Adhikarana atha mukharogavij~jAnIyo nAma pa~jcaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो मुखरोगाविज्ञानीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
ऊर्ध्वाङ्गक्रमेण मुखरोगाणां हेत्वादिकं प्रदर्यितुमध्याय आरभ्यते|| १||
Adhikarana mukharoganidAnam (2) · Śloka 2
मात्स्यमाहिषवाराहपिशितामकमूलकम्|
माषसूपदधिक्षीरशुक्तेक्षुरसफाणितम्|
अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्|
धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम्|
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखां गदान्||२||
मात्स्येत्यादिना मुखरोगाणां सामान्यं निदानम्| मात्स्याद्यामिषादिकं भजतो दन्तधावनादिकं चोचितसिराव्यधान्तं द्विषतः श्लेष्मोल्बणस्त्रयो दोषा अन्तर्मुखं कुपितास्तत्रैव गदान् कुर्वन्ति| फाणितं क्षुद्रगुडः| अवाक्शय्याऽधोमुखस्य शयनम्||२||
Adhikarana khaNDauShThaH (3) · Śloka 3
तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधा कृतः||३||
तत्रेत्यादिना रोगा उच्यन्ते| य ओष्ठो वातेन द्विधाकृतो भवति स रोगो नाम्ना खण्डौष्ठः ||३||
Adhikarana vAtauShThakopaH (4) · Śloka 4
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ|
दाल्येते परिपाट्येते परुषासितकर्कशौ||४||
पवनादोष्ठकोपाख्ये रोगे स्तब्धादिरूपावोष्ठौ भवतः||४||
Adhikarana pittauShThakopaH (5) · Śloka 5
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ|
पिटिकाभिर्बहुक्लेदावाशुपाकौ....................||५||
पित्तादोष्ठकोपे तीक्ष्णासहत्वादिगुणावोष्ठौ|| चित्तौ व्याप्तौ||५||
Adhikarana kaphauShThakopaH (6) · Śloka 6
..............................कफात् पुनः|
शीतासहौ गुरुशूनौ सवर्णपिटकाचितौ||६||
कफादोष्ठकोपे शीतासहत्वादिगुणौ|| शूनौ शोफयुक्तौ||६||
Adhikarana sannipAtauShThakopaH (7) · Śloka 7
सन्निपातादनेकाभौ दुर्गन्धास्रवपिच्छिलौ|
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ||७||
सन्निपातादोष्ठकोपे अनेकाभौ नानावर्णौ दुर्गन्धादिगुणौ च अकस्मादकारणं म्लानत्वादिगुणो ययोः| तेन कदाचिन्म्लानौ कदाचित् संशूनौ कदाचित् सरुजौ कदाचिच्चारुजौ| विषमपाकिनौ क्वचित् सपाकौ क्वचित् कठिनावित्यर्थः||७||
Adhikarana raktauShThakopo~arbuda~jca (8) · Śloka 8
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ|
खर्जूरसदृशं चात्र क्षीणे रक्तेऽर्बुदं भवेत्||८||
रक्तोपसृष्टौ रक्तार्दितावोष्ठौ रक्तवर्णौ भूत्वा शोणितं स्रवतः|| अत्र च रक्तौष्ठकोपे रक्ते स्रावात्क्षीणे खर्जूरसदृशमर्बुदं भवेत् ||८||
Adhikarana mAMsauShThakopaH (9) · Śloka 9
मांसपिण्डोपमौ मांसात्स्यातां मूर्च्छत्कृमी क्रमात्||९||
मांसाद् दुष्टान्मांसपिण्डोपमावौष्ठो क्रमाच्च मूर्च्छत् कृमी स्याताम्|| ९||
Adhikarana medauShThakopaH (10) · Śloka 10
तलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू||१०||
मेदसा दुष्टेनोष्ठौ तैलाभश्वयथुक्लेदौ तैलाभौ श्वयथुक्लेदौ ययोस्तौ तथोक्तौ सक्ण्ड्वौ कण्डूयुक्तौ मृदू च भवतः||१०||
Adhikarana kShatauShThakopaH (11) · Śloka 11
क्षतजाववदीर्येते पाट्येते चासकृत् पुनः|
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ||११||
क्षतजावोष्ठौ यौ क्षतेन कुपितौ तयोरवदरणादिकं लिङ्गम्| (पुनस्तथाप्यचिकित्सिते सति ग्रथितौ कण्डूलौ कण्डूयुक्तौ स्याताम्)|| ११||
