धारयेत्||२०||

🔊 Audio coming soon

प्रक्षालित इत्यादिना दन्तोद्धरणानन्तरकरणीयमाह| अनुक्तद्रवत्वात् केवलजलेन प्रक्षालितमुखस्सन् मधुकचूर्णयुक्तं तैलं माक्षिकं वा गण्डूषं धारयेत्| मधुकं यष्टिमधुकम् ||२०||

Adhikarana kRumidantacikitsA (21) · Śloka 21

विदारीमधुकश्रृङ्गाटककशोरुकाभिः तैलं दशगुणे पयसि सिद्धं नस्यम्||२१||

🔊 Audio coming soon

विदारीमधुकादिभिः कल्कितैर्दशगुणे क्षीरे सिद्धं तैलं नस्यं हितम्| श्रृङ्गाटको जलकन्दविशेषः||२१||

Adhikarana kRumidantacikitsA (22) · Śloka 22

उत्तरदन्तोद्धरणेऽप्ययमेव प्रतीकारः| शीतोपचारश्च सुतराम्||२२||

🔊 Audio coming soon

यत्र चाज्ञानादुत्तरो दन्त उद्धृतस्तत्राप्ययमेव विधिः| अत्र तु सुतरां शीतोपचारः कार्यः| करालश्यावावसाध्यावुक्ताविति दन्तरोगाः||२२||

Adhikarana SItAdacikitsA (23) · Śloka 23

शीतादे शोणितं विस्राव्य रसाञ्जनमुस्तत्रिफलार्जुनत्वक्प्रियङ्गुमहौषधकायं गण्डूषं धारयेत्| एभिरेव च सक्षौद्रैः प्रतिसारणम्| मधुरवर्गसिद्धं तैलं नस्यम्| तेजोवतीव्योषहरिद्राद्वयकुष्ठपाठाकटुरोहिणीलोध्रसमङ्गामुस्तैः प्रतिसारणं सर्वदन्तमांसामयेषु कण्डूश्वयथुवेदनारक्तस्रुतिहरम्| तथा व्योषयवक्षारमनश्शिलासैन्धवदार्वीत्वग्भिः| एभिरेवौषधैर्गुटिका सर्वमुखरोगहरा||२३||

🔊 Audio coming soon

एभिर्गुटिका सर्वमुखरोगहरेत्येवमन्तं शीतादाख्ये| रसाञ्जनादिकषायो गण्डूषः| एभिरेवेति रसाञ्जनादिभिः| मधुरवर्गः सूत्रोक्तस्तेन साधितं तैलं नस्यम्| तेजोवत्यादिचूर्णं सर्वदन्तमांसामयेषु कण्ड्वादिहरम्| व्योषादिभिस्तथेति तेजोवत्यादिचूर्णवत्| एभिरेवेति व्योषादिभिः|| २३||

Adhikarana upakuSacikitsA (24) · Śloka 24

उपकुशे सुखोष्णाम्बुस्विन्नान्युत्सन्नानि दन्तमांसान्यवलिखेन्मण्डलाग्रेण शाकादिपत्रैर्वा| ततः सुखोष्णो घृतमण्डस्तैलं वा गण्डूषः| मरिचकुष्ठमधुकप्रियङ्गुलाक्षापत्तङ्गगैरिकरसाञ्जनशुण्ठीसैन्धवैर्मधुघृतमण्डयुक्तैः प्रतिसारणम्| पृथक्पर्णीविडङ्गविदारीमधुकपयस्यासुरदारुविपक्वं तैलं गण्डूषो नस्यञ्च| अधुरवर्गसिद्धमेव वा सर्पिः पुनः पुनश्च रुधिरावसेकः||२४||

🔊 Audio coming soon

रुधिरावसेकान्तमुपकुशाख्ये सुबोधम्| उत्सन्नान्यत्युत्सन्नानि|| २४||

Adhikarana dantapuppuTakacikitsA (25) · Śloka 25

दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलिखिते स्वर्जिकामधुकशुण्ठीसैन्धवैः प्रतिसारणम्||२५||

🔊 Audio coming soon

दन्तपुप्पुटाख्ये पूर्वमुष्णाम्बुधारणेव संस्वेद्य पुनश्छेदभेदनं कृत्वानन्तरं सति स्वर्जिकादिचूर्णैः प्रतिसारणं कुर्यात्||२५||

Adhikarana dantavidradhicikitsA (26) · Śloka 26

दन्तविद्रधौ तिक्तकटुकषायोष्णैः समूत्रैः कवलो लेपश्च| वृश्चिकालीकुष्ठकटुकायवक्षारैः प्रतिसारणम्| तं च पाकतो रूक्षशीतैरन्तर्बहिः प्रयुक्तैर्वारयेत्| पक्वे तु पाटनमवगाढे दाहः| त्रिफलासुमनोरिष्टक्वाथो गण्डूषः| यष्टीमधुकसिद्धः सर्पिर्मण्डो नस्यम्||२६||

🔊 Audio coming soon

सर्पिर्मण्डो नस्यमित्येवमन्तं दन्तविद्रधौ| तिक्तादिरसैर्द्रव्यैर्मूत्रयुक्तैः कवलो लेपनः| वृश्चिकाल्यादिभिः प्रतिसारणम्| वृश्चिकाली उष्ट्रधूमकः| तं च विद्रधिमन्तर्बहिश्च प्रयुक्तैः रूक्षशीतैः पाकतो वारयेत्| अशक्त्या तु पक्वे पाटनमवगाढे कठिने दाहः| त्रिफलादिक्वाथो गण्डूषः|| सुबोधम्||२६||

