Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

49. rasāyanavidhiḥ

Adhikarana atha rasAyanavidhirnAmaikonapa~jcAsho~adhyAyaH , adhyAyapratij~jA (1) · Śloka 1

अथतो रसायनविधिं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana rasAyanaprayojanam (2) · Śloka 2

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः| प्रभा वर्णस्वरौदार्यं देहेन्द्रियबलोदयम्| वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्| लाभोपायो हि शस्तानां रसादीनां रसायनम्||२||

🔊 Audio coming soon

Adhikarana rasAyanAdhikAriNaH (3) · Śloka 3

पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः| स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा||३||

🔊 Audio coming soon

Adhikarana avishuddhasya rasAyanaM vyartham (4) · Śloka 4

अविशुद्धे शरीरे हि युक्तो रासायनो विधिः| न भाति मलसंसृष्टे वस्त्रे राग इवार्पितः| युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः| यथैव पौरुषं तद्वन्न सिध्यति रसायनम्||४||

🔊 Audio coming soon

Adhikarana grAmyAhArAdInAM sarvadoShaprakopatvam (5) · Śloka 5

सर्वे च दोषा भवन्ति ग्राम्यादाहारादम्ललवणकटुकक्षार विरुद्धासात्म्यरूक्षाभिष्यन्दिक्लिन्नगुरुपूतिपर्युषितनवधान्य शुष्कशाकाऽममांसतिलकुलत्थदधिशुक्तकाञ्जिकपिष्टा न्नविरूढकनिषेविणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमा तिमात्रव्यायामायामसङ्क्षोभिरवपुषां क्रोधलोभभयशो कायासबहुलानां पापकर्मणामसमञ्जसाहारविहारनिर्हार निरतानाम्| अतो निमित्तं ह्यविशुद्धः सञ्जायते रसो विदह्यते रक्तं शिथिलीभवन्ति मांसानि विष्यन्दते मेदो दूष्यन्ते दोषा विमुच्यन्ते सन्धयो न सन्धीयन्तेऽस्थिषु मज्जानो नाप्या यते शुक्रं नौजो न बलं न वीर्यम्| ततः स एवम्भूतो ग्लायति सीदति निद्रातन्द्रालस्य समन्वितः खिद्यते निर्विद्यते निरुत्साहोऽसमर्थः शारीर मानसानां विशिष्टानां चेष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्प बुद्धिरसम्पाद्यमानाभिलषितार्थोऽहर्निशमनिशमनिशं निः श्वश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुर वाप्नोति||५||

🔊 Audio coming soon

Adhikarana rasAyanasevanakAle doShAn pariharet (6) · Śloka 6

तस्माद् बुद्धिमानपास्य यथोक्तानाहारादिदोषान् निर्वाह्य च पूर्वोपचितान् रसायनं विधिविहितमुपसेवेत||६||

🔊 Audio coming soon

Adhikarana rasAyanadvaividhyam (7) · Śloka 7

तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च| तत्र वीर्य प्रभावप्रयोगपरिहारगुरुत्वात् कुटीप्रावेशिकं महाफल तरम्||७||

🔊 Audio coming soon

Adhikarana kuTIprAveshikavidhiH kuTInirmANam (8) · Śloka 8

तस्य विधिः क्षेमसुभिक्षधार्मिकश्रद्दधानजननृपवैद्यविप्रे सुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रामे नगरे वा पूर्वोत्तरस्यां दिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसम्पन्नां सूक्ष्मलोचनां त्रि गर्भामृतुसुखां निर्वातां प्रवातैकदेशां प्राग्द्वारामुदग्द्वारां वा शमीबिल्वक्षीरिवृक्षपरिगृहीतामनिष्टेन्द्रियार्थवातातपरजो धूमस्वेदक्लेददंशमशकसरीसृपव्यालबालस्त्रीदासान्ता वसायिनामगम्यां सन्निहितसद्वैद्यपरिचारकोपकरणां कुटीं कारयेत्||८||

🔊 Audio coming soon

Adhikarana tatra praveshaH (9) · Śloka 9

तस्यां रसायनार्थी शरदि वसन्ते वा शुक्लपक्षे प्रशस्ते अहनि पूजयित्वा यथार्हं देवगुरुविप्रान् प्रणम्य ब्रह्मदक्षा श्विप्रभृतीन् परिमृश्य सुवर्णघृतमधुसिद्धार्थकप्रियङ्गुरो चनाः प्रदक्षिणीकृत्य गोब्राह्मणानुप्रविशेत्||९||

🔊 Audio coming soon

Adhikarana prAkkRutyaM niyamapAlana~jca (10) · Śloka 10

तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः| ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः| दानशीलदयासत्यव्रतधर्मपरायणः| देवतानु स्मृतौ युक्तो युक्तस्वप्नप्रजागरः| प्रियौषधः पेशलवागारभेत रसायनम्||१०||

🔊 Audio coming soon

Adhikarana shodhanArthaM yogaH (11) · Śloka 11

हरीतकीमामलकं सैन्धवं नागरं वचाम्| हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्| स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते||११||

🔊 Audio coming soon

Adhikarana tato yAvakam (12) · Śloka 12

ततः शुद्धशरीराय कृतसंसर्जनाय च| त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्| दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा||१२||

🔊 Audio coming soon

Adhikarana yaugikarasAyanasevanam (13) · Śloka 13

इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्| यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित्||१३||

🔊 Audio coming soon

Adhikarana harItakyAdi saMj~jAnirvacanam (14) · Śloka 14

हरणात् सर्वरोगाणां यासावुक्ता हरीतकी| पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा| यस्माद्विजयते व्याधीन् समग्रान् विजया ततः| अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम्| यतः शीलयतामेनां तेनेयमभया स्मृता||१४||

🔊 Audio coming soon

Adhikarana harItakIguNAH anupAnAni ca (15) · Śloka 15

नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या| सालस्य सा प्रयोक्तव्या नवनीतसमन्विता| वाते ससर्पिर्लवणा पित्ते सगुडशर्करा| कफे सपिप्पली क्षौद्रा सर्वदा सा प्रशस्यते||१५||

🔊 Audio coming soon

Adhikarana harItakIrasAyanam (16) · Śloka 16

अथ हरीतकीनां हिमवच्छैलसम्भवानां कालजातानामा पूर्णरसवीर्याणामनामयानां द्विशस्त्रिशो वा शकलिता नामनस्थ्नामाढकं चतुर्गुणेन पयसा संस्वेद्य मृदुभूत मवतार्य शीतं सर्पिर्मध्वाढकाभ्यां संसृज्य सुगुप्तं स्था पयेत्| ततस्त्रिरात्रादूर्ध्वमहारानुपरोधिनीं मात्रां प्रत्यह मुपयोजयेत्| जीर्णे शालिषष्टिकं पयसा भुञ्जीत| प्रयो गान्ते च तावन्तमेव कालम्| अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसम्पन्नः समिद्धान लश्च पुरुषो भवति| बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी| भवत्यपत्यं विपुलं स्थिरञ्च समश्नतो योगमिमं प्रयत्नात्||१६||

🔊 Audio coming soon

Adhikarana brAhmaM rasAyanam (17) · Śloka 17

पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्| पञ्चानां पञ्चमूलानां सार्द्धं पलशतद्वयम्| जले दशगुणे पक्त्वा दशभागस्थिते रसे| आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा| विनीय तस्मिन्निर्यूहे योजयेत् कुडवांशकम्| त्वगेलामुस्तरजनीपिप्पल्यगरुचन्दनम्| मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्| यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाधिकम्| सितोपलार्द्धभारं च पात्राणि त्रीणि सर्पिषः| द्वे च तैलात्पचेत्सर्वं तदग्नौ लेहतां गतम्| अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः| ततः खजेन मथितं विदध्याद् घृतभाजने| एतद्रसायनं ब्राह्मं समं पूर्वेण सर्वथा| वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः| आरोग्यममितं चायुर्वीततन्द्राश्रमक्लमाः||१७||

🔊 Audio coming soon

Adhikarana abhayAmalakAdi ghRutam (18) · Śloka 18

अभयामलकविभीतकपञ्चात्मकपञ्चमूलनिर्यूहे| वल्लीपलाशकरसे द्विगुणे क्षीरेऽष्टगुणे च विपचेत्| घृतस्य कुम्भं मधुकं मधूकं काकोलियुग्मञ्च बलां स्वगुप्ताम्| सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्च पिबेद्गुणाढ्यम्||१८||

🔊 Audio coming soon

Adhikarana AmalakarasAyanam (19) · Śloka 19

आमलकसहस्रं पिष्टस्वेदनविधानेन क्षीरोष्मणा सुस्विन्न मनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरस परिपीतं स्थिराजीवन्तीपुनर्नवनागबलामण्डूकपर्णीब्रह्म सुवर्चलाभीरुशङ्खपुष्पीवचापिप्पलीविडङ्गस्वगुप्तामृताग रुचन्दनमधुकमधूकपुष्पपद्मोत्पलनवमालिकायुवतियूथि काचूर्णाष्टभागसंपृक्तं पुनर्नागबलापलसहस्रस्वरसप रिपीतं छायोपशोषितं द्विगुणितसर्पिषा क्षौद्रेण क्षुद्रगुडा कृतिं कृत्वा घृतभाजनस्थं भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षमथर्ववेदविदाकृतरक्षं पक्षात्यये चोद्धृत्य कनक रजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभि वृद्ध्या यथाग्नि प्रातः प्रातः प्रयोजयेदिति समानं पूर्वेण||१९||

🔊 Audio coming soon

Adhikarana AmalakarasAyanamaparam (20) · Śloka 20

आमलकसहस्रमार्द्रपलाशद्रोण्यां सापिधानायां वाष्पमनु द्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्| तानि सुस्वि न्नशीतान्युद्धृत्य निष्कुलीकृतान्यापोथ्य पिप्पलीविडङ्ग तण्डुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः षड्भिर्मधुघृत तैलानां संयोज्य घृतकुम्भे स्थापयेद्विंशतिरात्रं परं चोप योजयेदिति समानं पूर्वेण||२०||

🔊 Audio coming soon

Adhikarana abhayAmalakAdi rasAyanam (21) · Śloka 21

अभयामलकसहस्रं पिप्पलीसहस्रयुक्तं तरुणपलाशक्षा रोदकेनाप्लाव्य शुचौ भाण्डे स्थापयेत्| ततोऽनुगतक्षार मनातपशुष्कमस्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां च मधुघृताभ्यां संयोज्य घृतभाजने षण्मा सानन्तर्भूमेः स्थापयित्वा परतो यथाग्निबलमुपयुञ्जीतेति समानं पूर्वेण||२१||

🔊 Audio coming soon

Adhikarana AmalakacUrNarasAyanam (22) · Śloka 22

आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुघृताढकाभ्यां पिप्पलीचूर्णाष्ट भागेन शर्कराचतुर्भागेन च संसृष्टं घृतभाजनस्थं प्रावृषि भस्माराशौ निदध्यात्| तच्छरदि चोपयोजयेदिति समानं पूर्वेण||२२||

🔊 Audio coming soon

Adhikarana viDa~ggataNDularasAyanam (23) · Śloka 23

विडङ्गतण्डुलानामाढकमाढकं पिप्पलीतण्डुलानामाध्यर्द्दं सितोपलानां मधुघृतैलाढकैः षड्भिरेकीकृतं घृतभाज नस्थं प्रावृषि भस्मराशाविति समानं पूर्वेण||२३||

🔊 Audio coming soon

Adhikarana anargalatriphalAprayogaH (24) · Śloka 24

अभयामलकविभीतकानां द्विशस्त्रिशो वा संयोजितानां पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थिकृतानां पलसहस्रमुलूखले सङ्क्षुद्य दधिमधुघृत तैलपललशर्करासम्पृक्तं भक्षयेदनन्नभुग्यथोक्तेन वि धिना| प्रयोगान्ते ततो द्विगुणं कालं यवागूयूषक्षीरघृत षष्टिकान्नमाहारोऽभ्यञ्जनं सर्पिरुद्वर्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलं वा||२४||