Adhikarana jAlArbudam (12) · Śloka 12
जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम्||१२||
वातकफाद्धेतोर्जलबुद्बुदवज्जलार्बुदमोष्ठे भवति इत्योष्ठे एकादश|| १२||
Adhikarana gaNDAlajI (13) · Śloka 13
गण्डालजीस्थिरः शोफो गण्डे दाहरुजान्वितः||१३||
दाहाद्यन्वितः स्थिरश्चाचलो गण्डे यः शोफः स गण्डालजी इति गण्ड एकः||१३||
Adhikarana SItadantaH (14) · Śloka 14
वातादुष्णासहादन्ताः शीतस्पर्शाधिकव्यथाः|
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः||१४||
वाताद्धेतोरुष्णासत्वादिगुणादन्ता भवन्ति| स रोगो नाम्ना शीतो दालनश्चोच्यते| (शूलेन दाल्यन्त इवेत्यनेन शूलस्यातिपीडाकरत्वं सूचितम् )||१४||
Adhikarana dantaharShaH (15) · Śloka 15
दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः|
भवन्त्यम्लाशनेनैव सरुजश्चलिता इव||१५||
वातादेव दन्तहर्षाख्ये रोगे प्रवाताद्यक्षमा आम्लाशनेनैव सरुजश्चलिता इव दन्ता भवन्ति| प्रवाते अम्लशीतयोर्भक्षे भक्षणे चाक्षमा अशक्ताः| अत्राऽम्लशब्दो रसवाची| अम्लाशनेनैवेत्यत्राऽम्लशब्दो वृक्षाम्लवाची ||१५||
Adhikarana dantaBedaH (16) · Śloka 16
दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः||१६||
दन्तभेदाख्ये रोगे द्विजा दन्तास्तोदभेदाद्यन्विता भवति| (अत्र रुक्तोदौ दन्तमूले| स्फुटनभेदौ दन्त एवेति मन्तव्यम्)||१६||
Adhikarana dantacAlaH (17) · Śloka 17
चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः||१७||
चालो नाम रोगश्चलद्भिर्भक्षणादधिकव्यथैश्च दशनैर्भवति| (चलिद्भः कम्पमानैर्भक्षणाद् यस्य कस्यापि चर्वणादधिका पूर्वस्मादतिरिक्ता व्यथा पीडा येषां तैः)||१७||
Adhikarana karAlaH (18) · Śloka 18
करालस्तु करालानां दशनानां समुद्भवः||१८||
स करालो नाम रोगो यः करालानां विकटानां दन्तानां समुद्गमः||१८||
Adhikarana adhidantaH (19) · Śloka 19
दन्तोऽधिकोऽधिदन्ताख्यः स चोक्तः खलवर्द्धनः|
जायमानेऽतिरुग्दन्ते जाते तत्र तु शाम्यति||१९||
यस्तु सन्निवेशादधिको दन्तः सोऽधिदन्ताख्यो रोगः तस्यैव खलवर्धन इति नाम| तत्र चाधिदन्ते जायमाने रुग्जायते जाते तु तस्मिन् रुक् शाम्यति|| १९||
Adhikarana dantaSarkarA (20) · Śloka 20
अधावनान्मलो दन्ते कफो वा वातशोषितः|
पूतिगन्धिः स्थिरीभूतः शर्करा...........||२०||
दन्तानामधावनादप्रक्षालनाद्योऽन्नादिमलः श्लेष्मा वा वातेन शोषितः सन् पूतिगन्धिः स्थिरीभूतश्च स नाम्ना शर्करेत्युच्यते||२०||
Adhikarana dantakapAlikA (21) · Śloka 21
..........................साऽप्युपेक्षिता|
शतायत्यणुशो दन्तकपालानि कपालिका||२१||
साऽपि शर्करोपेक्षिता सत्यणुशोऽल्पशो दन्तकपालानि शातयति स कपालिका नाम रोगः||२१||
Adhikarana shyAvadantaH (22) · Śloka 22
श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः||२२||
द्विजो दन्तो रक्तादिभिः श्याववर्णत्वमायातः श्यावो नाम रोगो भवति||२२||
Adhikarana kRumidantaH (23) · Śloka 23
समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः|
शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते|
पूतित्वात्कृमयः सूक्ष्मा जायन्ते जायते ततः|
अहेतुतीव्रार्त्तिशमः ससंरम्भो सितश्चलः|
प्रलूनः पूयरक्तस्रुत्स चोक्तः कृमिदन्तकः||२३||