Adhikarana suShiracikitsA (27) · Śloka 27

सुषिरे छिन्नलिखिते लोध्रमुस्तत्रिफलाकिंशुकपतङ्गतार्क्ष्यशैलशतपुष्पाकट्फलैरवघर्षः| तेषामेव क्वाथे गण्डूषः| क्षीरिवृक्षकिंशुकामलकानां वा| गैरिकोत्पलमधूकसारिवाचन्दनप्रपौण्डरीकशर्कराऽनन्तालोध्रागरुसिद्धं तैलं नावनम्||२७||

🔊 Audio coming soon

तैलं नावनमित्येवमन्तं सुषिराख्ये| छिन्नस्य शेषे लेखनम्| लोध्रादिभिरवघर्षणम्| तेषामिति लोध्रादीनां क्षीरिवृक्षादीनां वा क्वाथो गण्डूषः| गैरिकादिसिद्धं तैलं नावनम्||२७||

Adhikarana adhimAMsacikitsA (28) · Śloka 28

अधिमांसकमचिरोत्थितं स्रावयेत्| विवृद्धन्तु बडिशेन मुचुट्या वा गृहीत्वा मण्डलाग्रेण छित्वा तीक्ष्णैः प्रतिसारयेत्| कटुतीक्ष्णैः कवलस्तैलं वा यवक्षारावचूर्णितम्||२८||

🔊 Audio coming soon

तैलं यवक्षारावचूर्णितमित्येवमन्तमधिमांसे| सुबोधम्||२८||

Adhikarana vidarBacikitsA (29) · Śloka 29

विदर्भे दन्तमूलानि शस्त्रेण विशोध्य क्षारं प्रयुज्य घृतमण्डं गण्डूषे दद्यात्| लोध्रपत्तङ्गमञ्जिष्ठामधुकचूर्णः प्रतिसारणम्| काकोलीयष्टीमधुशर्कराविपक्वं तैलं नावनम्||२९||

🔊 Audio coming soon

विदर्भे शस्त्रेण मण्डलाग्रनाम्ना दन्तमूलानि विशोध्य क्षारं प्रयुज्य गण्डूषे घृतमण्डं दद्यात्| लोध्रादिभिः प्रतिसारणं काकोल्यादिविपक्वं तैलं नावनं च||२९||

Adhikarana dantanADIcikitsA (30-33) · Śloka 33

दन्तनाडीमेषयित्वा संवृतां शस्त्रेण विवृतयित्वा तदाश्रितं दन्तमशेषमुद्धृत्य शलाकया दहेत्| कुब्जामवगाढामनेकगतिं वा गुडमधुसिक्थान्यतमपूर्णाम्| ततः क्षीरिवृक्षकषायेण गण्डूषं धारयेत्| तत्सिद्धेन वा तैलेन||३०|| दन्तीखदिरसारमदनस्वादुकण्टकक्वाथे लोध्रवालकोशीरदेवदारुमञ्जिष्ठामधुकल्कविपक्वं तैलं सर्षपतैलं वा नाडीशोधनरोपणम्||३१|| प्रपौण्डरीकहरिद्राद्वयमधुकमधूच्छिष्टलोध्रकटुकीशर्करापद्मकचन्दनमूर्वोपोदकावास्तुकतण्डुलीयकमञ्जिष्ठाम्लीकाकपित्थपत्रैर्वा||३२|| नस्यं च विडङ्गमधुकमुस्तनिर्गुण्डीखदिरमञ्जिष्ठोशीरसुरतरुसिद्धं तैलम्| धूमासृक्स्रावणनावनानि शीलयेत्| नाडीसाधनं चेक्षेत||३३||

🔊 Audio coming soon

नाडीसाधनं चेक्षेतेत्यन्तं दन्तनाड्याम्| संवृतां दन्तनाडीमेषिण्या एषयित्वाऽनन्तरं शस्त्रेण विवृतां कृत्वा तदाश्रितं दन्तं सन्दंशकदन्तनिर्घातयोरन्यतरेणाशेषमुद्धृत्याऽग्नितप्तया शलाकया दहेत्| कुब्जां वक्रामवगाढामन्तरतिप्रविष्टामनेकगतिं वा नाडीं गुडाद्यन्यतमपूर्णां कृत्वा दहेत्| अनन्तरं क्षीरिवृक्षाणां वटाश्वत्थप्लक्षसदाफलानां कषायेण तत्सिद्धेन तैलेन वा गण्डूषं धारयेत्| दन्त्यादिभिः साधितं तैलं नाडीशोधनं रोपणं च| अथवा केवलं सर्षषतैलम्| प्रपौण्डरीकादिभिर्वा सिद्धं तैलं पूर्वगुणम्| पत्रशब्दस्योपोदकादिभिः सम्बन्धः| विडङ्गादिभिः सिद्धं तैलं नस्यम्| धूमादीनि च शीलयेत्| नीडीव्रणचिकित्सितं चेक्षेत तदुक्तोपक्रमविधानाय| महासुशिरो निचयान्नाडी चासाध्ये| इति दन्तमूलरोगाः|| ३०-३३||