🔊 Audio coming soon

Adhikarana cyavanaprAshaH (25) · Śloka 25

दशमूलबलामुस्तजीवकर्षभकोत्पलम्| पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः| जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी| पुनर्नवा द्विकाकोली काकनासामृताद्वयम्| विदारी वृषमूलं च तदैकध्यं पलोन्मितम्| जलद्रोणे पचेत् पञ्चधात्रीफलशतानि च| पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च| गृहीत्वा भर्जयेत्तैलघृताद्वादशभिः पलैः| मत्स्यण्डिकातुलार्द्धेन युक्तं तल्लेहवत्पचेत्| स्नेहार्द्धं मधुनः शीते तुगाक्षीर्याश्चतुःपलम्| पिप्पल्या द्वे पले दद्याच्चतुर्जातं कणार्द्धिकम्| अतोऽवलेहयेन्मात्रां कुटीस्थं पथ्यभोजिनम्| इत्येषश्च्यवनप्राशो यं प्राश्य च्यवनो मुनिः| जराजर्जरितोऽप्यासीन्नारीनयननन्दनः| कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्| मूत्रशुक्राशयान् दोषान् वैस्वर्यं च व्यपोहति| बालवृद्धक्षतक्षीणकृशानामङ्गवर्द्धनः| मेधां स्मृतिं कान्तिमनामयत्व मायुः प्रकर्षं पवनाऽनुलोभ्यम्| स्त्रीषु प्रहर्षं बलमिन्द्रियाणा मग्नेश्च कुर्याद्विधिनोपयुक्तः||२५||

🔊 Audio coming soon

Adhikarana triphalAprayogAH (26) · Śloka 26

मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना| पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा| सितया वा समायुक्ता समायुक्ता रसायनम्| त्रिफला सर्वरोगघ्नी मेधायुः स्मृतिबुद्धिदा| त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवम्| तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्| प्रभूतस्नेहशमनं जीर्णे तत्र प्रशस्यते| जीवत्यरुग्ज्वरस्तस्य समाभ्यासात्समाः शतम्| वर्षं खादेत्प्राणदां प्रातरेका मश्नन्नन्नात् पूर्वमक्षद्वयं च| साज्यक्षौद्रं भोजनान्ते चतुष्कं धात्रीकानां तद्वयस्थापनेलम्||२६||

🔊 Audio coming soon

Adhikarana ayorasAyanam (27) · Śloka 27

अथायसानि चतुरङ्गलदीर्घविस्तृतानि तिलोत्सेधानि पत्रा णि कारयेत्| तान्यग्निवर्णानि कृत्वाऽमलकस्वरसे निर्वापयेदेकविंशतिकृत्वः| तेषां तादृशानां पलशतमा यस्यां स्थाल्यां प्रक्षिप्यामलकस्वरसोत्तरं कृत्वा सुपिहितं भस्मराशौ निखनेत्| मासि मासि चोद्धृत्यायसेन दण्डेन घट्टयेत्| शुष्यत्यामलकस्वरसं पूर्ववदावपेत्| एवं तानि लोहपत्राणि संवत्सराद् द्रवीभवन्ति| ततश्चोत्तरकालं कृत्वा वमनविरेचनं स्निग्धतनुरेव केवलं समन्ततोऽ ङ्गुष्ठपर्वमात्रमुखेनायसेन स्रुवेणायस एव भाजने तस्मात् कल्कीकृतात् स्रुवमेकं गृहीत्वा मधुघृताभ्यां पृथक् स्रुवेण संयोज्य प्राश्नीयात्| जीर्णे क्षीररसयूषाणामन्य तमेन सर्पिर्मिश्रं नवं षष्टिकौदनमश्नीयात्| अनेन विधिना वर्षमुपयुज्य वर्षमेव चान्यदप्युद्विष्टाहारो यन्त्रितात्मा कुटीं समधिवसेत्| ततः सर्वोपतापान् जित्वा व्याधिजराम मरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतीन्द्रियो वर्षसहस्रद्वयं जीवति| वाजिवेगो गजप्राणो भवेच्च स्मृतिबुद्धिमान्| वाग्मी वृषः श्रुतधरो महाभोगो महाधनः||२७||

🔊 Audio coming soon

Adhikarana atideshena tAmrAdiprayogAH (28) · Śloka 28

ताम्ररूप्यसुवर्णानामयमेव पृथग्विधिः| द्विगुणं तद्गुणोत्कर्षं जानीयादुत्तरोत्तरम्||२८||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (29) · Śloka 29

हेमधात्रीफलक्षौद्रं गायत्रीपरिमन्त्रितम्| लिहन्ननुपिबन् क्षीरं दृष्टरिष्टोऽपि जीवति||२९||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (30) · Śloka 30

सुवर्णं पद्मबीजानि मधुलाजाः प्रियङ्गवः| क्षीरेण पीतं परममलक्ष्मविनिवारणम्||३०||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (31) · Śloka 31

सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यां कनकं लिहन्तः| दीर्घायुषो मन्दजरोपतायाः सरीसृपाणां च भवन्त्यगम्याः||३१||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (32) · Śloka 32

मधुमागधिकाविडङ्गसार त्रिफलाहेमघृतं सितां च खादन्| जरसा नवलीढदेहकान्तिः समधातुश्च समाः शतं च जीवेत्| हेमबिल्ववचासर्पिरैकध्यमुपयोजितम्| मेध्यमायुष्यमारोग्यकान्तिसौभाग्यपुष्टिदम्||३२||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (33) · Śloka 33

शतावरीघृतं लीढं ससुवर्णं समाक्षिकम्| करोति चिरजीवित्वं राजानं च वशानुगम्||३३||

🔊 Audio coming soon

Adhikarana suvarNasyAnye prayogAH (34) · Śloka 34

आयुष्कामः शङ्खपुष्प्या समेतं मेधाकामः काञ्चनं सोग्रगन्धम्| लक्ष्मीकामः पद्मकिञ्जल्कयुक्तं युक्तं खादेत् कामकामो विदार्या||३४||

🔊 Audio coming soon

Adhikarana maNDUkaparNyAdi pa~jca rasAyanAni (35) · Śloka 35

मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम्| रसं गुडूच्याः सह मूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः| आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी||३५||

🔊 Audio coming soon

Adhikarana sha~gkhapuShpIghRutam (36) · Śloka 36

नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः| त्रिफलाकटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः| त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्| उपयुज्य भवेज्जडोऽपि वाग्मी शृतधारी प्रतिभानवानरोगः||३६||

🔊 Audio coming soon

Adhikarana pa~jcAravindaghRutam (37) · Śloka 37

पेष्यैर्मृणालबिसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः| पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्||३७||

🔊 Audio coming soon

Adhikarana catuShkuvalayaM sarpiH (38) · Śloka 38

यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं पृथिव्याम्| सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं मेध्यं गवामपि भवेत्किमु मानुषाणाम्||३८||

🔊 Audio coming soon

Adhikarana brAhmIrasAyanam (39) · Śloka 39

ब्राह्मीवचासैन्धवशङ्खपुष्पी मत्स्याक्षकब्रह्मसुवर्चलैन्ध्रः| वैदेहिका च त्रियवाः पृथक्स्यु र्यवौ सुवर्णस्य तिलो विषस्य| सर्पिषश्च पलमेकत एतद्योजयेत् परिणते च घृताढ्यम्| भोजनं समधुवत्सरमेवं शीलयन्नधिकधीस्मृतिमेधाः| अतिक्रान्तजराव्याधितन्द्राऽऽलस्यश्रमक्लमः| जीवत्यब्दशतं पूर्णं श्रीतेजः कान्तिदीप्तिमान्| विशेषतः कुष्ठकिलासगुल्म विषज्वरोन्मादगरोदराणी| अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः||३९||

🔊 Audio coming soon

Adhikarana nAgabalArasAyanam (40) · Śloka 40

यथोक्तगुणायां भूमौ जातामबालामजीर्णां शीर्णपुराण पर्णामसञ्जातान्यपर्णां तपे तपस्ये वा मासे यथोक्तेन विधिना पुष्ययुक्ते चन्द्रमसि सुमुर्हूर्त्ते नागबलां समूला मुद्धरेत्| तस्य मूलानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमवचूर्णितं वा पयसा पिबेन्मधुघृताभ्यां वा लिह्यात्| जीर्णे क्षीरवृत्तिरेव स्यात्| क्षीरेणैव वा सस र्पिष्कं शालिषष्टिकमश्नीयात्| एवं संवत्सरप्रयोगा द्वर्षशतमजर इत्यादि समानं पूर्वेण||४०||

🔊 Audio coming soon

Adhikarana atideshena balAdirasAyanAni (41) · Śloka 41

बलातिबलाचन्दनागरुधवतिनिशखदिरकदरशाकशिंश पासनसुरसापुनर्नवानन्ताश्च वयस्थापनोक्त दशौषधयः सविदारीश्वदंष्ट्राश्वगन्धावाराहीशतावर्यो नागबलया व्या ख्याताः||४१||

🔊 Audio coming soon

Adhikarana sAravRukShANAM svarasagrahaNe vidhiH (42) · Śloka 42

तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत| आर्द्रवृक्षासम्भवे तु सारशकलानि द्व्यङ्गुलत्र्यङ्गुलानि तनूनि चतुर्गुणेऽम्भस्याप्लाव्यातपे त्रि रात्रं स्थापयेत| ततस्तान्युद्धृत्यान्यानि तत्र क्षिपेत्| त्रिरा त्राच्च पुनरन्यान्येवं नवरात्रेण त्रिःप्रक्षेपणोद्भारेण च स्वरसः परिकल्पितो भवति||४२||

🔊 Audio coming soon

Adhikarana phalAdInAM svarasagrahaNe vidhiH (43) · Śloka 43

फलानां पुनर्वीरुदौषधीनाञ्च यन्त्रेणोलूखलेन वा सङ्क्षुद्य निष्पीड्य स्वरसं गृह्णीयात्||४३||

🔊 Audio coming soon

Adhikarana parishuShkANAM svarasagrahaNe vidhiH (44) · Śloka 44

परिशुष्काणां तु चूर्णीकृतानामाढकमुदकस्याहोरात्रस्थितं विमृदितपूतं स्वरसवत् प्रयोज्यम्| तुवरकभल्लातका दीनां पुनः पृथगेवोपदेशः||४४||

🔊 Audio coming soon

Adhikarana tuvarakakalpaH (tuvarakatailam) (45) · Śloka 45

वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः| वीचीतरङ्गविक्षोभमारुतोद्भूतपल्लवाः| तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे| मज्ज्ञः फलेभ्यश्चादाय शोषयित्वावचूर्ण्य च| तिलवत्पीडयेद्द्रोण्यां क्वाथयेद्वा कुसुम्भवत्| तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्| अवतार्य करीषे च पक्षमात्रं निधापयेत्| स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य यत्नवान्| चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्| मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे| 'मज्जासार महावीर्य सर्वान् धातून् विशोधय| शङ्खचक्रगदापाणीस्त्वामाज्ञापयतेऽच्युतः| ' तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः| सायमस्नेहलवणां यवागूं शीतलां पिबेत्| पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यानि वर्जयेत्| पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते||४५||

🔊 Audio coming soon

Adhikarana khadireNa tuvarakatailopayogaH (46) · Śloka 46

तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्| निहितं पूर्ववत् पक्षं पिबेन्मासं सुयन्त्रितः| तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्| भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभिक्षितम्| अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्||४६||

🔊 Audio coming soon

Adhikarana tasyaiva sarpirmadhubhyAM prayogaH (47) · Śloka 47

सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना| पक्षं मांसरसाहारं करोति द्विशतायुषम्| तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्| वलीपलितनिर्भुक्तस्थिरस्मृतिकचद्विजम्| वपुष्यन्तं श्रुतधरं करोति त्रिशतायुषम्||४७||

🔊 Audio coming soon

Adhikarana tuvarakamajj~jopayogaH (48) · Śloka 48

अन्तर्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैन्धवं चाग्निवर्णम्| तुल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन||४८||

🔊 Audio coming soon

Adhikarana ekAntarastuvarakatailaprayogaH (49) · Śloka 49

एकान्तरं तौवरकं च तैलं पिबेद्धिताशी नियमेन मासम्| प्रभिन्नकोष्ठो गलिताङ्गदेश स्त्वचं त्यजेत्सर्प इवाशु जीर्णाम्||४९||

🔊 Audio coming soon

Adhikarana tuvarakaprayogAntaram (50) · Śloka 50

साधयेत् षोडशगुणे सलिले तुवराढकम्| अष्टांशशेषे विस्राव्य सङ्क्षुद्योलूखले ततः| शुष्कारग्वधवल्कपादरजसा व्यामिश्रितं कल्कितं तस्य क्वाथजलैरुदुम्बरसमान् छायाविशुष्कान् गुडान्| कुर्यादेकतमञ्च सार्द्धमथवा गोवारिणालोडितं कुष्ठी तद्दिवसस्थितो निरशनः सूर्ये गतेऽस्तं पिबेत्| तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले| अप्यजीर्णमविचिन्त्यवमिं वा भेषजं पुरुषदोषबलज्ञः| मध्याह्नेद्याद्भूरि निष्पावतैलं कङ्गूकूरं शिग्रुकन्दोपदंशम्| दध्नायुक्तं स्वल्पसिन्धूत्थचूर्णं गव्येनानुस्तोकतक्राम्बुपायी| तैलाक्तगात्रो दिवसान्तरं च कङ्ग्विष्टिकाचूर्णकृतप्रघर्षः| स्नायात् सुखाम्भोऽभिरमद्यमांस स्त्रीसङ्गतिः स्यात्त्रिगुणं च योगात्| उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः| कुष्ठी कुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि||५०||