उल्बणमारुतैर्मारुताधिकैस्त्रिभिर्दोषैः समूलं मूलसंहितं दन्तमाश्रित्य तन्मज्जनि शोषिते अत एव चान्तर्दन्ते सुषिरेऽन्नमलपूरिते सति तेन मलेन पूतित्वात् सूक्ष्माः कृमयो जायन्ते| ततश्चाहेत्वकारणमेव तीव्रार्त्तिर्जायते| अकारणमेव तस्याः शमश्च| ससंरम्भ इत्यादि प्रकरणाद् दन्तः| प्रलून् उद्धूतः| छिन्न इत्यर्थः| सः रोगः कृमिदन्ताख्य उक्तः| इति दन्ते दश रोगाः||२३||
Adhikarana shItAdaH (24) · Śloka 24
श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम्|
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च|
शितादोऽसौ..................................||२४||
श्लेष्मरक्तेन हेतुना पूतीनि दुर्गन्धिनी दन्तमांसान्यहेतुकमेवास्रं वहन्ति| मृद्वादिगुणयुक्तानि च भवन्ति शिर्यन्ते चासौ रोगः शीतादः||२४||
Adhikarana upakushaH (25) · Śloka 25
.............उपकुशः पाकः पित्तासृगुद्भवः|
दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः|
कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेऽसृजि स्थिते|
चला मन्दरुजो दन्ताः पूतिवक्त्रं च जायते||२५||
पित्तासृगुद्भवो यो दन्तमांसानां पाकः स नाम्नोपकुशः| तत्र दन्तमांसानां दाहो रक्तत्वगुत्सेधश्च भवति| अतश्चोत्सेधात् दन्तमांसानि कण्डूमन्त्यस्रं च स्रवन्ति| असृजि रक्ते स्थिते रुद्धे आध्मायन्ते परिपूर्यन्ते दशनाश्च चला मन्दरुजश्च भवन्ति वक्त्रं च पूति जायते||२५||
Adhikarana dantapuppuTaH (26) · Śloka 26
दन्तयोस्त्रिषु वा शोफो बदरास्थिनिभो घनः|
कफास्रात्तीव्ररुक्शीघ्रं पच्यते दन्तपुप्पुटः||२६||
दन्तयोरिति द्वयोस्त्रिषु वा दन्तेषु मूलोष्विति प्रकरणात्| कफास्राद्धेतोर्बदरास्थिनिभो घनस्तीव्ररुक् च शोफो भवति| स च शीघ्रं पच्यते| स नाम्ना दन्तपुप्पुटः||२६||
Adhikarana dantavidradhiH (27) · Śloka 27
दन्तमांसे मलैः सास्रैर्बाह्यन्तः श्वयथुर्गुरुः|
सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः||२७||
सास्रैः सरक्तैर्वातादिभिस्त्रिभिर्दोषैर्दन्तमांसे अन्तर्बहिश्च गुरुः सरुग्दाहश्च श्वयथुर्भवति| स च भिन्नः पूयास्रं स्रवेत्| स रोगो नाम्ना दन्ताविद्रधिः||२७||
Adhikarana suShiraH (28) · Śloka 28
श्वयथुर्दन्तमूलेषु रुजावान् रक्तपित्तजः|
लालास्रावी स सुषिरो दन्तमांसप्रशातनः||२८||
दन्तमूलेषु दन्तोत्पत्तिस्थानेषु रक्तपित्तजो रुजावान् रुजायुक्तः लालास्रावी लालास्रवयुक्तो दन्तमांसप्रशातनश्च यः श्वयथुः स नाम्ना सुषिरः| दन्तमांसं प्रकर्षेण शातयतीति दन्तमांसप्रशातनः||२८||
Adhikarana mahAsuShiraH (29) · Śloka 29
स सन्निपातज्वरवान् सपूयरुधिरस्रुतिः|
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः||२९||
स एव शोफः सन्निपातज्वरादिना युक्तो विश्लिष्टदन्तबन्धनस्थानश्च नाम्ना महासुषिर इत्युक्तः||२९||
Adhikarana adhimAMsakaH (30) · Śloka 30
दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः|
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः||३०||
श्लेष्मणा हेतुना दन्तान्ते दन्तमालाविच्छेदे हन्वादिरुजाकरो यः श्वयथुरभ्यवहृतिं भोजनं प्रतिहन्त्यन्तरा शल्यभूतत्वात् स रोगो नाम्नाऽधिमांसकः||३०||
Adhikarana vidarBaH (31) · Śloka 31
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्|
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोऽभिघातजः||३१||
स विदर्भो नामाभिघातजो रोगो भवति| यो येन केनचित् घृष्टेषु दन्तमांसेषु महान् संरम्भो जायते| यस्मिन् दन्ताश्चाचलाश्चलन्ति||३१||