Adhikarana jihvAkaNTakacikitsA (34) · Śloka 34

वातजेषु जिह्वाकण्टकेषु वातौष्ठकोपोक्तो विधिः| पित्तजेषु विघृष्टस्रुतरुधिरेषु स्वादुभिर्द्रव्यैरवघर्षणगण्डूषनावनानि कुर्यात्| तद्वत् कफजेषु तीक्ष्णैः||३४||

🔊 Audio coming soon

वातजेषु जिह्वाकण्टकेषु वातौष्ठकोपे यो विधिर्महास्नेहाभ्यङ्गप्रतिसारणादिरुक्तस्स कार्यः| पित्तजेषु विघर्षणेन दुष्टरक्तविस्रावणं ततश्च स्वादुभिर्द्रव्यैरवघर्षणादीनि कुर्यादिति| तद्वत् कफजेषु| तीक्ष्णैरित्यनेनैतदुक्तं कफजेषु जिह्वाकण्टकेष्ववघर्षणेन स्रुतदुष्टरुधिरेषु तीक्ष्णैर्द्रव्यैरवघर्षणादीनि कुर्यादिति||३४||

Adhikarana jihvAlasacikitsA (35) · Śloka 35

जिह्वालसे नवोत्थिते तीक्ष्णाः प्रतिसारणादयः| न चात्र शस्त्रमवचारयेत्| सिरां तु विध्येत्||३५||

🔊 Audio coming soon

सिरां तु विध्येदित्येवमन्तमलसे| तस्य चासाध्यत्वोक्तेर्नव इति विशेषणम्||३५||

Adhikarana adhijihvopajihvayoScikitsA (36) · Śloka 36

अधिजिह्वामुन्नम्य बडिशेन गृहीत्वा मण्डलाग्रेण छिन्द्यात्| तीक्ष्णाश्च नस्यादयः| उपजिह्वां शाकपत्रेणाङ्गुलिशस्त्रेण वा विस्राव्य यवक्षारेण प्रतिसारयेत्||३६||

🔊 Audio coming soon

अधिजिह्वायामुपजिह्वायां च छेदनविस्रावणादि| सुबोधम्| इति जिह्वारोगाः||३६||

Adhikarana galaSuNDikAcikitsA (37) · Śloka 37

गलशुण्डिका कफघ्नैरुपाचरेत्| वृद्धायां तूर्वारुबीजनिभमसिराततमग्रमुपरिजिह्वया निविष्टं बडिशेन मुचुट्या वा वस्त्रवेष्टिताभ्यां वामाङ्गुष्ठप्रदेशिनीभ्यां गृहीत्वा मण्डलाग्रेण नात्यग्रे नातिमूले छिन्द्यात्| अग्रच्छेदादनुपशमः शोफो लालादिवृद्धिर्वा| अतिच्छेदाच्छोणितक्षयेण मरणम्| सम्यक् च्छिन्नायां पूर्ववत् प्रतिसारणादयः||३७||

🔊 Audio coming soon

गलशुण्डिका कफघ्नैः कफहरैर्द्रव्यैरुपाचरेत् चिकित्सेत्| वृद्धायामिति गलशुण्डिकायां उर्वारोः कर्कटिकायाः बीजेन सदृशं सिरारहितं प्रदेशं बडिशादिना ग्राह्यम्| नात्यग्रेऽतिमूले च छिन्द्यादित्यत्र हेतुमाह-अग्र इत्यादि| पूर्ववदिति तीक्ष्णैरुपजिह्वात्||३७||

Adhikarana atideshena tAlusa~gghAtAdInAM cikitsA (38) · Śloka 38

तालुसङ्घाते पुप्पुटे कच्छपे च नवे विधिरयम्| शस्त्रकर्मणि तु विशेषः| अत्र हि विलेखनम्||३८||

🔊 Audio coming soon

तालुसङ्घाते तथा पुप्पुटे तथा नवे कच्छपे चायमेव गलशुण्डिकोक्तो विधिः| अत्र तालुसङ्घातादिके शस्त्रकर्मण्येव विशेषः| अत्र हि त्रये शस्त्रेण विलेखनं गलशुण्डिकायां तु छेदनमिति||३८||

Adhikarana tAlupAkacikitsA (39) · Śloka 39

तालुपाके त्वपक्वस्य श्वयथोः कासीसरसाञ्जनक्षौद्रः प्रतिसारणम्| मधुरकषायैः शीतैर्गण्डूषः| पक्वस्य मण्डलाग्रेणाष्टापदवत् भेदनम्| तीक्ष्णैरवघर्षणम्| पटोलारिष्टजातीकरवीरगुडूचीवृषकटुकाहरिद्राद्वयवेत्राग्रकण्टकारिकाक्वाथः कवलो मधु तैलं च||३९||

🔊 Audio coming soon

तालुपाके तु अपक्वस्य पाकावस्थामप्राप्तस्य श्वयथोः शोफस्य कासीसादिभिः प्रतिसारणं कुर्यात्| रसाञ्जनं तार्क्षयम्| शीतैः स्पर्शतो वीर्यतश्च मधुरादिभिरौषधैर्गण्डूषो धार्यः| अष्टापदवदिति अष्टापदं चतुरङ्गपीठम्| तत् कोष्ठाकृतिछेदनमष्टापदवत् भेदनम्| तीक्ष्णैर्मरिचादिभिरवघर्षणम्| पटोलादिक्वाथे मधुतैलं च कवलः||३९||