🔊 Audio coming soon

Adhikarana bhallAtakakalpaH sahasrabhallAtakaprayogaH (51) · Śloka 51

अथ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवी र्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्ले वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत्| तानि चतुर्मासस्थि तानि सहे सहस्ये वा मासे प्रयोक्तुमारभेत| शीतस्निग्ध मधुरोपस्कृतशरीरः पूर्वं दश भल्लातकान्यापोथ्याष्ट गुणेनाम्भसा साधु साधयेत्| तेषां रसमष्टभागावशिष्ट मनुष्णं सपयस्कं सर्पिर्गण्डूषाभ्यक्तौष्ठतालुजिह्वः प्रातः पिबेत्| एवमेतानि दशभल्लातकान्येकैकोत्कर्षापकर्षे णात्रिंशत्प्रयोज्यानि| विधिनानेन सहस्रप्रयोगस्त्रिगुणश्च कालो घृतक्षीराभ्यां शालिषष्टिकमशनमेवं विशेषा द्विगतकुष्ठदुर्न्नामकृमिप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण||५१||

🔊 Audio coming soon

Adhikarana vidhyantaram (52) · Śloka 52

पूर्वमेकैकभल्लातकक्वाथं सपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेद्यावत् पञ्च| ततः पञ्च पञ्च वर्द्धये द्यावत् सप्ततिः| प्राप्य च सप्ततिमपकर्षयेत्| भूयः पञ्च पञ्च यावत् पञ्च| पञ्चभ्यश्चैकैकं यावदेकम्| विधि नानेन सहस्रं प्रयोग इत्यादि समानं पूर्वेण||५२||

🔊 Audio coming soon

Adhikarana dvisahasrabhallAtakaprayogaH (53) · Śloka 53

सप्ततिवच्च शतमुपयुञ्जीत| तथा च सहस्रद्वयम्| प्रयोग इत्यादि समानं पूर्वेण द्विगुणस्त्वायुषः कालः||५३||

🔊 Audio coming soon

Adhikarana bhallAtakatailaprayogaH (54) · Śloka 54

भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमा वाकण्ठनिखातस्य स्नेहभवितस्य दृढस्योपरि कुम्भ स्यारोप्योडुपेनापिधाय कृष्णमृदावलिप्तं गोमयाग्निनो पस्वेदयेत्| तेषां यः स्वरसः कुम्भं प्रपद्यते तमष्टभाग मधुसंयुक्तं द्विगुणितघृतमद्यात्| त्रिगुणश्च कालो घृत क्षीराभ्यामित्यादि समानं पूर्वेण||५४||

🔊 Audio coming soon

Adhikarana vidhyatideshaH (55) · Śloka 55

अनेनैव विधिना भल्लातकस्य रसं गृहीत्वा केवलमेव मासमेकं प्रयुञ्जीत| त्रिगुणश्च काल इत्यादि समानं पूर्वेण| मासि मासि वर्षशतमायुषोऽभिवृद्धिः| एवं दश मासानुपयुज्य वर्षसहस्रमायुर्भवति||५५||

🔊 Audio coming soon

Adhikarana shatapAkaM bhallAtakatailam (56) · Śloka 56

भल्लातकतैलपात्रं सपयस्कं मधुकाक्षमात्रेण शतपाक मुपयुञ्जीत| त्रिगुणञ्च काल इत्यादि समानं पूर्वेण||५६||

🔊 Audio coming soon

Adhikarana bhallAtakatailapAkaH (57) · Śloka 57

भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसोऽस नादिसारकषाय इत्येषां द्रोणं द्रोणं त्रिफलात्रिकटुक विडङ्गसारचित्रकहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमधुकवि षातिविषारसाञ्जनप्रियङ्गूनां पालिकाभागास्तदैकध्यं स्नेह पाकविधिना विपाच्यावतार्य परिपूय चानुगुप्तं निदध्यात्| तत उपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रक्षौद्रेण प्रतिसंसृज्योपयुञ्जीत| जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनमश्नीयात्| खदि रोदकेनोदककार्याणीत्येवमतो द्रोणमुपयुज्य विगतकु ष्ठदुर्नामेत्यादि समानं पूर्वेण||५७||

🔊 Audio coming soon

Adhikarana bhallAtakaghRutaprAshaH (58) · Śloka 58

पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि| घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन| जर्जराणि विपचेज्जलकुम्भे पादशेषघृतगालितशीतम्| तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे| सर्पिः पक्वं तेन तुल्यप्रमाणं युञ्ज्यात् स्वेच्छं शर्कराया रजोभिः| एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्| तममृतरसपाकं यः प्रगे प्राशमश्न न्ननुपिबति यथेष्टं वादि दुग्धं रसं वा| स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिकषगौरः सोऽश्नुते दीर्घमायुः||५८||

🔊 Audio coming soon

Adhikarana siddhatailam (58) · Śloka 50

द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्| तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिषूदनाय||५०||

🔊 Audio coming soon

Adhikarana AmalakAdiBiH prayogaH (59) · Śloka 59

सहामलकशुक्तिभिर्दधिसरेण तैलेन वा गुडेन पयसा घृतेन यवसक्तुभिर्वा सह| तिलेन सह माक्षिकेण पललेन सूपेन वा वपुष्करमरुष्करं परममेध्यमायुष्करम्||५९||

🔊 Audio coming soon

Adhikarana bhallAtakakalpaprashaMsA (60) · Śloka 60

भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च| भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि| कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन| यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्| वातातपविधानेऽपि विशेषेण विवर्जयेत्| कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्||६०||

🔊 Audio coming soon

Adhikarana pippalIrasAyanam prathamaH prayogaH (61) · Śloka 61

पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा| रसायनगुणान्वेषी समामेकां प्रयोजयेत्||६१||

🔊 Audio coming soon

Adhikarana dvitIyaprayogaH (62) · Śloka 62

तिस्रस्तिस्रस्तु पूर्वाह्ने भुक्त्वाऽग्रे भोजनस्य च| पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः| प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा||६२||

🔊 Audio coming soon

Adhikarana sahasrapippalIprayogaH (63) · Śloka 63

क्रमवृश्या दशाहानि दशपैप्पलिकं दिनम्| वर्द्धयेत् पयसा सार्द्ध तथैवापनयेत् पुनः| जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा| पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्| पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः| शीतीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||६३||

🔊 Audio coming soon

Adhikarana dvisahasrapippalIprayogaH (64) · Śloka 64

तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्||६४||

🔊 Audio coming soon

Adhikarana pippalIrasAyanaphalam (65) · Śloka 65

एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्| यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान्| घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्||६५||

🔊 Audio coming soon

Adhikarana viDa~ggarasAyanam (66) · Śloka 66

विडङ्गचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन समांशमुप युञ्जीत| जीर्णं मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात्| तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेहमेदोदोषो वर्षशत मजर इत्यादि समानं पूर्वेण| विडङ्गचुर्णं क्षौद्रभल्ला तकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन च| एतांश्चतुरो योगान् मासमुपयुञ्जीतेति समानं पूर्वेण| सर्वेषु च मासि मासि वर्षशतमायुषोऽभिवृद्धिः||६६||

🔊 Audio coming soon

Adhikarana alambusAkalpaH (67) · Śloka 67

अलम्बसां स्वेन रसेन भावितां पृथग्घृतक्षीरमधूष्णवारिभिः| पिबेत्तथा काञ्जिकतक्रमस्तुभि र्भगन्दरोरुग्रहगुल्मकासवान्| उष्णा विपाके कटुका कषायमधुरा रसे| अत्यन्तदीपनी मेध्या वातश्लेष्महरा च सा| वर्षोपयोगात् कुरुते नरं वर्षशतायुषम्| दृढेन्द्रियानलबलं निर्वलीपलितामयम्||६७||

🔊 Audio coming soon

Adhikarana somarAjIkalpaH prathamaH prayogaH (68) · Śloka 68

श्वेतावल्गुजफलान्यातपशुष्काणि चूर्णयित्वा तत्तुल्यगुडेन सङ्क्षुद्य घृतकुम्भे धान्यराशौ सप्तरात्रं निदध्यात्| ततोऽ नुदिते भास्वति यथाबलं मात्रां सुखोदकानुपानामुपयोज येत्| जीर्णे सुखाम्बुपरिषिक्ताः शालिषष्टिकौदनं सश र्करेण पयसाऽश्नीयात्| तस्य मासप्रयोगाद्विशेषेण विग तकुष्ठो ग्रहणधारणवान् वर्षशतमजर इत्यादि समानं पूर्वेण| प्रयोगश्चोर्ध्वं द्विगुणं परिहारः||६८||

🔊 Audio coming soon

Adhikarana dvitIyaH prayogaH (69) · Śloka 69

वाकुचिका कर्षचूर्णं सुखाम्बुना पिबेत्| पीत्वा चातपे निर्वातोष्णे वा गर्भगृहे तिष्ठेदपराह्णे तद्वदेव स्नानमशनं च| यूषरसाभ्यां वा| तस्य त्रिसप्तरात्रप्रयोगाद्विगतकुष्ठ इत्यादि समानं पूर्वेण| त्वग्रोमकेशदशनान् नखांश्च मुक्त्वा पुनर्नवान् लभते| स्वरवर्णबलोत्साहं नवं वयो नष्टपलितं च||६९||

🔊 Audio coming soon

Adhikarana tRutIyaH prayogaH (70) · Śloka 70

पलानि दश बाकुच्या दशैव च फलत्रयात्| सप्त क्रिमिघ्नादयसस्त्रीणि द्वे गिरिसम्भवात्| पुरुपुष्करमूलाभ्यामाहरेत पलं पलम्| सूक्ष्मैलार्द्धपलं व्योषघनकेसरकुङ्कुमम्| लोध्रत्वक्पत्रयष्ट्याह्वचित्रकं कार्षिकं पृथक्| शतं भल्लातकानां च सर्वं खण्डसमांशकम्| चूर्णयेदथ तन्मात्रां भक्षयेत् पालिकीं पराम्| यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान्| सर्वरोगान् विजयते त्वग्विकारान् विशेषतः| अर्शोभगन्दरश्वासकासपाण्ड्वामयक्रिमीन्| गुल्मप्लीहाश्मरीवर्ध्मप्रमेहारुचिपीनसान्| मन्दानलत्वं कृशतां शोफग्रन्थ्यर्बुदानपि||७०||

🔊 Audio coming soon

Adhikarana caturthaH prayogaH (71) · Śloka 71

वाकुचिकाफलानि गोमूत्रे सप्तरात्रं वासयेत्| ततो निस्तु षीकृत्य छायायां विशोषयित्वा सुसूक्ष्मं च सञ्चूर्ण्य त्र्यहं त्र्यहं क्रमशो भावयेत् त्रिफलाक्वाथेन कारवल्लीवासा गुडूचीभृङ्गराजस्वरसैः पृथक् पृथक् खदिरासनराजवृक्ष पिचुमन्दक्वाथैः| तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः| कर्षः सर्वामयान् हन्ति त्वग्विकारान्विशेषतः||७१||

🔊 Audio coming soon

Adhikarana pa~jcamaH prayogaH (72) · Śloka 72

असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम्| शरदमवलिहानः पारिणामान् विकारां स्त्यजति मितहिताशी तद्वदाहारजातान्||७२||

🔊 Audio coming soon

Adhikarana ShaShThaH prayogaH (73) · Śloka 73

तीव्रेण कुष्ठेन परीतमूर्ति र्यः सोमराजीं नियमेन खादेत्| संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते||७३||

🔊 Audio coming soon

Adhikarana saptamaH prayogaH (74) · Śloka 74

ये सोमराज्या वितुषीकृताया श्चूर्णैरुपेतात् पयसः सुजातात्| उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते| ते कुष्ठिनः पक्ष्मदरिद्रनेत्रा विशीर्णकर्णाङ्गलिनासिका वा| विहाय वैरूप्यमपास्य रूपं पुनः प्ररूढा इव भान्ति वृक्षाः||७४||

🔊 Audio coming soon

Adhikarana aShTamaH prayogaH (75) · Śloka 75

खदिराम्भसा पिबेद्वा रविसेवी तां तया यवागूं वा| गायत्रीजलसिद्धां कुष्ठी तत्तोयकार्यकरः||७५||

🔊 Audio coming soon

Adhikarana navamaH prayogaH (76) · Śloka 76

गजलिण्डक्षारयुता तत्क्षारपायिनो विलेपि भुजः| श्वित्राणि सोमराजी प्रसह्य हन्यात प्रलेपाच्च||७६||

