Adhikarana atha sarpaviShapratiShedho nAma dvAtriMsho~adhyAyaH, pratij~jA (1) · Śloka 1
अथातः सर्पविषप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति हस् स्माहुरात्रेयादयो महर्षयः||१||
उक्तक्रमेण सर्पाणां विषहेतूपचारेण चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana viShacikitsAyAH shIghrArambhakatvam (2) · Śloka 2
मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः|
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्|
एतस्मिन्नन्तरे कर्म दंशस्योत्कर्त्तनादिकम्|
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति||२||
शीघ्रं चिकित्साकरणे हेतुरुच्यते-मात्राशतमित्यादि| दष्टस्य देहनो विषं दंशे मात्राशतं स्थित्वा रुधिरादीन् धातून् प्रदूषयद्देहे प्रक्रमेत| एतस्मिन् मात्राशताख्येऽन्तरेऽवसरे दंशस्योत्कर्त्तनप्रक्षालनालेपनबन्धनादिकं कर्म शीघ्रं कुर्याद्यथा देहे विषवल्ली न रोहति| वल्लिर्हि रूढा सत्यसंशयं सफला सुदूरविस्तारा भवति|| २||
Adhikarana daShTamAtre karttavyaM kRutyam (3) · Śloka 3
दष्टमात्रो दशेदाशु तमेव पवनाशिनम्|
लोष्ठं महीं वा दशनैश्छित्वा वानु ससम्भ्रमम्|
निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा|
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले|
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्||३||
दष्टमात्रस्तु पुरुषो हीनकालमेव पवनाशिनं येन सर्पेणासौ दष्टस्तं दन्तैर्दशेत्| तदप्राप्तौ तु लोष्ठं दशेत् भूमिं वा| व्याख्यासमम्| अरिष्टेति मन्त्रसूत्रवेणिकाया नाम| (दंशाद्विषं यावन्न क्रामति शरीरं तावदित्यर्थः| इति जेज्जटः)|| ३||
Adhikarana bandhasvarUpam (4) · Śloka 4
बन्धो देशानुसारेण नातिगाढश्लथो हितः|
दंशपूतित्वशोफादीन् कुरुते ह्यतिपीडितः|
अशक्तः शिथिलो रोद्धुं विषं देशान्तरं व्रजन्||४||
बन्धश्च देहदेशानुसारेण हितो यो नातिगाढश्लथः| देशानुसारग्रहणं विना अशक्तो भवति|| ४||
Adhikarana bandhaguNaH (5) · Śloka 5
अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्|
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः||५||
बन्धेन च विषं तथा स्तभ्यते यथा सेतुबन्धेन सलिलम्| अस्य च दष्टस्य बन्धेनाभिपीडिताः सत्यः सिरा विषं न वहन्ति|| ५||
Adhikarana daMshasyoddharaNaM tatphala~jca (6) · Śloka 6
निष्पीड्य चोद्धरेद्दंशं मर्मसन्ध्यगतं तथा|
न जायते विषावेगो बीजनाशादिवाङ्कुरः|
मर्मगे प्राप्नुयान्मृत्युं सन्धिस्थे विकलाङ्गताम्||६||
एवञ्च बन्धयित्वा सर्वतः पारिमाण्डल्येन दंशं निष्पीड्य शस्त्रेण दंशमुद्धरेत्| तच्चोद्धरेद्यन्मर्मणि सन्धौ वा न गतम्| तथा दंशोद्धरणेन प्रथम एव विषवेगो न जायते यथा बीजनाशादङ्कुरः| मर्मगे दंश उद्धृते आतुरो मृत्युं प्राप्नुयात्| सन्धिस्थे तूद्धृते विकलाङ्गतां प्राप्नुयात्| (यत्र प्रदेशे बन्धो न युज्यते तत्र छिन्द्यादिति जेज्जटः)|| ६||
Adhikarana daMshadahanaM tatphala~jca (7) · Śloka 7
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्|
प्रतप्तैर्हेमलोहाद्यैर्द्दहेदाशूल्मुकेन वा|
करोति भस्मसात्सद्यो वह्निः किन्नाम न क्षणात्||७||
अथवोत्कर्त्तनस्य चिरसाध्यत्वाद्दंशं प्रतप्तेर्हेमादिभिर्द्दहेदुल्मुकेन वा ज्वलत्काष्ठेन दहेत्| किं सर्वं दंशं दहेन्नेत्याह| अपि तु मण्डलिनां सम्बन्धितं दंशं मुक्त्वा वर्जयित्वा| तद्वर्जने हेतुः पित्तलत्वम्| पित्तं ह्यग्निना विरुद्ध्यते| अथापरं शेषं दहेत्| करोतीत्यादिना अग्निना दंशदाहस्यातिशयप्रदर्शनम्|| ७||
Adhikarana daMshasyAcUShaNam (8) · Śloka 8
आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः|
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः||८||
अथवा दंशं नोद्धरेन्नापि दहेदपि तु मृदादिभि पूर्णमुखः सन् वैद्य आचूषेत्| कथमित्याह-अरिष्टाया अन्तर्बन्धस्यान्तरतो दंशभागे प्रच्छाय शस्त्रेण प्रच्छानं कृत्वा| मांसलं तु दंशं विशेषेण प्रच्छायाचूषेत्|| ८||
Adhikarana agadalepaH (9) · Śloka 9
अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः|
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्||९||
सर्वं चाङ्गं सहैव दंशेन मुहुरगदैरालेपयेत्| चन्दनादियुक्तेन जलेन सेचयेच्च|| ९||
Adhikarana sirAvedhaH tasya visheShatA (10) · Śloka 10
विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया|
रक्ते निह्रियमाणे हि कृत्स्नं निह्रियते विषम्|
दुष्टे हि व्याप्नुयादङ्गं ध्रुवं मृत्युर्भवत्यतः|
सिराव्यधोदितैरस्रमप्रवृत्तं प्रवर्त्तयेत्|
स्तम्भयेदतिवृत्तं च तैरेव प्राणरक्षया||१०||
अरक्षया देशान्तरं प्रविसृते विषे सिरां विध्येत् सा परमा क्रिया| सिरावेधक्रियोत्कृष्टा चिकित्सेत्यर्थः| रक्त इत्यादि| यस्माद् दुष्टे रक्ते निह्रियमाणे कृत्स्नं सर्वं विषं निह्रियते| रक्ते दुष्टे विषमङ्गं व्याप्नुयादतो ध्रुवमवश्यं मृत्युर्भवति| विषदुष्टस्य रक्तस्यानिर्हरणे विषस्य देहव्याप्त्या मृत्युर्भवतीत्यर्थः| सिराव्यधोदितैरित्यादि सुबोधम्| (सिरेत्यादि| अप्रवृत्तं रक्तं सिराव्यधोदितैस्तगरादिभिः)|| १०||
Adhikarana raktasya saviShanirviShatvaparIkShaNam (11) · Śloka 11
दुर्गन्धं सविषं रक्तमग्नौ चटचटायते|
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्||११||
रक्तस्य सविषनिर्विषत्वविशेषमाह-दुर्गन्धमित्यादि| पूर्ववदिति सिराव्यधोक्तेन प्रकारेण| (विषसहितं रक्तं दुर्गन्धयुक्तं भवति अग्नौ निषिक्तं चटचटायते चटचटाशब्दं कुरुते| यथादोषमिति त्रिदोषजुष्टं विशुद्धं तैरजुष्टं च रक्तं पूर्ववत् सिराव्यधविध्युक्तलक्षणेन लक्षयेज्जानीयात्)|| ११||
Adhikarana shRu~ggajalaukasoH prayogaH (12) · Śloka 12
सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः||१२||
सिरास्वदृश्यमानासु शोफादिना अनुपलभ्यमानासु|| १२||
Adhikarana shoNitastambhanam (13) · Śloka 13
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा|
लेपसेकैः सुबहुशः स्तम्भयेद् भृशशीतलैः||१३||
शोणितमिति| स्तम्भयेत् सौम्यत्वमापादयेत्| स्रुतशेषं प्रस्थात् परमनिर्हरणीयत्वात् स्रुतावशिष्टं विषोष्मणा प्रविलीन शोणितं सुबहुशः पौनः पुन्येन प्रयुक्तैर्भृशशीतलैरत्यन्तशीतलैर्लेपसेकैः स्तम्भयेत्)|| १३||
Adhikarana askannaraktadoShAH (14) · Śloka 14
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः|
भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः||१४||
अस्कन्न इत्यादि| अस्कन्ने प्रविलीनरूपे| (अस्कन्ने अस्त्यानेस्रे रक्ते विषवेगान्मूर्च्छायादयो भवन्ति यस्मात्तस्मात्तान् शीतैर्लेपादिभिर्जयेत्| आरोमहर्षतः यावद्रोमाञ्चोत्पत्तिस्तावद्वीजेत् वीजनं च कुर्यात्)|| १४||
Adhikarana hRudayAvaraNam (15) · Śloka 15
विषं कर्षति तीक्ष्णत्वाद् हृदयं तस्य गुप्तये|
पिबेद् घृतं घृतक्षौद्रमगदं वा घृताप्लुतम्|
मज्जानं गोमयरसं भस्माम्भः कृष्णमृज्जलम्|
ऐकध्यं पञ्चगव्यं वा दधि गैरिकवारि वा|
खादेद्वा कोविदारार्कशिरीषकटभीच्छदान्|
छागमेषवराहासृक्शिशुस्थविरयोषितः|
पिबेयुर्गर्भिणी शीतमधुरान् पयसागदान्|
तथा मूर्च्छादयो न स्युर्विषं चाश्वेतिनानिलम्||१५||
विषमिति| कर्षति हिनस्ति| तस्येति हृदयस्य गुप्तये रक्षार्थम्| (विषं तीक्ष्णत्वाद्धृदयं कर्षति विलिखति तस्य हृदयस्य गुप्तये रक्षार्थं घृतं वा घृतयुक्तं मधु वा घृतालोडितमगदं विषघ्नौषधं वा पिबेत्| (मज्जानमित्यादि| मज्जादिकमथ वैकध्यमेकतः कृत्वा पञ्चगव्यं दध्यादि वा पिबेत् अथवा कोविदारादिच्छदान् खादेत्| कोविदारः काञ्चनारः| शिशुस्थविरयोषितो यथाक्रमं छागाद्यसृक् पिबेयुः| गर्भिणी तु पयसा शीतादिगुणानगदान् पिबेत्| तथेत्यादि सुबोधम्)|| १५||
Adhikarana vamanam (16) · Śloka 16
हृदयावरणेनास्य श्लेष्मा हृद्युपचीयते|
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः|
द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः|
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः||१६||
हृदयावरणेनेत्यादि सुबोधम्| तत इत्युपचिते श्लेष्मणि| (हृदयावरणेन घृतादिपानाद्धृदयाच्छादनेनास्य विषार्त्तस्य हृदये श्लेष्मा विषस्य रक्तदूषणानन्तरं कफदूषकत्वात्तेन दूषितः कफ उपचीयते आच्छादितहृयतत्वाद्देहोच्छेदासमर्थतया केवलं वृद्धिमेव प्राप्नोति| ततः सविषस्य श्लेष्मण उपचयाद्धेतोरुद्भूतगौरवादिकं नरं काञ्जिकादिवर्जितैर्द्रवैः काञ्जिकादीनां तीक्ष्णादिगुणतया विषसाम्याद्वर्जितैरन्यैर्द्रवैर्विषहरैर्वमनद्रव्यैश्च वामयेत्| एवं कृते सति तद्विषं वपुः शरीरे न व्याप्नोति सन्धिविश्लेषसंज्ञानाशादिविषोपद्रवं न गच्छतीत्यर्थः)|| १६||
Adhikarana sarpaviShasAmAnyacikitsopasaMhAraH (17) · Śloka 17
भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः|
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्||१७||
सर्पविषाणां सामान्यक्रियामुपसंहरन्नाह-भुजङ्गेति| भुजङ्गानां सर्पाणां दोषादिविशेषान् सुसूक्ष्मं सम्यगालोच्य सूक्ष्मया बुद्ध्या पुनः पुनर्विचार्य ज्ञात्वा विशिष्टां दोषप्रकृत्यादिसाधारणीं क्रियां चिकित्सां चाचरेत्| चः समुच्यते| दोषो वातादिः| प्रकृतिर्विषप्रकृतिः| स्थानं दंशस्थानम्| वेगो विषवेगः|| १७||
Adhikarana darvIkaraviShacikitsA (18) · Śloka 18
सिन्दुवारकमूलानि रसेन स्वेन पेषयेत्|
मधुयुक्तोऽयमगदः पानं दर्वीकृतां विषे|
सिन्दुवारकमूलानि श्वेता च गिरिकर्णिका|
पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम्|
कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि|
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा|
पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम्||१८||
दर्वीकरादीनां प्रत्येकं चिकित्सामाह-सिन्दुवारकस्य मूलानि स्वेन रसेन सिन्दुवारकरसेन पेषयेत्| मधुना युक्तोऽयमगदो दर्वीकृतां दर्वीकरसर्पाणां विषे पानं हितम्| सिन्दुवारको निर्गुण्डी| श्वेता श्वेतवचा| मधु माक्षिकम्| पाकलं कुष्ठम्| (दर्वीकरसर्पैः दष्टे सति सिन्दुवारकमूलादिकं पानं हितम्| अनुक्तद्रवत्वाज्जलालोडितम्| कुष्ठसहितं माक्षिकं नस्यञ्च). चारटी पद्मचारिणी| नाकुली सर्पसुगन्धा| तीक्ष्णमूलविषेण वा तीक्ष्णं यन्मूलविषं वत्सनाभादि तेनेत्यर्थः| (कृष्णसर्पो दर्वीकरविशेषस्तेन दष्टस्य दंशं दंशव्रणम् असृजि रक्ते जलूकादिना हृतेऽपनीते चारटीनाकुलीभ्यां वाथव तीक्ष्णमूलविषेण वा लिम्पेत्| चारटी गुञ्जा| नाकुली चविका रास्ना वा| तीक्ष्णमूलविषं वज्रनाकादि)| क्षौद्राद्यन्वितं घृतं पानं च पानविषये हितमित्यर्थः|| १८||
Adhikarana taNDulIyAdyagadaH (19) · Śloka 19
तण्डुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः|
मातुलुङ्गी सिता शेलुः पाननस्याञ्जने हितः|
अगदः फणिनां घोरे विषे राजीमतामपि||१९||
तण्डुलीयक इति| किणिही कटभी| गिरिकर्णिका गिरिकदम्बः| सिता श्वेतवचा| शेलुः श्लेष्मातकः| (तण्डुलीयकादिभिः कृतोऽगदः फणिनां दर्वीकराणां राजीमतामपि घोरे विषे पानादौ हितः| अगदो गुलिकाद्यन्यतमो योगविशेषः)||१९||
Adhikarana maNDaliviShacikitsA (20) · Śloka 20
समाः सुगन्धामृद्वीकाश्वेताख्यागजकर्णिकाः|
अर्द्धाशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्|
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः|
पञ्चवल्कवरायष्टी नागपुष्पैलवालुकम्|
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम्|
सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम्|
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा|
काश्मर्यं वटशृङ्गाणि जीवकर्षभकौ सिताम्|
मञ्जिष्ठां मधुकं चेति दष्टो मण्डलिना पिबेत्||२०||
समा इति| सुगन्धा गन्धनाकुली| श्वेताख्या श्वेतवचा| गजकर्णिक कुमारी सल्लकी वा| सुगन्धादिकं परस्परं समम्| अर्द्धंशेन सुरसपत्रचतुष्टयमिति यावत्| सुरसस्तुलसी| (सुगन्धादयः समाः समांशाः| सौरसपत्रादिकमर्द्धाशं सुगन्धादिभ्योऽर्द्धप्रमाणम्| पालिकेषु सुगन्धादिषु सुरसपत्रादिकमर्धपलप्रमाणमित्यर्थः| एभिः कृतः क्षौद्रसहितोऽगदो विशेषेण मण्डलिविषे हितः)| पञ्चवल्क इति| पञ्चवल्कं सल्लकी झिर्झीणीजम्बूधवशाल्मलीनां त्वचः| शीतं चन्दनम्| सिता श्वेतवचा कटभी वा| (पञ्चवल्कादिको माक्षिकसहितो हिमवानिति| प्रसिद्धोऽयमगदो मण्डलिनां विषं हन्ति| लेपाच्छोफादिहा च भवति| पञ्चवल्कोऽत्र सल्लक्यादयः| सल्लकीझिर्झिणीजम्बूधवशाल्मलिकात्वचः| पञ्चवल्कलसंज्ञोऽयं मुनिभिः परिकीर्तितः)| वटश्रृङ्गाणि वटाङ्कुराणि| सिता श्वेतवचा| (मण्डलिना दष्टो नरः काश्मर्यादिमधुकान्तमित्युक्तमगदं अनुक्तद्रवत्वाज्जले समालोड्य पिबेत्)|| २०||
Adhikarana gonasaviShacikitsA (21) · Śloka 21
वंशत्वग्बीजकटुका पाटलीबीजनागरम्|
शिरीषबीजातिविषे मूलं गावेधुकं वचाम्|
पिष्टो गोवारिणाष्टाङ्गो हन्ति गोनसजं विषम्||२१||
वंशत्वग्बीज इति| त्वग्बीजे वंशस्य| कटुका तिक्तालावुनी| गोवारिणा गोमूत्रेण| गोनसा घर्मतप्तानां गवां नासिकोद्भवाः| (वंशत्वगादिर्गोवारिणा गोमूत्रेण पिष्टोऽष्टाङ्गोऽष्टद्रव्यकृतत्वादष्टाङ्गाख्योऽयमगदो गोनसजं विषं हन्ति| वंशत्वक्कटुकबीजमिति च पाठः)|| २१||