Adhikarana tAluSoShacikitsA (40) · Śloka 40

तालुशोषे मधुकपिप्पलीनागरसिद्धं सर्पिरुत्तरभक्तिकं सतृष्णः पिबेत्| अम्लैश्चास्य गण्डूषः| पयस्या मधुकमधूलिकाविपक्वं क्षीरसर्पिर्नस्यम्| स्निग्धो धूमः| तृष्णाघ्नमन्नपानम्||४०||

🔊 Audio coming soon

तालुशोषे सतृष्णस्तृष्णासहितो मधुकादिसिद्धं सर्पिर्घृतमुत्तरभक्तिकं पिबेत्| उत्तरं भक्तं यस्य तदुत्तरभक्तिकं भक्तात्पूर्वमित्यर्थः| अस्य तालुशोषवतोऽम्लैरम्लद्रव्यैर्गण्डूषः पयस्यादिसिद्धं क्षीराद् गृहीतं सर्पिर्नस्यं स्निग्धधूमादि च हितम्| इति तालुरोगाः|| ४०||

Adhikarana kaNTharoge sAdhAraNacikitsA (41) · Śloka 41

कण्ठरोगेषु तु ज्वराद्यनुपद्रुतेषु कटुतीक्ष्णैर्नस्यावघर्षणगण्डूषादयः सिराव्यधो रसाञ्जनेन्द्रयवदार्वीनिम्बक्वाथं पानम्| व्योषयवक्षारदार्वीरसाञ्जनतेजोवतीपाठानिम्बत्वक्त्रिफलाचित्रकैः शुक्तगोमूत्रक्वथितैः कवलो गुटिका वा प्रतिसारणम्| तालीसपत्रगृहधूमपञ्चकोलकैलमरिचपलाशमुष्ककक्षारयवक्षारैर्यवक्वाथेन गुटिकाः कृताः सर्वकण्ठरोगेष्वमृतोपमाः||४१||

🔊 Audio coming soon

कण्ठरोगेषु ज्वराद्युपद्रवरहितेषु कटुतीक्ष्णैरौषधैर्नस्यादयः| सिराव्यधेनासृङ्मोक्षः| रसाञ्जनादिक्वाथः पानम्| रसाञ्जनं तार्क्ष्यम्| इन्द्रयवः कलिङ्गः| शुक्तगोमूत्रसाधितैर्व्योषादिभिः कवलः प्रतिसारणं वा| तालीसादिभिर्यवक्षारान्तैर्यवक्वाथेन कृता गुटिकाः सर्वकण्ठरोगेष्वमृतोपमाः| इति साधारणचिकित्सा||४१||

Adhikarana vAtarohiNIcikitsA (42) · Śloka 42

अथ वातरोहिणीकामान्तर्बहिः स्विन्नामङ्गुलिशस्त्रकेण मधुलवणगर्भेण वा नखेन विस्राव्य तीक्ष्णैः प्रतिसारयेत्| महापञ्चमूलक्वथो गन्डुषः| एलापुनर्नवसिंहीकपित्थकल्कपयोविपक्वं तैलं गण्डूषो नावनं च||४२||

🔊 Audio coming soon

अथेति मङ्गले दुष्करप्रतिक्रियत्वान्मङ्गलपूर्वकं वातरोहिणिकामुपक्रमेत्| अन्तरभ्यन्तरे बहिर्बहिर्भागे च स्विन्नामङ्गुलिशस्त्रेण मध्वादिगर्भेण नखेन वा विस्त्राव्य तीक्ष्णैर्मरिचशुण्ठ्यादिभि प्रतिसारयेत्| महापञ्चमूलं बिल्वादि तत्क्वाथो गण्डूषः| एलादिकल्केन पयसा च विपक्वं तैलं गण्डूषो नावनं च||४२||

Adhikarana pittarohiNIcikitsA (43) · Śloka 43

पित्तजामप्येवं विस्राव्य पतङ्गशर्करालोध्रप्रियङ्गुभिः प्रतिसारयेत्| एषामेव कषायो गण्डूषः| द्राक्षापरूषकोशीरमधुकचन्दनक्वाथो वा| त्रिफलातिल्वकश्यामाश्रीपर्णीत्वङ्मधुयष्टिकाभिर्दशगुणे पयसि सिद्धं सर्पिर्नस्यकवलभोजनेषु||४३||

🔊 Audio coming soon

पित्तजां रोहिणीमप्येवमङ्गुलिसस्त्रेण नखेन वा विस्राव्य पतङ्गादिभिः प्रतिसारयेत्| एषां पतङ्गादीनामेव वा क्वाथे द्राक्षादिक्वाथो वा गण्डूषः| त्रिफलादिभिर्घृताद्दशगुणे क्षीरे सिद्धं सर्पिर्नस्यादिषु हितम्|| ४३||

