Adhikarana atha sarpaviShavij~jAnIyo nAma ekacatvAriMsho~adhyAyaH, pratij~jA (1) · Śloka 1
अथातः सर्पविषविज्ञानीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
स्थावरं विषमुक्त्वा जङ्गममुच्यते| तत्रापि सर्पाणां प्राधान्यात् तद्विज्ञानार्थमध्याय आरभ्यते|| १||
Adhikarana divyasarpebhyaH namaskAraH (2) · Śloka 2
दिव्यभौमविभागेन द्विविधाः पन्नगाः स्मृताः|
वासुकिस्तक्षकोऽनन्तः सगरः सागरालयः|
तथा नन्दोपनन्दाद्याः समिद्धाग्निनसमप्रभाः|
दिव्या गर्जन्ति वर्षन्ति द्योतन्ते द्योतयन्ति ते|
धारयन्ति जगत्कृत्स्नं कुर्युः क्रुद्धाश्च भस्मसात्|
दृङ्निश्वासैर्नमस्तेभ्यो न तेष्वस्ति चिकित्सितम्||२||
द्विविधाः पन्नगाः सर्पाः केचिद्दिव्याः केचिद्भौमाः| सुबोधम्| तेभ्यो दिव्येभ्यो नमोऽस्तु| तेषु क्रुद्धेषु चिकित्सा नास्ति||२||
Adhikarana bhaumasarpabhedAH (3) · Śloka 3
दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः|
त्रिधा समासतो भौमा भिद्यन्ते ते त्वनेकधा|
व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगतः||३||
भौमानां सर्पाणां त्रैविध्यं दर्शयति-भौमास्तु पन्नगा दर्वीकरादिभेदात् त्रिधा समासतः सङ्क्षेपेण| ते तु दर्वीकरादयो व्यासतो विस्तरतो योनिभेदेन जातिविशेषेणानेकधा बहुप्रकारेण भिद्यन्ते भिन्ना भवन्ति तथा नोच्यन्तेऽनुपयोगतः प्रयोजनाभावात्|| ३||
Adhikarana darvIkarAdInAM viShapraBAvaH (4) · Śloka 4
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्|
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्||४||
दर्वीकरादीनां विषस्य वातादिकोपकारणत्वं दर्शयति| एषां च दर्वीकरादीनां विषं क्रमादेव च| वातादिकोपनम्| दर्वीकराणां विषं रूक्षकटुकं वातकोपनं च| मण्डलिनामम्लोष्णं पित्तकोपनं च| राजीमतां स्वादुशीतलं कफकोपनं चेति क्रमार्थः| (विषस्य तीक्ष्णादिगुणयोगे सत्यपि विशेषकथनमत्र रूक्षादीनां द्वयानामेतेषामाधिक्यद्योतनार्थम्)|| ४||
Adhikarana darvIkarAdInAM viShavRuddhikAlaH (5) · Śloka 5
तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च|
विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु||५||
एतेषां विषवृद्धिकालमाह-एते च दर्वीकरादयस्तारुण्यादिषु वृष्ट्यादिषु चतुर्षु विषोल्बणा भवन्ति| दर्वीकरास्तारुण्ये वृद्धिकाले च विषोल्बणा भवन्ति| मण्डलिनो मध्यवयसि शीतकाले च| राजीमन्तो वृद्धत्वे आतपकाले च| व्यन्तराः सङ्करजातयः येषां विजातीयौ पितरौ ते व्यन्तरास्ते ऋतुसन्धिषु क्रमेणैव विषोल्बणा भवन्ति| ऋतुसन्धिः स्वाभाविकारम्भात् पूर्वम्| वृष्टिः श्रावणादिमासचतुष्कम्| शीतं माऱ्गशीर्षादिकम्| आतपं चैत्रादिकम्|| ५||
Adhikarana darvIkarAdInAM lakShaNAni (6) · Śloka 6
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः|
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः||६||
दर्वीकरादीनां विशेषः कथं ज्ञायत इत्यत्राह-रथाङ्गादिचिह्नधारिणः फणावन्तः शीघ्रगमनाश्च सर्पा दर्वीकराः स्मृताः| रथाङ्गं चक्रम्| लाङ्गलो हलः| अन्यत्सुबोधम्| (रथाङ्गादिरेखाकारेण फणमध्ये धारयन्तीत्यर्थः )|| ६||
Adhikarana maNDalilakShaNAni (7) · Śloka 7
ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः|
प्रांशवो मन्दगमनाः..........................||७||