🔊 Audio coming soon

Adhikarana dashamaH prayogaH (77) · Śloka 77

गोमूत्रे सप्तरात्रं शशिशकलफलं वासितं लोडयित्वा कुर्याच्छायाविशुष्कं पृथगिति च फलं प्रपुन्नाटञ्च शुष्कम्| अंशस्ताभ्यां तथांशः क्रिमिरिपुदहनस्फोटकृद्भयः सचूर्णौ गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्वित्रमाश्वेव हन्ति||७७||

🔊 Audio coming soon

Adhikarana ashmaryAM prayogaH (78) · Śloka 78

इक्षुरगोक्षुरसिंही व्याघ्रीपञ्चाङ्गुलाम्बुना पीता| उपलमघनं घनं वा रसाशिनां हन्ति बाकुचिका||७८||

🔊 Audio coming soon

Adhikarana gulme prayogaH (79) · Śloka 79

उष्णोदकेन पिष्टा पीता च घृतान्विता जयेद्गुल्मम्| लघुपञ्चमूलसिद्धां पेयामुपयोजयेज्जीर्णे||७९||

🔊 Audio coming soon

Adhikarana arshobhagandarameheShu prayogaH (80) · Śloka 80

कट्वङ्गकुटजयूषैरर्शासि भगन्दरञ्च नाशयति| मेहान् मद्यैर्निगदैर्निषेविता बाकुची प्रबलान्||८०||

🔊 Audio coming soon

Adhikarana apatantrakAyAmayoH prayogaH (81) · Śloka 81

विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा| अपतन्त्रकं निहन्यादायामं वा रसान्नभुजः||८१||

🔊 Audio coming soon

Adhikarana udarashophapANDurogeShu prayogaH (82) · Śloka 82

जठरेषु पिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूषेण| शोफे पाण्डुव्याधाववल्गुजं सीध्वरिष्टाभ्याम्||८२||

🔊 Audio coming soon

Adhikarana vardhmAdiShu prayogaH (83) · Śloka 83

इक्षुकादिक्वाथैर्वर्ध्मनि मूत्रेण वा गवां शस्तः| धारोष्णेन तु पयसा युक्तः शोफज्वरौ हन्ति| उष्णाम्बुना प्रयोज्यो लूताकीटाखुसर्पदष्टेषु| कृमिहरचतुरङ्गुलयोः क्वाथः कोष्णैः क्रिमिणकोष्ठेषु||८३||

🔊 Audio coming soon

Adhikarana putradaH prayogaH (84) · Śloka 84

लेखामिन्दो सघृतां सुखाम्बुना पुत्रिणी भवति पीत्वा| पुष्पोदयेऽश्वगन्धा शृतेन पयसा च भुञ्जाना||८४||

🔊 Audio coming soon

Adhikarana putradaprayogaprashaMsA (85) · Śloka 85

वन्ध्यापि सप्ताहमिमं प्रयोगं करोति या हर्षवती सुगन्धिः| प्रियंवदा सद्व्रतशौचयुक्ता सूते सुतान् सा नियमात् गुणढ्यान्||८५||

🔊 Audio coming soon

Adhikarana doShAnusAraM prayogaH (86) · Śloka 86

स्निग्धैरुष्णैर्मधुरैर्हरति गदान् वातजान् युता पैत्तान्| तिक्तकमधुरकषायैः कफजास्त्रिफलारसमधुभ्याञ्च||८६||

🔊 Audio coming soon

Adhikarana somarAjIkalpaprashaMsA (87) · Śloka 87

इति शमनी धन्येयं विषगरभूतोपसर्गपाप्मघ्नी| गेहे स्थितापि रेखा चान्द्रमसी किमुत कोष्ठस्था| मनुष्यमप्यागतमृत्युशासनं प्रणष्टबुद्धीन्द्रियमल्पचेतसम्| अवल्गुजो मोक्षयते महाभया च्छ्रियञ्च मेधाञ्च ददाति पुष्कलाम्||८७||

🔊 Audio coming soon

Adhikarana vacAkalpaH haimavatIvacAkalpaH (88) · Śloka 88

हैमवत्या वचायाः पिण्डमामलकमात्रं पयसाऽऽलोड्य पिबेज्जीर्णे पयस्सर्पिरोदन इत्याहारः| एवं सप्तरात्रेण मेधावी भवति| सप्तभिः सप्तरात्रैः श्रुतधरो वर्षशतमजर इत्यादि समानं पुर्वेण||८८||

🔊 Audio coming soon

Adhikarana kRuShNavacAkalpaH (89) · Śloka 89

इतरस्या अपि वचाया द्विपलक्वाथं पिबेत्| जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण| तच्चूर्णं वा क्षौद्रसर्पिर्भ्यां यथाबलमवलिह्यात्| जीर्णे पयःसर्पिरित्यादि समानं पूर्वेण||८९||

🔊 Audio coming soon

Adhikarana vacAshatapAkaghRutam (90) · Śloka 90

वचा कल्कशतपाकं घृतद्रोणमुपयुज्य विशेषात् ग्रहोन्मा दापस्मारगलगण्डमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धिमान् वर्षशतायुर्भवति||९०||

🔊 Audio coming soon

Adhikarana lashunakalpaH tatrAdhikAritvam (91) · Śloka 91

शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम्| भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य||९१||

🔊 Audio coming soon

Adhikarana prashastAprashastatve hetunirdeshaH (92) · Śloka 92

राहोरमृतचौर्येण लूनाद्ये पतिता गलात्| अमृतस्य कणा भूमौ ते रसोनत्वमागताः| द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्| साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्||९२||

🔊 Audio coming soon

Adhikarana doShAnusAraM sevanakAlaH (93) · Śloka 93

शीलयेल्लशुनं शीते वसन्ते च कफोल्बणः| घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया| रक्तपित्तभवा रोगा जायन्ते रक्तपित्तिनः||९३||

🔊 Audio coming soon

Adhikarana rasAyanaprayogakAlamaryAdA (94) · Śloka 94

मासः परोऽस्य रसकल्कनिषेवणाय स्वच्छन्दमप्युपदिशन्ति विमर्दकैस्तु| षण्मासमन्यविधिना न तु शस्तमाहुः पक्षप्रयोगमपि हीनतरं रसोने||९४||

🔊 Audio coming soon

Adhikarana lashunaprayogastaduttarakRutya~jca (96) · Śloka 95

स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः| तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः| तस्य कन्दान्वसन्तान्ते हिमवच्छकदेशजान्| अपनीतत्वचो रात्रौ निमयेन्मदिराभिः| तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्| मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्| मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा| तत्काल एव वा युक्त युक्तयालोच्य मात्रया| तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्| क्वाथेन वा यथाव्याधि रसं केवलमेव वा| पिबेद् गण्डूषमात्रं प्राक्कण्ठनाडीविशुद्धये| प्रततं स्वेदनं चानु वेदनायां प्रशस्यते| शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे| शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि| विदाहपरिहाराय परं शीतानुलेपनः| धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः| सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमालाहारयष्टीश्च लोलाः स्तनतटविनिविष्टाश्चारुगात्र्यो दधाना स्तनुसरसविलिप्ता गाढमेनं स्वजेरन्| नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च| दयिताकरपल्लवैश्च शीतै र्लशुनस्वेदकृतं क्लमं हरेयुः|९५|

🔊 Audio coming soon

Adhikarana lashunaprayogastaduttarakRutya~jca (96) · Śloka 95

स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः| तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः| तस्य कन्दान्वसन्तान्ते हिमवच्छकदेशजान्| अपनीतत्वचो रात्रौ निमयेन्मदिराभिः| तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्| मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्| मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा| तत्काल एव वा युक्त युक्तयालोच्य मात्रया| तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्| क्वाथेन वा यथाव्याधि रसं केवलमेव वा| पिबेद् गण्डूषमात्रं प्राक्कण्ठनाडीविशुद्धये| प्रततं स्वेदनं चानु वेदनायां प्रशस्यते| शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे| शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि| विदाहपरिहाराय परं शीतानुलेपनः| धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः| सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमालाहारयष्टीश्च लोलाः स्तनतटविनिविष्टाश्चारुगात्र्यो दधाना स्तनुसरसविलिप्ता गाढमेनं स्वजेरन्| नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च| दयिताकरपल्लवैश्च शीतै र्लशुनस्वेदकृतं क्लमं हरेयुः||९५||

🔊 Audio coming soon

Adhikarana lashunaprayogastaduttarakRutya~jca (98) · Śloka 98

रसोऽग्निकल्पो मृदुनौजसा हि संयुज्यमानः सहसैव तस्य| दाहातिसारारतिचित्तनाशान् कुर्यादतस्तं त्वरितो न युञ्ज्यात्||९८||

🔊 Audio coming soon

Adhikarana jIrNe bhojanam (99) · Śloka 99

जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्| भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्| दीप्ताग्निर्मण्डकान् खादेत् सर्पिर्मण्डोपसेचनान्| अखण्डमण्डलेन्द्वाभानिण्डरीखण्डमण्डितान्| राजिकाशुक्तसम्पर्कविनिवर्तितगौरवैः| पिष्टकाचूर्णधवलैर्वध्रैः सौकरकैर्युतान्||९९||

🔊 Audio coming soon

Adhikarana jIrNe pAnam (100) · Śloka 100

मद्यमेकं पिबेत्तत्तु तृट्प्रबन्धे जलान्वितम्| गन्धमत्तक्वणदलिप्रियावक्त्रेन्दुबोधितम्| अमद्यपो यस्तु फलामबुतक्र मवन्तिसोमं च सुगन्धि शीतम्| सौवीरकं जाङ्गलजं रसं वा तुषोदकं वा परिसिक्थिकां वा||१००||

🔊 Audio coming soon

Adhikarana lashunaprayogAntarANi prathama prayogaH (101) · Śloka 101

तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्| स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्||१०१||

🔊 Audio coming soon

Adhikarana dvitIyaprayogaH (102) · Śloka 102

सद्यः पिष्टं सर्पिषा संयुतं वा निर्यासेन स्वेन युक्तं च कामम्| युञ्जीतैनं पूर्वकैरेव पानैः कोष्णाम्भोभिर्वैषकल्पोऽतीवीर्यः||१०२||

🔊 Audio coming soon

Adhikarana tRutIyaprayogaH (103) · Śloka 103

रसोनकल्कः सदृशाऽजसर्पिः षण्मासमुर्व्यामुषितो निहन्ति| अभ्यङ्गपानाञ्जननस्ययुक्तो मनोविकारान् विषमज्वरं च||१०३||

🔊 Audio coming soon

Adhikarana caturthaH prayogaH (104) · Śloka 104

समतैलं सशुक्तं वा यवाराशौ समा स्थितम्| वातरोगान् जयेत् खादन् घृतमांसोत्तराशनः||१०४||

🔊 Audio coming soon

Adhikarana pa~jcamaH prayogaH (105) · Śloka 105

तैलसर्पिर्गुडसिताः पृथक्कुर्यात्तुलोन्मिताः| द्वे तुले लशुनाच्छुद्धात्त्र्यूषणात् कुडवत्रयम्| पलं त्वचश्च तच्छालक्ष्णं निहितं घृतभाजने| द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः||१०५||

🔊 Audio coming soon

Adhikarana ShaShThaH prayogaH (106) · Śloka 106

क्षुण्णां क्षिपेत् कन्दतुलां तक्रस्य पलविंशतौ| गते च सप्तरात्रे तु तुलार्द्धमसितात्तिलात्| धौतक्षुण्णात्पृथक्क्षौद्रघृतशुण्डी चतुष्पलम्| अजाजीचव्यधान्याग्निद्विकृष्णाग्रन्थिदीप्यकान्| पलोन्मितांश्चतुर्जातात् पलमेकं सुचूर्णितम्| पृथक्पलाष्टकं तैलाद्धृतात्क्षुण्णाच्च सर्षपात्| पटूनि पञ्च क्षारौ द्वौ दद्यात्तत्राक्षमानतः| एकादशाहं तद्धान्ये स्थितमश्नन् प्रगे प्रगे| गुणान् रासायनान्सर्वान्स प्राप्नोति निरामयः||१०६||

🔊 Audio coming soon

Adhikarana saptamaH prayogaH (107) · Śloka 107

द्विपञ्चमूलनिष्क्वाथे नल्वणे लशुनाढकम्| पिष्टं पर्युषितं वर्षं हन्ति वातकफामयान्||१०७||

🔊 Audio coming soon

Adhikarana aShTamaH prayogaH (108) · Śloka 108

तत्कन्दकल्कस्वरसे घृततैलं पृथक्पचेत्| शीलयेच्च यथासात्म्यं दारुणानिलपीडितः||१०८||