Adhikarana rAjilaviShacikitsA (22) · Śloka 22
कटुकातिविषाकुष्ठगृहधूमहरेणुकाः|
सक्षौद्रव्योषतगरा घ्नन्ति राजीमतां विषम्||२२||
कटुकेति| कटुका लम्बा| (क्षौद्राद्युपेताः कटुकादयः पानादिना राजीमतां विषं घ्नन्ति| कटुका कटुकरोहिणी)|| २२||
Adhikarana kANDacitrAviShacikitsA (23) · Śloka 23
निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि|
उद्धृत्य प्रच्छितं सर्पिर्द्धान्यमृद्भ्यां प्रलेपयेत्|
पिबेत् पुराणं च घृतं वराचूर्णावचूर्णितम्|
जीर्णे विरक्ते भुञ्जीत यवान्नं सूपसंस्कृतम्||२३||
निखनेदिति| काण्डचित्रायाः सर्पविशेषस्य दंशं दंष्ट्राव्रणम्| (काण्डचित्रा राजिलविशेषः तस्य दंशं दंष्ट्राप्रदेशं भुवि भुवं खनित्वा तत्र नखनेत्| निक्षिप्य मृदा पूरयित्वा यामद्वयं प्रतिपाल्य पश्चादुद्धृत्य प्रच्छितं सूत्रोदितविधानेन प्रच्छानं कृत्वा सर्पिर्धान्यमृद्भियां प्रलेपयेत्| धान्यमृत् धान्यमूलमृत्तिका| ततो वराचूर्णावचूर्णितं त्रिफलाचूर्णयुक्तं पुराणं घृतं पिबेच्च| घृते जीर्णे विरिक्तः कृतविरेचनः सूपसंस्कृतं सूपोपेतं यवान्नं भुञ्जीत| सूपस्तक्रांदिभिः सिद्ध उपदंशविशेषः| सर्पिर्धान्यमृद्भिः प्रलेपयेत्| 'यवान्नं यूषसंस्कृतम्' इत् पाठभेदः)|| २३||
Adhikarana vyantaradaShTacikitsA (24) · Śloka 24
करवीरार्ककुसुममूललाङ्गलिकाकणाः|
कल्कयेदारनालेन पाठामरिचसंयुताः|
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः||२४||
करवीरार्कयोः कुसुमं मूलं च लाङ्गलिकादिचारनालेन काञ्जिकेन कल्कयेत् पेषयेत्| एषोऽगद औषधयोगो व्यन्तरसर्पदष्टानां सार्वकार्मिकः सर्वकर्मोपयोगी पाननस्याञ्जनालेपादौ हित इत्यर्थः||२४||
Adhikarana shirIShapuShpAdiyogaH (25) · Śloka 25
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्|
भावितं सर्पदष्टानां पाननस्याञ्जने हितम्||२५||
सितं मरिचं शिग्रुबीजम्| मरिचावान्तरजातिर्वा| (शिरीषकुसुमरसे सप्ताहं सप्तवासरान् भावितं पेषितं सितं मरिचं शिग्रुबीजं सर्पदष्टानां सर्वेषां पानादौ हितम्)|| २५||
Adhikarana vakrakuShThAdipAnam (26) · Śloka 26
द्विपलं वक्रकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्|
अपि तक्षकदष्टानां पानमेतत्सुखप्रदम्||२६||
वक्रकुष्ठे मिश्रीभूते द्विपलम्| तथैव घृतक्षौद्रं चतुष्पलम्| तगरकुष्ठयोरेकैकं पलं चूर्णयित्वा प्रत्येकं द्विपलप्रमितयोर्घृतक्षौद्रयोः समालोड्य पीतं तक्षकदष्टानामपि सुखकरम्| अत्रापिशब्देन तक्षकविषस्य दुर्निवार्यत्वमस्यागदस्य प्रभावाधिक्यं च द्योत्यते|| २६||
Adhikarana gRuhadhUmAdipAnam (27) · Śloka 27
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्|
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम्||२७||
वासुकिना दष्टोऽपि गृहधूमादिकं मधुघृताप्लुतं पिबेत्|| २७||
Adhikarana rasAdigate viShe pAnam (28) · Śloka 28
रक्तं मांसञ्च गोधायाः शुष्कं चूर्णीकृतं हितम्|
विषे रसगते पानं कपित्थरससंयुतम्|
शेलुमूलत्वगग्राणि बादरोदुम्बराणि च|
कटभ्याश्च पिबेद्रक्तगते मांसगते पुनः|
सक्षौद्रं खादिरारिष्टं कौटजं मूलमम्भसा|
सर्वेष्वपि बलायुग्मं मधुकं मदनं नतम्||२८||
विषे रसगते सति गोधाया रक्तं मांसं च शुष्कं चूर्णीकृतं कपित्थरससंयुतं पानं हितम्| रक्तगते सति शेलुमूलादीनि कपित्थरससंयुतानि पिबेत्| मांसगते खदिरादिमूलं सक्षौद्रं क्षौद्रसहितमम्भसा पिबेत्| सर्वेषु रसादिधातुत्रयगतेष्वपि बलायुग्मादिकमम्भसा पिबेत्| मदनं मदनफलम्|| २८||
Adhikarana shirogataviShe cikitsA (29) · Śloka 29
शिरोगते विषे मूलं नस्यकर्मणि योजयेत्|
बन्धुजीवस्य भाङ्गर्याश्च सुरसस्यासितस्य च|
अथवा पिल्लीहिङ्गुवृश्चिकालीमनशिशलाः|
शिरीषबीजापामार्गलवणं चेतनाकरम्|
कल्कश्चूर्णोऽथवा कृष्णक्षवकातिविषोषणात्||२९||
शिरोगते विषे बन्धुजीवादिमूलं पृथङ्नस्यकर्मणि योजयेत्| अथवा पिप्पल्यादि मनश्शिलान्तम्| शिरीषादिकं चेतनाकरं भवति| कृष्णादीनां कल्कश्चूर्णो वा|| २९||
Adhikarana akShigataviShacikitsA (30) · Śloka 30
पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः|
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्|
चन्दनं मधुकं मांसी पिप्पलीमरिचोत्पलम्|
सैन्धवं चाञ्जनं श्रेष्ठं गवां पित्तेन कल्कितम्||३०||
रोहितपित्तेन पिष्टाः पिप्पल्यादयोऽञ्जनादक्षिगतं विषं घ्नन्ति| रोहितो मत्स्यविशेषः| गोपित्तेन पिष्टं चन्दनादिकं श्रेष्ठमञ्जनम्||३०||