ज्ञेया इति| ते मण्डलिनो ज्ञेयाः ये अभोगाः फणरहिताः विविधैर्नानाप्रकारैर्मण्डलाकारैवर्णविशेषैश्चिता व्याप्ताः प्रांशवो दीर्घाकृतयः मन्दगमना अल्पवेगाश्च भवन्ति|| ७||
Adhikarana rAjImantalakShaNAni (8) · Śloka 8
...........................राजीमन्तस्तु राजिभिः|
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः||८||
ये स्निग्धास्तिर्यगूर्ध्व च विचित्रवर्णाभी राजिभिर्ल्लेखाभिश्चित्रिताश्चिह्नितास्ते राजीमन्तः|| ८||
Adhikarana gaudheraviShalakShaNam (9) · Śloka 9
गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः|
चतुष्पात्....................................||९||
विजातीयानाह-गोधायाः सुतश्चतुष्पान्नाम्ना गौधेरः स दर्वीकरसमविषः प्रसङ्गादुक्तः| (गौधेरशब्देनैव गोधासुतत्वे सिद्धे पुनरपि गोधासुतत्वकथनं जात्यन्तरशङ्कानोदनार्थम्| तुशब्देन कीटानां मध्ये वक्तव्याया गोधाया अत्र विजातीयप्रसङ्गोक्त्या तद्विषस्य दर्वीकरविषसाम्यकथनाच्च गोधायां दर्वीकरेणोत्पादित इति च द्योत्यते| विषे दर्वीकरैः समः जात्यन्तरत्वेऽपि विषेण दर्वीकरतुल्यः| दर्वीकर इत्युपलक्षणं मण्डलिराजिलयोरप्येवमुह्यम्)|| ९||
Adhikarana vyantaraviShalakShaNam (10) · Śloka 10
एतेषामेव दर्वीकरादीनां सङ्करात् स्त्रीपुंसमिश्रीभावात् व्यन्तरान् विद्यात्|
ते हि व्यन्तरा यथासङ्करं व्यामिश्रलक्षणः सन्निपातप्रकोपनाश्च||१०||
एतेषामेव दर्वीकरादीनां सङ्करात् स्त्रीपुंसमिश्रीभावात् व्यन्तरान् विद्यात्| ते हि व्यन्तरा यथासङ्करं व्यामिश्रलक्षणः सन्निपातप्रकोपनाश्च|| १०||
Adhikarana nirviShAH sarpAH (11) · Śloka 11
दिव्यकोऽजगरः सर्पः पताको वृक्षशायिकः|
शकलीपुष्पकः क्षीरी लासिनी सारसाहिकः|
वर्षाहिको ज्योतिरथः शुकवक्त्रो बलाहकः|
गजभक्षः प्लवोद्वाही निर्विषाः षोडशाहयः||११||
दिव्यकादिनामभिः षोडशाहयः सर्पा निर्विषा भवन्ति|| ११||
Adhikarana sarpajanmakramaH (12) · Śloka 12
प्रायेणर्तुमती मासं ज्येष्ठं तिष्ठति पन्नगी|
आषाढे सर्पसंयोगादण्डानां मासि कार्तिके|
द्वे शते विंशती द्वे च सा सूते...............||१२||
प्रायेणेत्यादिना जन्मादिक्रमेण सर्पा उच्यन्ते| पन्नगी सर्पिणी ज्येष्ठं मासं प्रायेणर्तुमती गर्भाधानयोग्या तिष्ठति| तत आषाढे मासि सर्पसंयोगात् सा पन्नगी कार्तिके मास्यण्डानां चत्वारिंशदधिकं शतद्वयं सूते|| १२||
Adhikarana strIpuMnapuMsakajanmavibhAgaH (13) · Śloka 13
..................................तत्र जायते|
कर्केतनसवर्णेऽण्डे समुद्भिन्ने भुजङ्गम्|
दीर्घलोहितराजीभिश्चित्रे योषिन्नपुंसकम्|
शिरीषपुष्पसदृशे .....................||१३||
तत्र चाण्डेषु कर्केतनाख्यमणिसवर्णेऽण्डे समुद्भिन्ने भग्ने भुजङ्गमः सर्पो जायते| दीर्घाभिर्लोहिताभिश्च रेखाभिश्चित्रेऽण्डे योषित् सर्पिणी जायते| समुद्भिन्न इति सर्वत्र योज्यम्| शिरीषपुष्पसदृशेऽण्डे नपुंसकं जायते|| १३||
Adhikarana daMShTrAviShavikalpanAdi (14) · Śloka 14
......................................दंष्ट्राः सर्पस्य सप्तमे|
चतस्रः सम्भवन्त्यह्नि विषं तासु चतुर्दशे|
वामाधराऽसिता पीता तदूर्ध्वा दक्षिणा त्वधः|
रक्ता श्यावोत्तरैकद्वित्रिचतुर्विषबिन्दुकाः|
ता क्रमान्मुद्गमात्रोऽत्र विन्दुरेष हि भोगिनाम्|
विषे विकल्पन्येषां विद्याद्दंष्ट्रास्तथाऽपराः|
चत्वारिंशद्भुजङ्गस्य निर्विषाश्चतुरुत्तराः||१४||