Adhikarana raktajarohiNIcikitsA (44) · Śloka 44

रक्तजामप्येवं प्रत्याख्यायोपक्रमेत्||४४||

🔊 Audio coming soon

रक्तजाऽसाध्योक्ता तां प्रत्याख्याय न सेत्स्यतीति प्रत्याख्याय चिकित्सेदेव न तूपेक्षेत| एवमिति पित्तरोहिणीचिकित्सया||४४||

Adhikarana kaParohiNIcikitsA (45) · Śloka 45

श्लैष्मिकीं स्वेदयित्वा विलिख्य कटुकवर्गेणागारधूमत्रिफलासैन्धवयुक्तेन प्रतिसारयेत्| तद्विधाश्च गण्डूषाः| निम्बजात्यपामार्गविडङ्गविपक्वं तैलं नस्यम्||४५||

🔊 Audio coming soon

श्लैष्मिकीं स्वेदयित्वा विलिख्य चागारधूमादियुक्तेन कटुकवर्गेण प्रतिसारयेत्| अगारधूमं धूममलम्| कटुकवर्गः सूत्रोक्तः| तद्विधा अगारधूमादियुक्तकटुकवर्गकृताः| निम्बादिसिद्धं तैलं नस्यम्||४५||

Adhikarana atideSena SAlUkavRundatuNDikerIgilAyUnAM cikitsA (46) · Śloka 46

शालूकवृन्दतुण्डिकेरीगिलायुष्वेष एव विधिः||४६||

🔊 Audio coming soon

शालूकादिचतुष्टयेष्वपि एष एव कफरोहिण्युक्तो विधिः||४६||

Adhikarana galavidradhicikitsA (47) · Śloka 47

गलविद्रधौ विस्रावितायां लोध्रवरारसाञ्जनपतङ्गगैरिकरोचनापिप्पलीसैन्धवचूर्णैरवघर्षणम्| एभिरेव क्वथितैर्गण्डूषः| किराततिक्तलोध्रदार्वीशतपुष्पानिम्बपत्रकुष्ठैलागुडूचीचित्रकतगरमुस्ताक्वाथकल्कविपक्वं तैलं नावनम्||४७||

🔊 Audio coming soon

तैलं नावनमित्येवमन्तं गलविद्रधौ| विस्रावितायां शस्त्रेण विशोधितायां सत्यां लोध्रादिचूर्णैरवघर्षणम्| एभिरेव लोध्रादिभिर्जले क्वथितैर्गण्डूषश्च हितः| वरा श्रेष्ठा| रसाञ्जनं तार्क्ष्यम्| किराततिक्तकादिक्वाथकल्कपक्वं तैलं नावनम् ||४७||

Adhikarana vAtagalagaNDacikitsA (48) · Śloka 48

गलगण्डमनिलजं स्वेदयित्वा विस्रावयेत् रूढव्रणञ्च तिलप्रियाललट्वामूलकशणातसीबीजैरुपनाहयेत्| तिल्वकाग्निमन्थपुनर्नवकालामृतासौ भाञ्जनकगजपिप्पल्येकैषिकार्कमूलकरघाटकपुष्पैः सुराम्लपिष्टैः पुनः पुनर्लेपयेत्| निम्बगुडूचीकुटजहंसपादीकृष्णावलाद्वयदेवदारुसिद्धं च तैलं पाययेत्||४८||

🔊 Audio coming soon

तैलं पाययेदित्येवमन्तमनिलजे गलगण्डे| वातजं गलगण्डं तापाद्यन्यतमस्वेदेन स्वेदयित्वा जलूकाद्यन्यतमेन रक्तं विस्रावयेत्| रूढव्रणं चानुबन्धपरिहारार्थं तिलादिभिरुपनाहयेत्| लट्वा लम्बा, अतसी उमा, उपनाहः पिण्डबन्धः| सुराम्लपिष्टौस्तिल्वकादिभिः पुनः पुनर्लेपयेत्| अग्निमन्थस्तर्कारी, काला नीलिनी, (नि) `नीलिन्युक्ता नीलिका नीलपत्री नीला नीली नीलयष्टी विषघ्नी| चण्डाल्यान्याराजनी भारवाही काला काली चास्पृशा शोधनी च|' सौभाञ्जनकः शिग्रुः| एकैषीका महादूर्वा त्रिवृद्धा| करघाटो मदनः| (नि) मदनं राढः पिण्डी करघाटः शल्यकः फलं जगदुः| निम्बादिसिद्धं तैलं पाययेच्च| हंसपादी त्रिपादी||४८||

Adhikarana SleShmagalagaNDacikitsA (49) · Śloka 49

श्लैष्मिकेऽप्ययमेव विधिः तीक्ष्णतराश्च स्वेदप्रलेपादयः| विशल्यातिविषाविषाणिकाशुकनासाजगन्धागुञ्जाफलकटुकालाबुभिः पलाशक्षाराम्बुपिष्टैः सुखोष्णो लेपः| वत्सकादिना पञ्चलवणयुक्तेन सिद्धं तैलं पानम्| तीक्ष्णांश्च वमनादीन शीलयेत्| पर्यायतश्च स्वेदं शोणितावसेचनं च| तथानुपशमे पाचयित्वा व्रणावदुभावप्युपाचरेत्| यवान्नमुद्गादियूहांश व्योषोत्कटान् पानभोजनयोर्विदध्यात्||४९||