Adhikarana bhojavaitaraNaproktama~jjanam (31) · Śloka 31
नक्तमालफलं व्योषं बिल्वमूलं निशाद्वयम्|
पुष्पं च सौरसं पिष्टमञ्जनं बस्तवारिणा|
भोजवैतरणोद्दिष्टं विषसुप्तप्रबोधनम्||३१||
बस्तवारिणाऽजामूत्रेण पिष्टं नक्तमालफलादिकं भोजवैतरणेनोद्दिष्टं कल्पितमञ्जनं विषसुप्तानां प्रबोधनम्|| ३१||
Adhikarana gAruDA~jjanam (32) · Śloka 32
वारिगुञ्जाफलोशीरं नेत्रयोर्विषदुष्टयोः|
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम्||३२||
वारिणा पिष्टं वारिगुञ्जाफलादिकं विषदुष्टयोर्नेत्रयोर्गारुडं नामाञ्जनं गरुडोपमं च|| ३२||
Adhikarana cUrNA~jjanam (33) · Śloka 33
समुद्रफेनं मरिचं कणासौवीरकाञ्जनम्|
चूर्णाञ्जनं ससिन्धूत्थं विषोपहतचक्षुषाम्||३३||
सिन्धूत्थसहितं समुद्रफेनादिकं विषोपहतचक्षुषां चूर्णाञ्जनं हितमिति शेषः|| ३३||
Adhikarana AmAshayagataviShacikitsA (34) · Śloka 34
कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे|
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्||३४||
विषे कण्ठगते सति ससिताक्षौद्रं कपित्थमांसं लिह्यात्| आमाशयगते सति ताभ्यां सिताक्षौद्राभ्यां सह नताद्वक्रात् चूर्णपलं लिह्यात्| लिह्यादित्युभयत्रापि सम्बध्यते|| ३४||
Adhikarana pakvAshayagataviShacikitsA (35) · Śloka 35
विषे पक्वाशयगते मञ्जिष्ठा रजनीद्वयम्|
पिप्पलीं च समं पिष्ट्वा गव्यपित्तेन पाययेत्||३५||
पक्वाशयगते विषे मञ्जिष्ठादिपिप्पल्यन्तं समं समांशं गव्यपित्तेन् पिष्ट्वा पाययेत्|| ३५||
Adhikarana kaNThagataviShacikitsA (36) · Śloka 36
पिप्पलीनागरक्षारं नवनीतेन मूर्च्छितम्|
प्रवृद्धे कण्ठगे दद्याच्छ्लेष्मणि प्रतिसारणम्||३६||
विषवतः कण्ठगते श्लेष्मणि प्रवृद्धे प्रवृद्धे पिप्पल्यादि नवनीतमिश्रं प्रतिसारणं दद्यात्|| ३६||
Adhikarana viShasa~gkrAmaNam (37) · Śloka 37
जयेत्सङ्क्रामणैराशु विषं शिरसि संश्रितम्|
दद्यादधस्ताद्दष्टस्य मूर्ध्नि काकपदे कृते|
काकदक्षशिखिच्छागगव्यमाहिषकौक्कुटम्|
बिल्वप्रमाणं मांसास्रमूर्ध्वदष्टस्य पादयोः|
विषं सङ्क्रमते तत्र निहन्याच्छीघ्रमन्यथा||३७||
शिरःस्थितं विषं संक्रामणैराशु शीघ्रं जयेत्| अधः काये दष्टस्य मूर्ध्नि काकपदं काकपदाकृति छेदं कृत्वा तत्र काकाद्यन्यतमं बिल्वप्रमाणं पलमात्रं मांसास्रं दद्यात् क्षिपेत्| तत्र मांसासृजि विषं संक्रमत इति शरीरे च लाघवं याति| अन्यथा शरीर एव तिष्ठन् शीघ्रं हन्यात्| एवमूर्ध्वकाये दष्टस्य पादयोरपि|| ३७||
Adhikarana tIkShNanasyA~jjanottaraM kRutyam (38) · Śloka 38
तीक्ष्णनस्याञ्जनान्ते च भूरिमात्रं पिबेद् घृतम्|
विषं हि नेत्रं रूक्षस्य तीक्ष्णैर्हन्ति समीरितम्|
वामयेत ततश्चैनं विषशेषोपशान्तये|
श्लेष्मलं श्लेष्मलैर्दष्टं नाभेरूर्ध्वं विशेषतः||३८||
अत्र च विषे तीक्ष्णयोर्नस्याञ्जनयोः प्रयोगान्ते भूरिमात्रं बहुमात्रं घृतं पिबेत्| यस्मान्नेत्रस्थितं विषं रूक्षस्य सतस्तीक्ष्णैरञ्जनैः समीरितं नेत्रं हन्ति| ततोऽनन्तरमेनं विशेषोपशान्तये वामयेत्| श्लेष्मलं पुरुषं श्लेष्मलैः शूर्द्रैर्द्रष्टं विषोपशान्त्यर्थं वामयेत्| नाभेश्चोर्ध्वं दष्टं विशेषतो वामयेत्|| ३८||
Adhikarana vamanam (39) · Śloka 39
धामार्गवः शक्रयवाः सर्षपा मदनं मधु|
सैन्धवं वमनं कोष्णं विषे श्लेष्माशयाश्रिते|
सुरसं सर्पवेतालीमीश्वरां गौरसर्षपम्|
पटोलनिम्बपत्रं च पिबेत् सक्षौद्रसैन्धवम्|
शुकाह्वाजालिनीदन्तीमदनेक्ष्वाकुकौटजम्|
काला लाङ्गलिका तिक्ता वमनं तण्डुलाम्बुना||३९||
तदेव् वमनमाह| सुरसादिकं धामार्गवादि वमनं सुबोधम्| सक्षौद्रसैन्धवं वमनं पिबेत्| सर्पवेताली मञ्जार्याख्या सुरसादिकं महावेताली च| शुकाह्वादिभिस्तण्डुलाम्बुना वमनम्| इति श्लेष्मणि||३९||
Adhikarana paittike virecanam (40) · Śloka 40
पैत्तिकं पैत्तिकैर्दष्टमधो नाभेर्विशेषतः|
विषे पित्ताशयगते पाययेत विरेचनम्|
सनीलीफलदां दन्तीं पयसा मस्तुनाऽथवा|
श्लक्ष्णचूर्णीकृतं कुम्भं क्वाथेन त्रैफलेन वा|
क्षीरेण वा त्रिवृच्छ्यामासुरसानीलिनीरजः|
पिण्डीतकफलं व्योषं त्रिवृद्वेल्लं हरीतकी|
विरेचनं कफप्राये लवणं मूत्रसम्प्लुतम्|
घृताप्लुतं सलवणं मारुते नीलिनीफलम्|
शयानः शयने छिद्रे विरेच्यो विषपीडितः|
मुहुरुत्तिष्ठतो ह्यस्य विषं दूषयतेऽनिलम्|