सर्वस्य च सर्पस्य जन्मनः सप्तमेऽह्नि चतस्रो दंष्ट्राः सम्भवन्ति| अधो द्वे उपरि च द्वे इति च ताः स्मृताः| जन्मन एव चतुर्दशेऽह्नि तासु दंष्ट्रासु विषं सम्भवति| तत्राऽधोभवयोर्वामा असितवर्णा तदूर्ध्वा उपरिभवा वामा पीतवर्णा| अधोभवा तु दक्षिणा रक्ता लोहिता उत्तरा तूपरिभवा दक्षिणा श्याववर्णा| नीलपीतलोहितश्यावाश्च ता दंष्ट्रा उक्तक्रमेणैकादिविषबिन्दुकाः| तेनाऽधोवामायामेको विषबिन्दुर्भवति| ऊर्ध्ववामायां द्वौ बिन्दू| अधोदक्षिणायां त्रयो बिन्दवः| ऊर्ध्वदक्षिणायां चत्वार इति क्रमार्थः| अत्र तु विषे बिन्दोः प्रमाणं मुद्गमात्रम्| एष त्वनन्तरोक्तो नानाविधो भोगिनां सर्पाणामेव विषे विकल्पः न त्वन्येषां जङ्गमविषाश्रयाणाम्| प्रकृतमुच्यते| भुजङ्गस्यापराश्चतुरुत्तराश्चत्वारिंशद्दंष्ट्रा विद्यात् ताः निर्विषाः|| १४||
Adhikarana sarpANAmAyuH (15) · Śloka 15
आयुर्वर्षशतं विंशं पञ्चवर्षशतायुषः|
गोनसा घर्मतप्तानां गवां नासासमुद्भवाः||१५||
सर्पाणां चतुर्विंशं शतं विंशत्यधिकं वर्षशतम्| गोनसास्तु पञ्चवर्षशतायुषो भवन्ति| ते च गोनसा घर्मतप्तानां गवां नासिकात् उद्भवन्ति|| १५||
Adhikarana strIpuMnapuMsakalakShaNAni (16) · Śloka 16
तत्रोर्ध्वदृङ्महाकायनेत्रजिह्वाशिरःस्वरः|
व्यक्तभोगः पुमान् धीरः स्त्री स्यात्तस्माद्विपर्यये|
आयता चपला क्लीबः सुकुमारो जडाकृतिः|
मन्दवेगस्वनक्रोधः सिताभस्तिर्यशीर्षकः||१६||
तत्र गोनसेषु य ऊर्ध्वदृक्त्वादियुक्तः स पुमानिति विज्ञेयः| एतल्लक्षणविपर्यये आयता चपला च स्त्री विज्ञेया| महच्छब्दः कायादिभिः स्वरान्तैः सम्बध्यते| व्यक्तः स्फुटो भोगो यस्य स तथोक्तः| क्लीबो नपुंसकः गोनसः सुकुमारत्वादिगुणो भवति|| १६||
Adhikarana balakAlavibhAgaH (17) · Śloka 17
दिनत्रियामासन्ध्यासु प्रबलास्ते यथाक्रमम्|
तदैव चापराध्यन्ति सर्वदैव तु पन्नगी||१७||
ते च त्रयो गोनसाः क्रमेण दिनादिषु प्रबला भवन्ति| पुमान् दिने, स्त्री त्रियामायां रात्र्याम्, क्लीबः सन्ध्यास्विति क्रमार्थः| क्रमेण च ते तदैव च दिनादावपराध्यन्ति भक्षयन्ति| पन्नगी तु सर्पिणी सर्वदैवापराध्यति| एतत् प्रसङ्गेनोक्तम्|| १७||
Adhikarana brAhmaNasarpalakShaNAni (18) · Śloka 18
ब्राह्मणाः क्रोधना नीलकपिलाः श्वेतलोहिताः|
रक्तास्याः पिङ्गनयना मेध्यदेशविचारिणः|
भोगे यज्ञोपवीतादिद्विजचिह्नोपचिह्निताः|
बिल्वपुष्पहिमोशीरपद्मगुग्गुलुगन्धयः||१८||
ब्राह्मणादिभेदेन सर्पाणां लक्षणमुच्यते-ब्राह्मणा इत्यादि| सुबोधम्| रक्तास्या लोहितमुखाः| मेध्यो देशः शुचिः प्रदेशः| द्विजचिह्नं यज्ञोपवीतादिब्राह्मणचिह्नम्|| १८||
Adhikarana kShatriyasarpalakShaNAni (19) · Śloka 19
क्षत्रिया मानिनो धीरा रक्ताक्षा भृशकोपनाः|
पक्वजाम्बवखर्जूरद्राक्षाभिन्नाञ्जनप्रभाः|
भोगेऽर्द्धचन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः|
जातीचम्पकपुन्नागपत्रजोङ्गकगन्धयः||१९||
क्षत्रिया इति| भोगेर्द्धचन्द्रादिलाञ्छनं चिह्नं येषां ते तथोक्ताः||१९||
Adhikarana vaishyasarpalakShaNAni (20) · Śloka 20
वैश्याः पारावताभासा वज्रगोमेदकप्रभाः|
बिन्दुमण्डलचित्राङ्गा धूम्रपाटललोहिताः|
बस्तकुष्ठाविकक्षीरसर्पिषां गन्धतः समाः||२०||
वैश्या इति| वज्रं हीरम्| गोमेदको नाम मणिविशेषः| बिन्दवो वर्तुलाश्छेदाः| बस्तादीनां गन्धतः समा इति सम्बन्धः|| २०||
Adhikarana shUdrasarpalakShaNAni (21) · Śloka 21
शूद्राः सवर्णा गोधूममहिषद्विपकर्दमैः|
बिन्दुरेखाचिता रूक्षाः सुराशोणितगन्धयः||२१||