🔊 Audio coming soon

कफजे गलगण्डेऽप्ययमेव वातगलगण्डोक्तो विधिः कर्तव्यः| वातजे स्वेदादयोऽल्पा अत्र त्वधिकाः| पलाशक्षाराम्बुपिष्टा विशल्याद्या लेपः| विशल्या लाङ्गलीविषाणिका ऋषभकः, शुकनासा शुकाख्या, कटुकालाबुस्तुम्बी, पञ्चलवणयुक्तेन वत्सकादिना पक्वं तैलं पिबेत्| तीक्ष्णान् कफघ्नानित्यर्थः| तथानुपशमे एवमप्यशान्तौ| उभावपीति वातजं कफजं च| यवान्नादींश्च व्योषोत्कटान् पाने भोजने च दद्यात्||४९||

Adhikarana medojagalagaNDacikitsA (50) · Śloka 50

मेदोजे स्विन्नस्य सिरां विध्येत्| पूर्वोक्ताः प्रलेपाः प्रातः प्रातश्चासनादिसाररजो गोमूत्रेण पिबेत्| एवमप्यशान्तौ शस्त्रेण विदार्य मेदो विशोध्य सीव्येत्| दाहयोग्यं वा वसाघृतक्षौद्रान्यतमेन यथावद्दहेत्| रोचनाकासीसतुत्थकचूर्णावचूर्णितं तैलं व्रणशोधनरोपणम्| असनादिसारगोपुरीषभस्मयुक्तं वा||५०||

🔊 Audio coming soon

गोपुरीषभस्मयुक्तं वेत्यन्तं मेदोजे| मेदोभवे गलगण्डे स्वेदितस्य सूत्रोदितामूरुगां सिरां विध्येत्| पूर्वोक्ताः प्रलेपा वातजे कफजे च गलगण्डे उक्ताः| असनादिगणचूर्णं प्रातः प्रातर्गोमूत्रेण पिबेत्| एवमप्यशान्तौ तथानुपशमे दाहयोग्यं वसाद्यन्यतमेन यथाविद्विधिवद्दहेत्| रोचनादिचूर्णावचूर्णितं तैलं व्रणशोधनं रोपणं च भवति| असनादिसारादियुक्तं तैलं वा ||५०||

Adhikarana mukhapAkeShu sAdhAraNacikitsA (51) · Śloka 51

मुखपाकेषु सामान्यतस्त्रिफलाक्वाथो मधुमानन्ये च| तिक्तकटुककषाया मुखधावनाः| मृद्वीकापाठाजातीमातुलुङ्गार्जुनपुत्रजीवकपल्लवानामनभ्यवहरता चवर्णम्||५१||

🔊 Audio coming soon

मुखपाकेषु साधारणं चिकित्सितमाह| मुखपाकेषु सक्षौद्रा मुखधावनाः प्रयोज्याः| के त इत्याह-त्रिफलाक्वाथश्चान्ये तिक्तकटुककषायाश्च| अथवा मृद्वीकादिजीवकपल्लवान्तानां चर्वणम्, तेषां निगिरणं न कर्तव्यम्| पल्लवोभिनवोत्पन्नं पत्रम्||५१||

Adhikarana mukhapAkeShu sAdhAraNacikitsA (52) · Śloka 52

दारुहरिद्रार्धतुलां विंशतिगुणेऽम्भसि श्रपयित्वा तं क्वाथं सगैरिकमादर्वीप्रलेपात् साधितं क्षौद्रयुक्तं घृतभाजने निदध्यात्| एतन्निष्ठीवनं सर्वमुखामयनाडीघ्नम्| अयमेव च पृथक्कल्पो यष्टीमधुकपटोलिनिम्बाटरूषकजातीलोध्रारिमेदत्रिफलाजम्बूखदिरत्वचाम्||५२||

🔊 Audio coming soon

दारुहरिद्राया अर्धतुलां पञ्चाशत् पलानि तेभ्यो विंशतिगुणमम्भःपलसहस्रं तस्मिन् क्वाथयित्वा तं क्वाथं गैरिकसहितमादर्वीप्रलेपात् दर्वीप्रलेपं यावत् साधितं पक्वं मधुना युक्तं घृतलिप्तभाजने स्थापयेत्| सुबोधम्| यष्टीमधुकादीनामयमेव दारुहरिद्राविहित एव पृथक् कल्पः कार्यः||५२||

Adhikarana mukhapAkeShu sAdhAraNacikitsA (53) · Śloka 53

यवक्षारभागाः सप्त सुवर्णगैरिकाद् भागद्वयं मूर्वाकटुकातिविषाऽऽमलकानामेको भागस्तत् सर्वं कुतलक्षारोदकपिष्टं गुटिकाः कृत्वा खादेन्निष्ठीवेच्च||५३||

🔊 Audio coming soon

यवक्षारस्य भागा अंशाः सप्त| सुवर्णगैरिकात् गैरिकविशेषात् भागद्वयं मूर्वादीनां प्रत्येकमेको भागस्तत् सर्वं कुतलक्षारोदकपिष्टं कृत्वा गुटिकाः कार्यास्ताः खादेन्निष्ठीवेच्च| ताः पूर्वगुणाः| कुतकस्तिलकाण्डः दग्धस्य तस्य क्षारः||५३||