पिबेद्वान्तो विरिक्तो वा यवागूं विषनाशिनीम्||४०||
पैत्तिकं पुरुषं पैत्तिकैर्दष्टं विरेचनं पाययेत्| अधो नाभेर्दष्टं पित्ताशयगते च विषे विशेषेण पाययेत च नीलिनीफलैर्युक्तां दन्तीं पयसा क्षीरेणाथवा मस्तुना| अथवा त्रिफलाक्वाथेन द्रवन्तीचूर्णम्| अथवा त्रिवृतादीनां रजश्चूर्णं क्षीरेण| पिण्डीतकफलादिकं लवणान्तं मूत्रसंप्लुतं श्लेष्मप्राये पित्ते विरेचनं पाययेत्| पिण्डीतकफलं मदनफलम्| मारुतेऽधिके नीलिनीफलं घृताप्लुतं विरेचनम्| विषपीडितः सर्वः शयने छिद्रे सच्छिद्रे शयानो विरेच्यः| छिद्रं शय्यायां गुदप्रदेशे कार्यम्| यतो विरेचनार्थं मुहुरुत्तिष्ठतो विषं कर्तृ अनिलं दूषयते| सुबोधम्| विषनाशिनी यवागूः पुर्वोक्ता|| ४०||
Adhikarana vAtAshayagataviShacikitsA (41) · Śloka 41
विषे वाताशयगते सर्पिषः पानमिष्यते|
आद्यपश्चिमयोर्यच्च प्रोक्तं विषनिषेधयोः||४१||
वाताशयगते व्याख्यासमम्| आद्यपश्चिमौ विषनिषेधौ स्थावरविषप्रथमसप्तमवेगौ|| ४१||
Adhikarana darvIkaraviShavegeShu cikitsA (42) · Śloka 42
अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम्|
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्|
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्|
विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने|
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते|
षष्ठपञ्चमयोः शीतैर्दिग्धसिक्तमभीक्ष्णशः|
पाययेद्वमनं तीक्ष्णं यवागूं च यथोदिताम्|
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः|
कृत्वावगाढं शस्त्रेण मुर्ध्नि काकपदं ततः|
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत्||४२||
अथेत्यादिना वेगक्रमेणोच्यते| व्याख्यासमम्| अवगाढमन्तः-प्रविष्टम्| (अथ वेगलक्षणदर्शनानान्तरं दर्वीकरसर्पाणां प्रथमे वेगे जलूकादिना रक्तमपनीय मधुघृतोपेतं विषघ्नमौषधं शीघ्रं पिबेत्| द्वितीये वेगे कृतवमनः सन् सर्पिर्मधूपेतमेवागदं पिबेत्| तृतीये वेगे तण्डुलीयकादि विषहरद्रव्यैरञ्जननावने युञ्ज्यात्| चतुर्थे वेगे वमनानन्तरं पूर्वोक्तां कोशातकेत्यादिना कृतां यवागूं पिबेत्| षष्ठपञ्चमवेगयोः शीतैश्चन्दनोशीरादिशीतद्रव्यैर्दिग्धं पुनः पुनः प्रलिप्तं दूर्वागोजिह्वादिस्वरसशीतोदकादिभिस्तद्वदेव सिक्तं च तीक्ष्णं तीक्ष्णद्रव्यकृतं वमनौषधं तण्डुलीयककोशातक्यादिभिः सिद्धां यवागूं च पाययेत्| सप्तमे वेगे अञ्जननस्ययोस्तीक्ष्णमगदं युञ्ज्यात्| मूर्ध्नि शस्त्रेणावगाढं काकपदं कृत्व काकपदाकृत्याऽवगाढं छित्वाऽनन्तरं तस्य दष्टस्य तत्र काकपदे सरक्तं मांसं चर्म वा निक्षिपेत्| निक्षिप्य विषं तस्मिन् सङ्क्रामयेदित्यर्थः)|| ४२||
Adhikarana maNDalivegacikitsA (43) · Śloka 43
तृतीये वामितः पेयां वेगे मण्डलिनां पिबेत्|
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम्||४३||
तृतीयात् षष्ठाच्च शेषेषु मण्डलिनां सामर्थ्यात् पूर्ववत्| (मण्डलिसर्पाणां तृतीये वेगे कृतवमनः सन् विषघ्नीं पेयां पिबेत्| षष्ठे वेगे अतीक्ष्णं मृदुद्रव्यकृतमगदमौषधयोगं शोधनादिगणोक्तं पद्मकादिगणं वा पिबेत्)|| ४३||
Adhikarana rAjilavegacikitsA (44) · Śloka 44
आद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः|
अलाबुना हरेद्रक्तं पुर्ववच्चागदं पिबेत्|
षष्ठे वेगेऽञ्जनं तीक्ष्णमवपीडं च योजयेत्|
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम्||४४||
अवगाढं घनम्| राजीमतां शेषेषु वेगेषु पूर्ववत् दर्वीकरवत्| एतदेवोच्यते अनुक्तेष्वित्यादिना| (आद्य इति| राजिलसर्पैर्दष्टस्य आद्ये प्रथमे वेगे अवगाढं सम्यग्रक्तापनयनार्थमामांसमित्यर्थः| प्रच्छाय प्रच्छानं कृत्वा अलाबुना रक्तं हरेत्| पूर्ववत् मधुसर्पिः संयुक्तं विषघ्नमौषधं पिबेच्च| षष्ठे वेगे तीक्ष्णतममतिशयेन तीक्ष्णमञ्जनमवपीडननस्यं च योजयेत्| अत्रानुक्तेषु मण्डलिनां प्रथम-द्वितीय-चतुर्थ-पञ्चम-सप्तमवेगेषु| राजीमतां द्वितीय-तृतीय-चतुर्थ-पञ्चम-सप्तमवेगेषु च दर्वीकरवेगोक्तचिकित्सामेव योजयेत्)|| ४४||
Adhikarana garbhiNyAdau sirAvyadhaniShedhaH (45) · Śloka 45
गर्भिणीबालवृद्धेषु मृदु विध्येत् सिराञ्च न||४५||
गर्भिण्यादिषु सर्वं मृदु शस्यते| सिराः च न विध्येत्| (गर्भिण्यादिषु मृद्वतीक्ष्णमञ्जनादिकं युञ्ज्यात् सिरावेधं तु न कुर्यात्)||४५||
Adhikarana vajrAkhyaM cUrNam (46) · Śloka 46