शूद्रा इति कर्द्दमान्तैः सवर्णा इति सम्बन्धः|| २१||
Adhikarana brAhmAdInAM sa~jcaraNakAlaH (22) · Śloka 22
पूर्वमध्यापराह्णेषु चरन्ति ब्राह्मणादयः|
अस्तङ्गते रवौ शूद्राः....................||२२||
पूर्वाह्णे ब्राह्मणाश्चरन्ति दशनाय| मध्याह्ने क्षत्रियाः| अपराह्ने वैश्याः| शूद्रास्तु रवावस्तमिते चरन्ति|| २२||
Adhikarana brAhmaNAdInAM dashanaprakArAH (23) · Śloka 23
..............................दशन्ति ब्राह्मणाः पुरः|
संस्थिता दक्षिणे पार्श्वे क्षत्रिया वामतो विशः|
शूद्रास्तु पृष्ठतो...............................||२३||
ब्राह्मणाः पुरोऽग्रतोऽवस्थिता दशन्ति| क्षत्रिया दक्षिणे पार्श्वे| वैश्या वामे| शूद्रास्तु पृष्ठे|| २३||
Adhikarana brAhmaNAdInAM doShAdikopanaprakAraH (24) · Śloka 24
.....................................विप्रास्त्रीनप्यनिलपूर्वकान्|
कोपयन्ति क्रमाद्दोषांस्त्रीस्त्रयः क्षत्रियादयाः||२४||
ब्राह्मणांस्त्रीनपि दोषान् कोपयन्ति| क्षत्रियादयस्त्रयः त्रीन् दोषान् यथासंख्येनानिलपूर्वकान् कोपयन्ति| क्षत्रियोऽनिलं वैश्यः पित्तं शूद्रः कफमिति क्रमार्थः|| २४||
Adhikarana daMshagandhena parIkShA (25) · Śloka 25
दंशगन्धोङ्गगन्धेन ज्ञेयस्तेषां यथायथम्||२५||
तेषां च ब्राह्मणादीनां यथायथं यथास्वं दंशगन्धो दृष्टस्याङ्गगन्धेन ज्ञेयः|| २५||
Adhikarana sarpANAmAhAravibhAgaH (26) · Śloka 26
वायुमूषिकमण्डूकसर्वभक्षाः क्रमेण ते||२६||
ते च ब्राह्मणादयः क्रमेण यथासंख्येन वाय्वादिभक्षा भवन्ति||२६||
Adhikarana sarpANAM daMshakAraNam (27) · Śloka 27
आहारार्थं भयात्पादस्पर्शादतिविषात्क्रुधः|
पापवत्ततया वैराद्देवर्षियमचोदनात्|
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम्||२७||
आहारार्थमित्यादिना दशविधं सर्पाणां दंशकारणम्| तेषु च दशसु कारणेषु यथोत्तरं विषाधिक्यमुक्तम्| पाठक्रमेण यो यस्मादुत्तरस्तत्र तस्मादधिकं विषं भवति|| २७||
Adhikarana pratikArasUtram (28) · Śloka 28
आविष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्||२८||
आविष्टादाशु मन्त्रेणाहूतात् सर्पात् दंशेषु दशकान्यतमं कारणं ज्ञात्वा यथायथं प्रतीकारमौषधमन्त्रादिकं वा कुर्याद्वा न वा| (उक्तं च सूत्रे- मन्त्रदेवतयाहूतानाचक्षीरान् महाहयः| विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः|| इति| आविष्टात् सर्पदष्टाद्दूताद्वा दूतमेव दष्टकं मन्यन्ते तल्लक्षणविदः| दूतस्याकृत्यवस्थानचेष्टाव्यवहृतिवर्णसङ्ख्यादिलक्षणविशेषेण सर्पाणां सविषनिर्विषत्वविशेषं जातिकारणदशस्थानविशेषं तुण्डाहतव्यालीढव्यालुप्तदष्टकदष्टनिपीडितं दंष्ट्रापदविशेषं च बुद्ध्वा यथायथं प्रतिकुर्यात्)|| २८||
Adhikarana vyantaradashanavaishiShTyam (29) · Śloka 29
व्यन्तरः पापशीलत्वान्मार्गमावृत्य तिष्ठति||२९||
व्यन्तरस्तु सर्पः पापस्वभावत्वान्मार्गं पन्थानमावृत्य रुद्ध्वा तिष्ठति|| २९||
Adhikarana daMshalakShaNam (30) · Śloka 30
यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते|
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत्|
एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्|
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु|
मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्|
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम्||३०||