Adhikarana dantanADyaH pa~jca (33) · Śloka 33
दन्तमांसाश्रितान् रोगान् यः साध्यानप्युपेक्षते|
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम्|
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी|
ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः||३३||
यः पुरुषः साध्यानपि दन्तमांसाश्रितान् रोगानुपेक्षते तस्यान्तरस्रवन् गृह्णन् दोषाः सूक्ष्मां गतिं नाडीं सञ्जनयेत्| सा च नाडी त्वगादिभेदिनी मुहुः पूयं स्रवति| (यः पुरुषः साध्यान् साधयितव्यान् शीतादादीनुपेक्षते न साधयति अपि शब्दान्न केवलमन्यरोगोपेक्षया दोषदिभिः स्वयमपि जायत इति सूचितम्| तस्यान्तःस्थितो दोषः अस्रवन् स्रोतोरोधादनिर्गच्छन्| दोषशब्देन पूयं गृह्यते)| ताः पुनर्नाड्यः पञ्च विज्ञेयाः| कथमित्याह-स्वैर्नाडीविज्ञाननिर्दिष्टैः पृथग्दोषसन्निपातशल्यभेदेन वातात् सरुगित्यादिभिर्लक्षणैर्यथोदितैः| एवं दन्तमूले त्रयोदश रोगाः||३३||
Adhikarana vAtAdidUShitA - jihvA (34) · Śloka 34
शाकपत्रखरा स्रस्ता स्फुटिता वातदूषिता|
जिह्वा पित्तात्सदाहोषा रक्तैर्मासाङ्कुरैश्चिता|
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः||३४||
वातदूषिता जिह्वा शाकतरुपत्रवत् खरा स्रस्ता च निबन्धनात् भवति स्फुटिता च| पित्ताद्धेतोर्दाहादियुक्ता जिह्वा भवति| कफेन हेतुना दूषिता जिह्वा तु शाल्मलीकण्टकाभैर्मांसाङ्कुरैश्चिता व्याप्ता बहला गुरुश्च भवति||३४||
Adhikarana alasaH (35) · Śloka 35
कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः|
मत्स्यगन्धिर्भवेत् पक्वः सोऽलसो मांसशातनः||३५||
जिह्वाया अधोभागे कफपित्ताच्छोफो जिह्वास्तम्भकृदुन्नतश्च भवति स च पक्वः सन् मत्स्यगन्धिर्भवेन्मांसशातनश्च| स रोगं नाम्नाऽलसः||३५||
Adhikarana adhijihvA (36) · Śloka 36
प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः|
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः|
अधिजिह्वाः सरुक्कण्डूर्वाक्याहारविघातकृत्||३६||
जिह्वाया अधोभागे प्रबन्धने मूले जिह्वाग्रसन्निभः साङ्कुरश्च सः शोफः कफादिभिर्लालादियुक्तः खरः खरस्पर्शो रुगादिकृच्च भवति स रोगो नाम्ना अधिजिह्वः| विघातशब्दः वाक्याहाराभ्यां सम्बध्यते||३६||
Adhikarana upajihvA (37) · Śloka 37
तादृगेवोपजिह्वास्तु जिह्वाया उपरि स्थितः||३७||
तादृगेवैवंलक्षण एव जिह्वाया उपै स्थितः शोफ उपजिह्वाख्यो रोगः| इति जिह्वायां षट्||३७||
Adhikarana tAlupiTakA (38) · Śloka 38
तालुमांसेऽलिनाद् दुष्टे पिटकाः सरुजाः खराः|
बह्व्यो घनास्रावयुतास्तास्तालुपिटकाः स्मृताः|३८|
अनिलात्तालुमांसे दुष्टे सरुजत्वादिगुणा याः पिटका भवन्ति ता नाम्ना तालुपिटकाः स्मृताः||३८||
Adhikarana galaSuNDikA (38) · Śloka 38
तालमूले कफात्सास्रान्मत्स्यबस्तिनिभो मृदुः|
प्रलम्बः पिच्छिलः शोफो नासयाहारमीरयन्|
कण्ठोपरोधतृट्कासवमिकृद् गलशुण्डिका||३८||
सास्रात् कफात्तालुमूले यः शोफो भवति| किम्भूत इत्याह-मत्स्यबस्तिनिभत्वादिस्वरूपः| मत्स्यबस्तिः शिक्लमत्स्येषु मध्ये दृश्यते| स शोफो भुज्यमानमाहारं नासरयेन् प्रेरयन् कण्ठोपरोधादिकृद् भवति| स रोगो नाम्ना गलशुण्डिका||३८||
Adhikarana tAlusaMhatiH (39) · Śloka 39
तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः||३९||
तालुमध्ये रुजया विना यन्मांसं संहतं भवति स रोगस्तालुसंहतिर्नाम्ना| संहतमेकत्र पुञ्जीभूतम्||३९||