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः|
तमालः केसरं शीतं पीतं तण्डुलवारिणा|
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान्||४६||
सर्वविषाणां सामान्यचिकित्सामाह-त्वगादिचूर्णं नाम्ना वज्रम्| सुबोधम्| वक्रं तगरम्| शीतं चन्दनम्| (त्वगादिशीतान्तमौषधं पिष्टं तण्डुलवारिण्यालोड्य पीतं वज्रसंज्ञितमेतदौषधं सर्वसर्पविषाणि नाशयति| शक्रेण प्रेरितं कुलिशमसुरानिव)||४६||
Adhikarana tArkShyo agadaH (47) · Śloka 47
प्रपौण्डरीकं कटुका देवदारुसुवर्चिका|
कालानुसारी स्थौणेयशैलेयधनपद्मकम्|
कुटन्नटैलापुन्नागनतकुष्ठप्रियङ्गुकम्|
लोध्रगुग्गुलुतालीसपिप्पलीस्वर्णगैरिकम्|
सिन्दुवारः सितः शुण्ठी ध्यामकं लवणोत्तमम्|
श्लक्ष्णचूर्णीकृतं शृङ्गे निदध्यान्माक्षिकद्रुतम्|
तार्क्ष्यस्तार्क्ष्योपमः पाननावनाभ्यञ्जनाञ्जनैः|
अगदस्तक्षकस्यापि विषवेगं निवर्त्तयेत्||४७||
प्रपौण्डरीकादिभिस्तार्क्ष्यनामागदः सुबोधः| शृङ्गं गोः| (प्रपौण्डरीकमित्यादि| कालानुसारी कालानुसारि वा| कुटन्नटः स्योनाकः| सितः सिन्दुवारः श्वेतनिर्गुण्डी| ध्यामकं कत्तृणम्| इति सुशृतटीका)|| ४७||
Adhikarana lodhrAdyagadaH (48) · Śloka 48
लोध्रं शिरीषपुष्पाणि समङ्गा हिङ्गु रेणुकाः|
कणोषणैला नेपाली वचा यष्टी मधूत्पलम्|
सिन्दुवारकमन्दारमूलं बीजं करञ्जजम्|
ज्योतिष्मती नतं कुष्ठं श्वेता च गिरिकर्णिका|
चूर्णितः कन्यया क्षौद्रगोपित्ताभ्यां च वर्त्तितः|
अगदो हन्ति सर्पाखुकणभं च सृगालजम्|
बिडालकाण्डचित्रोत्थं विषं भूतग्रहं ज्वरम्|
अपस्मारग्रहोन्मादगुल्माजीर्णं विषूचिकाम्||४८||
लोध्रादिः सुबोधः| समङ्गा मञ्जिष्ठा| रेणुका हरेणुः| नेपाली मनश्शिला| यष्टीमधुर्मधुयष्टी| मन्दारः पारिभद्रः|| ४८||
Adhikarana bilvamUlAdyagadaH (49) · Śloka 49
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम्|
फलत्रयं व्योषनिशाद्वयं च बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम्|
भुजङ्गलूतोन्दुरुवृश्चिकाद्यै र्विषूचिकाजीर्णगरज्वरैश्च|
आर्त्तान्नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः||४९||
बस्तस्यावेर्मूत्रेण सुसूक्ष्ममतिश्लक्ष्णं पिष्टं बिल्वमूलादिकमञ्जनादिभिर्भुजङ्गाद्यैर्विषूचिकाद्यैश्चार्त्तान् भूतविधर्षितांश्च नरान् स्वस्थीकरोति| सुरसपुष्पं सुरसमञ्जरी|| ४९||
Adhikarana mahAgadaH (50) · Śloka 50
त्रिवृद्विशल्या मधुकं निशे लवणपञ्चकम्|
मञ्जिष्ठा त्र्यूषणं तद्वत् कल्कयेत् स महागदः||५०||
त्रिवृदादिको महागदः सुबोधः| विशल्या गर्भपातनी| तद्वत् कल्कयेदित्यनेन पेषणादि सर्वं पुर्ववद् बोद्धव्यम्|| ५०||
Adhikarana ArShabhaH agadaH (51) · Śloka 51
मांसीहरेणुत्रिफलामुरुङ्गी मधुयष्टिका|
मञ्जिष्ठा पद्मकाशोककुष्ठतालीसचन्दनम्|
सुगन्धिकैला किणिही त्वक्पटोली मृगादिनी|
भार्ङ्गीं विडङ्गं पालिन्दी पाठा क्रोष्टुकमेखला|
पुष्पमारुष्करं पत्रं सौरसं क्रमुकं पुरम्|
पित्तं नकुलमार्जारगोधाशल्यकसूकरात्|
पृषताच्चित्रपत्राच्च गोशृङ्गे पुर्ववत् स्थितः|
यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः|
एतेन भेरीपटहाः पताकाश्च प्रलेपिताः|
आर्षभेण विषं घ्नन्ति स्पर्शश्रवणदर्शनैः||५१||
मांस्यादिभिरार्षभनामागदः सुबोधः| नकुलादि चित्रपत्रान्तैः सह पित्तमिति सम्बध्यते| पूर्ववदिति प्रपौण्डरीकाद्यगदवत्| एतेनार्षभनाम्नाऽगदेन प्रलेपिता भेर्यादयः स्पर्शादिभिर्विषं घ्नन्ति| (मुरुङ्गी सौभाञ्जनकः| सुगन्धिका सर्पगन्धिका| किणिही कटभी| मृगादिनी इन्द्रवारुणी| पालिन्दी त्रिवृत्| क्रोष्टुकमेखला पृश्निपर्णी| क्रमुकं पूगफलम्| पुरं गुग्गुलुः| पृषतो हरिणः| चित्रपत्रो मयूरः| इति सुश्रुतटीकायाम्|| ५१||
Adhikarana viShasheShabhayam (52) · Śloka 52
प्रलेपाद्यैश्च निश्शेषं दंशादप्युद्धरेद्विषम्|
भूयो वेगाय जायेत शेषं दूषीविषाय वा||५२||
सर्वं विषं प्रलेपाद्यैर्दंशादपि निश्शेषं हरेद्यतः निश्शेषं विषं भूयो वेगाय दूषीविषाय वा जायते| (प्रलेपः आलेपः| आदिशब्देन सेकरक्तमोक्षणादिपरिग्रहः)|| ५२||
Adhikarana viShApAye doShacikitsA (53) · Śloka 53
विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्|
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः|
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः|
समाक्षिकेण वर्गेण कफमारग्वधादिना||५३||