यत्रेत्यादिना दंष्ट्रासंयोगविशेषक्रमेण दंशलक्षणम्| यत्र दंष्ट्राक्षतेन विनाऽङ्गे लालादिमात्रं दृश्यते तद्दंशं नाम्ना तुण्डाहतमादिशेत्| यत्र त्वेकं दंष्ट्रापदं द्वे वा दंष्ट्रापदे दृश्येते तं दंशमशोणितं सन्तं व्यालीढमादिशेत्| सरक्ते तु द्वे दंष्ट्रापदे नाम्ना व्याप्लुतमादिशेत्| तानीति दंष्ट्रापदानि त्रीणि मांसच्छेदाद्धेतोरविच्छिन्नरक्तवाहिनि नाम्ना दष्टकम्| चत्वारि दंष्ट्रापदनि तद्वदितिमांसच्छेदादविच्छिन्नरक्तवाहीनि नाम्ना दष्टनिपीडितं भवति||३०||
Adhikarana daMshe viShapramANavikalpaH (31) · Śloka 31
निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्||३१||
अत्र तुण्डाहतादिपञ्चके आद्यं द्वयं तुण्डाहतं व्यालीढञ्च निर्विषम्| पश्चिमं तु द्वयं दष्टकं दष्टनिपीडितञ्च असाध्यं वदेत्| पारिशेष्याद्व्यालुप्तं सविषं साध्यं च|| ३१||
Adhikarana raktasambandhavisheShaH (32) · Śloka 32
विषं नाहेयमप्राप्य रक्तं दूषयते वपुः|
रक्तमण्वपि तु प्राप्तं वर्धते तैलबिन्दुवत्||३२||
आहेयमहिसम्बन्धि सार्पं विषमप्राप्य रक्तं वपुर्न दूषयते| अण्वपि स्वल्पमपि विषं तु रक्तं प्राप्तं तैलबिन्दुवद्वर्धते||३२|
Adhikarana sarpA~ggAbhihatam (33) · Śloka 33
भीरोः सर्पाङ्गसंस्पर्शाद्भयेन कुपितोऽनिलः|
कदाचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत्||३३||
भीरोस्तु पुंसो विनैव दंशं सर्पस्याङ्गस्पर्शमात्रेण भयेनानिलः कुपितः कदाचिच्छोफं कुरुते सर्पाङ्गाभिहतं नाम्ना तद्भवति|| ३३||
Adhikarana sha~gkAviSham (34) · Śloka 34
दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया|
विषोद्वेगो ज्वरश्छर्दिमूर्च्छा दाहोऽपि वा भवेत्|
ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते||३४||
दुर्गान्धकारे केनचित् कण्टकादिना विद्धस्य पुंसो दष्टशङ्कया विषोद्वेगादिकं भवेत् ग्लान्यादिकं च, तन्नाम्ना शङ्काविषमुच्यते| (शङ्कया विषं शङ्काविषम्| अविषमपि शङ्कया विषं जायते| यथा अगर्भेऽपि रक्तगुल्मिन्या दोहदसम्भवः| इति जेज्जटः|| ३४||
Adhikarana saviShanirviShadaMshalakShaNam (35) · Śloka 35
दंशस्तु सविषः सर्वः सशोफो वेदनान्वितः|
तुद्यते ग्रथितः किञ्चित्कण्डूमान् दह्यते भृशम्|
निर्विषो विपरीतोऽस्मात् ............................||३५||
सशोफादिकः सर्वो दंशः सविषो विज्ञेयः| अस्माद्विपरीतस्तु निर्विषः|| ३५||
Adhikarana darvIkaradaMshalakShaNam (36) · Śloka 36
..............................तत्र दंशः फणावताम्|
कूर्मपृष्ठोन्नतो रूक्षः सूक्ष्मदंष्ट्रापदान्वितः|
विकाराः श्यावतावक्त्रनखमूत्राक्षिविट्त्वचाम्|
शीतज्वरः सन्धिरुजा निद्रानाशो विजृम्भिका|
मन्यास्तम्भः सिराध्मानं पृष्ठकट्यस्थिवाग्ग्रहाः|
शिरोगुरुत्वमरुचिः कासश्वासौ हनुग्रहः|
शूलमृद्वेष्टनं कोष्ठे शोषरोधौ मलाश्रयौ|
सन्दिग्धवाक्त्वं नैश्चेष्ट्यं मृतस्येव विसंज्ञता|
फेनलालोद्गमौ हिध्मा कण्ठे घुरघुरायणम्|
शुष्कोद्गारो मुहुश्चैते वातजाश्चापरे गदाः||३६||
तत्र फणावतां दर्वीकराणां दंशः कूर्मपृष्ठोन्नतत्वदिगुणो भवति| तत्र च वक्त्रश्यावतादयो विकाराः| श्यावताशब्दस्य विट्त्वचामित्यन्तेन सम्बन्धः| ग्रहशब्दस्य पृष्ठकट्यादिभिः| मलाश्रयः शोषो रोधश्च| मलं पुरीषम्|| ३६||
Adhikarana maNDalidaMshalakShaNam (37) · Śloka 37
दंशो मण्डलिनां सोष्मा सशोषः पीतलोहतः|