Adhikarana mukhapAkeShu sAdhAraNacikitsA (54) · Śloka 54

खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहेऽष्टभागावशेषं क्वाथयेदवतारितं परिस्रुतं च पुनराघनीभावात्| घनीभूतेशीते च कार्षिकाणि श्लक्ष्णीकृतानि प्रक्षिपेच्चन्दनपद्मकोशीरवालकमञ्जिष्ठाधातकीमुस्तप्रपौण्डरीकमधुकत्रिफलाचातुर्जातकलाक्षानलदतार्क्ष्यशैललोध्रद्विरजनीसमङ्गापाठाकट्फलैलेयपत्तङ्गागरुगैरिकाञ्जनानि| पालिकांश्च जातीफललवङ्गकङ्कोलकबुकान्| कर्प्पूरार्द्धकुडवं च| ता गुटिका वदनस्थाः सर्वान् मुखरोगान् जयन्ति| सौरभं सौमनस्यं रुचिं च जनयन्ति||५४||

🔊 Audio coming soon

खदिरेत्यादि| खदिरस्य तुला पलशतमरिमेदसोऽहिमारस्य तुलाद्वयं द्वे पलशते च तोयवहेऽपां घटचतुष्टके| घटोद्वादशाधिकानि पञ्चपलशतानि| अष्टभागवशेषमष्टांशावशेषं क्वाथयेत्| अवतरितं चुल्लीतपरिस्रुतं गालितञ्च तं पुनराघनीभावात् घनीभावावधि क्वाथयेत्| घनीभूते शीते च सति कार्षिकाणि कर्षप्रमाणानि श्लक्ष्णचूर्णीकृतानि चन्दनादीन्यौषधानि प्रक्षिपेत्| पालिकान् पलप्रमाणान् जातीफलादीन् कर्पूरस्यार्द्धकुडवं द्वे पले च| ततो गुटिकाः कुर्यात्| वदनस्थास्ताः सकलान् मुखरोगान् जयन्ति सौरभादींश्च जनयन्ति||५४||

Adhikarana mukhapAkeShu sAdhAraNacikitsA (55) · Śloka 55

एषामेव च कलककषायैस्तैलं साधितं कवले नियुञ्ज्यात्||५५||

🔊 Audio coming soon

एषामेव खदिरसारादीनां कल्कैः कषायेण च साधितं पक्वं तैलं कवले कवलधारणे नियुञ्ज्याद्योजयेत्||५५||

Adhikarana vAtajamukhapAke visheShopakramaH (56) · Śloka 56

तत्र वातजे मुखपाके दशमूलकाकोलीरास्नामधुकसारिवाक्वाथेन कुष्ठकल्केन च सिद्धं तैलं नस्यं गण्डूषश्च| स्नैहिको धूमः| पिप्पल्येलालवणोत्तमैः प्रतिसारयेत्||५६||

🔊 Audio coming soon

वातादिजेषु मुखपाकेषु विशेषोपक्रममाह-तत्रेत्यादि| वातजे मुखपाके दशमूलादिक्वाथेन कुष्ठकल्केन च सिद्धं पक्वं तैलं नस्यं हितं गण्डूषश्च| स्नैहिको धूमः सूत्रोदितः| पिप्पल्यादिभिः प्रतिसारणं रसक्रियादिभेदेन विविधम्||५६||

Adhikarana paittikamukhapAke visheShopakramaH (57) · Śloka 57

पैत्तिके क्षीरेक्षुरसद्राक्षाशर्करोदकैर्गण्डूषः| मधुरद्रव्यसिद्धं पयः पानं कवलो नस्यं च| पद्मकसमङ्गामञ्जिष्ठालोध्रधातकीविपक्वः सर्पिर्मण्डो नावनम्| मदयन्ति कापत्रैर्निष्ठीवनं च||५७||

🔊 Audio coming soon

पित्तजे मूखपाके क्षीरादिभिर्गण्डूषः| असञ्चार्या तु या मात्रा स गण्डूष इति सूत्रोक्तलक्षणः| मधुरद्रव्याणि मधुरद्रव्यस्कन्धनिर्दिष्टानि घृतमध्वादीनि तैः सिद्धं क्षीरं पानादिषु हितम्| पद्मकादिसिद्धो घृतमण्डो नावनं नस्यम्| सुबोधम्| मदयन्तिका धातकी||५७||

Adhikarana kaphajamukhapAke visheShopakramaH (58) · Śloka 58

कफजे कटुकक्षारलवणैः प्रतिसारणम्| स्थिरासु तु पिटकासु प्राक्शाकादिपत्रेण लेखनम्| मुष्ककपलाशामलकीक्षारगोमूत्रैर्गण्डूषः| तद्विपक्वं च तैलम्| निर्गुण्डीफणिज्जकार्जकसुरसपत्रैर्निष्ठीवनम्| देवदारुपाठातिविषादन्तीन्द्रयवकटुकागोमूत्रेण कल्किताः क्वथिता वा पीताः सर्वकफामयान् निघ्नन्ति||५८||

🔊 Audio coming soon

कफजे मुखपाके कटुकादिभिः प्रतिसारणम्| स्थिरासु पिटकासु तु लेखनादिकं कर्म सुबोधम्| देवदार्वादयो गोमूत्रेण पीताः सर्वकफामयघ्नाः||५८||