🔊 Audio coming soon

Adhikarana navamaH prayogaH (109) · Śloka 109

नवनीतसमांशं वा खादेत्तत्कल्कमर्दिती||१०९||

🔊 Audio coming soon

Adhikarana dashamaH prayogaH (110) · Śloka 110

विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्| निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघुतुच्छमश्नन्| कुस्तुम्बरी जीरकभृष्टमुद्ग- सौवर्चलश्लक्ष्णरजोऽवकीर्णैः| रसोनकन्दाङ्कुरपत्रचित्रैः सव्यञ्जनैर्नैकरसानुयातैः| तत्कन्दसिद्धान् क्रमशो यूषक्षीररसान् पिबेत्| कफपित्तानिलाशङ्की यथास्वौषधसंस्कृतान्||११०||

🔊 Audio coming soon

Adhikarana lashunasya vividhAmayaghnatvam (111) · Śloka 111

कृशोऽश्वगन्धोद्भवचूर्णकीर्ण सन्नस्वरो यष्टिमधूपधानम्| तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनम्| मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा| हन्ति सः श्रेष्ठया मेहकासश्वासविलम्बिकः| अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च| यथायथं प्रयोगोऽस्य कार्यस्तं तं गदं प्रति||१११||

🔊 Audio coming soon

Adhikarana lashunasurA (112) · Śloka 112

लशुनस्वरसात् प्रस्थान् द्वात्रिंशत्तिलतैलतः| द्वावपेत मलात्किण्वादष्टौ पिष्टाच्च षड्यवात्| मेषशृङ्गीभवात् क्वाथाद्द्रोणं पूताच्च शीतलात्| स्नेहपात्रे तदैकध्यं निदध्याच्च शुचौ दृढे| क्रमात्तत्र पुनर्दद्यात् पिष्टं प्रस्थचतुष्टयम्| पक्षात्परमियं पेया सुरा वातविकारिभिः||११२||

🔊 Audio coming soon

Adhikarana sevanArthaM prAshastyApAdanaprakAraH (113) · Śloka 113

त्रिरात्रमुषितं धेनुं लशुनं खादयेत्ततः| क्षीरदध्याज्यमथितं ब्राह्मणास्यापि शस्यते||११३||

🔊 Audio coming soon

Adhikarana lashunasya visheShAdhikAraH (114) · Śloka 114

पित्तरक्तविनिर्मुक्तसमस्तावरणावृते| शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्||११४||

🔊 Audio coming soon

Adhikarana lashunAsavasya visheShAdhikAraH (115) · Śloka 115

सुखात्मनां विशेषेण प्रयोज्यो लशुनासवः| नारदेनोद्धवस्यैष वातमग्नस्य कल्पितः||११५||

🔊 Audio coming soon

Adhikarana lashunaprayoge apathyam (116) · Śloka 116

आमाम्बुपानेक्षुविकारमत्स्य यानाध्ववातातपभाष्यचिन्तः| स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत्||११६||

🔊 Audio coming soon

Adhikarana lashunasya snehasahitopayukttA (117) · Śloka 117

स्नेहकल्पविधानेन स्नेहयुक्तं प्रयोजयेत्| लशुनण् स्नेहसंयोगाद्गरीयान् जायते हि सः||११७||

🔊 Audio coming soon

Adhikarana prayogAnte mRuduvirecanam (118) · Śloka 118

पित्तकोपभयादन्ते युञ्यान्मृदुविरेचनम्| रसायनगुणानेवं परिपूर्णान् समश्नुते||११८||

🔊 Audio coming soon

Adhikarana prayogavyApadi hetavaH (119) · Śloka 119

प्रियाम्बुगुडदग्धस्य मांसमद्याम्लविद्विषः| अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्||११९||

🔊 Audio coming soon

Adhikarana lashunaprayogasya varjanIyatvam (120) · Śloka 120

पाण्डूदरोरःक्षतशोफतृष्णा पानात्ययच्छर्दिविषव्रणेषु| पैत्ते विकारेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः||१२०||

🔊 Audio coming soon

Adhikarana lashunakalpaprashaMsA (121) · Śloka 121

शीलित एष करोति दुरापं वह्निशरीरबलं सममेव| वाङ्गतिरूपगुणाढ्यसुतेप्सो स्त्रीपुरुषस्य च बीजविशुद्धिम्| अमृतकणसमुत्थं यो रसोनं रसोनं विधियुतमिति खादेच्छीतकाले सदैव| स नयति शतजीवी स्त्रीसहायो जरान्तं कनकरुचिरवर्णो नीरुजस्तुष्टिजुष्टः||१२१||

🔊 Audio coming soon

Adhikarana palANDukalpaH kalpaprashaMsA (122) · Śloka 122

रसोनान्तरं वायोः पलाण्डुः परमौषधम्| साक्षादिव स्थितं यत्र शकाधिपतिजीवितम्| यस्योपयोगेन शकाङ्गनानां लावण्यसारादिविनिर्मितानाम्| कपोलकान्त्या विजितः शशङ्को रसातलं गच्छति निर्विदेव||१२२||

🔊 Audio coming soon

Adhikarana palANDukalpaguNAH (123) · Śloka 123

स्निग्धाङ्गत्वं गौरता कान्तिमत्ता वह्नेर्दीप्तिर्वर्ष्मपुष्टिर्वृषत्वम्| सम्प्राप्य्न्ते यन्त्रणोद्वेगमुक्तै र्यस्याभ्यासाद्धारि दीर्घं सुखं च||१२३||

🔊 Audio coming soon

Adhikarana AhAre dIrghakAlamupayogaphalam (124) · Śloka 124

अप्याहारे शीलितो दीर्घरात्रं बल्यश्चक्षुष्यस्तर्पणः स्थैर्यकारी| तैस्तैर्योगैर्योजितोऽयं पलाण्डु स्तांस्तानातङ्कान् मेहिनामुच्छिनत्ति||१२४||

🔊 Audio coming soon

Adhikarana palANDurasaprayogaH (125) · Śloka 125

रसं रसोनवत्तस्य पीत्वाश्नीयात्तथैव च| स बीजपूरस्वरसमदिरामधुसीधुपः||१२५||

🔊 Audio coming soon

Adhikarana bhojane prayogavidhiH (126) · Śloka 126

मरकतमणिनीलं नालमत्स्यातिबाल परिणतशशिगौरं यच्च बीजं सुपिष्टम्| ससुरससुमुखाभ्यां प्रज्यमांसं सशुक्तं मृदुधवलसुवृत्तैर्मण्डकैरात्तमूर्तिम्| बहुशः शोभितं शुभ्रैः शशाङ्कशकलोपमैः| घारिकेण्डरिकावल्लैः क्षीरोदावयवैरिव| यवमुद्गमाषगोधूमबहुविधविकारविकल्पितान् भक्ष्यान्| काम्बलिकारागषाडवसट्टकखलकान् सफलसारान्| पटुसुरभिमधुरगन्धान् धवलाक्षकधवलबहुलरसान्| खर्जूरदाडिमसिताद्राक्षापानानुपोऽभ्यस्येत्||१२६||

🔊 Audio coming soon

Adhikarana rasapAne guNAH (127) · Śloka 127

लभते बलवर्णौजो वीर्यस्वरसौमनस्यतेजांसि| क्षीणशकृद्रुधिरोऽपि च रसोनवत्तद्रसं पीत्वा||१२७||

🔊 Audio coming soon

Adhikarana kukkuTIkalpaH prAgutpattirlakShaNaM guNAshca (128) · Śloka 128

सुरासुरैः क्षीरसमुद्रमन्थे गतास्तटान् येऽमृतविप्रुषः पुरा| बभूव तेभ्यः किल कुक्कुटी यया व्रजन्ति देवत्वमिवाद्यमानुषाः| कुक्कुटाण्डनिभैः कन्दैः किञ्चित्कटुपिच्छिलैः| स्निग्धैर्मरकतच्छायैः द्धर्जूरसदृशैच्छदैः| निखिलरोगहरापि विशेषतो जयति दारुणमप्यनिलमयम्| गुदजगुल्मतमो विषनाशिनी जनयति स्थिरतां वपुषः पराम्||१२८||

🔊 Audio coming soon

Adhikarana prathamaH prayogaH (129) · Śloka 129

कुटीं प्रविश्य तत्कन्दान् भक्षयेद् घृतभर्जितान्| पयोऽनुपानं धारोष्णं तत्रेष्टमसनाम्बु वा| तन्मात्रवृत्तिस्तु भवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी जत्रूर्ध्वकोष्ठत्रिकसन्धिवात पाण्ड्वामायार्शस्तिमिराणि जित्वा| वलीपलितनिर्मुक्तः स्थिरेकेशद्विजश्रुतिः| मेधामतिस्मृतियुतो जीवेद्वर्षशतद्वयम्||१२९||

🔊 Audio coming soon

Adhikarana vardhamAnakukkuTIprayogaH (130) · Śloka 130

आपूर्यमाणचन्द्रप्रतिपदमारभ्य वर्द्धयेत्कन्दम्| एकैकं घृतभृष्टं प्राग्भक्तं पथ्यभुक्खादेत् भुञ्जीताल्पतरं दिनार्दितमृषिः पक्षक्षये भक्षयन्| क्षीरं बीजकवारितक्रमथवा पीत्वा स्थितिं कल्पयेत्| मासं प्राश्य तथा नखद्विजकचैः शीर्णोत्थितैः कान्तिमान्| जीवत्यब्दशतत्रयं धृतिमतिस्मृत्यादिभिर्भूषितः||१३०||

🔊 Audio coming soon

Adhikarana kandacUrNaprayogaH (131) · Śloka 131

क्षीरेण कन्दचूर्णं पिबन्यवागूञ्च परिणते मासम्| लवणस्नेहविहीनां दृढदृग्जीवेच्छरद् द्विशतम्| तिमिरं क्षौद्रघृताभ्यां पथ्यभुजस्तद्रजो जयेन्मासात्| कन्दत्रयं च भृष्टं घृतेऽश्नतो भक्षितं वातान्| तत्कन्दसूक्ष्मरजसा त्रिभागगोधूमचूर्णमिश्रेण| पयसा पक्त्वा खादेत् घृतपूरानान्त्रवृद्धिहरान्| त्रीन् कन्दकांश्च निशि भक्षयताज्यभृष्टान् धात्रीफलाम्बुससितं छगलीपयो वा| पेयं दृगामयजयाय विषेवितव्या कामञ्च रोगशममात्र फलार्थिभिः सा||१३१||

🔊 Audio coming soon

Adhikarana ka~jcukIkalpaH lakShaNam (132) · Śloka 132

क्षीन्वितामूलकतुल्यकन्दा सप्ताष्टपत्रासितरक्तकाण्डा| बिभर्त्ति या पल्लवमब्दशब्दान् सा कञ्चुकी श्वेतपुर्वरेण्या||१३२||

🔊 Audio coming soon

Adhikarana kuTIpraveshaprayogaH (133) · Śloka 133

आषाढे कार्त्तिके वाऽतं तत्कन्दं शीतले स्थितम्| अङ्गुष्ठपर्वद्वयसम्पिष्टं क्षीरपलाष्टके| कुटीप्रवेशस्तं पीत्वा क्षीरमेव पिबेदनु| क्षीरमेव च जीर्णोऽपि पेयां वा स्नेहभर्जितान्| किञ्चिदुष्णामलवणां स्पृशेदुष्णाम्बुनो हिमम्| एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति| सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत्| त्यक्त्वा त्वचं ततो जीर्णां केशदन्तनखानपि| धीमेधारूपवान् जीवेत् पञ्चवर्षशतानि च||१३३||

🔊 Audio coming soon

Adhikarana prayogAntarANi prathamaH prayogaH (134) · Śloka 134

कञ्चुकीकन्दचूर्णं वा स्वेन क्षीरेण भावितम्| गोक्षीरकुडवे न्यस्तं कर्षं खण्डपलान्वितम्| पीतं सर्वामयान् हन्ति नखकेशस्थितानपि||१३४||

🔊 Audio coming soon

Adhikarana dvitIyaH prayogaH (135) · Śloka 135

पीतं तत्स्वरसं चूर्णं तस्या मधुघृतान्वितम्| खादन् हिताशी सप्ताहं त्वग्दोषांस्तिमिरञ्जयेत्||१३५||

🔊 Audio coming soon

Adhikarana saptAmRutaH (136) · Śloka 136

विडङ्गताप्यत्रिफला लोहकञ्चुकिजं रजः| सप्तरात्रत्रयं लिह्यान्मधुना संयोतेन्द्रियः| क्षीरेण भोजनं जीर्णे शालेर्लावरसेन वा| तथास्य काचतिमिरे सुकृच्छ्राः शिरसो गदाः| मेधाविनः प्रणश्यन्ति गात्रं सुप्तं च बुध्यते| एष सप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः||१३६||