Adhikarana tAlvarbudam (40) · Śloka 40
पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम्||४०||
रक्ताद्धेतोस्तालुमध्ये यः पद्माकृतिः श्वयथुः स नाम्नाऽर्बुदं भवति||४०||
Adhikarana kacCapaH (41) · Śloka 41
कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्||४१||
तत्रैव तालुमध्ये कफाद्धेतोश्चिरवृद्धी रुजारहितश्च यः कच्छपाकारः श्वयथुः स नाम्ना कच्छपः||४१||
Adhikarana tAlupuppuTaH (42) · Śloka 42
कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः||४२||
तत्रैव श्लेष्ममेदोभ्यां बदरसदृशः स्थिरो नीरुजश्च यः श्वयथुः स नाम्ना पुप्पुटः|| ४२||
Adhikarana tAlupAkaH (43) · Śloka 43
पित्तेन पाकः पाकाख़्यः पूयास्रावी महारुजः||४३||
पित्तेन तालुमध्ये पूयास्रावी महारुजश्च यः पाकः स रोगो नाम्ना पाकः|| ४३||
Adhikarana tAluSoShaH (44) · Śloka 44
वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः||४४||
वातपित्तादिभिस्तालुनि शोषो भवति स रोगस्तदाह्वयस्तालुशोषनामेत्यर्थः| इत्यष्टौ तालुरोगाः|| ४४||
Adhikarana rohiNI (45) · Śloka 45
जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः|
मांसाङ्कुराः शीग़्रचया रोहिणी शीग़्रकारिणी|
कण्ठास्यशोषकृद्वातात्सा हनुःश्रोत्ररुक्करी|
पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता|
क्षिप्रजा क्षिप्रपाकातिरागिणी स्पर्शनासहा|
कफेन पिच्छिला पाण्डुरसृजा स्फोटकाचिता|
तप्ताङ्गारनिभा कर्णरुक्करी पित्तजाकृतिः|
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता||४५||
कण्ठे कण्ठस्यान्तर्भागे जिह्वाप्रबन्धने जिह्वामूले जाता ये दारुणादिगुणा मांसाङ्कुरास्ते रोहिणी नाम रोगे भवति| सा च शीग़्रकारिणी शीग़्रमेव स्वं कर्म मारणाख़्यं करोति| कण्ठेत्यादि रुक्पर्यन्तं वातजरोहिणीलक्षणम्| ज्वरादिकं स्पर्शनासहान्तं पित्तरोहिण्याः| कफेन रोहिणी पिच्छिला पैच्छिल्ययुक्ता पाण्डुः पाण्डूरवर्णा च भवति| असृजा दोषदुष्टेन रोहिणी स्फोटकाचितत्वादिगुणा पित्तजाकृतिः पित्तरोहिणीसमानलक्षणा च| निचयात् सन्निपाताद्रोहिणी गम्भीरपाकाऽवगाढपाका सर्वैर्वातादिरोहिणीलिङ्गैः समन्विता च भवति|| ४५||
Adhikarana SAlUkaH (46) · Śloka 46
दोषैः कफोल्बणैः शोफः कोलवत् ग्रथितोन्नतः|
शूककण्टकवत् कण्ठे शालूको मार्गरोधनः||४६||
कफोल्बणैस्त्रिभिर्दोषैर्बदरवत् ग्रथितश्चोन्नतश्च शूकवत् कण्टकवच्च स्रोतोरोधनो यः श्वयथुः कण्ठे भवति स नाम्ना शालूकः|| ४६||
Adhikarana vRundaH (47) · Śloka 47
वृन्दो वृत्तोन्नतो दाहज्वरकृद्गलपार्श्वगः||४७||
तैरेव दोषैर्गलस्य पार्श्वगो वृत्तोन्नतो दाहज्वरकृच्च यः श्वयथुः स नाम्ना वृन्दः| ( अनुक्तकारणविशेषत्वात् पूर्वोक्तैरेव दोषैः कृतो गलपार्श्वगः गलमार्गस्य वामदक्षिणान्यतरपार्श्वगतः वृत्तश्चोन्नतश्च वृत्तोन्नतः| वृत्तो वर्तुलः| दाहं ज्वरं च करोतीति दाहज्वरकृत् दाहादिज्वरं करोतीति वा य एवंविधः शोफः स वृन्दाख्यो रोगः )||४७||
Adhikarana tuNDikerikA (48) · Śloka 48
हनुसन्ध्याश्रितः कण्ठे कार्पसीफलसन्निभः|
पिच्छलो मन्दरुक्शोफः कठिनस्तुण्डिकेरिका||४८||
तैरेव यः श्वयथुः कण्ठे हनुसन्धिमाश्रित्य जातः कार्पासीफलसदृशः पिच्छिलत्वादिगुणश्च भवति स नाम्ना तुण्डिकेरिका||४८||
Adhikarana galaughaH (49) · Śloka 49
बाह्यान्तःश्वयथुर्घोरो गलमार्गार्गलोपमः|