विषापायेऽपि तत्कारणकुपितदोषप्रशमनोपायमाह-विषापाये विषापगमे वमनादिभिः क्रुद्धमनिलं तैलादिवर्ज्यैः पवननाशनैः स्नेहादिभिरुपाचरेत्| तैलादीनां पवनापहरत्वेऽपि प्रतिषेधः| विषापाये पित्तं क्रुद्धं पित्तज्वरहरैः कषायादिभिर्जयेत्| (कषायः षडङ्गादिः स्नेहस्तिक्तकादिः)| विषापाय एव कफं क्रुद्धं समाक्षिकेणारग्वधादिना वर्गेण कषायाद्युपयुक्तेन जयेत्|| ५३||
Adhikarana sarpA~ggAbhihatasha~gkAviShayoshcikitsA (54) · Śloka 54
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु|
पानं समन्त्रपूताम्बुप्रोक्षणं सान्त्वहर्षणम्|
सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते||५४||
सर्पाङ्गाभिहतशङ्काविषयोश्चिकित्सामाह-सितादिकं पानं समन्त्रपूताम्बुप्रोक्षणादिकं च सर्पाङ्गाभिहताक्ष्ये शङ्काविषपीडिते च युञ्ज्यात्| (वैगन्धिकस्त्रिजातकश्चतुर्जातको वा मन्त्रपूतेन जलेन प्रोक्षणं सान्त्वनादिकं च इति जेज्जटः)|| ५४||
Adhikarana rakShAprayojanam (55) · Śloka 55
पूतनाप्रेतकूष्माण्डपिशाचाद्या नरद्विषः|
हन्युरौषधवीर्याणि रक्षाकर्मण्यवारिताः|
तस्माद्रक्षां प्रयुञ्जीत रक्षोगणनिवारिणीम्||५५||
सर्वत्र वक्ष्यमाणां रक्षां रक्षसां गणानां च निवारिणीं प्रयुञ्जीत| विषादिरक्षाकर्मणि पूतनादयो नरद्विषो मनुष्यशत्रवः अवतारिताः सन्तः औषधवीर्याणि हन्युः अतो हेतोः रक्षोगणनिवारिणीं रक्षां प्रयुञ्जीत|| ५५||
Adhikarana rakShAvidhAnam (56) · Śloka 56
गोमयेन सुसम्मृष्टे धूपागरुसुधूपिते|
गन्धमाल्योपहाराद्यैर्गृहे पूजितदैवते|
सूत्रकारान्समभ्यर्च्य शङ्करास्तिककाश्यपान्|
सन्तर्प्य हव्यकव्याभ्यां समिद्धाननलद्विजान्|
प्राङ्मुखायोपविष्टाय विषार्त्ताय चिकित्सकः|
उत्तराभिमुखो युञ्ज्याद्विद्यां मन्त्राणि भेषजम्|
समप्रमाणैर्हरितैर्दर्भैः प्रागभिमन्त्रितैः|
अच्छिन्नाग्रैः समूलैश्च कुर्यात्तस्यापमार्जनम्|
ब्राह्माद्यैरगदैरेनं नित्यमेवानुलेपयेत्|
सञ्जीवनादीन् पानादौ दंशलेपे च योजयेत्|
पूर्णकुम्भं सकुसुमं सर्षपान् छागलं पयः|
शस्त्रं दूर्वां मधु घृतं कुर्याद्दष्टस्य मूर्द्धतः|
एवं शाम्यति सप्ताहाद्विषमात्मवतः सतः||५६||
गोमयेनेत्यादिना पूतनादीनां रक्षा सुबोधा| गन्धाद्यैश्चन्दनादिभिः| पूजिता देवता यस्मिन् गृहे तत्तथोक्तम्| सूत्रकारानिति शङ्करादिविशेषणम्| देवदेयं हव्यम्| पितृदेयं कव्यम्| ब्राह्मसञ्जीवनादयोऽगदा विषप्रतिषेधोक्ताः| दष्टस्य मूर्द्धतः शय्याशिरोभागे पूर्णकुम्भादिकं कुर्यात्| आत्मवान् सत्त्ववान्|| ५६||
Adhikarana viShaghnaM dhAraNam (57) · Śloka 57
कर्केतनं मरकतं वज्रं वारणमौक्तिकम्|
वैडूर्यं गर्दभमणिं पिचुकां विषमुष्टिकाम्|
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम्|
तथा द्रोणं महाद्रोणं मानसीं सर्पजं मणिम्|
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत्||५७||
(इदानीं येषां च धारणात् प्रभावोपहतं विषं विषत्वं जहाति तान्यभिदधाति| कर्केतनमित्यादि इति जेज्जटः|) कर्केतनादीनि केचिन्मणयः| कानिचिदौषधानि| वीर्यवन्ति विषाणीत्येतत्सर्वं विषशान्त्यर्थं धारयेत्| ('कर्केतनं पद्मरागविशेष' इति जेज्जटः|) कर्केतन माणिक्यम्| वारणस्य मस्तकोद्भूतमौक्तिकं वारणमौक्तिकम्| गर्दभमणिः धूमवर्णरत्नविशेषः| पिचुका रत्नपुष्पेति काचिदौषधिः| विषमूषिका तन्नामधेया परमौषधिः| विषमूषिकेति पाठः| हिमवद्गिरिसम्भूता श्वेतवचा| हिमवद्गिरिसम्भूता सोमराजीति केचित्| द्रोणं वैकुण्ठम्| महाद्रोणं श्वेतवैकुण्ठम्| मानसी मण्डूकपर्णी| ब्रह्मीति केचित्| सर्पफणोद्भूतो मणिः सर्पजमणिः|| ५७||
Adhikarana chatryAdidhAraNam (58-42) · Śloka 42
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः|
तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः||५८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सर्पविष प्रतिषेधो नाम द्विचत्वारिंशोऽध्यायः||४२||
छत्री झर्झरपाणिश्च नित्यं चरेत्| रात्रौ तु विशेषतः| झर्झरं झणझणायमानं लोहमयं कटकाकारम्| तयोश्छत्रझर्झरयोर्यथासङ्ख्येन छायाशब्दाभ्यां त्रस्ता भुजङ्गमा नश्यन्त्यदर्शनं यान्ति| (सर्वदा प्रमादपूर्वं सञ्चरणं निषिध्यत इति जेज्जटः|) छत्रवान् झर्झरहस्तश्च सदा सञ्चरेत् निशि विशेषात्| छत्रमातपम्| झर्झरपाणिः सशब्दहस्तः| प्रणशन्त्यदर्शनं यान्ति| णश् अदर्शन इति धातुः|| ५८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे द्विचत्वारिंशोऽध्यायः