🔊 Audio coming soon

Adhikarana caturthaH prayogaH (137) · Śloka 137

पलं चूर्णस्य कञ्चुक्याः क्षीरप्रस्थे समावपेत्| स्नेहं दध्नस्ततो लिह्याज्जितात्मा ससिता मधु| शालेरन्नं पयः पानं मासमेवम् प्रयोजयेत्| चतुर्गुणः परीहारः षोडशाब्दसमद्युतिः| शतनि पञ्चवर्षाणां जीवेद्देव इवोर्जितः||१३७||

🔊 Audio coming soon

Adhikarana martyAmRutaM ghRutam (138) · Śloka 138

पचेत्पलानि द्रोणेऽपां कञ्चुक्याः पञ्चविंशतिः| अष्टांशशिष्टे तु घृतात् प्रस्थं क्षीरसमं पचेत्| शङ्खपुष्पीवचाकुष्ठत्रिवृतामरदारुभिः| वरायष्टीसिताद्राक्षामहिषाक्षैः पलांशिकैः| युक्तैः कमलकिञ्जल्कत्रिपलेन हिमेऽत्र च| क्षौद्राच्च्तुष्पलं दद्यादेतन्मर्त्यामृताह्वयम्| चक्षुष्यं बृंहणं मेध्यं वर्ण्यं वर्षशतप्रदम्||१३८||

🔊 Audio coming soon

Adhikarana somAmRutaM ghRutam (139) · Śloka 139

पचेत्पलानि कञ्चुक्यास्त्रीणि लोहात्सुचूर्णितात्| पलाशबीजाच्चत्वारि दश द्वे च फलत्रयात्| अष्टादश शतावर्या बीजकस्यैकवींशतिः| जीवन्त्याः षोडशैकध्यं पौर्णमास्यां विपाचयेत्| वहेयां पादशेशे च पृथगर्द्धाढकेन च| पचेत् काञ्जिकमस्तुभ्यां घृतप्रस्थं पिचून्मितैः| शताह्वारुष्करवचाकुष्ठैलाविड्~हिङ्गुभिः| सौवर्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः| पञ्चभिः पद्मबीजानां पद्मद्वादशकेन च| एतत् सोमामृतं पीत्वा यत्सोमोऽद्यापि राजते| इदमुपयुज्य सर्पिरतिवीर्यमुदारगुणं भवति सुवाक्सुधीः सुदृढसुबलः सुभगः| ग्रहमरकोपसर्गविषभीतिभिरधृष्यवपु र्विजितजराज्वरो नयति वर्षशतद्वितयम्||१३९||

🔊 Audio coming soon

Adhikarana guggulukalpaH prAgutpattiH (140) · Śloka 140

दानवेन्द्रविजितान् पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः| वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम्| अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागरुतुरुष्कहिमेन्दुदर्पान्| निर्दह्यमानवपुषोऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम्||१४०||

🔊 Audio coming soon

Adhikarana gugguluguNA (141) · Śloka 141

स योगवाही सशिवः ससार्वः सर्वर्तुसेव्यः सुखशीलनीयः| हन्ता जरापाप्ममलामयानां कर्त्ताऽग्निमेधास्मृतिपाटवानाम्||१४१||

🔊 Audio coming soon

Adhikarana shreShThatAlakShaNam (142) · Śloka 142

गन्धोत्कटः सदाहे स्निग्धद्रवपिच्छिलो विगतशल्यः| महिषाक्षः पुष्परागस्फटिकासितनीरदच्छायः| यः पद्मरागरागो यः कनकच्छेदपाटलो यो व| जयतीन्द्रनीलममलं भग्नोऽप्यतिकान्तिमत्वेन||१४२||

🔊 Audio coming soon

Adhikarana shreShThA mAtrA (143) · Śloka 143

श्रेष्ठः प्रयोगोऽस्य तुला पलात्रैवाधिकं पिबेत्||१४३||

🔊 Audio coming soon

Adhikarana pAnakAle prayojyo mantraH (144) · Śloka 144

आत्रेयमुनिगीतश्च मन्त्रोऽयं कर्मसिद्धिकृत्| भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः| आज्ञापयन्ति सम्यक्त्वां प्रभावं चादिशन्ति ते| जरामरणदुःखेभ्यो यथा तेभ्युत्थितः सुराः| उपयोक्तुस्तथैवास्य भव त्वं हि महाबल||१४४||

🔊 Audio coming soon

Adhikarana vAtakaphAmayeShu prayogaH (145) · Śloka 145

पञ्चमूलस्य महतः क्वाथेन हितभोजिना| गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान्| लघीयसोऽपि तद्वच्च सुखोष्णेन जलेन वा| मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा||१४५||

🔊 Audio coming soon

Adhikarana bAdhiryAdiShu prayogaH (146) · Śloka 146

वरणादेस्तु बाधिर्यदन्तकर्णशिरोरुजः| स्वरभेदोदरश्वासवर्ध्मान्तर्गुल्मविद्रधीन्||१४६||

🔊 Audio coming soon

Adhikarana vAtapittAsrarogeShu prayogaH (147) · Śloka 147

वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते| क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा||१४७||

🔊 Audio coming soon

Adhikarana vAtapitte prayogaH (148) · Śloka 148

क्वाथेनोत्पलमृद्वीका रक्तचन्दनजन्मना| वातपित्तं निहन्त्येश पद्मकादिगणस्य वा||१४८||

🔊 Audio coming soon

Adhikarana kaPavAte prayogaH (149) · Śloka 149

चव्यकुष्ठविडङ्गनां यवान्या नागरस्य वा| प्रसारिण्याश्च तोयेन गुग्गुलुः कफवातजित्||१४९||

🔊 Audio coming soon

Adhikarana kaphavAtamedodoShe prayogaH (150) · Śloka 150

त्र्यूषणाग्निघनवेल्लवराभि र्भक्षयन् समघृतं महिषाक्षम्| आशु हन्ति कफमारुतमेदो दोषजान् बलवतोऽपि विकारान्||१५०||

🔊 Audio coming soon

Adhikarana kaphapittarogeShu prayogaH (151) · Śloka 151

पटोलनिम्बत्रिपुलागुडूची गायत्रिरात्रिद्वयबीजकानाम्| क्वाथैः पृथक्पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगन्| विशेषाच्छोफवीसर्पदुष्टव्रणभगन्दरान्| शुक्रार्त्तवमनोदोषप्रमेहश्वित्रपाण्डुताः||१५१||

🔊 Audio coming soon

Adhikarana galarogAdiShu prayogaH (152) · Śloka 152

पटोलारिष्टनिर्यूहपिष्टस्तुल्यरसाञ्जनः| गलरोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत्||१५२||

🔊 Audio coming soon

Adhikarana vAtashoNite prayogaH (153) · Śloka 153

शिलाजतुसमः पीतः पयसा वातशोणितम्| निवर्तयत्यतिबलं क्षीरमांसघृताशिनः||१५३||

🔊 Audio coming soon

Adhikarana vAtapittakapheShu prayogaH (154) · Śloka 154

रसेन पयसा मूत्रैर्वातपित्तकफापहः||१५४||

🔊 Audio coming soon

Adhikarana medhAdikRutyaprayogaH (155) · Śloka 155

ब्राह्मीमण्डूकशङ्खानां पृथङ्मेधादिकृद्रसैः||१५५||

🔊 Audio coming soon

Adhikarana sarvAmayaghnaprayogaH (156) · Śloka 156

मागधिकाग्निकलिङ्गविडङ्गै र्बिल्वघृतैः सवरापलषट्कैः| गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः||१५६||

🔊 Audio coming soon

Adhikarana sAmAnyopadeshaH (157) · Śloka 157

पिबेत् पलशतं योऽस्य विधिना नियतो यतिः| नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम्| कल्पयेदौषधैः स्वै-स्वैर्व्याधिषु व्याधिनाशनैः| शिलाजतुविधानञ्च गुग्गुलोः सर्वमिष्यते||१५७||

🔊 Audio coming soon

Adhikarana atimAtraprayogadoShAH (148) · Śloka 148

गुणनिधिरपि कुर्यात् सोऽतिमात्रोपयुक्त स्तिमिरवदनशोषक्लीबताकार्श्यमोहान्| शमलशिथिलभावं देहरौक्ष्यं च तस्माद् रजनिचरनिषेवी स्यान्न रोगेष्वमीषु||१४८||

🔊 Audio coming soon

Adhikarana shilAjatukalpaH paricayaH guNAshca (159) · Śloka 159

ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्| हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु| सर्वदोषप्रशमनं सर्वरोगविनाशनम्| शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्||१५९||

🔊 Audio coming soon

Adhikarana shreShThashilAjatulakShaNam (160) · Śloka 160

सर्वं च तिक्तकटुकं नात्युष्णं कटुपाकतः| छेदनं च विशेषेण लौहं तत्र प्रशस्यते| गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्| स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम्||१६०||

🔊 Audio coming soon

Adhikarana doShAnusAraM bhAvanam (161) · Śloka 161

रास्नादशमूलबलापुनर्नवैरण्डशुण्ठिमधुकानाम्| क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्| द्राक्षाभीरुपटोलत्रायन्तिगुडूचिजीवनीयानाम्| निर्यूहेण सुभिन्नं शस्तं पित्तमये सुतराम्| क्रिमिजिद्वचाफलत्रयकरञ्जघनमुख्यपञ्चमूलानाम्| सहपञ्चकोलकानां क्वाथेन कफामये भाव्यम्| लघुपञ्चमूलशुण्ठीद्राक्षाकाश्मर्यवाजिगन्धानाम्| सगुडूचिशरबलानां रसेन पित्तानिलगदेषु| घनकुष्ठवचात्रिफलासुरदारुविडङ्गपञ्चकोलानाम्| रजनीमरिचातिविषायुक्तानां वातकफजेषु| पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानम्| त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु||१६१||

🔊 Audio coming soon

Adhikarana nicaye bhAvanAvyavasthA (162) · Śloka 162

निचयेऽपि दोषबलतो योगानेतान् विकल्प्य युञ्जीत| विविधगणसंग्रहोक्तैस्तैस्तैश्च गणैर्गिरेस्सारम्| व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे| प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्||१६२||

🔊 Audio coming soon

Adhikarana bhAvanAvidhAnam (163) · Śloka 163

समगिरिजमष्टगुणिते निष्क्वाथ्यं भावनौषधं तोये| तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेत् गिरिजम्| तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः| स्वैस्स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त||१६३||

🔊 Audio coming soon

Adhikarana upayogakramaH (164) · Śloka 164

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्| त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्| फलत्रयस्य यूषेण पटोल्या मधुकस्य च| योगयोग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्| शिलाजमेव देहस्य भवत्यत्युपकारकम्| गुणान् समग्रान् कुरुते सहसा व्यापदश्च न||१६४||

🔊 Audio coming soon

Adhikarana mAtrAbhedAH (165) · Śloka 165

एकत्रिसप्तसप्ताहं कर्शमर्द्धपलं पलम्| हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः||१६५||

🔊 Audio coming soon

Adhikarana tAmrAdibhiH prayogaH (166) · Śloka 166

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्| युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः| क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्| हन्याद्रोगानशेषांश्च जीर्णे हितमिताशिनः||१६६||

🔊 Audio coming soon

Adhikarana parihAryANi (167) · Śloka 167

व्यायामातपमारुतचेतःसन्तापगुरुविदाह्यादि| उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम्| कुलत्थान् काकमाचीञ्च कपोतांश्च सदा त्यजेत्| पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा||१६७||

🔊 Audio coming soon

Adhikarana rogabhedAnusAramanupAnabhedAH (168) · Śloka 168

ज्वरी ज्वरघ्नाम्बुदपर्पटादि क्वाथेन रक्ती मधुयष्टिकायाः| शोषी रसैः क्रव्यभुगामिषोत्थै र्मायूरमांसैः पयसा च कार्श्ये| मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पर्याकुलबुद्धिसत्त्वः| पाण्ड्वामयार्त्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन| अश्म वीरतराद्येन कुष्ठं खदिरवारिणा| विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम्| शैलजत्रिकटुक्षौद्रं क्षौद्रधातून् निषेवते| क्षीरौदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते| सुभावितात्मारगणैस्तुलां पीत्वा शिलोद्भवात्| साराम्बुनैव भुञ्जानः शालिं जाङ्गलजै रसैः| व्यपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम्| वपुर्वर्णबलोपेतः शतं जीवत्यनामयः||१६८||