गलौघो मूर्द्धगुरुतातन्द्रालालाज्वरप्रदः||४९||
तैरेव यः श्वयथुः कण्ठे बाह्यान्तः बहिर्भागेऽन्तर्भागे च घोरो भयङ्करः गलस्रोतसोऽर्गलोपमो द्वारबन्धनसदृशो मूर्धगुरुतादिप्रदश्च स नाम्ना गलौघः| (तप्ताङ्गारनिभा तप्ताङ्गारसदृशी तापद्विनाङ्गारस्यासम्भवादङ्गारशब्देनैव तापे सिद्धे पुनरपि तप्ताङ्गारनिभेत्युक्तत्वादस्य तापरागाद्यतिशयो ध्वन्यते)|| ४९||
Adhikarana valayam (50) · Śloka 50
वलयं नातिरुक्शोफस्तद्वदेवायतोन्नतः||५०||
तैरेव दोषैस्तद्वदेव बाह्यान्तर्गलमार्गार्गलोपमो नातिरुगायतोन्नतश्च यः शोफः स वलयमिति नाम्ना भवति||५०||
Adhikarana gilAyukaH (51) · Śloka 51
मांसकीलो गले दोषैरेकोऽनेकोथवाल्परुक्|
कृच्छ्रोछ्वासोऽभ्यवहृतिः पृथुमूलो गिलायुकः||५१||
दोषैर्वातादिभिर्गले एको वाऽनेको वा कृच्छ्रोछ्वासः कृच्छ्राभ्यवहृतिश्च यो मांसाङ्कुरो भवति स नाम्ना गिलायुकः||५१||
Adhikarana shataghnI (52) · Śloka 52
भूरिमांसाङ्कुरवृता तीव्रतृड्ज्वरमूर्द्धरुक्|
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी||५२||
तैरेव दोषैः कृता भूरिभिः प्रभूतैर्मासाङ्कुरैवृता परिवृता तीव्रतृडादियुक्ता गले निचिता कण्ठस्रोतसि समन्ताद्व्याप्ता या वर्त्तिरतिरुक्करी भवति स रुजायाऽकृत्या च शतघ्नीसादृश्याच्छतघ्नी| शतघ्न्याख्यश्चायुधः कण्टकाचिता यष्टिर्भवति||५२||
Adhikarana galavidradhiH (53) · Śloka 53
व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः|
पूतिपूयनिभास्रावी श्वयथुर्गलविद्रधिः||५३||
व्याप्तसर्वगलत्वादियुक्तः श्वयथुर्नाम्ना गलविद्रधिः| शीघ्रं जन्मपाकौ यस्य स तथोक्तः| व्याप्तसर्वगलः गले समन्ताद्व्याप्तः| अत्र सर्वशब्देन गलस्य बाह्याभ्यन्तरपरिग्रहः| पूतिपूयनिभशब्देन पक्वोऽप्यन्यविद्रधिवत् पूयं न स्रवति तत्तुल्यं कफमेव स्रवतीत्यर्थः|| ५३||
Adhikarana galArbudam (54) · Śloka 54
जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः|
जनयन्ति स्थिरं रक्तं नीरुजं तद् गलार्बुदम्||५४||
मला वातादयो जिह्वाय अवसाने कण्ठस्यादौ प्रारम्भे वा पाकरहितं स्थिरमचलं लोहितं रुजारहितं च यं श्वयथुं जनयन्ति तद् गलार्बुदं भवति| (जिह्वाया अवसाने अन्ते हृदये जिह्वावसानमिति धन्वन्तरिः| हृदयात् पच्यमानानामाध्मानाद्रुक्मसारवत्| कफशोणितमांसानां सारो जिह्वा प्रजायते| अत्र कण्ठरोगप्रसङ्गात् जत्रोरुपरि जिह्वावसानमिति मन्तव्यम् )||५४||
Adhikarana galagaNDaH (55) · Śloka 55
पवनश्लेष्ममेदोभिर्गलगण्डो भवेद् बहिः|
वर्द्धमानः स कालेन मुष्कवल्लम्बते निरुक्||५५||
पवनादिभिर्बहिस्त्वग्भागे गलगण्डाख्यो रोगो भवेत्| स च कालेन वर्द्धमानो निरुक् सन् मुष्कवद् वृषणवल्लम्बते||५५||
Adhikarana galagaNDaBedAH (56) · Śloka 56
कृष्णारुणो वा तोदाढ्यः स वातात्कृष्णराजिमान्|
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम्|
स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात्|
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम्|
मेदसा श्लेष्मवृद्धानिवृद्ध्योः सोऽनुविधीयते|
देहं वृद्धश्च कुरुते गले शब्दं स्वरेऽल्पताम्||५६||
तत्र कृष्ण इत्यादिना पवनहेतुकस्य गलगण्डस्य लिङ्गम्| श्लेष्मजस्य स्थिर इत्यादि| मेदसा हेतोर्गलगण्डे श्लेष्मवत् कफगलगण्डवत् लिङ्गम्| स गलगण्डो हानिवृद्ध्योश्च देहमनुविधीयते| यदैव देहो वर्द्धते तदैव गलगण्डोऽपि वर्द्धते| यदैव देहोऽपचीयते तदैव सोऽपीत्यर्थः| स च मेदोजो गले गण्डो वृद्धो गलशब्दादिकं कुरुते|| ५६||