पृथुर्विसर्पदाहोषाक्लेदकोथैर्विशीर्यते|
विकारा वक्त्रदन्तादिपीतता तृट् श्रमो भ्रमः|
दाहो मूर्च्छा ज्वरस्तिक्तवक्त्रत्वं पीतदर्शनम्|
रक्तागमनमूर्ध्वाक्षः शीतेच्छा धूमको मदः|
आशु सर्वाङ्गविसृतिर्गदास्त्वेते च पित्तजाः||३७||
मण्डलिनां दंशः सोष्मादिगुणो भवति| तत्र च विकारा वक्त्रदन्तादिपीततादयः सर्वेष्वङ्गेष्वाशु विषस्य विसृतिः|| ३७||
Adhikarana rAjImatAM daMshalakShaNam (38) · Śloka 38
दंशो राजीमतां स्निग्धः स्थिपिच्छिलशोफकृत्|
सान्द्रास्रः शिशिरः पाण्डुस्तद्विकाराः शिरोव्यथा|
अरुचिश्छर्दिरालस्यं हृल्लासो मधुरास्यता|
कण्ठे घुरघुरः पाको कण्डूरक्ष्णोर्हिमो ज्वरः|
मृच्छ्रादुच्छ्वसनं निद्रा कासः श्वेतनखादिता|
स्तम्भो गुरुत्वं चाङ्गानां नासिकाक्षिमुखस्रुतिः|
रोमहर्षस्तमश्वासो रोगाश्चाऽन्ये कफोद्भवाः||३८||
राजीमतां दंशः स्निग्धत्वादिगुणः| अत्र च विकाराः शिरोव्यथादयः| पाकः कण्ठ एव| हिमो ज्वरः शीतज्वरः| श्वेतनखादितेत्यादिशब्देन नयनत्वगादीनां ग्रहणम्| तमश्वास उक्तलक्षणस्तमकश्वासः|| ३८||
Adhikarana vyantaradaMshalakShaNam (39) · Śloka 39
व्यन्तरे मिश्रलिङ्गत्वं.......................||३९||
व्यन्तरसर्पदंशेषु यथासङ्करं मिश्रलक्षणम्|| ३९||
Adhikarana strIpuMsadaMshalakShaNam (40) · Śloka 40
................................दष्टः पुंसोर्ध्वमीक्षते|
प्रक्षिपेद्दक्षिणं पादं पुर्वकायसमुद्यतः|
धीरोऽल्पवेगः शर्वर्यां विपरीतस्तु योषिता|
हीनस्वरोऽतिसारार्त्तः कम्पते त्रस्यते ज्वरी||४०||
दष्ट इत्यादिना सर्पलिङ्गविशेषेण दष्टलक्षणम्| व्याख्यासमम्| पुंसो दंशः रात्रावल्पवेगो भवति| ऊर्ध्वेक्षणादिलक्षणेभ्यो विपरीतो हीनस्वरत्वादियुक्तश्च योषिता दष्टो विज्ञेयः|| ४०||
Adhikarana napuMsakavRuddhAdidaMshalakShaNam (41) · Śloka 41
नपुंसकेन तिर्यग्दृगधीरः प्रियमैथुनः|
बहुवादी च वृद्धेन चिरान्मन्दाश्च वेदनाः|
बालेन शीघ्रं तीक्ष्णाश्च कुमारेणाक्ष्णि दक्षिणे|
रोगी कुमार्या वामे तु गर्भिण्या कृष्णजिह्वदृक्|
जृम्भा क्रोधोपजिह्वार्त्तः स शूनोष्ठः सिताननः|
गुरूदरः शिरोरोगी सूता दष्टस्तु मेहति|
शोणितं कृच्छ्रशूलार्त्तः सूचीभिरिव भिद्यते||४१||
तिर्यग्दृगादिरूपो नपुंसकेन दष्टः स्यात्| वृद्धेन दष्टे चिराद्वेदना भवन्ति ताश्च मन्दाः| बालेन दष्टे शीघ्रं वेदना भवन्ति ताश्च वेदनास्तीक्ष्णाः| कुमारेण त्वदृष्टसर्पिणीसम्बन्धेन दष्टो दक्षिणाक्षिरोगी स्यात्| कुमार्या त्वनासादितसर्पसंयोगया तु यो दष्टः स वामेऽक्षिण रोगी स्यात्| गर्भिण्या तु दष्टः कृष्णया जिह्वया दृशा च युक्तो जृम्भादियुक्तश्च स्यात्| यः सूतया दष्टः स कृच्छ्रेण शूलेनार्त्तः सन् शोणितं मेहति रक्तं मूत्रयति सूचीभिरिव भिद्यते च|| ४१||
Adhikarana vegAnAmAshrayAH (42) · Śloka 42
वेगानां रक्तमांसाद्याः सप्तोक्ताः पूर्वमाश्रयाः||४२||
सर्पस्य विषं यानाश्रित्य क्रमेण वेगान् कुरुते ते रक्तमांसाद्याः पूर्वं धन्वन्तरिमते वेगानां सप्त आंश्रया उक्ताः|| ४२||
Adhikarana darvIkaraviShavegalakShaNAni (43) · Śloka 43
दर्वीकृताथ दष्टस्य दुष्टं श्यावी भवत्यसृक्|
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः|
द्वितीये ग्रन्थयो वेगे तृतीये मूर्द्धगौरवम्|
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः|
सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्|
दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम्|
मूर्च्छाऽविपाकोऽतीसारः प्राप्य शुक्रन्तु सप्तमे|
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्त्तनम्||४३||
दर्वीकरादीनां क्रमेण सप्त वेगा उच्यन्ते-दर्वीकृतेत्यादि| सर्पन्तीव च कीटका इत्यन्तं प्रथमे वेगे लक्षणम्| वक्त्रादावित्यादिशब्देन नखविण्मूत्रनेत्रत्वचां परिग्रहः| द्वितीये वेगे ग्रन्थयः स्युः दंशविक्लेदान्तं तृतीये| तन्द्रान्तं चतुर्थे| हिध्मान्तं पञ्चमे| अतीसारान्तं षष्ठे| सप्तमे वेगे विषं शुक्रं प्राप्य स्कन्धादिभङ्गः सर्वचेष्टानिवर्त्तनं च भवति| इति दर्वीकरेषु|| ४३||
Adhikarana maNDaliviShavegalakShaNAni (44) · Śloka 44
अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्|
तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः|
तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते|
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः||४४||
अथेत्यादिना मण्डलिनां वेगाः| दाहान्तं प्रथमे वेगे| श्वयथूद्भवो द्वितीये| तृष्णान्तं तृतीये| चतुर्थे ज्वरः| पञ्चमे सर्वगात्रगोदाहः| शेषयोः पूर्ववद्वदेदिति राजीमत उक्तमपेक्ष्यत इति मण्डलिषु|| ४४||
Adhikarana rAjilaviShavegalakShaNAni (45) · Śloka 45
दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्|
पाण्डुता तेन गात्राणां द्वितीये गुरुताति च|
तृतीये दंशविक्लेदनासिकाक्षिमुखस्रवाः|
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च पञ्चमे|
वाक्सङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्||४५||
दष्टस्येत्यादिना राजीमतां वेगकीर्तनम्| प्रथमे वेगे रक्तस्य पाण्डुत्वात् गात्राणां पाण्डुता| द्वितीये गात्राणामतिगुरुता| मुखस्रावान्तं तृतीये| मन्यास्तम्भान्तं चतुर्थे| शीतज्वरान्तं पञ्चमे| शेषयोः षष्ठसप्तमयोः पूर्ववद्दर्वीकरवद्वदेत्| इति राजीमत्सु||४५||
Adhikarana cikitsAmaryAdA (46) · Śloka 46
कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम्||४६||
सर्वसर्पविशेषु च पूर्वेषु पञ्चस्वेव वेगेषु चिकित्सां कुर्यात्||४६||
Adhikarana alpaviShAH sarpAH (47) · Śloka 47
जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः|
शीतवातातपव्याधिक्षुत्तृष्णा श्रमपीडिताः|
तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाः|
कुशौषधीकण्टकवद्ये चरन्ति च काननम्|
देशं च विद्याध्युषितं सर्पास्तेऽल्पविषा मताः||४७||
जलाप्लुतादिस्वरूपाः सर्पा अल्पविषा मता आचार्याणाम्| रतिः स्त्रीसंयोगस्तया क्षीणास्तथोक्ताः| अचिरं विमुक्तविषकञ्चुकाः| विद्याध्युषितं च देशं च ये चरन्ति ते च| विद्याध्युषितं देशं यत्र विषघ्नी विद्या यन्त्रादिस्तथा प्रतिवसति|| ४७||
Adhikarana AshIviShopamAH sarpAH (48) · Śloka 48
श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये|
चतुष्पथे जलस्थाने जीर्णोद्यानेषु कोटरे|
क्षीरिद्रुमे निम्बतरौ निर्ज्झरे गिरिगह्वरे|
चक्रवज्रगदाकुन्तत्रिशूलाङ्कजटाधराः|
रक्तास्यनयना ये च ते स्युराशीविषोपमाः|
न तेषां कालनियमो न च वेगेष्वनुक्रमः|
मन्त्रतन्त्रबलान्नापि प्रसह्य विनिवर्त्तनम्|
उपहारनमस्कारजपशान्तिपरायणः|
कश्चिज्जीवति तैर्दष्टो विरूपो विकलोऽपि वा||४८||