🔊 Audio coming soon

Adhikarana shivAgulikA (169) · Śloka 169

शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत्| वराया दशमूलस्य गुडूच्याः कर्कशस्य च| बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि| क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः| काकोलियुग्मघनपुष्करवह्निरास्ना- मेदायुगर्द्धिचविकागजपिप्पलीनाम्| पाठाद्विजीवकनिकुम्भविदारियुग्म- वीरा वरी मधुफलांशुमतीद्वयानाम्| पालिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे| भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात्| कर्कटशृङ्गीधात्रीव्योषैस्ताली सपन्नकुडवेन| चूर्णपलेन विदार्यास्त्वक्क्षीर्याः कर्षयुग्मेन| द्विपलेन चतुर्जातात्तैलघृतक्षौद्रशर्कराभिश्च| द्विपलादिद्विगुणाभिः कार्या गुलिकास्ततोऽक्षसमाः| ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः| तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम्| क्षीररसदाडिमाम्भो मार्द्वीकसुरासवान्यतमम्| जीर्णेऽन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः| सप्ताहमात्रमेवम् सर्वान्नीनः क्रमाद्भवेत् परतः| भक्तस्यान्ते प्राग्वा गुलिका न विरुद्ध्यते सैषा| निरपाया भूरिफला परिहारसुखोपयोजिता जयति| प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम्| भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान्| वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान्| विद्रधिमुदरं कुष्ठं श्वित्रं जाड्यं क्षयं मदं मूर्च्छाम्| उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांस्तान्| आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान्| ग्रन्थ्यर्बुदान् सपिटकान् भगन्दरं गण्डमालां च| अतिकार्श्यमतिस्थौल्यं स्वेदमथश्लीपदं गुदे कीलान्| दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च| अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम्| पाप्माऽलक्ष्मीं चेयं गुलिका शमयेच्छिवा नाम्ना| वृष्याऽऽयुष्या धन्या कान्तियशःश्रीविबोधिनी मेध्या| कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था| जितखलतिवलीपलिता जीवयति सुखं शतद्वयं शरदाम्| वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत्||१६९||

🔊 Audio coming soon

Adhikarana shilAjatukalpopasaMhAraH (170) · Śloka 170

न सोऽस्ति रोगो भुवि साध्यरूपो ऽजत्वशमजं यं न जयेत् प्रसह्य| तत्कालयोगैर्विधिवत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति| अमरमन्दिरमन्दरसम्भवात् शतपलं गिरिजादुपोजय| यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्ततिम्| दशगुणमुपयुङ्क्ते यः शतं शैलजातात् लघुहितमितभोजी वर्जयन् वर्जनीयान्| सततसमनुषक्तान् वर्जितान् वैद्यवृन्दै र्विधमति सगदौघान् नेक्षते चायुषोऽन्तम्| समुद्बभूवामृतमन्थनोत्थः स्वेदः शिलाभ्योऽमृतवान् गिरेः प्राक्| यो मन्दरस्यात्मभुवाहिताय न्यस्तः स शैलेषु शिलाजरूप्||१७०||

🔊 Audio coming soon

Adhikarana atha tApyakalpaH (171) · Śloka 171

सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः| तापीकिरातचीनेषु यवनेषु च निर्मितः| ताप्यां सूर्यांशुसन्तप्तो माधवे मासि दृश्यते| मधुरः काञ्चनाभासः साम्लो रजतसन्निभः| किञ्चित्कषाय उभयः शीतः पाके कटुर्लघुः| शिलानिर्यासवच्चात्र कुलत्थादीन् परित्यजेत्||१७१||

🔊 Audio coming soon

Adhikarana utpattiH, svarUpaM guNAshca (172) · Śloka 172

न तन्निषेवी जरसाभिभूयते न पन्नगैर्नापि गरैर्न वृश्चिकैः| न पाण्डुमेहज्वरशोफयक्ष्मभि- र्न कण्ठनेत्रश्रवणत्वगामयैः||१७२||

🔊 Audio coming soon

Adhikarana vividhAnupAnairupayogaH (173) · Śloka 173

सोदश्वित्क्को माक्षिकधातुः सघृतो वा- सक्षौद्रो वा क्षौद्रघृताभ्यां सहितो वा| साम्भस्को वा तैलयुतो वा विनिहन्ता त्वग्दोषाणां सर्वविषाणां स गराणाम्||१७३||

🔊 Audio coming soon

Adhikarana pANDau akShAdibhiH prayogaH (174) · Śloka 174

अक्षद्राक्षायोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानाम्| दत्वा तुल्यं माक्षिकधातुं मधुमिश्रं लिह्यात्पाण्डुव्याध्यभिभूतः शिवमिच्छन्||१७४||

🔊 Audio coming soon

Adhikarana pANDvAdau piNDI (175) · Śloka 175

अंशः शुण्ठ्या लोहमलांशो बदरांशः पिप्पल्यंशो माक्षिकधातुर्द्धिगुणांशः| क्षौद्रं कामं कृष्णतिलानामपि चांशः श्रेष्ठा पिण्डी पाण्डुविकारश्वयथुघ्नी||१७५||

🔊 Audio coming soon

Adhikarana shoShaghnaH prayogaH (176) · Śloka 176

सायश्चूर्णं माक्षिकधातुं मधुमिश्रं व्योषोपेतं पर्वतनिर्यासममेतम्| क्षीराहारो योऽवलिहानः प्रयतात्मा मृत्युद्वारं शोषमपोहत्यचिरेण||१७६||

🔊 Audio coming soon

Adhikarana cakShUrogAdiShUpayogaH (177) · Śloka 177

लोहं सर्पिर्माक्षिकधातुर्मधुमात्रा धात्रीचूर्णं केसरमम्बुप्रभावानाम्| योगं कुर्यादेष सिताभागविमिश्र श्चक्षुर्घ्राणश्रोत्ररसज्ञानविबोधम्||१७७||

🔊 Audio coming soon

Adhikarana vArddhakye prayogaH (178) · Śloka 178

कृत्वैकस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्त्वा ये सहनिष्कं विलिहन्ति| पथ्यादास्तान् वार्द्धकदोषा न भजन्ते मातुर्दोषास्तन्यनिवृत्तानिव बालान्||१७८||

🔊 Audio coming soon

Adhikarana jarAnAshano yogaH (179) · Śloka 179

समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफला रजश्च| शनैः शनैर्याति जराविनाशं प्रत्यन्तवासादिव लोकयात्रा||१७९||

🔊 Audio coming soon

Adhikarana vRuddhadArakakalpaH paricayo guNAshca (180) · Śloka 180

त्रिकोणकाण्डा सुबहुप्रताना फलेषु पीता कुसुमेषु रक्ता| पत्रैः सदुग्धैर्मृदुरोमवद्धि स्तम्बूलतुल्यैर्घनकन्दमूला| पवनविवस्वदंशुवनितादिषु कामचरा विविधमनः शरीरगदवृन्दनिवृत्तिकरी| भुवि परमौषधिर्महिषवल्लरीति प्रथिता क्वचिदपि वृद्धदारक इयन्त्वपि वेल्लरिका||१८०||

🔊 Audio coming soon

Adhikarana rasAyanaprayogaH (181) · Śloka 181

वसन्ते संगृहीतानां शोषितानामनातपे| वृद्धादारकमूलानां तुलां सञ्चूर्ण्य सर्पिषा| आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षिताम्| लिह्यादनुपिबेत्क्षीरं जीर्णे क्षीरघृताशनः| तत्प्रयोगाज्जराजीर्णे वृद्धो दारकतामियात्| भग्नास्थिर्गद्गदः पङ्गुः कृशो ह्रस्वोऽन्यरूपताम्| निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः| अपस्मारग्रहोन्मादपाप्मालक्ष्मीविवर्जितः| दीप्ताग्निर्बलवान् वाग्मी जीवेद्वर्षशतानि षट्||१८१||

🔊 Audio coming soon

Adhikarana ashvagandhAyA prayogaH (182) · Śloka 182

चूर्णितैरश्वगन्धायाः संयुतं त्रिंशता पलैः| तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाऽथवा| जीर्णे पूर्ववदश्नीयाद्यो जीवेत्स समाः शतम्| वाजिवेगो गजप्राणः सुरूपो भास्करद्युतिः||१८२||

🔊 Audio coming soon

Adhikarana varIgokShurakAbhyAM prayogau (183) · Śloka 183

अश्वगन्धेन संयोज्यौ वरीगोक्षुरकौ पृथक्||१८३||

🔊 Audio coming soon

Adhikarana svaryaH prayogaH (184) · Śloka 184

यो लिह्यात् सर्पिषा चूर्णं वृद्धदारकमूलजम्| सप्ताहं यूषभक्ताशी स्यात्स किन्नरतुल्यवाक्||१८४||

🔊 Audio coming soon

Adhikarana shatAyuHkarAH prayogAH (185) · Śloka 185

स्वरसेन शतावर्याः सप्ताहं भवितञ्च तत्| लिहानः पूर्ववन्मासं शतं जीवेन्महामतिः| लिह्याद्वा मधुसर्पिर्भ्यां धात्रीस्वरसभावितम्| क्षीरेण वा पिवन्मासं शतं जीवेदरुक्सुधीः| वृद्धदारकमूलानां रसं क्षीरेण यः पिबेत्| तत्कल्कसिद्धं सर्पिर्वा स जीवेन्नीरुजः शतम्||१८५||

🔊 Audio coming soon

Adhikarana kuShThAdighnaH prayogaH (186) · Śloka 186

पीतं वेल्लरिकामूलं गोमूत्रेण सहोषितम्| कुष्ठगुल्मोदरगरश्लीपदार्शोऽपचीर्जयेत्||१८६||

🔊 Audio coming soon

Adhikarana shlIpadAdighno yogaH (187) · Śloka 187

पिप्पली त्रिफला दार्वी महौषधपुनर्नवाः| पृथग्दशपलाः सर्वैस्तुल्यांशो वृद्धदारकः| धान्याम्लपीतस्तच्चुर्णो जीर्णे स्वच्छन्दभोजनः| श्लीपदाममरुद्वर्ध्मगुल्मोदरगरान् हरेत्||१८७||

🔊 Audio coming soon

Adhikarana prayogAntaram (188) · Śloka 188

शौण्डी विश्ववराद्वीपिवेल्लमुस्ताः समांशकाः| तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथा गुणाः||१८८||

🔊 Audio coming soon

Adhikarana pa~jcashatavarShAyuHkaro yogaH (189) · Śloka 189

तत्फलात् स्वरसं कर्षं लिहंस्तुल्याज्यमाक्षिकम्| गव्यं पिबेदनु पयो माहिषं वा यथेष्टभुक्| पञ्चाहेन जयेत्कासान् सप्ताहेन त्वगामयान्| महाकुष्ठानि मासेन भवेन्मासद्वयेन तु| पञ्चवर्षशतायुष्को धीमेधाबलरूपवान्||१८९||

🔊 Audio coming soon

Adhikarana sahasrAyuHkaro yogaH (190) · Śloka 190

वेल्लरीफलमूलानां पिप्पल्याश्च समं रजः| वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत्| अमृताया रसेनाऽनु ततः शुष्कं घृताप्लुतम्| निखनेद् घृतकुम्भस्थं करीषे बहुसञ्चये| मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत्| सहस्रायुः स जरसा सहसा नाभिभूयते||१९०||

🔊 Audio coming soon

Adhikarana kuShThasya rasAyanaprayogaH (191) · Śloka 191

कुष्ठचूर्णतुलां क्षौद्रघृतस्य द्वितुलान्विताम्| धान्यराशौ दिनशतं निहितामुपयोजयेत्| सुगन्धिकायो दृक्श्रोत्रस्वरवर्णेष्वतीन्द्रियः| गतव्याधिजरो जीवेत् सप्तवर्षशतानि ना||१९१||

🔊 Audio coming soon

Adhikarana kuTIprAveshikasyopasaMhAraH (192) · Śloka 192

कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः| अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः||१९२||

🔊 Audio coming soon

Adhikarana vAtAtapikAH yogAH (193) · Śloka 193

वाततपसहा योगा वक्ष्यन्तेऽतो विशेषतः| सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः||१९३||

🔊 Audio coming soon

Adhikarana vividhAH yogAH (194) · Śloka 194

शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः| त्रिशः समस्तमथवा प्राक्पीतं स्थापेद्वयः||१९४||

🔊 Audio coming soon

Adhikarana vividhA yogAH (195) · Śloka 195

हरीतकीमागधिकाक्षधात्री श्चूर्णीकृता लोहरजोविमिश्राः| सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति||१९५||

🔊 Audio coming soon

Adhikarana vividhA yogAH (196) · Śloka 196

हरीतकीमागधिकाविडङ्ग शशाङ्कलेखामलकच्छावीनाम्| सितोपलातैलघृतान्वितानां रोगा न लेढारमभिद्रवन्ति||१९६||