Adhikarana svarahA (57) · Śloka 57
श्लेष्मरुद्धानिलगतिः शुष्ककण्ठो हतस्वरः|
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहाऽनिलात्||५७||
येन रोगेण पुरुषः श्लेष्मरुद्धानिलगतिः शुष्ककण्ठत्वादियुक्तो भवति सोऽनिलाज्जयते स नाम्ना स्वरहा| (श्लेष्मणा रुद्धा अनिलस्य प्राणाख्यस्य मरुतो गतिर्गमनं यस्य| शुष्कमनार्द्रं कण्ठं यस्य| हतस्वरः सन्नस्वरः ताम्यन् ग्लपितेन्द्रियः| प्रसक्तं कफावृतकण्ठमार्गत्वात् प्रकर्षेण सक्तम्| श्वसिति श्वासमुक्तिं करोति )| इत्यष्टादश गलरोगाः||५७||
Adhikarana muKapAkaH vAtajaH (58) · Śloka 58
करोति वदनस्यन्तर्व्रणान् सर्वसरोऽनिलः|
सञ्चारिणोऽरुणान् रूक्षानोष्ठौ ताम्रौ चलत्वचौ|
जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता|
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः||५८||
सर्वसरो व्याप्तिमाननिलोऽन्तर्वदनं सञ्चार्यादिगुणान् व्रणान् करोति| सञ्चारिणोऽनियतस्थानाः ततश्चोष्ठौ ताम्रौ ताम्रवर्णौ मलत्वचः च भवतः| जिह्वा शीतासत्वादिगुणा| स चाऽऽतुरः कृच्छ्रेण मुखं विवृणोति स रोगो नाम्ना मुखपाकः||५८||
Adhikarana UrdhvagudaH (59) · Śloka 59
अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः|
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः||५९||
अर्शोगुल्मासिभिर्वायुरधःप्रतिहतो वक्त्रदौर्गन्ध्यं कुर्वन् ऊर्ध्वं याति| स रोगो नाम्ना ऊर्ध्वगुदः||५९||
Adhikarana pittajaH raktajashca mukhapAkaH (60) · Śloka 60
मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता|
क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे||६०||
पित्तजमुखपाके दाहादिकं लिङ्गम्| क्षारेणोक्षितं सिक्तं यत् क्षतं व्रणस्तत्समा दाहवेदनादिगुणा व्रणः| तद्वदेव रक्तजे||६०||
Adhikarana kaphajamukhapAkaH (61) · Śloka 61
कफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः||६१||
कफजे मुखपाके मधुरास्यत्वादि लिङ्गम्| कण्डूमन्तश्च| ते पिच्छिलाश्च कण्डूमत्पिच्छिलाः ||६१||
Adhikarana kaPArbudam (62) · Śloka 62
अन्तःकपोलमाश्रित्य श्यावपाण्डुकफोऽर्बुदम्|
कुर्यात्तद् घट्टितं छिन्नं मृदितं च विवर्धते||६२||
अन्तःकपोलं कपोलान्तर्भागमाश्रित्य कफः श्यावपाण्ड्वर्बुदं कुर्यात्| तच्चार्बुदं घट्टितं शाकपत्रादिनावघॄष्टं छिन्नं वृद्धिपत्रादिना| मृदितं विलायनाय कृतमर्दनमपि पुनर्वर्द्धते| (सर्वास्यरोगस्यास्यान्तःकपोलकथनमास्यान्तर्भागद्योतनार्थम्| आश्रित्येत्युक्तत्वात् प्रवृद्धस्य पुनर्बहिर्गतिः सूचिता| विवर्द्धत इत्युक्तत्वात् छेदनाद्यनन्तरजनितस्य पूर्वस्मादाधिक्यमपि सूचितम्)||६२||
Adhikarana sannipAtamuKapAkaH (63) · Śloka 63
मुखपाको भवेत् सास्रैः सर्वैः सर्वाकृतिर्मलैः||६३||
सास्रैः सरक्तैः सवैर्मलैः वातादिभिर्मुखपाको नाम सर्वलक्षणो रोगो भवेत्| (सर्वाकृतिः सर्वलक्षणः सर्वेषां वातादिमुखपाकानां लक्षणैर्युक्त इत्यर्थः)||६३||
Adhikarana pUtyAsyatA (64) · Śloka 64
पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः||६४||
दन्तकाष्ठादिविद्विषः अननुष्ठितदन्तकाष्ठादिकस्य पुरुषस्य आदिशब्देनाञ्जननस्यधूमगण्डूषादिपरिग्रहः| तैरेवेति सास्रैर्मलैः पूत्यास्यनामा रोगो भवति| इत्यष्टौ सर्वास्यरोगाः||६४||