श्मशानादिषु सर्पा ये वसन्ति चक्राद्यङ्गा जटाश्च ये धारयन्ति, ते आशीविषोपमाः स्युः| आशीविषं मूलविषम्| (दर्वीकरविशेष इति सुश्रुते| आशीविषा दिव्याः| आशीविषा भुजङ्गस्य परमाशासनेन वा| इच्छामात्रेण वा नाशादित्थमाशीविषा मताः| इति जेज्जटः)| तेषां च कालनियमादिकं न विद्यते| तैश्च दष्ट उपहारादिपरायणः सन् यदि कश्चिदेव जीवति| प्रायेण तत्र न जीवति इत्यर्थः| यश्च जीवेत्स विरूपो वा विकलो वा भूत्वा|| ४८||
Adhikarana sthalakAlAnusAramasAdhyatA (49) · Śloka 49
शमशानचितिचैत्यादौ पञ्चमी पक्षसन्धिषु|
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च|
याम्याग्नेयमघाश्लेषाविशाखापुर्वनैरृते|
नैऋताख्ये मुहुर्त्ते च दष्टं मर्मसु च त्यजेत्||४९||
श्मशानादिषु देशकालेषु दष्टं मर्मसु दष्टञ्च अपरित्यजेत्| चितिर्याज्ञिकानामग्निचयनस्थानम्| पक्षसन्धी अमावास्यापौर्णमास्यौ| मध्यशब्दो रात्रिदिनशब्दाभ्यां सम्बध्यते| याम्यादिकं नक्षत्रं गृह्यते| याम्या भरणी| आग्नेयं कृत्तिका| नैऋतं मूलम्| नैऋताख्यो द्वादशोमुहूर्त्तः|| ४९||
Adhikarana asAdhyalakShaNAni (50) · Śloka 50
दष्टमात्रे सितास्याक्षः शीर्यमाणशिरोरुहः|
स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति|
हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः|
जायते युगपद्यस्य स हृच्छूली न जीवति|
वेपथुर्वेदनास्तीव्रा ग्रीवाभङ्गोऽक्षिरक्तता|
मूर्च्छा गलग्रहश्छर्दिः प्रेतराजस्य किङ्कराः|
जाम्बवप्रतिमो दंशः कूर्मपृष्ठ्वदुन्नतः|
रक्तं खेभ्यः समस्तेभ्यो वर्त्तते न तु दंशतः|
रोम्णां न शीतलैर्हर्षः श्वयथुर्लोहितासितः हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत्|
फेनं वमति निस्संज्ञः श्यावपादकराननः|
नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसन्धिता|
विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च|
भवन्त्येतनि रूपाणि सम्प्राप्ते जीवितक्षये|
न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः|
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्||५०||
दष्टमात्र एव यः सितास्याक्षत्वादियुक्तः सः न जीवति| यस्य देहिनो दष्टमात्रस्य युगपद्धिध्मादयो जायन्ते स हृच्छूलेन युक्तः सन् न जीवति| दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति| अप्सु वादर्शबिम्बे वा तस्य रिष्टं विनिर्दिशेत्| इति जेज्जट| वेपथ्वादयः प्रेतराजस्य किङ्करा आज्ञाकारिणः| मरणकाल एते भवन्तीत्यर्थः| जाम्बवप्रतिमत्वादिकं यस्य भवति तं त्यजेत्| दंशतो रक्तं नैव प्रवर्तते| सर्वेभ्यश्च सूक्ष्मसूक्ष्मेभ्यः स्रोतोभ्यः प्रवर्तते| फेनं वमतीत्यादीनि रूपाणि विषपीतादेर्जीवितक्षये सम्प्राप्ते भवन्ति| तथा यमान्तिकं वैवस्वतनिकटं प्राप्तस्य मृतस्य सुतीक्ष्णैरपि नस्यैश्चेतना न भवति| तत्कालं च शस्त्रादिना क्षतदङ्गात् क्षतजस्य रक्तस्यागमो न भवति| दण्डेन चाभिहतस्य देहे राजी न दृश्यते|| ५०||
Adhikarana viShacikitsAyAH Atyayikatvam (51-41) · Śloka 41
अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक्|
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्||५१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सर्पविष- विज्ञानीयो नामैकचत्वारिंशोऽध्यायः||४१||
अतोऽनन्तरोक्तेभ्यः सर्वेभ्योऽसाध्यलक्षणेभ्योऽन्यथा वैपरीत्ये भिषक् कण्ठगतान् प्राणानातुरस्य रक्षन् प्रदीप्तवेश्मवदाशु विषं शमं नयेदिति|| ५१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया- मुत्तरतन्त्रे एकचत्वारिंशोऽध्यायः