Adhikarana raktajamukhapAke visheShopakramaH (59) · Śloka 59

रक्तजे पित्तवत् सिद्धिः| सर्वजे यथादोषोदयम्| रोचनाकासीससौराष्ट्रिकारसाञ्जनानि मोचरसो मधु चैकतो विपक्वं लोहभाजनस्थं कल्कं विशुष्कं चूर्णीकृतं मधुना व्रणलेपं कुर्यात्||५९||

🔊 Audio coming soon

रक्तजे मुखपाके पित्तमुखपाकवत् सिद्धिः साधनम्| सर्वजे सन्निपातजे मुखपाके यथादोषोदयमुत्कृष्टदोषानतिक्रमेण चिकित्सा| रसाञ्जनादि चैकतो विपक्वमेकस्मिन् पात्रे कृत्वा पक्वं लोहपात्रस्थां कल्कं विशुह्कं कृत्वा चूर्णीकृतं मधुना सह व्रणे लेपं कुर्यात्| रोचना गोरोचना||५९||

Adhikarana arbudacikitsA (60) · Śloka 60

अथ सर्वसरमर्बुदमचिरोत्थितमवृद्धं मण्डलाग्रेण छित्वा मुष्ककभस्मना मधुमिश्रेण प्रतिसारयेत् स्वर्जिकाशुण्ठीचूर्णेन वा| मधु तैलं निम्बगुडूचीक्वाथश्च गण्डूषः| यवान्नभोजी तीक्ष्णानि कवलाभ्यङ्गनस्ययाचरेत्||६०||

🔊 Audio coming soon

अथेत्यादिनाऽर्बुदचिकित्सा| अचिरोत्थितमित्यसाध्यत्वाद्विशेषणम्| मण्डलाग्रेण शस्त्रेण छित्वा मधुमिश्रेण मुष्ककभस्मना स्वर्जिकादिचूर्णेन वा प्रतिसारयेदिति सम्बन्धः| मध्वादिगण्डूषः सुबोधः| यवान्नं भुञ्जानः तीक्ष्णानि कवलादीन्याचरेत्||६०||

Adhikarana pUtimukhacikitsA (61) · Śloka 61

पूतिमुखं स्निग्धस्विन्नं वामयित्वा शिरोविरेकैरुपाचरेत्| ततः स्वर्जिकाहिङ्गुगृहधूममनश्शिलैलाशुण्ठीविडङ्गतेजोवतीभिर्गुटिकाः कृत्व्रा मधुद्रुता मुखपरिशोधनार्थं दद्यात्| समङ्गाधातकीपद्मलोध्रप्रियङ्गुचूर्णैः सलिलमवचूर्णितं मुखधावनम्| शीतादोपकुशोक्तं च कुर्यात्| नस्यधूमकवलांश्च शीलयेत्||६१||

🔊 Audio coming soon

शिलयेदित्यन्तं पूत्यास्याख्ये| पूतिमुखं पूर्वं स्निग्धं पश्चात् सिवन्नमनन्तरं वामयित्वा शिरोविरेकैर्विरेचननस्यैरुपाचरेदुपक्रमेत्| तत इति शिरोविरेचनस्य पश्चात् स्वर्जिकादिभिर्गुटिकाः कृत्वा मधुना द्रवीकृता मुखपरिशोधनाय दद्यात्| समङ्गादिचूर्णैरवचूर्णितं सलिलं मुखस्य धावनं क्षालनम्| शीतादोपकुशयोर्यत्किञ्चिदुक्तं तदपि कुर्यात्||६१||

Adhikarana sAmAnyopadeshaH (62) · Śloka 62

भवति चात्र मुखदन्तमूलगलजाः प्रायो रोगाः कफस्त्रभूयिष्ठाः| तस्मात्तेषामसकृद्रुधिरं विस्रावयेद् दुष्टम्||६२||

🔊 Audio coming soon

मुखादिजा रोगाः प्रायो बाहुल्येन यतः कफास्रभूयिष्ठाः भवन्ति तस्मात्तेषां मुखादिरोगाणां दुष्टं रुधिरमसकृत्स्रावयेत् ||६२||

Adhikarana sAmAnyopadeshaH (63) · Śloka 63

कायशिरसोर्विरेको वमनं कवलग्रहाः कटुकतिक्ताः| प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म| यवतृणधान्यं भक्तं विदलैः क्षारोषितैरपस्नेहाः| यूषा भक्ष्याश्च हिता यच्चान्यछ्लेष्मनाशाय||६३||

🔊 Audio coming soon

कायशिरोविरेकादेः शस्तमित्यनेन सम्बन्धः| भक्तं यवतृणधान्यं च| विदलैः खण्डसस्यैः क्षारोदक उषितैरपगतस्नेहा यूषादयो हिताः| यच्च किञ्चिच्छ्लेष्मनाशाय तत्सर्वं हितम्||६३||

Adhikarana sAmAnyopadeshaH (64-26) · Śloka 26

प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः| कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत||६४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे मुखरोगप्रतिषेधो नाम षड्विंशोऽध्यायः||२६||

🔊 Audio coming soon

एते च कण्ठामयाः प्राणानिलस्य पथि स्थिताः प्रमादस्य कर्तुः श्वसितमपि यतो निरुन्धते अतस्तेषु द्रुतं शीघ्रं चिकित्सितं कुर्वीतेति|| ६४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे षड्विंशोऽध्यायः||