Adhikarana mukhAmayAnAM sa~gkhyA (65) · Śloka 65
ओष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले|
वक्त्रे सर्वत्र चेत्युक्ता पञ्चसप्ततिरामयाः|
एकादशैको दश च त्रयोदश तथा च षट्|
अष्टावष्टादशाष्टौ च क्रमात्..............||६५||
इत्यनन्तरोक्तप्रकारेणौष्ठादिष्वष्टसु स्थानेषु पञ्चसप्ततिरामया उक्ताः| केन विभागेनेत्याह-एकादशेत्यादि| ओष्ठेषु खण्डौष्ठः वातोष्ठकोपः, पित्तौष्ठकोपः, कफौष्ठकोपः, सन्निपातौष्ठकोपः, रक्तौष्ठकोपः, अर्बुदम्म् मांसौष्ठकोपः, मेदौष्ठकोपः, क्षतौष्ठकोपः, जलार्बुदाख्याः इत्येकादशरोगाः| गण्डे गण्डालज्याख्य एको रोगः| द्विजे दन्ते शीतदन्त, दन्तहर्ष, दन्तभेद, चाल, करालाधिदन्त, शर्करा, कपालिका, श्याव, कृमिदन्ताख्य दश रोगाः| मूले प्रकरणाद्दन्तमूले शीताद, उपकुश, दन्तपुप्पुट, दन्तविद्रधि, सुषिर, महासुषिराऽधिमांस, विदर्भाख्याः पञ्चभिर्नाडीभिः सह त्रयोदश रोगा भवन्ति| जिह्वायां वातदूषिता, पित्तदूषित्ता, कफदूषिताऽलसाऽधिजिह्वोपजिह्वाकाख्याः षड्रोगा भवन्ति| तालुके तालुपिटका, गलशुण्डी, तालुसंहति, ताल्वर्बुद, कच्छप, तालु-पुप्पुट, तालुपाक, तालुशोषाख्या अष्टौ रोगाः| गले वातरोहिणी, पित्तरोहिणी, कफरोहिणी, रक्तरोहिणी, सन्निपातरोहिणी, शालूक, वृन्द, तुण्डिकेरी, गलौघ, वलय, गिलायुक, शतघ्नी, गलवि-द्रधि, गलार्बुद, पवनगलगण्ड, श्लेष्मगलगण्ड मेदोगलगण्ड, स्वरहाख्या अष्टादश रोगा भवन्ति| सर्वत्राशेषे वक्त्रे वातमुखपाकोऽर्ध्वगुद, पित्तमुखपाक, रक्तमुखपाक, कफमुखपाक, कफार्बुद, सन्निपातमुखपाक, पूत्यास्याख्या अष्टौ रोगा भवन्तीति क्रमार्थः| एवमेकीकृत्यैते पञ्चसप्तती रोगाः||६५||
Adhikarana mukharogANAM sAdhyAsAdhyatA (66-25) · Śloka 25
............................तेष्वनुपक्रमाः|
करालो मांसरक्तौष्ठावर्बुदानि जलाद्विना|
कच्छपस्तालुपिटका गलौघः सुषिरो महान्|
स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः|
नाड्योष्ठकोपौ निचयाद्रक्तात्सर्वैश्च रोहिणी|
दशने स्फुटिते दन्तभेदः पक्वोपजिह्वका|
गलगण्डः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः|
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत्||६६||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे मुखरोगविज्ञानीयो नाम पञ्चविंशोऽध्यायः||२५||
तेषु मध्य इमेऽनुपक्रमास्त्याज्याः| क इत्याह-करालो इत्यादि| करालो नाम दन्तरोगः| मांसौष्ठरक्तौष्ठावोष्ठरोगौ| जलाद्विना जलार्बुदमेकं वर्जयित्वा शेषाणि चत्वार्यर्बुदानीत्योष्ठार्बुद-गलार्बुद-ताल्वर्बुद-कफार्बुदानीत्येतान्यसाध्यानि| कच्छपो नाम तालुरोगस्तालुपिटका च| गलौघाख्यो गलरोगः| महान् सुषिरः महासुषिराख्यो दन्तमूलरोगः तथा स्वरघ्नादयश्च| स्वरघ्नाख्यः सर्वास्यरोगः| श्यावाख्यो दन्तरोगः, शतघ्नि कण्ठरोगः, तद्वद्वलयम्| अलसो जिह्वारोगः| एते चासाध्याः| नाडी दन्तमलजा सन्निपातजा त्याज्या| ओष्ठकोपः सन्निपातजोऽसाध्यः| रक्तात् सर्वैः रोहिणी च रक्तसन्निपातरोहिण्यौ कण्ठरोगावसाध्यौ| दन्तभेदाख्यो रोगो दशने स्फुटित एवासाध्यो न त्वस्फुटिते| उपजिह्विका पक्वा एवासाध्या| गलगण्डः स्वरभ्रंशी स्वरहा कृच्छ्रोच्छ्वासत्वेन च युक्तोऽतिक्रान्तवत्सरश्च त्याज्यः| दन्तहर्षो दन्तभेदश्च याप्यः| एभ्यः शेषान् यथायोगं वक्ष्यमाणप्रकारेण शस्त्रैरौषधैश्च जयेदिति|| ६६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे पञ्चविंशोऽध्यायः||