🔊 Audio coming soon

Adhikarana vividhA yogAH (197) · Śloka 197

त्रिफलामसनोदकेन पिष्टां रजनीं पर्युषितामयः कपाले| मधुना मधुरां लिहन् हिनस्ति स्थविमानं जरसं गदांश्च सर्वान्||१९७||

🔊 Audio coming soon

Adhikarana vividhA yogAH (198) · Śloka 198

खदिरासनयूषभाविताया- स्त्रिफलाया घृतमाक्षिकप्लुतायाः| नियमेन नरा निषेवितारो यदि जीवन्त्यजराः किमत्र चित्रम्||१९८||

🔊 Audio coming soon

Adhikarana vividhA yogAH (199) · Śloka 199

असनस्वरसेन भाविताना मभयानां सविडङ्गतण्डुलानाम्| मधुलोहरजोघृताप्लुतानां न हि लेढारमभिद्रवन्ति रोगाः||१९९||

🔊 Audio coming soon

Adhikarana vividhA yogAH (200) · Śloka 200

बीजकस्य रसमङ्गुलिहार्यं शर्करामधुघृतं त्रिफलां च| शीलयत्सु पुरुषेषु जरत्ता स्वागतापि विनिवर्त्तत एव||२००||

🔊 Audio coming soon

Adhikarana vividhA yogAH (201) · Śloka 201

दर्वीप्रलेपस्त्रिफलाकषायः सितोपलातैलमधुप्रगाढः| सप्पिलीनागरलोहरेणु स्तनोः सपत्निं जरसं निहन्ति||२०१||

🔊 Audio coming soon

Adhikarana vividhA yogAH (202) · Śloka 202

फलत्रयत्र्यूषणचूर्णयुक्तां द्राक्षां ससर्पिर्मधुशर्करां च| क्षीरानुपानं पुरुषा लिहन्तो जीवन्ति निर्द्धूतजराविकाराः||२०२||

🔊 Audio coming soon

Adhikarana vividhA yogAH (203) · Śloka 203

हरीतकीं सर्पिषि सम्प्रप्ताय समश्नतस्तत् पिबतो घृतं च| भवेच्चिरस्थायि बलं शरीरे सकृत्कृतं साधु यथा कृतज्ञे||२०३||

🔊 Audio coming soon

Adhikarana vividhA yogAH (204) · Śloka 204

आराच्चितानां कलशं पुराणं धत्रीफलानां मधुनश्च पूर्णम्| संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहन्ति||२०४||

🔊 Audio coming soon

Adhikarana vividhA yogAH (205) · Śloka 205

धात्रीकृमिघ्नासनसारचूर्ण सतैलसर्पिर्मधुलोहरेणु| निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमपि प्रणष्टम्||२०५||

🔊 Audio coming soon

Adhikarana vividhA yogAH (206) · Śloka 206

नवामलकशुक्तयो मधु घृतं रजश्चायसं चतुष्टयमयोघटस्थमिति चूर्णितं वत्सरम्| क्रमेण लिहतः पयोऽनुपिबतश्च पथ्याशिन श्चिरं भवति जीवितं क्षयमुपैति पृथ्वी जरा||२०६||

🔊 Audio coming soon

Adhikarana shvadaMShTrAdicUrNam (207) · Śloka 207

चूर्ण श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागयुक्तम्| वृषस्थिरःशान्तविकारदुःखः समाः शतं जीवति कृषणकेशः||२०७||

🔊 Audio coming soon

Adhikarana viDa~ggaprayogAH (208) · Śloka 208

विडङ्गसारं मधुकं च पिष्टं भलातकक्वाथमधुप्रगाढम्| अर्शासि जन्तूंश्च जयत्युदीर्णान् वह्निं च सन्धुक्षयति क्षणेन| विडङ्गभल्लातकचित्रकाणां गुडोत्तराणामभयान्वितानाम्| तैलेन चूर्णानि निषेवमाणान् शरीरिणो नोपतपन्ति रोगाः| विडङ्गभल्लातकनागराणि येऽश्नन्ति सर्पिर्मधुसंयुतानि| जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति| विडङ्गकल्कं स्वरसेन धात्र्याः क्षौद्रेण युक्तं च पिबेन्नरो यः| द्राक्षारसक्षौद्रपरिप्लुतं वा विजित्य रोगान् स भवेच्छतायुः||२०८||

🔊 Audio coming soon

Adhikarana pippalItaNDulaprayogaH (209) · Śloka 209

चूर्णं समं मागधिकाकणानां विडङ्गचुर्णेन सचित्रकेण| निषेवमाणो मधुरैलमिश्रं वयःपरीणामजले न मज्जेत्||२०९||

🔊 Audio coming soon

Adhikarana paunarnavakalpaH mUrvAdayashca (210) · Śloka 210

पुनर्नवस्यार्द्धपलं पलं वा पिष्टं पिबेद्यः पयसार्द्धमासम्| मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः सपुनर्नवः स्यात्| मूर्वाबृहत्यंशुमतीबलाना मुशीरपाठासनशारिवाणाम्| कालानुसार्यागरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम्||२१०||

🔊 Audio coming soon

Adhikarana shatAvarIghRutam (211) · Śloka 211

शतावरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम्| तान् जीतिताध्वानमभिप्रपन्नान् न विप्रलुम्पन्ति विकारचोराः||२११||

🔊 Audio coming soon

Adhikarana ashvagandhAprayogaH (212) · Śloka 212

पीत्वाश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा| कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुबृष्टिः||२१२||

🔊 Audio coming soon

Adhikarana kRuShNatilaprayogaH (213) · Śloka 213

दिने दिने कृष्णतिलप्रकुञ्चं समश्नतः शीतजलानुपानम्| पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः||२१३||

🔊 Audio coming soon

Adhikarana shilAjatukShaudrAdiprayogaH (214) · Śloka 214

शिलाजतुक्षौद्रविडङ्गसर्पि र्लोहाभयापारदताप्यभक्षः| आपूर्यते दुर्बलदेहधातु स्त्रिपञ्चरात्रेण यथा शशाङ्कः||२१४||

🔊 Audio coming soon

Adhikarana shilAjatunaH prayogAntaram (215) · Śloka 215

मधु मधुरसा लाजा भार्ङ्गी मधूकशतावरी| कमलकुसुमत्वक्क्षीरीभिः समं जतु पार्वतम्| प्रचुरहविषा लेहं लीढ्वा समृद्धसितोपलम्| शिथिलजरसो मन्दातङ्का भवन्ति चिरायुषः||२१५||

🔊 Audio coming soon

Adhikarana nArasiMhaghRutam (216) · Śloka 216

गायत्रीशिखिशिंशपासनशिवा वेल्लाक्षकारुष्करान् पिष्ट्वाष्टौ दशषड्गुणेम्भसि धृतान् खण्डैः सहायोमयैः| पात्रे लोहकृते त्र्यहं रविकरैरालोडयन् पाचये दग्नौ चानुमृदौ सलोहशकलं पादस्थितं तत्पचेत्| पूतस्यांशः क्षीरतोंऽशस्तथांशौ भार्ङ्गान्निर्यासात् पिवर्यास्त्रयोंऽशाः| अंशाश्चत्वारस्तत्र हैयङगवीना देकीकृत्यैतत्साधयेत् कृष्णलौहे| विमलया सितया मधुनाथवा युक्तमयुक्तमिदं यदि वा घृतम्| स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन्| श्रीमान् निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गो केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी| वाङ्मेधाधीसमृद्धः सुपटु हृतवहो मासमात्रोपयोगा द्धत्तेऽसौ नारसिंह वपुरनलशिखातप्तचामीकराभम्||२१६||

🔊 Audio coming soon

Adhikarana nArasiMhaghRutaprashaMsA (217) · Śloka 217

हविरिदमतिप्रभावं स्वमिव वपुर्निर्मितं नृसिंहेन| नश्यन्ति यतो भीता व्याध्याधिजरासुरा दूरात्| भृङ्गप्रवालानमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा| विशुद्धकोष्ठोऽसनसारसिद्धदुग्धानुपस्तत्कृतभोजनार्थः| मासोपयोगात् ससुखी जीवत्यब्दशतत्रयम्| गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्द्रियः||२१७||

🔊 Audio coming soon

Adhikarana atideshena tailavidhAnam (218) · Śloka 218

अनेनैव च कल्पेन यस्तैलमुपयोजयेत्| तानेवाऽऽप्नोति स गुणान् कृष्णकेशश्च जायते||२१८||

🔊 Audio coming soon

Adhikarana kAshmarIphalaprayogaH (219) · Śloka 219

काश्मर्याणां तुलां मासं स्थितां मधुघृतोक्षिताम्| उपयुज्य पयोऽन्नाशी चिरं जीवति कान्तिमान्||२१९||

🔊 Audio coming soon

Adhikarana uktarasAyanopasaMhAraH (220) · Śloka 220

उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि| महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि न कीर्तितानि| अमानुषाणामतिविस्मयानां सत्कर्मणां यद्यपि तनि हेतुः| समूलकाषं तु कषन्ति देहं भ्रंशाद्विधेस्तेन विवर्जितानि||२२०||

🔊 Audio coming soon

Adhikarana rasAyanAnyavashyaM niShevaNIyAni (221) · Śloka 221

युगस्वभावाद्यदि चौषधीनां क्रियासु शक्तिः परिकल्पयतेऽल्पा| आयुर्बलादिषवपि सा तथेति यत्नान्निषेव्याणि रसायनानि| न चौषधीनामपि सर्वथैव प्रभावहानिः परिकल्पनीय़ा| फलं प्रयात्यूर्ध्वमधस्त्रिवृत्तु प्रत्यक्षतः कस्य न सिद्धमेतत्||२२१||

🔊 Audio coming soon

Adhikarana rasAyanAnAM samyagvidhAnaM kAryam (222) · Śloka 222

अदेशकालोपहितान्यसात्म्या न्यत्युष्णतीक्ष्णानि यथौषधानि| नाशं नयन्ते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिम्| जित्वा तस्मादिन्द्रियादीन् सुदुष्टान् कालोपेतः श्रद्दधानो यथावत्| आयुःप्रज्ञातेजसां यद्विवृध्यै वीर्योपेतं शीलयेदौषधं तत्||२२२||

🔊 Audio coming soon

Adhikarana rasAyanayoge niyamaparatvam (223) · Śloka 223

उत्साहवीरैरपि सर्वकालं नरैरगम्यानि तपोदरिद्रैः| महार्णवानामिव दुस्तराणां पाराण्यपाराणि रसायनानाम्| रसायनानामुपयोगसम्पदा कृतप्रसादैर्मलदोषधातुभिः| स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्ठितम्| दान्तेन्द्रियेण शास्त्रार्थं यथावदनुतिष्ठता| कियद्वा दीर्घदर्शित्वं नेन्द्रत्वमपि दुर्ल्लभम्||२२३||

🔊 Audio coming soon

Adhikarana rasAyanaprayoge vyAdhipratikAraH (224) · Śloka 224

रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि| यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२२४||

🔊 Audio coming soon

Adhikarana agnimUlameva lAbhaH (225) · Śloka 225

अध्याक्रान्ता येऽम्लपटुक्षारकटूष्णै र्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता| सन्धुक्ष्योऽग्निस्तैरुपजाते च विवर्ज्या योगास्तेऽग्नौ धातुसमृद्धेः स हि मूलम्| आयुर्योगाः साध्वपि युक्त मृदुवह्नौ नैरर्थक्यं यान्ति कृतघ्नेऽप्युपकाराः| दीप्ते वह्नौ ते तु गणौघैरपि तुच्छा विस्तीर्यन्ते पात्रनिसृष्टा इव भोगाः||२२५||

🔊 Audio coming soon

Adhikarana AcArarasAyanam (226) · Śloka 226

सत्यवादिनमक्रोधमध्यात्मप्रवणेन्द्रियम्| शान्तं सद्दृत्तनिरतं विद्यान्नित्यरसायनम्| गुणैरेभिः समुदितः सेवते यो रसायनम्| त निर्वृतात्मा दीर्घायुः परत्रेह च मोदते| शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्त्तिनः| बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम्||२२६||

🔊 Audio coming soon

Adhikarana goShThe rasAyanasiddhiH (227-49) · Śloka 49

गवामृजुत्वेन कृतानुकारै रनयवागाशयदेहचेष्टैः| स्थिरेन्द्रियायुर्ज्वलनैः सुशीलैः सुवृद्धगोपैः समधिष्थितेषु| प्राज्याज्यदुग्धौषधिपादपेषु ह्युम्भारवैर्वल्गितवत्सकेषु| कठप्रवेशेन विनापि सिद्धिं ब्रजन्ति गोष्ठेषु रसायनानि||२२७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे रसायन विधिनीमैकोनपञ्चाशोऽध्यायः||४९||

🔊 Audio coming soon